२०७

श्रीनारायण उवाच-
ततो लक्ष्मि! नारदः स नरेण सहयायिना ।
वैनतेयशिलां नीतः कथिताख्यानकश्च वै ॥१ ॥ कश्यपस्य विनतायां गरुडोऽरुण एव तौ ।
सुतौ चैका च कन्या सौदामिनी नभसि स्थिता ॥२ ॥ गरुडो विष्णुवाहोऽभूदरुणः सूर्यसारथिः ।
विष्णुभक्तौ समर्थौ तौ महाबलपराक्रमौ ॥३ ॥ बदर्या दक्षिणे गन्धमादने शिखरे हिमे ।
गरुडस्तप आतेपे हरेर्वाहनकाम्यया ॥४ ॥ क्वचित्फलं क्वचिन्मूलं क्वचिद्वारि ततोऽनिलम् ।
नारायणजपं कुर्वन्स्मरन्मूर्तिं हरेः शुभाम् ॥५ ॥ पदैकेनोपसङ्क्रम्य क्ष्मायां जेपेऽतिसंयमः ।
त्रिंशद्वर्षसहस्राणि तपश्चचार दुश्चरम् ॥६ ॥ ततः प्रसन्नो विष्णुश्च दिव्यपीताम्बरद्वयः ।
चतुर्भुजो निजशस्त्रधरो हास्यसुशोभनः ॥७ ॥ आविर्बभूव पुरतः कोटीन्दुकान्तिसूज्ज्वलः ।
आजुहाव गरुडं सः वत्स निबोध जागृहि ॥८ ॥ तथापि नोत्थितो ध्यानाद् दध्मौ शङ्खं हरिस्तदा ।
तथापि न बहिर्यातस्तदा योगेश्वरो हरिः ॥९ ॥ ततः प्रविश्य गरुडे प्राणेन्द्रियान्तरात्मसु ।
बहिरानीय च जाग्रतं कृत्वा पुरतः स्थितः ॥1.207.१० ॥ गरुडोऽतिप्रसन्नः सन् दृष्ट्वा ननाम दण्डवत् ।
पुलकांऽकितसर्वाङ्गस्तुष्टाव च कृताञ्जलिः ॥११ ॥ जय त्रिलोकजीवानां प्राणरूप प्रभो हरे ।
अघनाशकगीर्वाणवन्दितचरणाम्बुज ॥१२ ॥ सुरारिध्वंससामर्थ्य सुरासुरनमस्कृत ।
स्वभक्तहृद्गतमोहध्वंसकृत् ते नमोनमः ॥१३ ॥ तापत्रयप्रशान्तिकृच्चरणोभ नमोऽस्तु ते ।
जगज्जन्मस्थितिध्वंसकार्यकृत्त्रिस्वरूपक ॥१ ४॥ भक्तमानससद्गम्य शास्त्रवेदादिरूपित ।
सुराऽसुरप्रवन्दितपादपद्म नमोऽस्तु ते ॥१५ ॥ अष्टैश्वर्यसमायुक्त वनमालाविराजित ।
कञ्जनेत्र तिलपुष्पनासिकाऽलक्त पत्तल ॥१६ ॥ स्थलपद्मपत्रतुल्यकरद्वय नमोऽस्तु ते ।
भक्तहृत्कृतनित्यास दिव्यगुणगणान्वित ॥१ ७॥ अवितात्मजन धर्ममूर्ते हरे नमोऽस्तु ते ।
दिव्यैश्वर्यसमजुष्ट पातु मां परमेश्वर ॥१८ ॥ एकः सन्नपि सर्वत्राऽनन्तरूपधर प्रभो ।
भक्तकार्यकृते द्राक् चाऽऽयासि नाथ नमोऽस्तु ते ॥१९ ॥ क्वाऽहं पक्षी तमोव्याप्तः क्व त्वं सत्त्वमयः प्रभुः ।
कृपा ते दर्शने हेतुः कृपालोऽस्तु च ते नमः ॥1.207.२० ॥ सापराधस्य लोकस्य रक्षां करोषि सर्वथा ।
हितकृत् सुखकृच्चैव गुणाश्रय नमोऽस्तु ते ॥२१ ॥ यज्ञभुक् विश्वसम्पुष्टिकृत् त्राहि मां जनेश्वर ।
कन्याऽम्बराणि नीत्वा च कदम्बवृक्षमास्थित ॥२२ ॥ प्रेमभक्तिसमालभ्य दासैककरुणाऽव माम् ।
विश्वदुःखप्रशमन मे दास्यं देहि केशव ॥२३ ॥ एवं स्तुतो हरिः साक्षाद् गरुडेन महात्मना ।
समाजुहाव गङ्गां च पूजार्थं स्वस्य तत्र वै ॥२४॥ ततः पञ्चमुखी गङ्गा ह्याविरासीन्नगोपरि ।
तज्जलेन हरेः पूजां चकार विनतासुतः ॥२५ ॥ व्रियतां वर इत्युक्तो गरुडो हरिणा ततः ।
तवैकवाहनः श्रीमान् बलवीर्यपराक्रमः ॥२६ ॥ अजेयो देवदैत्यानां स्यामहं ते प्रसादतः ।
शिलेयं मम नाम्ना च तीर्थीभूताऽस्तु सर्वदा ॥२७॥ एतस्याः स्मरणात्पुंसां विषव्याधिर्न जायताम् ।
श्रुत्वा प्राह हरिस्तस्मै सर्वं भवतु तेऽण्डज ॥२८ ॥ बदरीं त्वं प्रयाह्येव नारायणसमीपतः ।
स्नानं नारदतीर्थादावुपवासत्रयं तथा ॥२९॥ कृत्वा मे दर्शनं ते वै सुलभं हि भविष्यति ।
गरुडः शीघ्रमागत्य नत्वा च बदरीं तथा ॥1.207.३०॥ वह्नितीर्थे कृतस्नानस्तीर्थे च नारदेऽपि च ।
स्नात्वा शिलां समाश्रित्य भक्तिचर्यापरोऽभवत् ॥३ १ ॥ शिला सेयं गारुडी वै कथ्यते तत्प्रसङ्गतः ।
गन्धमादनपाषाणो वैनतेयी शिलोच्यते ॥३२॥ तत्रागत्य स्वयं विष्णुर्लीनो नारायणे तदा ।
शिलासान्निध्यमाप्तश्च तेन तीर्थं हि तन्मतम् ॥३३॥ गरुडश्च ययौ विष्णोर्वाहनो विष्णुधाम यत् ।
वैकुण्ठं दिव्यतामाप्तः प्रभोर्योगात्प्रभुर्भवेत् ॥३४॥ वाराह्याः शृणु माहात्म्यं नारदाऽत्र पुरा हरिः ।
रसातलात्समानीय पृथ्वीं संस्थाप्य वारिधौ ॥३५॥ हिरण्याक्षं निहत्यैव बदरीं समुपागतः ।
योगधारणया चात्र वाराहो भगवान् स्थितः ॥३६॥ सेयं शिला च वाराही प्रोच्यते मुक्तिदा सदा ।
गङ्गाजलेन संस्नात्वा चाहोरात्रे जपेत् स्थितः ॥३७॥ शिलायां दिव्यदृष्टिश्च जायते नात्र संशयः ।
नारसिंह्याश्च माहात्म्यं शिलायाः श्रूयतां शुभम् ॥३८॥ हिरण्यकशिपुं हत्वा गतवान् नृहरिस्तदा ।
अत्युग्रक्रोधदीप्ताङ्गः प्रलयानलसन्निभः ॥३९॥ अभूद्देवैश्च शान्त्यर्थं स्तुतः स्थित्वा सुदूरतः ।
प्रसन्नोऽभूदुवाचैतानावृणीध्वं वरं सुराः ॥1.207.४०॥ श्रुत्वा ब्रह्मा हरिं प्राह रूपं भयावहं तव ।
चात्युग्रं संहर नाथ गृहाण च चतुर्भुजम् ॥४१ ॥ ततो हरिर्विचार्यैव विशालां प्रययौ द्रुतम् ।
गङ्गाजले स्वयं स्नातः शान्तोऽभूच्च चतुर्भुजः ॥४२॥ यत्र स्थितो हरिः सेयं शिला च नारसिंहिका ।
नृसिंहोपि शिलारूपी जलक्रीडापरोऽभवत् ॥४३ ॥ एवं रूपं शिलाप्रख्यं कृत्वा द्वितीयरूपतः ।
समागच्छद्धरिः सिंहारण्यं रैवतपर्वते ॥४४॥ तत्राऽभवन्महद्युद्धं शरभेण शिवेन वै ।
ततो देहं हि तत्याज नृसिंहो लीलया भुवि ॥४५॥ इत्येवं नारदः पञ्चशिलातीर्थं विधाय च ।
श्रुत्वा सहेतुकं सर्वं नरेण कथितं तदा ॥४६ ॥ ययौ स्नात्वा तीर्थविधिं कृत्वा तीर्थान्तरं ततः ।
ब्रह्मतीर्थं ययौ तत्र श्रुतवान् वृत्तमेव सः ॥४७॥ एकदा नाभिकमले स्थितस्य ब्रह्मणो मुखात् ।
वेदान्नीत्वा ह्यसुरौ द्वौ जग्मतुर्मधुकैटभौ ॥४८ ॥ तदा हतस्मृतिर्ब्रह्मा किचित्कर्तुं शशाक न ।
अतो बदरिकामेत्य तुष्टाव परमेश्वरम् ॥४९ ॥ ततः कुण्डात्समुत्पन्नो हयशीर्षो निजायुधः ।
पीताम्बरधरः शुक्लस्वर्णवर्णश्चलच्छटः ॥1.207.५ ० ॥ ब्रह्मणा प्रार्थितोऽसुरविनाशाय ययौ प्रभुः ।
विनिहत्याऽसुरौ वेदानादाय ब्रह्मणोऽन्तिकम् ॥५ १ ॥ उपाययौ हयशीर्षा भगवान् प्रददौ च तान् ।
यत्र स्थले ददौ वेदान् स्वस्थोऽभवच्च विश्वसृट् ॥५२॥ लीनोऽभवच्च भगवान् तत्तीर्थोत्तममुच्यते ।
ब्रह्मकुण्डमिति ख्यातं दिव्यं ज्ञानप्रदं शुभम् ॥५३ ॥ दर्शनात्पापनाशश्च ब्रह्मलोकगतिर्भवेत् ।
स्नानाद्विष्णोस्तु वैकुण्ठं यान्ति प्राणधरा यतः ॥५४॥ सिद्धैस्तत्र स्तुता वेदा धर्तुं रूपं द्वयं द्वयम् ।
एकान्ते द्रवरूपेण मूर्तिर्वोऽत्राऽवतिष्ठताम् ॥५५॥ द्वितीया ब्रह्मणा सार्धं ब्रह्मलोकं व्रजेत्पुनः ।
ततो वेदास्तु चत्वारो द्वैधीकृतात्मरूपकाः ॥५६ ॥ ब्रह्मणा ब्रह्मलोकं ते ययुः सार्धं प्रहर्षिताः ।
द्रवरूपा बदर्यां चाऽवसन् शाश्वतसंस्थिताः ॥५७॥ ऋग्यजुःसामाऽथर्वाणो भगवत्पार्श्ववर्तिनः ।
वर्तन्ते तीर्थरूपास्ते तत्र स्नानादिकं कृतम् ॥५८ ॥ नारदेनाथ वेदानामुदगस्ति सरस्वती ।
तत्र जले कृतं स्नानं तीर्थे सारस्वते शुभे ॥५९॥ दर्शनस्पर्शनस्नानपूजास्तुत्यभिवन्दनैः ।
सरस्वत्या न विच्छेदः कुले तस्य कदाचन ॥1.207.६ ० ॥ मन्त्रसिद्धिश्च जायेत वाणी वाग्विभवप्रदा ।
द्रवरूपधरा तत्र तीर्थकृतां हि जायते ॥६ १ ॥ तत्र कृत्वा तीर्थविधिं ततोऽर्वाग्दक्षिणे मनाक् ।
द्रवधाराऽस्ति यत्रेन्द्रस्तपश्चक्रे तु पूर्वजे ॥६२॥ इन्द्रपदं च तन्नाम द्वितीयमपि विश्रुतम् ।
तपः कृत्वा महाघोरं प्रसन्तुष्य नरायणम् ॥६ ३ ॥ लेभे चेन्द्रपदं सर्वसुरासुरनमस्कृतम् ।
प्रतिमासं त्रयोदश्यां शुक्लायां हरितोषणे ॥६४॥ उपवासद्वयं कृत्वा पूजयित्वा जनार्दनम् ।
सर्वपापविनिर्मुक्तः शक्रलोके महीयते ॥६५॥ तत्रैव मानसोद्भेदनामकं तीर्थमस्ति हि ।
यत्र स्थल्यां महर्षीणां वासोऽस्ति नित्यदा मतः ॥६६ ॥ मानसं चिदचिद्ग्रन्थिमुद्ग्रथ्नन्ति च सर्वशः ।
भिन्दन्ति हृदयग्रन्थीश्छिन्दन्ति बहुसंशयान् ॥६७॥ कर्माणि क्षपयन्त्यस्मान्मानसोद्भेद इत्यभूत् ।
परितः ऋषयस्तत्र वसन्ति तापसाः सदा ॥६८॥ गिरिदरीषु फलसुमूलवार्यनिलाऽशनाः ।
ते त्रिषवणस्नातारः सदा जीतेन्द्रियान्तराः ॥६९॥ यदा तत्र जलबिन्दुं लभते पुण्यवान् जनः ।
भवति व्याससदृशो यमपितृसमः क्रमात् ॥1.207.७०॥ सकामो वा च निष्कामो मानसोद्भेदके च यत् ।
भुक्तिं मुक्तिं समिच्छन्वा करोति कर्म सद्विधम् ॥७ १॥ फलं भुक्त्वा पुनर्मुक्तिं लभते हि न संशयः ।
स्वर्गादिषु फलं भुक्त्वा पुरुषार्थं परं लभेत् ॥७२॥