श्रीनारायण उवाच-
ततो गच्छेन्महालक्ष्मि! गोमत्युदधिसङ्गमे ।
मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः ॥१ ॥
गङ्गासागरसंयोगे सिन्धुसागरसङ्गमे ।
फलं यत् तल्लभ्यतेऽत्र गोमत्युदधिसङ्गमे ॥२ ॥
पापं प्रणश्यते स्नात्वा ह्यर्घ्यं दद्याद्विधानतः ।
कुशांश्च करयोर्धृत्वा नारिकेलफलं तथा ॥३ ॥
अर्घं दद्यान्नमस्कृत्य श्रीकृष्णपरमात्मने ।
तीर्थराज नमस्तुभ्यं त्राहि संसारसागरात् ॥४ ॥
रत्नाकर गृहाणाऽर्घं गोमत्या सह ते नमः ।
अर्घं दत्वा शिखां बध्वा स्मृत्वा च जलशायिनम् ॥५ ॥
कुर्यात् स्नानं प्राङ्मुखश्च पितॄन् सन्तर्पयेत् ततः ।
पितृश्राद्धं तथा कृत्वा दद्याच्च दक्षिणां शुभाम् ॥६ ॥
सुवर्णं वाससी दद्यात् कञ्चुकोष्णीषमित्यपि ।
महादानानि दद्याच्च यदीच्छेत् क्षेममात्मनः ॥७ ॥
लक्ष्म्याः सह हरिः साक्षाद्विष्णुर्मे प्रीयतामिति ।
उक्त्वा दद्याद् विविधानि दानानि भोजनानि च ॥८ ॥
तुलापुरुषदानं च कुर्यात्सागरसङ्गमे ।
सप्त द्वीपनृपो भूत्वा वैकुण्ठं याति मानवः ॥९ ॥
तुलया तोलयेत् स्वं यः सुवर्णरजतादिभिः ।
वस्त्रकुङ्कुमकर्पूरशर्कराफलसद्रसैः ॥1.221.१० ॥
सोत्र भोगान् सुखान् भुक्त्वा मोक्षं याति सुरार्चितः ।
स्वर्णदानं वाजपेयं स्नानं गोमतीवारिणी ॥११ ॥
कन्यादानं भूमिदानं विद्यादानं विधानतः ।
गोमत्याः सङ्गमे कुर्यात् याति ब्रह्मपदं हि सः ॥१ २॥
स्वर्णधेनुं घृतधेनुं तिलधेनुं प्रदाय वै ।
वस्त्रादिशर्कराधेनुं दत्वा याति परं पदम् ॥१ ३॥
युगादितिथिमुख्यासु पञ्चकास्वष्टकासु च ।
वैधृतौ च व्यतिपाते गजच्छायाह्वये तथा ॥१४॥
षष्ठ्यमैकादश्यष्टमीद्वादशीश्राद्धसद्व्रते ।
स्नात्वा नीरनिधौ तद्वत् गोमतीचक्रतीर्थयोः ॥१५॥
गोमत्युदधिसंयोगे स्नात्वा ब्रह्मपदं लभेत् ।
अमावास्यादिने श्राद्धं कार्यं गोमतिसङ्गमे ॥१६॥
पक्षश्राद्धकृतं पुण्यं दिनैकेन लभेज्जनः ।
श्रद्धाहीनं मन्त्रहीनं पात्रहीनमथापि वा ॥१७॥
द्रव्यहीनं कालहीनं मनऐकाग्र्यवर्जितम् ।
परिपूर्णममाश्राद्धं पितॄणामुदधौ भवेत् ॥१८॥
गोमती कमला चन्द्रभागा तदोदधौ वसेत् ।
गयायां पिण्डदानेन प्रयागे चास्थिपातनात् ॥१९॥
अमायां श्राद्धदानेन शाश्वतं पुण्यमाप्यते ।
यदीच्छेत् सर्वतीर्थेषु स्नानं व्रतधरः पुमान् ॥1.221.२०॥
स्नानं कुर्वीत भक्त्या वै गोमत्युदधिसङ्गमे ।
अपुत्रा मृतपुत्रा वा काकवन्ध्या स्रवत्सुता ॥२१ ॥
दोषैः प्रमुच्यते नारी गोमत्युदधिसङ्गमे ।
श्राद्धं दानं तथा पितृतर्पणं जलदर्शनम् ॥२२॥
व्रतं स्नानं तथा पुण्यं जपो होमश्च कीर्तनम् ।
शाश्वतीतृप्तिकृत्पुण्यं गोमत्युदधिसङ्गमे ॥२३ ॥
मातृपक्षाः पितृपक्षा भगिनीपक्षकास्तथा ।
पुत्रीपक्षाः श्वश्रूपक्षास्तथा श्वशुरपक्षकाः ॥२४॥
पितृस्वसृपक्षगाश्च स्नुषापक्षास्तथा जनाः ।
सपत्नीपक्षगाश्चापि रक्षिकापक्षगा अपि ॥२५॥
भ्रातृजायापक्षगाश्च स्वसृपुत्र्यादिपक्षगाः ।
पितृभ्रातृसुतापत्नीप्रभतिपक्षका अपि ॥२६॥
मित्रबान्धवभृत्यानां येऽपि सम्बन्धधारकाः ।
जन्मान्तरगता ये च नारकाः खनिगर्भगाः ॥२७॥
ते सर्वे संस्मृताः श्राद्धे गोमत्युदधिसङ्गमे ।
स्नाने दाने संस्मृताश्च तृप्तिं यान्ति तु शाश्वतीम् ॥२८॥
सर्वपापैः प्रमुच्यन्ते मुक्तिं यान्ति न संशयः ।
श्रावणद्वादशीयोगे समभ्यर्च्य तु वामनम् ॥२९॥
परमं लोकमाप्नोति स्नात्वा गोमतिसङ्गमे ।
पीताम्बरधरो भूत्वा दिव्याभरगभूषितः ॥1.221.३०॥
चतुर्भुजधरश्चैव वनमालाविभूषितः ।
सेव्यमानः सुरस्त्रीभिर्विमानकृतवाहनः ॥३ १ ॥
संस्तूयमानः ऋषिभिः श्रीहरेरर्चको जनः ।
गोमतीसङ्गमे पूतो याति विष्णोः परं पदम् ॥३२।
गोमतीसागरे स्नात्वा गच्छेत् सप्तप्रकुण्डकान् ।
सर्वैराराधितः कृष्णो हरिराविर्बभूव ह ॥३३ ॥
सह लक्ष्म्या हरिं दृष्ट्वा सनकाद्या महर्षयः ।
सप्तमिष्टजलगर्तान् कृत्वा सिषिचुरिन्दिराम् ॥३४॥
ततो लक्ष्मीह्रदा एते कलौ ते रुक्मिणीह्रदाः ।
भृगुणा सेविताश्चैते भगुतीर्थमिति स्मृतम् ॥३५॥
तत्र प्रक्षाल्य चरणौ तथाऽऽचम्य कुशाँस्ततः ।
सङ्गृह्य प्राङ्मुखो भूत्वाऽर्घं गृह्णीत्वाऽक्षतादिभिः ॥३६॥
हस्तौ च मस्तकोपरि समुन्नीय फलादिभिः ।
अर्घं दातव्यमेवात्र ह्रदे रुक्मिणिसञ्ज्ञिते ॥३७॥
स्नानं कुर्यात्ततो ध्यात्वा तीर्थानि पितृदेवताः ।
देवमानवपितॄँश्च सन्तर्प्य हरिभावतः ॥३८॥
विप्रानाहूय च श्राद्धं प्रकुर्वीत च भक्तितः ।
दक्षिणां रजतं स्वर्णे फलं मिष्टान्नमम्बरम् ॥३९॥
भोजनं चापि दम्पत्योर्दद्याच्च भूषणादिकम् ।
शाटीं च कञ्चुकीं श्रेष्ठां घर्घरीं कर्पटादिकम् ॥1.221.४० ॥
पितृपङ्क्तीश्च सम्पूज्य नारीश्चान्याः कुमारिकाः ।
सम्पूज्य दद्याद् दानानि रुक्मिणी प्रीयतामिति ॥४ १ ॥
वसते च सदा लक्ष्मीस्तस्य गेहे न संशयः ।
स्मृद्धिं सर्वां समाप्नोति लक्ष्मीस्तस्य प्रसीदति ॥४२॥
सप्तस्वपि हृदेष्वेव दानं दद्यात् पृथक् पृथक् ।
तत्सर्वं चाऽक्षयं विन्देल्लक्ष्मीलोके सुखप्रदम् ॥४३॥
अलक्ष्मीर्नश्यति तस्य लक्ष्मीर्यस्य प्रसीदति ।
पशुपुत्रगृहवाटीक्षेत्रभवनशालयः ॥४४॥
भवन्ति सततं श्रेष्ठा लक्ष्मीर्यस्य प्रसीदति ।
स्वर्णादिवर्धनं तस्य लक्ष्मीस्तुष्टा तु यं प्रति ॥४५॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ।
सप्तह्रदेषु लक्ष्म्यात्मनारीणां भोजनं वरम् ॥४६॥
दानं च पूजनं चैव सम्मानं भूषणादिकम् ।
शृङ्गारं वाहनं यानं देहोपकरणादिकम् ॥४७॥
पृथक् पृथक् प्रदद्याद्वै लक्ष्मीर्मे प्रीयतामिति ।
वसत्येव सदा गेहे लक्ष्मीस्तस्य न संशयः ॥४८॥
हीनभाग्यो न च भवेन्न भवेत्परयाचकः ।
अग्र्यो भवति सर्वेषु यः स्नाति रुक्मिणीह्रदे ॥४९॥
पुनरागमनं न स्याद् वैकुण्ठं याति मानवः ।
सपत्नीकश्चतुर्भुजः शाश्वतं सुखमश्नुते ॥1.221.५०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोमतीसागरसङ्गमतीर्थलक्ष्मीसप्तह्रदतीर्थविधाननिरूपणनामैकविंशाधिकद्विशततमोऽध्यायः ॥२२१ ॥