२१९

श्रीनारायण उवाच–
श्रूयतां च महालक्ष्मि! सर्वा तीर्थमयी हि सा ।
द्वारका भगवद्वासा किमु वर्ण्यं विशेषकम् ॥१ ॥ तथापि वर्णयिष्यमि तीर्थानि कानिचिद् यथा ।
तत्र मुख्यां गोमतीं वै प्रगच्छेत् कृष्णसंश्रयाम् ॥२ ॥ यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः।
अमङ्गलानां पापानां नाशकं स्पर्शमात्रतः ॥३ ॥ सर्वेच्छापूरकं पुण्यं प्रणमेत् गोमतीजलम् ।
उभश्रेयःपदं गतिप्रदं वै गोमतीजलम् ॥४ ॥ एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे ।
ब्रह्मा जज्ञे नाभिपद्मे तेन वै सनकादयः ॥५ ॥ समुत्पादिता आज्ञप्ताः सृष्टिकार्यार्थमेव च ।
अगृहीतवचसस्ते ययुर्वै तपसे ततः ॥६ ॥ पश्चिमां दिशमादाय तीरे नदनदीपतेः ।
तेजोमयस्वरूपस्य द्रष्टुकामा हरेस्तदा ॥७ ॥ हरौ मनः समाधाय तेपिरे दारुणं तपः ।
बहुवर्षसहस्रैश्च प्रसन्नो भगवान् स्वयम् ॥८ ॥ बभूव प्रेरयामास चक्रं स्वीयं सुदर्शनम् ।
पृथ्वीं भित्त्वा जलं नीत्वा तेजोमयं सुदर्शनम् ॥९ ॥ बहिरायात् सूर्यसमं सहस्रारं दुरासदम् ।
दैत्यदानवहन्तृ च भक्तरक्षा करं सदा ॥1.219.१० ॥ दृष्ट्वा चक्रं विस्मिताश्च ब्रह्मपुत्राः परस्परम् ।
तदा नभोगता वाणी प्राह तांश्च कुमारकान् ॥११ ॥ भो ब्राह्मणा योगिसिद्धाः स्वयं नारायणो हरिः ।
प्रसन्नस्तपसा साक्षाच्छीघ्रमाविर्भविष्यति ॥१२॥ तस्याऽर्हताकृते चेतज्जलमाविर्बभूव ह ।
जलेनानेन पूतेन शीघ्रमर्घं प्रयच्छत ॥१३ ॥ यदिदं तेजसा व्याप्तमायुधं तत्सुदर्शनम् ।
श्रीहरेर्लोकनाथस्य तस्मादर्घं प्रयच्छत ॥१ ४॥ तच्छ्रुत्वा च सनकाद्यास्तुष्टुवुर्वै सुदर्शनम् ।
नमो ज्योतिःस्वरूपाय ब्रह्मशस्त्राय ते नमः ॥१५ ॥ नमो भक्तसुरक्षाय विष्णुशस्त्राय ते नमः ।
सहस्राशय सूर्यायाऽमोघाय ते नमो नमः ॥१६ ॥ इति स्तुत्वः नमस्कृत्वा पूजयामासुरक्षतैः ।
पुष्पैः पत्रैर्जलैः स्तोत्रैः प्रणेमुश्च पुनः पुनः ॥१७॥ हरिर्ब्रह्मा वसिष्ठश्च समायाताश्च तत्स्थले ।
पुत्राणां तपसा हृष्टा ददुः स्वदर्शनं तदा ॥१८ ॥ सत्यलोकस्थिता गङ्गा मूर्तापि तत्र चागता ।
ब्रह्मा प्राह तदा गङ्गां वशिष्ठं मम पुत्रकम् ॥१९ ॥ अनुयाहि समुद्रान्तं जलं भूत्वा जले वस ।
यत्र सुदर्शनाद्वारि पुण्यं चात्र समुद्गतम् ॥1.219.२० ॥ तत्र स्थानं सदा ते स्यात् तीर्थं सर्वाघनाशनम् ।
श्रीकृष्णस्य पादस्पर्शात् सदा पुण्या सुते भव ॥२१ ॥ गवां किरणमुख्यानां जले सुदर्शनोद्भवे।
स्थितिमत्त्वात् सदा ते वै सञ्ज्ञाऽस्तु गोमती शुभा ॥२२।
वशिष्ठस्याऽनुगा भूत्वा नदीरूपा सुते भव ।
पितेव पुत्रीति यथा वशिष्ठतनया भव ॥२३ ॥ बाढमित्येव तानुक्त्वा प्रस्थिता जलभावतः ।
वसिष्ठश्चाग्रतो याति गङ्गा तं पृष्ठतोऽन्वगात् ॥२४॥ तां दृष्ट्वा मानवाः सर्वे देवाश्च तीर्थकोटयः ।
नमश्चक्रुर्महापुण्यां गच्छन्तीं पश्चिमार्णवम् ॥२५॥ वशिष्ठमनुगच्छन्ती प्रस्थिता वरुणालयम् ।
समाकिरन् महाभागा सुमनोभिश्च तां नदीम् ॥२६॥ दिव्यैर्माल्यैः सुगन्धैश्च गर्न्धैर्धूपैस्तथाऽक्षतैः ।
पूजयामासुराश्चर्यसमेता वै सुरादयः ॥२७॥ अस्या दर्शनमात्रेण मुक्तिं यास्यन्ति मानवाः ।
किं पुनः स्नानदानादि कृत्वा यान्ति हरेः पदम् ॥२८ ॥ इत्युक्त्वा चार्पयित्वाऽर्घ्यं श्रीकृष्णमीडिरे हरिम् ।
पीतकौशेयवसनं वनमालाविभूषितम् ॥२९॥ दिव्यगन्धसुगन्धाढ्यं दिव्यस्वर्णाङ्गदान्वितम् ।
दिव्याभरणहेतिं च मकराकारकुण्डलम् ॥1.219.३० ॥ ज्वलत्किरीटमुकुटं श्रीवत्साङ्कितवक्षसम् ।
भक्ताऽभयप्रदहस्तं प्रलम्बितचतुर्भुजम् ॥३१ ॥ घनश्यामं प्रसन्नास्यं लक्ष्मीसेवितपत्कजम् ।
नताः स्मश्च नता स्मश्च तुष्टुवुश्च पुनः पुनः ॥३२ ॥ नारायणो हरिः कृष्णः प्रसन्नमनसा द्विजान् ।
उवाच परमप्रीत्या सुरान् कुमारकाँस्तथा ॥३३ ॥ यूयं सर्वे तिष्ठतात्र चाऽस्पृष्टा मम मायया ।
ज्ञानिनो मोक्षिणश्चैव पावना वसतात्र वै ॥३४॥ इयं वै गोमती गङ्गाऽऽनीता भवत्कृते मया ।
सर्वेषां भवतां चैव तीर्थानां श्रैष्ठ्यमास्थिता ॥३५॥ मोक्ष्यर्थिभिः कुमारैश्चाप्यहमत्र प्रसादितः ।
तस्मादिदं परं तीर्थं गोमत्याख्यं च मोक्षदम् ॥३६॥ अनुग्रहाय भवतां मया चक्रं सुदर्शनम् ।
दर्शितं प्रथमं विप्रा भुवं भित्वा जलं तथा ॥३७॥ भित्वा तेजोमयं दिव्यं समायातं ममाग्रतः ।
चक्रतीर्थमिति ख्यातं गोमत्यां सम्भविष्यति ॥३८ ॥ ममापि नियतं वासो भवतामपि सर्वथा ।
चक्रतीर्थे सदावासो भविष्यति हि शाश्वतः ॥३९ ॥ गोमत्यर्णवसंयोगे ये स्नास्यन्ति जनादयः ।
चक्रतीर्थे च ये स्नातास्तेषां मुक्तिः करे स्थिता ॥1.219.४० ॥ गोमत्यां सागरे सर्वतीर्थानि प्रवसन्ति हि ।
सर्वे देवाश्च ऋषयः प्रवसन्ति हि सङ्गमे ॥४१॥ सनकादिभिराचम्य स्नात्वा पीत्वा जलं तदा ।
हरेश्चरणौ प्रक्षाल्य धृतं मूर्ध्नि जलं तदा ॥४२॥ सर्वदेवैस्तथा चतुर्दशलोकनिवासिभिः ।
गोमती पूजिता तत्र पीतं पुण्यं जलं तथा ॥४३॥ मूर्ध्नि धृतं जलं तस्याः पादौ प्रक्षालितौ हरेः ।
गोमती चापि कन्या च भूत्वा धृत्वा घटे जलम् ॥४४॥ अवनीज्य हरेः पादौ मूर्ध्ना जलमधारयत् ।
कृत्वाऽर्घं श्रीहरये च दत्वा सा च जलाञ्जलिम् ॥४५॥ विकीर्य कुसुमान्यत्र प्रविष्टा वरुणालये ।
सनकाद्या महर्षयो देवाश्च मुनयस्तथा ॥४६॥ ये ये तत्र च तीर्थानि पूर्योऽरण्यानि चाययुः ।
ते ते तत्र कृतस्थानास्तीर्थरूपैः समस्थिताः ॥४७॥ एवं सा गोमती सर्वतीर्थमयी महोदया ।
सञ्जाता श्रीहरेर्योगात् पावनी मोक्षदा शुभा ॥४८॥ हरिश्च पश्यतां सर्वतीर्थानां वै तिरोऽभवत् ।
सर्वे देवादयो नत्वा तां दिशं स्वालयान् ययुः ॥४९॥ एवं सा गोमती लक्ष्मि! सञ्जाता सागरङ्गमा ।
कृष्णयोगात्सर्वपापहरा गङ्गा सरिद्वरा ॥1.219.५०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोमतीतीर्थचक्रतीर्थेतिहासमाहात्म्यकथननामैकोनविंशाऽधिकद्विशततमोऽध्यायः ॥२१९ ॥