२१४

श्रीलक्ष्मीरुवाच -
कल्पान्मनूँश्च सङ्क्षेपाच्छ्रोतुमिच्छामि माधव ।
द्वापरान्ते कलेर्धर्मान् श्रोतुमिच्छामि तद्वद् ॥१ ॥ श्रीनारायण उवाच-
शृणु लक्ष्मि! चतुर्दशमनून्प्रत्यहजाँस्तथा ।
दशशतानि जायन्ते कल्पा वर्षे तु वेधसः ॥२ ॥ दशशतानि च युगचतुष्टयानि कल्पके ।
एष कल्पस्तु विज्ञेयः सर्वकल्पेषु सदृशः ॥३ ॥ वाराहः प्रथमः कल्पो लोकादौ प्रथितः खलु ।
द्वितीयस्तु भुवः कल्पस्तृतीयस्तप उच्यते ॥४ ॥ भवश्चतुर्थो विज्ञेयः पञ्चमो रम्भ उच्यते ।
ऋतुकल्पस्तथा षष्ठः सप्तमस्तु क्रतुः स्मृतः ॥५ ॥ अष्टमस्त्वभवद् वह्निर्नवमो हव्यवाहनः ।
सावित्रो दशमः कल्पो भावस्त्वेकादशः स्मृतः ॥६ ॥ उशिको द्वादशस्तत्र कुशिकस्तु त्रयोदश ।
चतुर्दशस्तु गन्धर्वो गान्धारो यत्र वै स्वरः ॥७ ॥ ऋषभस्तु ततः कल्पो ज्ञेयः पञ्चदशः प्रिये ।
षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः ॥८ ॥ शिशिरश्च वसन्तश्च निदाघो वर्ष इत्यपि ।
शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः ॥९ ॥ ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः ।
ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते ॥1.214.१ ०॥ ततस्त्वेकोनविंशस्तु कल्पो वैराग्यसञ्ज्ञकः ।
वैराजो यत्र समभूत् मनुर्वै ब्रह्मणः सुतः ॥११ ॥ ततो विंशतिकः कल्पो निषादः परिकीर्तितः ।
एकविंशतिकः कल्पो विज्ञेयः पञ्चमः प्रिये ॥१२॥ ब्रह्मणो मानसाः पुत्राः पञ्चप्राणाः स्वरोऽभवत् ।
द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः ॥१ ३॥ त्रयोविंशतिकः कल्पो विज्ञेयश्चिन्तकस्तथा ।
चतुर्विंशतिकश्चापि ह्याकुतिः कल्प उच्यते ॥१४॥ पञ्चविंशतिकः कल्पो विज्ञातिः परिकीर्तितः ।
षड्विंशस्तु ततः कल्पो मन इत्यभिधीयते ॥१५॥ सप्तविंशतिकः कल्पो भावो वै कल्पसञ्ज्ञितः ।
अष्टाविंशतिकः कल्पो बृहदित्यभिसञ्ज्ञितः ॥१६ ॥ एकोनत्रिंशकः कल्पो विज्ञेयः श्वेतलोहितः ।
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः ॥१७॥ एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः ।
द्वात्रिंशत्तमकल्पस्तु सितकल्पो हि नामतः ॥१८॥ त्रयस्त्रिंशत्तमः कल्पः कृष्णकल्पो हि नामतः ।
चतुस्त्रिंशत्तमः कल्पो विश्वरूपस्तु नामतः ॥१ ९॥ एवमेते भवनानामृतूनां नामतस्तथा ।
क्रतूनां नामतश्चैव वह्नीनां नामतस्तथा ॥1.214.२०॥ स्वराणां नामतश्चैव प्राणानां नामतस्तथा ।
आकूतीनां तथा शम्भोर्विष्णोश्च नामतस्तथा ॥२ १॥ कल्पा ह्येते चतुस्त्रिंशत्प्रोक्तास्तद्योगतश्च ते।
सप्तर्षीणां नामतश्च सप्तकल्पास्तथा परे ॥२२॥ अष्टवस्वभिधानाश्च ह्यष्टौ कल्पास्तथा परे ।
नवग्रहसमायोगान्नवकल्पास्तथेतरे ॥२३ ॥ अष्टानां दिक्प्रपालानां कल्पा ह्यष्टौ तथाऽपरे ।
ब्रह्मणश्च स्वीयकल्पश्चैकः कल्पस्तथा मतः ॥२४॥ त्रिगुणानां च देवानां त्रयः कल्पास्तथाऽपरे ।
एकादशानां रुद्राणामेकादश च कल्पकाः ॥२५ ॥ चतुर्दशमनूनां च नाम्ना कल्पाश्चतुर्दश ।
चतुर्दशमहेन्द्राणां तथा कल्पाश्चतुर्दश ॥२६ ॥ सप्तविंशतिनक्षत्रनाम्ना तावन्त एव ते ।
एकोनपञ्चाशन्मरुन्नाम्ना तावन्त एव ते ॥२७॥ चतुर्विंशत्यवतारनाम्ना कल्पास्तथाऽपरे ।
एकोनपञ्चाशद्वह्निकल्पास्तावन्त एव ते ॥२८ ॥ चतूर्णां धर्मपादानां नाम्ना चत्वार एव ते ।
विद्यानां च त्रयीनां च नाम्ना कल्पास्त्रयस्तथा ॥२९ ॥ इत्येवं सृष्टिसंरम्भे यद्यद्योगो भवेत्पुरा ।
ब्रह्मणः स्मृतिमार्गे च यस्य योगो भवेत्पुरा ॥1.214.३० ॥ तत्तन्नाम्ना च कल्पास्ते दिवसा ब्रह्मणो मताः ।
सहस्रं सम्भवत्येव कल्पा हि ब्रह्मवत्सरे ॥३१ ॥ त एते ब्रह्मणः सर्वे पुनर्वर्षान्तरे तथा ।
एवं विपरिवर्तन्ते शतवर्षीयजीवने ॥३२॥ कल्पास्तु वेधसश्चात्र सृष्टौ प्रवाहलीलया ।
एते ह्येव प्रजायन्ते नास्तीति नियमोऽपि वै ॥३३ ॥ अन्येऽपि नामिनः कल्पा लक्ष्मीकल्पा भवन्त्यपि ।
रमाकल्पास्तथा पद्माकल्पाः श्रीकल्पकास्तथा ॥३४॥ शिवाकल्पा योगिनीनां कल्पाः सतीप्रकल्पकाः ।
शचिकल्पास्तथा कालीकल्पाः शक्तिदिनानि च ॥३५ ॥ विद्याकल्पास्तथा चान्ये त्वाद्यव्यक्तिदिनानि च ।
भवन्तीश्वरकल्पाश्च देवकल्पास्तथाऽपरे ॥३६॥ देवीकल्पा अप्सराणां कल्पा भक्तदिनानि च ।
तत्त्वकल्पास्तथा चाद्यकार्यकल्पा भवन्त्यपि ॥३७ ॥ यन्नवं वेधसः प्रातर्दृश्यते मुख्यमुत्तम् ।
तन्नाम्ना ते तु कल्पा वै ब्रह्मणा हि प्रधारिताः ॥३८ ॥ इन्द्राश्च मनवः कल्पे चतुर्दश चतुर्दश ।
एको मनुर्दीर्घकालं भुङ्क्ते ह्येकं तु सप्ततिम् ॥३९ ॥ चतुष्कीनां चतुष्की तु चतुर्युगं समीरितम् ।
द्वादशाब्दसहस्राणि चतुर्युगं विदुः सुराः ॥1.214.४० ॥ चतुष्कीणां सहस्रं तु कल्पे गच्छति वेधसः ।
चतुष्कीणां सहस्रं च रात्रौ गच्छति वेधसः ॥४ १ ॥ द्वे सहस्रे चतुष्कीणां ब्रह्मणस्तद्दिवानिशम् ।
एतत्क्रमेण वेधास्तु शतवर्षाणि जीवति । ४२॥ वैराजस्यैकदिवसस्तदा वै परिकल्पितः ।
ह्येतत्क्रमेण वैराजः शतवर्षाणि जीवति ॥४३॥ महाविष्णोरेकदिनं तदा वै परिकल्पितम् ।
एतत्क्रमान्महाविष्णुः शतवर्षाणि जीवति ॥४४॥ प्रधानपुरुषस्यैकदिनं तत्परिकल्पितम् ।
एतत्क्रमात् प्रधानना शतवर्षाणि जीवति ॥४५॥ प्रकृतिपुरुषस्यैकदिनं तत्परिकल्पितम् ।
पुम्प्रकृतेस्तस्य सृष्टिः शतवर्षं प्रवर्तते ॥४६॥ ततो महाप्रलयो वाऽऽत्यन्तिकलय आप्यते ।
ततो ब्रह्ममुक्तिलोको वर्तते सपरेश्वरः ॥४७॥ तावति समये याते ईक्षते स पुनस्तथा ।
बहु स्यामिति सृष्ट्यर्थं प्रकृतिपूरुषक्रमात् ॥४८॥ कल्पे कल्पे मनूनां च तथैवाऽस्ति प्रभावनम् ।
ब्रह्माण्डानां भुवनानां तथैवाऽस्त्युत्सुभावनम् ॥४९॥ चतुर्दशमनून् नाम्ना कथयामि शृणु प्रिये ।
क्रतुसञ्ज्ञेऽत्र वाराहे कल्पे च प्रथमो मनुः ॥1.214.५ ० ॥ स्वायम्भुवो मनुः प्रोक्तो ब्रह्मणः पुत्र एव सः ।
स्वारोचिषो द्वितीयो वै मनुरग्नेः सुतोऽभवत् ॥५१ ॥ औत्तमश्च तृतीयो वै प्रियव्रतसुतो मनुः ।
तामसश्च चतुर्थ उत्तमभ्राता च वै मनुः ॥५२॥ रैवतः पञ्चमः प्रोक्तो मनुस्तामससोदरः ।
षष्ठश्च चक्षुषः पुत्रः चाक्षुषो नाम वै मनुः ॥५३ ॥ स्वारोचिषोत्तमौ चैव तामसो रैवतस्तथा ।
प्रियव्रताऽन्वया ह्येते चत्वारो मनवो मताः ॥५४॥ उत्तानपादस्य वंशे चाक्षुषो मनुरुच्यते ।
कश्यपस्याऽदितेः पुत्रा द्वादशादित्यसञ्ज्ञकाः ॥५५॥ तत्र विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
वैवस्वतो मनुः सोऽयं सप्तमो मनुरुच्यते ॥५६॥ छायायां सूर्यपुत्रश्च सावर्णिश्चाष्टमो मनुः ।
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः ॥५७॥ दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः ।
मनुर्वै धर्मसावर्णिरेकादशः समुच्यते ॥५८॥ भविता रुद्रसावर्णिर्नाम्ना द्वादशको मनुः ।
मनुस्त्रयोदशो देवसावर्णिः सुनृतासुतः ॥५९॥ सत्यसहसो दायादो वेदसावर्णिरेव सः ।
मनुश्च हीन्द्रसावर्णिश्चतुर्दशः स उच्यते ॥1.214.६ ०॥ प्रिये चतुर्दशैतानि कल्पे कल्पे भवन्ति वै ।
प्रोक्तैरेभिर्मितः कल्पो युगसाहस्रपर्ययः ॥६ १ ॥ अकल्पश्च निशा तस्य युगसाहस्रपर्यया ।
युगचतुष्टये युगशब्दोऽत्र बोध्य एव वै ॥६२॥ एवं कल्पान्तरो चाऽन्ये मनवश्च चतुर्दश ।
इन्द्रास्तथा भवन्त्येव ह्यन्येऽन्ये वै चतुर्दश ॥६३ ॥ ऋषयश्च भवन्त्यन्ये सप्त सप्त तथाविधाः ।
दिक्पाला लोकपालाश्च भवन्त्यन्ये तथाक्रियाः ॥६४॥ वेदव्यासाः प्रतिचतुर्युगं भवन्ति चापरे ।
अवतारा हरेः प्रतिचतुष्की चतुर्विंशतिः ॥६५ ॥ अंशाऽऽवेशकलांऽशांशास्त्वनन्ताः प्रतिसाधिकाम् ।
भवन्त्येवाऽवताराश्च लोककल्याणहेतवे ॥६६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बहूनां कल्पानां चतुर्दशमनूनां च निर्देशनामा चतुर्दशाधिकद्विशततमोऽध्यायः ॥२१४ ॥