श्रीनारायण उवाच-
शङ्खोद्धारं महातीर्थं शङ्खासुरोऽत्र शार्ङ्गिणा ।
उद्धारितोऽस्ति कृष्णेन तत्र गच्छेत्तु मुक्तये ॥१ ॥
प्रभासाद्यानि तीर्थानि गङ्गाद्या आपगास्तथा ।
शैलाः समुद्राः क्षेत्राणि दिव्याश्चैत्यद्रुमास्तथा ॥२ ॥
अश्वमेधादयो यज्ञा महेन्द्राद्याश्च देवताः ।
भृग्वाद्याः ऋषयश्चैव गन्धर्वास्तुम्बुरुप्रथाः ॥३ ॥
धनेशाश्च कुबेराद्या विश्वक्सेनादिपार्षदाः ।
ब्रह्मविष्णुमहेशाश्च सिद्धाश्चाप्सरसस्तथा ॥४ ॥
पर्योऽथ किं बहुक्तेन त्रैलोक्यं जडचेतनम् ।
अध्यात्मसंसर्गगतं शङ्खोद्धारे प्रतिष्ठति ॥५ ॥
ये स्मरन्ति गृहे नित्यं शङ्खोद्धारं महत्सरः ।
तेषां न पुनरावृत्तिर्यावदाभूतसम्प्लवम् ॥६ ॥
ये तु स्मरन्ति मनसा शङ्खोद्धारं च शङ्खिनम् ।
कुलकोटिशतैर्युक्ताः कृष्णलोके वसन्ति ते ॥७ ॥
यत्फलं तु सरस्वत्यां सूर्यग्रहणकोटिभिः ।
यो यतीन् भोजयेद् भक्त्या नित्यमब्दशतं नरः ॥८ ॥
शङ्खोद्धारे च नुः स्नातुः कलां नार्हन्ति षोडशीम् ।
त्रीणि कोटीनि सार्धानि तीर्थानां च मम प्रिये ॥९ ॥
शङ्खोद्धारे निवासोऽस्ति सर्वतीर्थफलं ततः ।
ब्रह्महत्यासहस्राणि चाऽगम्याऽगमनानि च ॥1.230.१० ॥
पापानि नाशमायान्ति शङ्खोद्धारजलस्पृशेः ।
यो दद्याद् गां गृहं स्वर्णे लभते कोटिजं फलम् ॥११ ॥
कुरुक्षेत्रस्य वासेन गङ्गायां मरणेन च ।
गोमतीस्नानमात्रेण फलं शङ्खस्थदर्शनात् ॥१२॥
जलमध्ये समुद्रस्य द्वारका चातिदुर्जया ।
तस्या मध्ये स्थितो देवः शङ्खी पापप्रणाशनः ॥१ ३॥
ततः पिण्डारकं तीर्थं गच्छेद्वै पापनाशकम् ।
यत्र कृष्णश्चतुर्बाहुः स्वयं सन्तिष्ठते सदा ॥१४॥
सरित् रुक्मवती यत्र तत्र स्नात्वा विमुच्यते ।
अगस्त्यस्य ऋषेस्तत्र तडागं लोकविश्रुतम् ॥१५॥
स्नात्वा श्राद्धं तथा कृत्वा पितॄन्वै मोचयेत् सुतः ।
यज्ञवाटस्तथा तीर्थं यत्र पूर्वः प्रजापतिः ॥१६ ॥
यज्ञं चकार विधिना सवलोकहिताय वै ।
यज्ञनाशयितुर्हस्तौ यत्र दैत्यस्य कर्तितौ ॥१७॥
विष्णुना देवदेवेन तद्दृष्ट्वा मुच्यते ह्यघात् ।
पितरस्तत्र पिण्डान् वै समिच्छन्ति सुतृप्तये ॥१८॥
वैशाखे तु कृते श्राद्धे मुच्यते पातकत्रयात् ।
दानं श्राद्धं व्रतं जापस्तर्पणं कार्यमित्यपि ॥१९॥
अश्वमेधसहस्रस्य राजसूयशतस्य च ।
पदे पदे फलं स्याच्च द्वारकां गच्छतस्तु नुः ॥1.230.२०॥
पिण्डारकं स्मरतश्च तत्फलं भवति ध्रुवम् ।
श्रीकृष्णं मन्दिरे दृष्ट्वा शङ्खोद्धारे तु शङ्खिनम् ॥२१ ॥
पिण्डारके चतुर्बाहूम् वीक्ष्य मुक्तिमवाप्नुयात् ।
श्रीः कृष्णश्चक्रतीर्थं च पिण्डारकं च गोमती ॥२२।
गोपीचन्दनमेवापि तुलसी दुर्लभा कलौ ।
तानि मिलन्ति तु द्वारवत्यां कृष्णप्रसङ्गतः ॥२३॥
वर्द्धिनी द्वारका गङ्गा लक्ष्मीर्गोविन्द इत्यपि ।
गोमती गोपिकातालमृत्तिका चेति दुर्लभाः ॥२४॥
यस्य जागरणं जातं वर्धिनी द्वादशीदिने ।
पुनर्जन्मकृतं दग्धं तेन भक्तेन सर्वथा ॥२५॥
त्रिस्पृशावासरे येन कृतं जागरणं प्रिये ।
केशवस्य शरीरे वै स लीनो भवति ध्रुवम् ॥२६ ॥
कृष्णाय प्रेङ्खा दातव्या तस्याः पुण्यमनन्तकम् ।
स्वर्णप्रेङ्खा राजतीं वा काष्ठीया वा तथाऽऽम्बरी ॥२७॥
देया वै विष्णवे तस्याः फलं वैकुण्ठवासनम् ।
प्रेङ्खायां च हरिं कृष्णमान्दोलयेन्मुहुः शनैः ॥२८॥
कुर्याज्जागरणं चैव मोक्षदं पुण्यमत्र यत् ।
कन्यादानं गयाश्राद्धमश्वत्थारोपणं तथा ॥२९॥
द्वादश्यां जागरश्चापि वाजिमेधाऽयुतैः समम् ।
निमिषे निमिषे लक्ष्मि! चाश्वमेधफलं भवेत् ॥1.230.३० ॥
सर्वे देवाश्च तीर्थानि मुक्ताश्च मुनयस्तथा ।
समायान्ति जागरणे ह्येकादश्यां निशि प्रभोः ॥३ १ ॥
यावत्पदानि गृहतः कृष्णस्याऽऽयतनं प्रति ।
जागरार्थं गच्छतश्च पादयोः पांसवः खलु ॥३२॥
स्पृशन्ति यावत्सङ्ख्यानि तावत्सहस्रवत्सराः ।
दिविं भोगान् प्रभुक्त्वा च गोलोकं धाम चाप्नुयात्॥३२ ॥
एकदा शङ्करं देवी पार्वती प्राह जागरे ।
कथं शम्भो वादयन् वै रात्रौ डमरुं नृत्यसि ॥३४॥
शम्भुः प्राह मया देवी हरिवासरजागरः ।
क्रियते कृष्णतुष्ट्यर्थं यत्राऽऽलस्यं भवेन्नहि ॥३५॥
यथाकथञ्चिदपि तु जागरितव्यमेव वै ।
सङ्गीतेन सुनृत्येन कीर्तनेन सुरासतः ॥३६ ॥
नरनारीसमुदायकृतोत्सवेन क्रीडया ।
कथया वार्तया तालीवादनेन च सेवया ॥३७॥
कृष्णं स्मरता भक्तेन जागरितव्यमेव यत् ।
यत्राऽऽलस्यं प्रमादो वा भवेन्नैव तथाऽऽचरेत् ॥३८ ॥
इत्यहं कृष्णतुष्ट्यर्थं करोमि नृत्यजागरम् ।
त्वया पुनरिदं कार्यं स्मर्तव्यः कमलापतिः ॥३९ ॥
एकादश्यां न भोक्तव्यं कर्तव्यो जागरस्तथा ।
गोष्ठ्यां समागतस्तत्र सोपि याति परां गतिम् ॥1.230.४० ॥
मेरुमन्दरमात्राश्च कृताः पापस्य राशय ।
कृष्णजागरणे सर्वे उह्यन्ति तूलराशिवत् ॥४१ ॥
सर्वतीर्थक्रतुभ्योऽपि जागरः कृष्णवल्लभः ।
सर्वे देवाः समायान्ति जागरे कृष्णवल्लभे ॥४२॥
नार्यो भवन्ति हृद्याश्च जागरे कृष्णवल्लभाः ।
इत्युक्त्वा च हरोपि विरराम कृष्णवल्लभे! ॥४३ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारिकायां शखोद्धारतीर्थपिण्डारकतीर्थरुक्मवती-
सरिदगस्त्यतडागयज्ञतीर्थैकादशीद्वादशीव्रतजागरणादिप्रशंसननामा त्रिंशदधिकद्विशततमोऽध्यायः ॥२३० ॥