२१८

श्रीनारायण उवाच-
अथ पुरीं समाद्रष्टुं ब्रह्मा पत्न्या सहाऽऽययौ ।
भवो भवान्या सहितोऽनन्तो धर्मश्च भास्करः ॥१ ॥ हुताशश्च कुबेरश्च वरुणः पवनो यमः ।
रुद्राश्चैकादश चन्द्रो महेन्द्रो वसवस्तथा ॥२ ॥ आदित्याः किन्नरा दैत्या गन्धर्वा आययुस्तदा ।
विमानस्थैर्वटमूले स्थितः कृष्णश्च वन्दितः ॥३ ॥ स्तुतस्तैर्द्वारिका दृष्टा रम्या चातिमनोहरा ।
मुक्तामाणिक्यहीरकरत्नराजिविराजिता ॥४ ॥ परितश्चतुरस्रा च दशयोजनविस्तृता ।
साप्तभिः परिखाभिश्च गम्भीराभिः सुवेष्टिता ॥५ ॥ प्राकारैर्नवभिर्युक्ता जलक्रीडासरोवरैः ।
विविधैर्जलपद्मैश्च कल्हारैः कमलैस्तथा ॥६ ॥ सर्वतोभद्रवृक्षैश्च पुष्पोद्यानैः समन्ततः ।
शोभिता फुल्लपुष्पैश्चाऽनिलैश्च सुरभीकृता ॥७ ॥ मन्दचन्दनवृक्षैश्च तुलसीद्रुभिरञ्चिता ।
आमोदिता सुगन्धिभिः पवनैर्मन्दशीतलैः ॥८ ॥ नारिकेलतरुषण्डैः पूगाभिरतिशोभिता ।
लक्षाधिगुणगुवाकद्रुमैश्चापि विभूषिता ॥९ ॥ ततोऽपि च चतुर्गुणचूतवृक्षैः सुमण्डिता ।
प्रकाशिता परितश्च तावद्भिः पनसद्रुमैः ॥1.218.१० ॥ तथा तालद्रुमैर्युक्ताऽश्वत्थबदरिकादिभिः ।
वटैराम्रातकैर्बिल्वैर्जम्बूकदम्बवंशकैः ॥११ ॥ शाल्मलीतिन्तिडीनागरङ्गैर्जम्बीरदाडिमैः ।
चम्पकैर्बकुलैर्नागेश्वरैरर्जुनखर्जुरैः ॥१ २॥ इक्षुभिः काञ्चनैर्हरीतकीधात्रीभिरिन्दुभिः ।
शालैः प्रियालैर्हिन्तालैः शिशिरैः सप्तपर्णकैः ॥१३ ॥ वल्लीभिः परितो व्याप्ता स्वर्णकलशमण्डिता ।
नवलक्षैः रम्यसौधैः रम्योच्चमन्दिरैर्युता ॥१४॥ रत्नेन्द्रसारनिर्माणमुक्तामाणिक्यभूषिता ।
माणिक्यहीरकरत्नस्वर्णकलशमन्दिरा ॥१५ ॥ मणिनिर्मितसोपानकपाटभित्तिकायुता ।
हरिन्मणिकृतस्तम्भश्वेतस्फटिकसत्तला ॥१६ ॥ चित्रविचित्रसुसूक्ष्मवस्त्रचामरदर्पणा ।
पद्मरागपरिक्लृप्तप्राङ्गणा श्वेतसद्गृहा ॥१७॥ इन्द्रनीलमणिव्याप्तरथ्यावीथीसमन्विता ।
रत्नखचितमध्यादिराजमार्गादिशोभिता ॥१८ ॥ ग्रीष्ममध्याह्नसूर्याभा ज्वलिता रत्नतेजसा ।
गवाक्षलक्षसंयुक्तमहत्सौधादिपङ्क्तिका ॥१ ९॥ हस्तिशाला वाजिशाला हंसगरुडजालिका ।
दृष्टैवं द्वारिका रम्या देवैः सर्वैः समागतैः ॥1.218.२० ॥ आनर्तः शुशुभे देशः शतयोजनभूतले ।
द्वारिकया मिलितश्च द्विगुणवत् स लक्ष्यते ॥२१ ॥ अथ कृष्णः प्रसस्मार वसुदेवं च देवकीम् ।
उग्रसेनं यादवाँश्च पाण्डवाँश्च समातृकान् ॥२२॥ नन्दं यशोदां गोपालान् गन्धर्वान् किन्नरान् मुनीन् ।
आययुः संस्मृताः सर्वे कृष्णकृष्णेतिवादिनः ॥२३ ॥ कृष्णप्रतापाद् दिव्यास्ते दिव्यव्योमगतिप्रभाः ।
विद्याधर्यश्च किन्नर्यो नर्तक्यो गायिकास्तथा ॥२४॥ गायका वाद्यभाण्डाश्च भट्टा गणकभिक्षुकाः ।
अनेकदेशवासीया भूपा वैद्याश्च भूसुराः ॥२५॥ न्यासिनो यतयो वानप्रस्थाश्च ब्रह्मचारिणः ।
अवधूतास्तथा सिद्धा आययुर्मुनयस्तथा ॥२६॥ सनन्दः सनकः सनातनः सनत्कुमारकः ।
सनत्सुजातश्च वोढा पञ्चशिखस्तथाऽऽसुरिः ॥२ ७॥ ब्रह्मचर्यव्रतपाला आययुर्लक्षशो जनाः ।
दशसाहस्रशिष्याढ्यो दुर्वासास्तत्र चाययौ ॥२८ ॥ पत्नीव्रतो महाब्रह्मस्वरूपो भगवान्स्वयम् ।
लक्षशिष्यसहितश्चाययौ कृष्णनिकेतनम् ॥२९ ॥ लक्षशिष्यैः कश्यपश्च वाल्मोकश्च सहस्रयुक् ।
लक्षशिष्यैर्गौतमश्च कोटिदेवैर्बृहस्पतिः ॥1.218.३० ॥ शुक्रोऽपि कोटिशिष्यैश्च भरद्वाजः सलक्षकः ।
अङ्गिरोऽयुतशिष्यैश्च वसिष्ठोऽयुतशिष्यकः ॥३१ ॥ प्रचेताः शतशिष्यैश्च पुलस्त्यश्च सहस्रयुक् ।
अगस्त्योऽयुतशिष्यश्च पुलहश्च सहस्रयुक् ॥३ २॥ शतशिष्यः क्रतुश्चाऽत्रिर्भृगुश्चापि तथाऽनुगः ।
तथा सहस्रशिष्यश्च मरीचिस्तत्र चाययौ ॥३३ ॥ पञ्चशतानुगः शतानन्दश्च पाणिनिस्तथा ।
सहस्रशिष्यैर्युक्तश्च ऋष्यशृङ्गो विभाण्डकः ॥३४॥ कात्यायनस्तथा याज्ञवल्क्यः सहस्रवान् ययौ ।
सहस्रशिष्यकैर्व्यासो गर्गः शिष्यैः शताधिकैः ॥३५ ॥ गालवश्च शतेनापि सौभरिर्विंशतिर्जनैः ।
लोमशो दशलक्षैश्च मार्कण्डेयस्त्रिलक्षकैः ॥३६ ॥ सान्दीपनिर्देवलश्च स्वशिष्यैश्च शतैः शतैः ।
बोढुः पञ्चशिखश्चैतौ षष्टिशिष्यप्रशिष्यकैः ॥३७॥ नरो नारायणश्चैतौ तापसैर्बहुसङ्ख्यकैः ।
विश्वामित्रस्तथा वत्सः ययौ शिष्यसहस्रकैः ॥३८ ॥ जरत्कारुरास्तीकश्च पर्शुरामश्च दक्षकः ।
संवर्तो जैमिनिश्चापि पैलश्चापि निजानुगैः ॥३९ ॥ उपमन्युः शुकदेवः कचो गौरमुखस्तथा ।
लालायनाद्याश्चाप्यन्येऽश्वत्थामा द्रोण इत्यपि ॥1.218.४० ॥ कृपो भीष्मश्च कर्णश्च तथाऽन्ये युगदेवताः ।
सुदिव्यौ कम्भरागोपालाख्यौ शिष्यैः समाययुः ॥४ १ ॥ साध्या विश्वे मरुतश्च यक्षाश्च वास्तुकर्मणि ।
चारणाः पितरो रुद्रा मातृका दिक्प्रपालकाः ॥४२॥ चतुःखनिजदेह्याद्याः पातालादिगतास्तथा ।
ग्रहनक्षत्रताराश्च कृष्णवास्तौ समाययुः ॥४३॥ वसवो निधयश्चैव परे सप्तर्षयस्तथा ।
प्रजापतयो मनवो वालखिल्याः समग्रत ॥४४॥ धर्माऽधर्मकुलोत्थाश्च वसन्ताद्याः षडर्तवः ।
कामाद्याश्चाप्सरसश्च पर्यो देव्यश्च दासिका ॥४५॥ साधवो यतयः साध्व्यः सन्यासिन्यो विरागिकाः ।
साङ्ख्ययोगिन्य एवेयुः कृष्णो वास्तुं करोति वै ॥४६॥ अवधूत्यस्तथा चण्ड्यो दुर्गा माया रमादिकाः ।
लक्ष्म्यो जयाविजयाद्याः सख्यो माणिक्यकन्यकाः ॥४७॥ प्रभा च पार्वती गायत्री सावित्री सरस्वती ।
गोप्यो गोपा गोलोकस्थास्तथा वैकुण्ठवासिनः ॥४८॥ कुमार्यश्च कुमाराश्च ब्रह्मचारिण्य इत्यपि ।
शक्तयः स्मृद्धयः सिद्धिमूर्तयश्चाययुस्तदा ॥४९॥ तत्त्वानि वेदशास्त्राणि विद्याश्च विविधाः शुभाः ।
गुणा ऐश्वर्यसामर्थ्यमुक्तमुक्तान्य आययुः ॥1.218.५० ॥ चत्वार आश्रमा वर्णा दीना अनाथदेहिनः ।
लोकाऽलोका आययुर्वै कृष्णो वास्तुं करोति यत् ॥५१॥ शृणु लक्ष्मि! यत्र सर्वतीर्थतीर्थेश्वरेश्वराः ।
समाययुश्च सा भूमिर्वर्णनीया मया किमु ॥५२॥ सर्वतीर्थपरा श्रेष्ठा द्वारिका बहुपुण्यदा ।
यस्यां प्रवेशमात्रेण जन्ममृत्युविनाशनम् ॥५३ ॥ दानं श्राद्धं देवपूजाऽनन्तगुणफलप्रदम् ।
तीर्थानां तीर्थरूपं तत् किं तीर्थं द्वारकापरम् ॥५४॥ उग्रसेनो महाराजः सदा कृष्णाज्ञयाऽवसत् ।
स्वालयं द्वारकामध्ये महेन्द्रभवनात्परम् ॥५५॥ सहस्रैर्द्वारपालैश्च द्वारं ददर्श रक्षितम् ।
अभ्यन्तरं च शिबिरं द्वारेभ्यः षड्भ्य एव च ॥५६॥ मन्दिराणां शतकैश्चरत्नफलशशालिनाम् ।
मत्तायुतगजेन्द्राणां तुरगाणां तथाऽयुतम् ॥५७॥ उष्ट्राणामयुतं चापि रथानामयुतं तथा ।
अर्धलक्षं सारथीनां ददर्श राजपुङ्गवः ॥५८॥ ददर्शाभ्यन्तरे रम्ये देवौघमुनिसंस्थिताम् ।
सुधर्माख्यां सभां दिव्यां स्वर्णसिंहासनान्विताम् ॥५९॥ शुद्धांशुकैः परिष्कृतां रत्नतेजःसमुज्ज्वलाम् ।
प्रविवेश सभां रम्यां शुश्राव शङ्खसद्ध्वनिम् ॥1.218.६० ॥ निनादं च दुन्दुभीनां मुनीनां वेदघोषणाम् ।
श्रुत्वा सभां प्रविशन्तं ह्युग्रसेनं हरिर्बलः ॥६ १ ॥ ब्रह्मा शिवस्तथा विष्णुः शेषश्च देवपुङ्गवाः ।
समुत्तस्थुः सुराः सर्वे मुनयो मानवास्तथा ॥६२।
रत्नसिंहासने रम्ये समुवास नृपेश्वरः ।
उग्रसेनश्च देवानां हरेर्गर्गस्य चाऽऽज्ञया ॥६३ ॥ सप्ततीर्थोदकपूर्णकुम्भेन तत्र नारदः ।
चकार वेदमन्त्रैश्च नृपस्याप्यभिषेचनम् ॥६४॥ तस्मै वस्त्रयुगं दत्तं वरुणेन महात्मना ।
माल्यं च पारिजातानां चन्दनं रत्नभूषणम् ॥६५॥ रत्नछत्रादिकं तस्मै बलदेवो ददौ पृथक् ।
ददौ कमण्डलुं ब्रह्मा त्रिशूलं च महेश्वरः ॥६६ ॥ पार्वती रत्नमाल्यं च मुकुटं कृष्ण एव सः ।
स्वर्णभूषाश्च राजेन्द्राः प्रजाश्चोपायनानि च ॥६१७ ॥ अन्ये चतुर्दशलोकवासाश्च यौतकं ददुः ।
वसुदेवो ददौ तस्मै श्वेतं तु चामरद्वयम् ॥६८ ॥ नन्दो ददौ कामधेनुं यशोदा रत्नमालिकाम् ।
दधार छत्रमक्रूरो भक्त्या श्रीकृष्णदेशनात् ॥६ ९ ॥ रत्नसिंहासने रम्ये राजा ददर्श दर्पणम् ।
शुश्राव पुण्यवाचश्च भट्टभिक्षुकवेदिनाम् ॥1.218.७० ॥ ददुः शुभाशिषस्तस्मै देवाश्च मुनयो द्विजाः ।
ब्राह्मणोभ्यो भिक्षुकेभ्यो ददौ रत्नानि कोटिशः ॥७ १ ॥ वस्त्रान्नभोजनपानस्वर्णपात्राणि भूरिशः ।
सर्वेभ्यो दानपात्रेभ्यो ददौ दानानि माधवः ॥३२ ॥ वास्तुयज्ञं हरिः कृष्णश्चकार सर्वमङ्गलः ।
भोजयामास सर्वांश्चाऽन्नानि तद्रुचिराणि वै ॥७३ ॥ सभायां श्रीकृष्णदेवं नेमुर्लोकनिवासिनः ।
प्राहुश्च भगवन् रम्या द्वारिकाऽतिमनोहरा ॥७४॥ तव बाहुपरित्राणा पावनी पापनाशिनी ।
पुरी नैतादृशी चात्र ब्रह्माण्डेऽन्या हि वर्तते ॥७५ ॥ अस्माकं यानि भौमानि विस्मृतान्येव दर्शनात्॥ नैतादृशं परं दिव्यं स्थानं क्वापि विलोक्यते ॥७६ ॥ इत्येवं सा प्रशंसिता नगरी द्वारका सुरैः ।
अथ कृष्ण उपदाश्च तेभ्यो दातुं प्रचक्रमे ॥७७॥ तदा ब्रह्मादयो देवा ईश्वरा लोकपालकाः ।
ऋषयो मुनयो देव्यो देवजातय एव याः ॥७८॥ समुद्राः सरितो दिव्याः पर्वताः क्षेत्रभूमयः ।
अरण्यानि च धामानि पूर्यो वनानि चापगाः ॥७९ ॥ सरांसि च तडागाश्च शिखराणि च कन्दराः ।
देवालयास्तथा खाता अखाताः पावनस्तराः ॥1.218.८० ॥ मूर्तिमन्तो हरिं नत्वा प्रार्थयामासुरादरात् ।
भगवन्परमेशान तवाशिषः शुभावहाः ॥८ १ ॥ श्रेयोमोक्षप्रदाः सर्वा उपदा नातिरिच्यते ।
उपदास्तु चार्थयामो यदि ते रोचते प्रभो ॥८२॥ दिव्यरूपैः सदाऽस्माभिः स्थेयं चात्र पदे तव ।
तव योगान्महानन्दो भविष्यत्येव नः सदा ॥८३ ॥ पावनाश्च भविष्यामस्तीर्थसङ्घास्तवस्पृशेः ।
द्वारकायां सदाऽस्माँस्त्वं रक्षय श्रीहरे प्रभो ॥८४॥ कृपां कुरु कृपानाथ वत्स्यामोऽत्र पदे तव ।
अन्यत्राऽस्मासु पापिष्ठाः पापानि क्षालयन्ति वै ॥८५ ॥ दत्वा नो यान्ति ते सर्वे वयं पापेन चावृताः ।
तव पादे पतिष्यामः क्षालयिष्याम एव च ॥८६ ॥ पापानि च भविष्यामो पावनानि पदे तव ।
तस्मात्प्रभो सदाऽऽवास देहि चात्र पुरे तव ॥८७॥ यत्र क्वापि प्रसीम्न्यत्र वने तीरे बहिस्तथा ।
परितः पार्श्वतश्चापि निवत्स्यामः सुखं सदा ॥८८॥ दर्शनं ते करिष्यामोऽमृतं पास्याम एव ते ।
पादप्रक्षालनपूतं वहिष्यामः शिरःसु च ॥८९ ॥ सार्थक्यं जन्मनामत्र यास्यामस्तव पादयोः ।
इत्यर्थनां हरिः श्रुत्वा प्राह सर्वान् प्रभून् तदा ॥1.218.९० ॥ सर्वे वसन्तु सुखिनो द्वारिकायां यथायथम् ।
नारदोऽयं मम भक्तः स्थलीः सन्दर्शयिष्यति ॥९१ ॥ तीर्थानि तानि युष्माकं भविष्यन्ति च नामभिः ।
तत्र तत्र स्थले स्थेयं मया सह निरन्तरम् ॥९ २॥ इत्याज्ञां समनुप्राप्य श्रीकृष्णस्य परात्मनः ।
सर्वदेवाधितीर्थानि न्यूषुरानर्तभूस्तरे ॥९ ३॥ पूर्वे नगरपर्यन्तं दक्षिणे रैवताचलम् ।
उत्तरेनारायणाख्यसरोऽवधि भूवत्सलम् ॥९४॥ सर्वं तीर्थमयं देवमयं पदे पदेऽभवत् ।
ततः कृष्णश्च तान् सर्वानाहूय कृतवासकान् ॥१५॥ भावतः पूजनं कृत्वा भोजयामास सद्रसान् ।
सदन्नानि सुमुन्यन्नोत्तमानि पेयवारि च ॥९६ ॥ पूजां चकार सर्वेषां मुनीनां च यथायथम् ।
मणिरत्नं प्रवालं च सुवर्णं परमं धनम् ॥९७॥ मुक्तामाणिक्यहीरादि ह्यागतेभ्यो ददौ मुदा ।
गजरत्नं धेनुरत्नं घोटकाँश्च मनोहरान् ॥९८॥ आसनानि च पात्राणि भूषणानि मणींस्तथा ।
धान्यान्यपि च सस्यानि वस्त्राणि च ददौ बहून् ॥९ ९ ॥ यानानि वाहनान्येव विमानानि च माधवः ।
दापयामास सामग्रीर्गृहयोग्याश्च केशवः ॥1.218.१० ०॥ दुन्दुभीन्वादयामास कारयामास मङ्गलम् ।
सर्वांश्च भोजयामास वासयामास सर्वतः ॥१०१ ॥ अथ तीर्थानि चाहूय भगवानाह तत्त्वतः ।
कलौ समागते पापा भविष्यन्ति च मानवाः ॥१० २॥ द्वारिका दिव्यनगरी तेषामुद्धारहेतवे ।
सर्वतीर्थाधिवासेयं मया वै स्थापिता भुवि ॥१०३ ॥ कलिकल्मषकृष्णा ये जनाश्चात्र जले स्थले ।
तीर्थविधिं करिष्यन्ति यास्यन्ति धाम ते मम ॥१ ०४॥ जन्ममृत्युजराव्याधिहरं हर्षकरं परम् ।
शोकसन्तापहरणं कर्ममूलनिकृन्तनम् ॥१ ०५॥ द्वारिकास्थं परम्ब्रह्म भगवन्तं च मां हरिम् ।
ध्यायं ध्यायं च मां भक्तिं लब्ध्वा यान्तु परं पदम् ॥१ ०६॥ यदा कलिः समायाति धर्ममूलनिकृन्तनः ।
स्त्रीपुंसोर्नियमौ नास्ति जातीनां नियमोऽपि न ॥१ ०७॥ विप्रे सन्ध्यादिकं नास्ति चिह्नं यज्ञोपवीतकम् ।
यज्ञसूत्रं च तिलकं शेषं लुप्तं भविष्यति ॥१ ०८॥ दिवा व्यवायनिरता विरता धर्मकर्मणि ।
भविष्यन्ति तथा चौरा नरा नार्यो गृहे गृहे ॥१ ०९॥ यज्ञानां च व्रतानां च तपसां लोप एव च ।
स्वच्छन्दगामिनीनारीवशे पतिः सदा भवेत् ॥1.218.११० ॥ ताडयेद् भर्त्सयेद् वा स्त्री पतिं नारी प्रधानभूः ।
कलौ च योषितः सर्वा जारसेवासु तत्पराः ॥११ १ ॥ शतपुत्रसमस्नेहस्तासां जारे भविष्यति ।
ददाति पतये भक्ष्यं यथाभृत्याय कोपतः ॥११ २॥ सस्मिता सामृतदृष्ट्या जारं पश्यति कामतः ।
विषदृष्ट्या क्रूरदृष्ट्या पतिं पश्यति रोषतः ॥११३॥ सततं गौरवं तस्या स्नेहं जारे च तादृशे ।
पत्यौ करप्रहारं च नित्यं नित्यं करोति वै ॥१ १४॥ मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च ।
वेषयुक्ता च सततं जारसेवनतत्परा ॥१ १५॥ प्राणा बन्धुर्गतिश्चात्मा कलौ जारश्च योषितः ।
लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम् ॥१ १६॥ पितृदेवार्चनं लुप्तं भविष्यति कलौ युगे ।
विष्णुवैष्णवयोर्द्वेषकर्तारो मानवाः कलौ ॥१ १७॥ भविष्यन्ति वामधर्मग्रहितारो जनास्तदा ।
शालग्रामं च तुलसीं कुशं गङ्गोदकं तथा ॥१ १८॥ न स्पृशेन्मानवो धूर्तो म्लेच्छाचारपरायणः ।
कलेः पञ्चसहस्रोर्ध्वं मदर्चा तु विलुप्यति ॥११ ९॥ चतुःसहस्रकालोर्ध्वं गङ्गा यमी सरस्वती ।
तीर्थानि विष्णुभक्ताश्च विनङ्क्ष्यन्ति भुवस्तले ॥1.218.१२० ॥ एतदन्ते कलौ सर्वे पग्स्परविमिश्रिताः ।
एकवर्णा भविष्यन्ति चाण्डाला बलिनः शठाः ॥१२१ ॥ पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः ।
विवर्ज्यते जनैः सर्वैश्चातिथीनां तथैव च ॥१२२ ॥ सस्यहीना भवेत् पृथ्वी वृष्टिहीना वसुन्धरा ।
फलहीनास्तथा वृक्षा जलहीनास्तथाऽऽपगाः ॥१२२३ ॥ वेदहीनो ब्राहणश्च बलहीनश्च भूपतिः ।
जातिहीना जनाः सर्वे म्लेच्छा भूपतयस्तथा ॥१२४ ॥ भृत्यवत् ताडयेत् तातं पुत्रः शिष्यस्तथा गुरुम् ।
कान्तं च ताडयेत् कान्ता लुब्धकुक्कुटवद् गृही ॥१२५ ॥ धर्मो लयं यदा यातो भविष्यति तदा जनाः ।
हृद्येषु मृषाकल्पा भविष्यन्ति कलौ युगे ॥१२६ ॥ स्वार्थ एव सुसम्बन्धो भविष्यति नवो नवः ।
प्रतारकाः कलिपुष्टा भविष्यन्ति गुरूत्तमाः ॥१२७ ॥ अधमेभ्योप्यधमाश्च नीचकर्माण एव च ।
हरेर्भक्तिं विना नैव तरिष्यन्ति कलौ खलाः ॥१२८ ॥ तेषामुद्धरणार्थाय द्वारका सर्वपावनी ।
सर्वतीर्थमयी भूमिः कालेयतारणक्षमा ॥१२९ ॥ यत्र नास्ति कलेर्लेशस्तादृशी स्थापिता भुवि ।
तत्र स्नानं दर्शनं च व्रतं चार्चनमर्थनम् ॥1.218.१३० ॥ भजनं जलपानं च रजःस्नानं च कीर्तनम् ।
करिष्यन्ति जना भावात् ते यास्यन्ति परं पदम् ॥१३१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दिव्यद्वारिकावर्णनं श्रीकृष्णत्मताऽसङ्ख्यसुरमुन्याद्यागमनतत्पूजनतन्निवसन तत्तीर्थमाहात्म्यकलितारणप्रतापाश्चेत्यादिनिरूपणनामाऽष्टादशाधिकद्विशततमोऽध्यायः ॥२१८ ॥