२२२

श्रीनारायण उवाच-
ततो गच्छेन्महत्तीर्थं कृकलासविमुक्तिदम् ।
नृगतीर्थमितिख्यातं नृगोऽभूच्च महीपतिः ॥१ ॥ अनेकशतसाहस्रा भूमिपालास्तु यद्वशे ।
स नित्यं गुरुभक्तश्च देवपूजनतत्परः ॥२ ॥ महादानानि सुददौ नित्यं नित्यं सहस्रशः ।
विप्रेभ्यो गोसहस्रं च प्रददौ नित्यमेव सः ॥३ ॥ प्रक्षाल्य चरणौ भक्त्या दत्त्वा क्षौमयुगं तथा ।
चन्दनपुष्पैः सम्पूज्य प्रतिविप्राय गां ददौ ॥४ ॥ ददौ च दक्षिणां द्रव्यं गवार्थे च तृणानि वै ।
दत्वा ताम्बूलमवदत् विष्णुर्मे प्रीयतामिति ॥५ ॥ दानानि ददतस्तस्य यज्ञाँश्च कुर्वतस्तथा ।
भोगांश्च भुञ्जतस्तस्य भजतः श्रीहरिं तथा ॥६ ॥ धर्मेण पालयतः क्ष्मां ययौ कालः सुखान्वितः ।
एकदा गौतमं विप्रं सर्वदा चाऽपरिग्रहम् ॥७ ॥ समाहूय च सम्पूज्य तस्मै स गां ददौ नृपः ।
सुवर्णशृङ्गसहितां रौप्यखुरादिशोभिताम् ॥८ ॥ गां नीत्वा स्वगृहं यातो गौतमस्तां सवत्सिकाम् ।
सुतृप्तां शोभनां गां च दामबद्धां जलाशयम् ॥९ ॥ जलं पाययितुं विप्रो गृहीत्वा निर्ययौ गृहात्॥ मार्गे चोष्ट्रं प्रदृष्ट्वा सा त्रस्ता चाच्छिद्य हस्ततः ॥१.२२२.१० ॥ धावित्वा सा ययौ धेनुः सुमहद्राजगोधनम् ।
विचिन्वन् गौतमो गां तां न प्रापत् स्वगृहं ययौ ॥११ ॥ द्वितीयेऽह्नि पुनर्विप्रानाहूय नृगभूपतिः ।
ददौ दानानि विधिवद्गोदानानि बहून्यपि ॥१२॥ सम्पूज्य भक्त्या सत्कृत्य वस्त्रालङ्कारभोजनैः ।
विधिवद्गां ददौ तां च स नृगः सोमशर्मणे ॥१ ३॥ गृहीत्वा राजभवनान्निर्ययौ सोऽपि गां च ताम् ।
गौतमोऽपि विचिन्वानो तामेव च ददर्श गाम् ॥१४॥ संयान्तीं पृष्ठतः सोमशर्मणः समुवाच तम् ।
ममेमां चापहृत्वा त्वं दस्युवत् किं प्रयास्यसि ॥१५॥ श्रुत्वा दस्युं स्वमात्मानं विस्मितोऽभूत् स सोमकः ।
प्राह तं राजतो लब्ध्वा दानेऽद्य नास्मि दस्युकः ॥१६॥ मम स्वत्वं गवि चात्र गां नयामि स्वमन्दिरम् ।
गौतमः प्राह नृपतो ह्यो मया प्रापिता न्वियम् ॥१७॥ दाने ममैव गव्यत्र स्वत्वं भवति ते नहि ।
कथं नयसि सोम त्वं मयि जीवति गौतमे ॥१८॥ विवदन्तौ तथा विप्रौ राजद्वारमुपागतौ ।
कुर्वाणौ कलहं घोरं द्वाःस्थौ प्रणयपूर्वकौ ॥१९॥ नृगा द्वारि द्विजौ दृष्ट्वा नत्वा पुपूज तौ पुनः।
प्रार्थयामास कलहं शामयितुं नृपोत्तमः ॥१.२२२.२० ॥ एकस्या गोः प्रति द्रव्यं लक्षं सुवर्णमुद्रिकाः ।
सहस्रं च गवां चापि ददामि प्रतिभूधनम् ॥२ १॥ एको गां प्रतिगृह्णातु चैनां दत्ता मया द्विजौ ।
अन्यो गवां सहस्रं च सहस्रस्वर्णमुद्रिकाः ॥२ २॥ गौतमश्च तथा सोमः प्राहतुर्वै प्रगर्वतः ।
हठावेशाच्चोचतुर्गां गृह्णावो न सहस्रकम् ॥१३॥ गौतमः प्राह गामेनां गृह्णाम्येव हि मामकीम् ।
सोमः प्राह च गामेनां गृह्णाम्येव च मद्वशाम् ॥२४॥ न गृह्णामि सहस्रं तु गवां स्वर्णसहस्रकम् ।
नैव प्रयोजनं द्रव्ये सहस्रेऽपि तु मद्गवि ॥२५॥ राज्ञा बहुप्रार्थितौ बोधितौ च पूजितावपि ।
कोपव्याकुलचेतस्कौ त्रिरात्रं समुपोषितौ ॥२६ ॥ अवज्ञातौ नृपेणाथ कुपात्रे मूर्खभूसुरौ ।
गच्छतं स्वगृहं विप्रौ मूर्खौ स्थो भानवर्जितौ ॥२७॥ प्राप्ते विषमसमये मार्गं कुर्यात् स वै बुधः ।
एकेन भाव्य नम्रेण चान्येन रुषता यदा ॥२८॥ मानं त्याज्यं हठस्त्याज्यो यत्र नान्या गतिस्तदा ।
तत्तु न क्रियते विप्रौ किं करोमि समानके ॥२९॥ एकस्मिन् वस्तुनि त्वत्र क्लिष्टावुभौ भविष्यथः ।
तस्माद् गच्छ तमत्युग्रौ यथेष्टं कुरुतं द्विजौ ॥१.२२२.३० ॥ एवमुक्तौ तदा विप्रौ राजानं प्रति क्रोधतः ।
ऊचतुः कुपितौ वाक्यं समर्थौ नृपतिं प्रति ॥३ १॥ अवमानयसे त्वस्मान्न न्यायं च ददासि यत् ।
भविष्यति भवानस्मात् कृकलासो न संशयः ॥३ २॥ एवं शप्त्वा तदा विप्रौ परित्यज्य च गामुभौ ।
दुःखितौ स्वगृहं गन्तुमुद्यतौ च तदा नृपः ॥३३॥ नृगो द्वारं समागत्य दण्डवत्प्रणिपत्य च ।
चक्रे च प्रार्थनां यूयममोघवचना द्विजाः ॥३४॥ ममोपरि कृपां कृत्वा शापान्तं दिशताऽऽशु यत् ।
सोमशर्मा तदा प्राह द्वापरान्ते हरिः स्वयम् ॥१५ ॥ द्वारकायां समागत्य तव मुक्तिं करिष्यति ।
वासुदेवः स वै कृष्णस्त्वां गोलोकं च नेष्यति ॥३६ ॥ इत्युक्त्वा तौ तदा विप्रौ जग्मतुः स्वनिकेतनम् ।
राजा नृगोऽपि तच्छापात्कालधर्ममुपेयिवान् ॥३७॥ धर्मराजगृहं प्राप्तः पृष्ठश्च भोग्यकर्मणि ।
प्रथमं भोक्ष्यसे पुण्यं पापं वा ब्रूहि सत्वरम् ॥३८ ॥ पुण्यं चानन्तकं तेऽस्ति पापं गोवैपरीत्यजम् ।
श्रुत्वा नृगः समुवाच भोक्ष्यं स्वल्पं हि दुष्कृतम् ॥३ ९॥ यमस्यानुमतेनाऽय कृकलासोऽभवन्महान् ।
सोऽयं वर्षसहस्राणि कूपतडागसंस्थितः ॥१.२२२.४० ॥ जातिस्मरोऽभवद् भुङ्क्तेऽन्नकणादीन् वनौषधीन् ।
एकदा यदुबालैराकृष्यमाण इतस्ततः ॥४ १ ॥ रेमे तैः स्वमोक्षकालं मन्यमानो हरिं स्मरन् ।
किन्तु गुरुशरीरः स श्रमयुक्तोऽभवद् यदा ॥४२॥ पृथ्व्यां मूर्छां गतो भूत्वा पपात न चचाल वै ।
स्थूलात् स्थूलतमं देहं कृत्वा योगेन संस्थितः ॥४३ ॥ बहुभिर्बालकैः कृष्यमाणोपि न चचाल सः ।
अतीव स्थौल्यमापन्नो वर्धते च क्षणे क्षणे ॥४४॥ बाला दृष्ट्वा चकिताश्च भययुक्ताश्च केचन ।
कृष्णं निवेदयामासुः कृष्णोऽप्यवेत्य तं मृगम् ॥४५ ॥ समागत्य च हस्तेन पस्पर्श तं नृगं तदा ।
शापबन्धाद् विनिर्मुक्तो दिव्यो राजा नृगोऽभवत् ॥४६ ॥ देवतुल्यशरीरः सः तदा भक्त्या कृताञ्जलिः ।
तुष्टाव परमेशानं मोक्षदं कृष्णमुत्तमम् ॥४७॥ भगवन् कर्म सम्पूर्णं भुक्तं नान्यच्च विद्यते ।
शुभं ते शरणे न्यस्तं मोक्षं कुरु ममाऽच्युत ॥४८ ॥ तदा कृष्णश्च तं प्राह मम योगाच्च पार्थिव ।
याहि पुण्यकृतान् लोकान् भुक्त्वा भोगाननुत्तमान् ॥४९ ॥ प्राप्नोष्यन्ते मम धाम चाऽपुनर्भवलक्षणम् ।
उवाच च नृगः कृष्णं यदि तुष्टोऽसि मे हरे ।१.२२२.५ ० ॥ गर्तोऽयं मम नाम्ना च तीर्थं भवतु पुण्यदम् ।
अत्र स्नात्वा तर्पणं च पितॄणां यः करिष्यति ॥५१ ॥ त्वत्प्रसादेन पितरो गच्छन्तु तव धाम ते ।
अत्र यात्रां च ये कुर्युस्ते स्युर्वै मोक्षभागिनः ॥५ २ ॥ तथास्त्विति नृपं तूक्त्वा ततः कृष्णस्त्वपासरत् ।
राजा दिव्यविमानेन ययौ यज्ञकृतां गृहम् ॥५३ ॥ वैकुण्ठं द्वितीयं यद्वै वैराजपदमुच्यते ।
तदारभ्य नृगकूपस्तीर्थोत्तममभूद्भुवि ॥५४॥ अर्घं नृगाय कृष्णाय दद्यात् स्नायाज्जलं पिबेत् ।
सन्तर्पयेत् पितॄन् देवान् मनुष्यान् श्राद्धमाचरेत् ॥५५ ॥ दद्याच्च दक्षिणां स्वर्णां दानानि विविधानि च ।
अक्षय्यं फलमाप्नोति चान्ते वै परमां गतिम् ॥५६ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नृगराज्ञो गोदानव्यत्यासे कृकलासजन्म श्रीकृष्नाकृतमुक्तता नृगकूपतीर्थं चेति निरूपणनामा द्वात्रिंशत्यधिकद्विशत-
तमोऽध्यायः ॥२२२ ॥