२०३

श्रीनारायण उवाच-
ब्रह्मा च प्रेरयामास सृष्टिं कर्तुं च नारदम् ।
सर्वेषामपि वन्द्यानां जनकः परमो गुरुः ॥१ ॥ विद्यागुरुर्मन्त्रगुरुर्द्वौ श्रेष्ठौ पित्रपेक्षया ।
तवाऽहं जन्मदाता च विद्यादाता च मन्त्रदः ॥२ ॥ ममाऽऽज्ञया च मत्प्रीत्या कुरुपत्नीपरिग्रहम् ।
गुरोराज्ञाकरः शिष्यः पुत्रः सन्तारयेत् पितॄन् ॥३ ॥ क्षेमं च लभते नित्यं शाश्वतं लौकिकं तथा ।
सः पण्डितः स च ज्ञानी क्षेमी च पुण्यवान्स च ॥४ ॥ मेधावी विनयी भाग्यशाली स्वर्गाधिकारवान् ।
गुरोर्वचस्करो यः स्यात् क्षेमं तस्य पदे पदे ॥५ ॥ सर्वाश्रमाश्रयदाता गृह्याश्रमो हि पुण्यवान् ।
पुत्रपौत्रकलत्राढ्यं भवनं तपसः फलम् ॥६ ॥ पितरः पर्वकाले च पूजाकाले तु देवताः ।
भिक्षाकाले च मुनयः समायान्ति गृहिगृहम् ॥७ ॥ नित्यं नैमित्तिकं कार्यमर्जयन्ति गृहाश्रमाः ।
भुक्त्वा सर्वं सुखं त्वत्र यान्ति स्वर्गं महत्सुखम् ॥८ ॥ गृहस्थो धनवान् कीर्तिधर्मानन्दादिमान् सुखी ।
जीवन्मुक्तो मृतेऽमुत्र मुक्त एव न संशयः ॥९ ॥ मृतस्यापि यशोदेहो वर्तत स च जीवति ।
जीवतोऽपि यशोदेहो नास्ति मृतः स वै सदा ॥1.203.१ ०॥ विद्या लभ्या तथा कीर्तिर्लभ्या भक्तिश्च माधवे ।
दारा लभ्याः शुभा लक्ष्मीः स्वर्गं लभ्यं सुतादिभिः ॥११ ॥ पुण्यं लभ्यं तथाऽऽरोग्यं लभ्यं वै शाश्वतं सुखम् ।
ऐहिकं च तथा पारलौकिकं लभ्यमुत्तमम् ॥१२ ॥ कार्यं भोग्यं गृहिरीत्याऽसङ्गेन यतिवत् सदा ।
सदा वै बन्धनं नास्तीत्याह नारायणो हि माम् ॥१३ ॥ श्रुत्वैतन्नारदः प्राह सतीष्टत्वे प्रवर्तते ।
न मेऽस्तीष्टसाधनत्वमनिष्टाऽननुबन्धिता ॥१४॥ कथं प्रवर्ते नार्यां वै कारणाऽभावबन्धकात् ।
पूर्वजन्मसु चैतस्य विषयस्य विरोधने ॥१ ५॥ त्वच्छापादभवं मृत्वा गन्धर्वः शूद्रकस्तथा ।
कालेन शापान्मुक्तोऽहं विरोधो न सुखाय वै ॥१ ६॥ स गुरुश्च पिता बन्धुः सुतः स्वामी स रक्षकः ।
यः श्रीनारायणभक्तिं बोधयेत्कारये दृढाम् ॥१ ७॥ असन्मार्गाऽऽस्थितबालनिवृत्तिरुचिता पितुः ।
सन्मार्गरोधके दारमार्गे प्रवर्तयेत् कथम् ॥१८॥ पत्नीग्राहो महाग्राहो दुःखायैव हि केवलम् ।
तपःस्वर्गजीवन्मुक्तिमहामुक्तिनिरोधकृत् ॥१९ ॥ नार्यस्त्रेधा विभिद्यन्ते साध्वी स्वार्था विरोधिनी ।
धर्मं मत्वा नाथसेवां करोति सुखदा सदा ॥1.203.२ ० ॥ स्वधर्मनिरता साध्वी सुखदुःखसमा हि सा ।
अथ स्वस्या अर्थसिद्ध्यै कुरुते कान्तसेवनम् ॥२१ ॥ भोगार्थं कान्तसेवां च नान्यथा स्वार्थिनी हि सा ।
वस्त्रालङ्कारसम्भोगस्निग्धाहारधनादिकम् ॥२२ ॥ यावच्च दीयते पत्या तावत्स्वार्था तु सेविका ।
अथ कापट्यभावेन पतिं वाऽन्यं च सेवते ॥२ ३ ॥ स्वस्य वाथ परस्याथ यस्या नास्ति समादरः ।
सर्वे कामप्रदा योग्या नराः प्रकल्पिता यया ॥२४ ॥ सा तु विरुद्धधर्मस्था विरोधिनी तृतीयका ।
हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ॥२५ ॥ सुधामधुरं वचनं सर्वं स्वार्थ स्त्रिया मतम् ।
विषतुल्या प्रकोपे स्याद् विश्वासे नाशकारिणी ॥२६ ॥ अभिप्रायेऽतिगूढा स्यात् कर्म स्तेनमयं सदा ।
अविनयस्तथा स्वार्थः साहसं छलमनृतम् ॥२७॥ माया कापट्यमशुचिश्चैतेऽष्टो तत्स्वभावजाः ।
पुंसश्चाष्टगुणः शश्वत्कामदेवोऽतिकालहृत् ॥२८॥ आहारो द्विगुणो नित्यं नैष्ठुर्यं च चतुर्गुणम् ।
क्रोधश्चाथ हठश्चापि षड्गुणास्तत्र सन्ति हि ॥२९ ॥ स्नेहो दशगुणः स्वार्थः षोडशाधिगुणोऽस्ति वै ।
एवं दोषग्रहे नारीदेहे काऽऽस्था पितामह ॥1.203.३ ० ॥ मलमूत्रादिखन्याख्ये का क्रीडाऽशुद्धवर्ष्मणि ।
भोगे तेजःक्षयः सख्ये कीर्तेर्नाशो धनक्षयः ॥३ १॥ वपुःक्षयोऽतिसम्भोगे कलहे मानसङ्क्षयः ।
विश्वासे सर्वनाशश्च बन्धने मोक्षरोधनम् ॥३२॥ हानिरेव तया क्लृप्ता को लाभः प्रमदाग्रहे ।
यावद्धनं युवावस्था तावत्स्वीयाऽन्यथा तु न ॥३ ३ ॥ वृद्धं निःस्वं तथा रुग्णं पतिं सा प्रेक्षतेऽप्रियम् ।
श्ववत् लोकाचारभयाद् ददात्याहारमल्पकम् ॥३४॥ सर्वं जानासि सर्वज्ञ विदायं देहि साम्प्रतम् ।
कृष्णभक्तिं प्रार्थयामि ययाचे तप उत्तमम् ॥३५ ॥ नत्वा स्तुत्वा च याचित्वा क्षमां कृत्वा प्रदक्षिणम् ।
गच्छन्तं तनयं दृष्ट्वा क्षणं ब्रह्मा शुशोच ह ॥३६॥ यदि त्वं तपसे यासि किं मे संसारकर्मणि ।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥३७॥ तुर्यः सनत्कुमारश्चेतरः सनत्सुजातकः ।
यतिर्हंसिश्चारुणिश्च वोढुः पञ्चशिखस्तथा ॥३८॥ पुत्रास्ते तपसे याताः किं मे संसारकर्मणि ।
अन्येऽविवेकिनोऽसाध्याः किं मे संसारकर्मणि ॥३९॥ नोदनालक्षणमर्थं धर्मं वाञ्च्छन्ति पण्डिताः ।
विप्रो धृत्वा यज्ञसूत्रं वेदानधीत्य शक्तितः ॥1.203.४० ॥ परिसमाप्य तत्पश्चात् ददाति गुरुदक्षिणाम् ।
ततः साध्वीं सुकुलजां सुविनीतां समुद्वहेत् ॥४१ ॥ न नारी बन्धनं प्रोक्तं बन्धनं वासना मता ।
अवासनो जनः साध्वीयुक्तोऽपि मुक्तिमृच्छति ॥४२॥ स्त्रीणां दोषाश्च ये प्रोक्ता न ते सत्पतिसम्भवे ।
पतिः कुपथगामी स्यात् तदा किं स्त्रीविदूषणम् ॥४३॥ सति स्वामिनि पत्न्याश्च दोषा भवन्ति सद्गुणाः ।
गुणागुणौ पत्यधीनौ यथा स्वामी तथा सती ॥४४॥ न दोषोऽस्ति च कन्यानां यथाबीजं तथाफलम् ।
क्षेत्रं तु सर्वथा शुद्धं यथा खाद्यं तथाऽङ्कुरम् ॥४५॥ स्त्रियस्तु सुखलाभाय नराणां वै विनिर्मिताः ।
सहन्ते सर्वमाक्रोशं वशीभवन्ति सर्वदा ॥४६ ॥ दुःखं स्वयमनुगृह्य सुखाकुर्वन्ति सत्पतिम् ।
तापत्रयविदग्धस्य नरस्याऽऽरामसाधनम् ॥४७॥ नारीरत्नं मया सृष्टं न दोषं दातुमर्हसि ।
पित्रा पराय दत्ता सा कन्या सर्वं विहाय वै ॥४८॥ याति गौरिव निर्दुःखा रङ्कां मा निन्द नारद ।
पराधीना सदा त्वन्याश्रया दासीव किङ्करी ॥४ ९ ॥ मानं विहाय सेवायां स्थितां मा निन्द नारद ।
आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥1.203.५० ॥ तद् वत्स सुखदाः सर्वा योषितः कमलांशजाः ।
निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति ॥५१ ॥ साधुः सद्वंशजां कन्यां गृह्णीयाद्धर्मनेत्रवान् ।
तस्यां पुत्रान्समुत्पाद्य वार्धक्ये तपसे व्रजेत् ॥५२ ॥ मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम् ।
पुत्र देहीदमेवेह कुरु पत्नीपरिग्रहम् ॥५ ३ ॥ वत्स त्वं कुलजां कन्यां पूर्वपत्नीं च मालतीम् ।
मनुवंशीयसृञ्जयपुत्रीं तपःपरायणाम् ॥५४ ॥ गृह्णीष्व तां तव पत्नीं विवाहं कुरु पुत्रक ।
वैष्णवस्तं गृहे तिष्ठ कुरु भक्तिं हरेः सदा ॥५५ ॥ आदौ ब्रह्म ततो नारी ततो वनगतिस्ततः ।
अन्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ॥५ ६ ॥ नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ।
नारीं प्राप्य हरिं रक्ष नार्यां हरिरवस्थितः ॥५७॥ पुत्रा हरिकृता बोध्या नरकत्राणका यतः ।
तपसाऽपि हरिः सेव्यः सेवा हि परमं तपः ॥५८ ॥ तपसा सेवया चैव मुक्तिर्लभ्येति तत्फलम् ।
वत्स मद्वचनेनैव गृहे स्थित्वा हरिं भज ॥५९ ॥ पितृप्रसादः प्राप्तव्योऽपाकर्तव्यमृणं पितुः ।
दाराग्रहणसाध्यं तत् कुरु वै दारसङ्ग्रहम् ॥1.203.६० ॥ दारासुखं कामसुखं चोपस्पर्शसुखं महत् ।
ततः सुखतमं पुत्रदर्शनं तद् गृही भव ॥६१ ॥ पुत्रप्रयोजना कान्ता सर्वेभ्यः प्रेयसी हि सा ।
शतकान्ताप्रियः पुत्रो नास्ति पुत्रात् परः प्रियः ॥६२॥ सर्वेभ्यो जयमन्विच्छेत्पुत्राच्छिष्यात्पराभवम् ।
पुत्र आत्मा सुतो बन्धुर्न्यस्येत् तत्राऽऽत्मसद्धजम् ॥६३ ॥ श्रुत्वैतन्नारदः प्राह पितर्जानन्नपि स्वयम् ।
जलबुद्बुदतुल्येऽत्र प्रवर्तयसि मां कथम् ॥६४॥ विहाय हरिदास्यं मे मा भूत् नृजन्म निष्फलम् ।
कस्य पत्नी सुतः कस्य पतिः कस्याश्च बान्धवाः ॥६५॥ सर्वं कर्मकृतं जालं बन्धनं चेतनात्मकम् ।
यो वै मोचयति तस्मात् स पिता स गुरुः सखा ॥६६॥ बन्धनं तु ददात्येषु विनिर्बन्धनचेतनम् ।
मोक्षात्तु पातयन् तं स रिपुः संसारयोजकः ॥६७ ॥ किन्तु मुमुक्षुणा ग्राह्यं पितुर्वाक्यं चतुर्थकम् ।
नाङ्गीकृतं त्रिवारं ते तत्फलं प्राप्तमार्तिदम् ॥६८॥ प्रथमे मानसे पुत्रे तवाऽऽज्ञा नैव पालिता ।
तेन मृत्युर्मम जातो मारीचो ह्यभवँस्ततः ॥६९॥ पुनर्मृतेश्च गन्धर्वस्ततो मृत्योश्च शूद्रजः ।
ततो मृतेरयं ब्राह्मो भवाम्यत्र चतुर्थकः ॥1.203.७० ॥ तस्माद् योग्याऽप्ययोग्या वा तवाऽऽज्ञा शिरसि धृता ।
प्रसन्नो भव मे ब्रह्मन् येनाऽहं स्यां सदा सुखी ॥७ १॥ आदौ यास्यामि भगवन्नरनारायणाश्रमम् ।
नारायणकथां श्रुत्वा करिष्ये दारसङ्ग्रहम् ॥७२॥ यथाऽहं दारयोगेऽपि निर्बन्धः स्यां सदा पितः ।
तथाऽऽशिषः प्रदातव्या न निरुद्ध्येत मोक्षणम् ॥७३ ॥ देहि मे कृष्णमन्त्रं च सार्थं तद्गुणवर्णनम् ।
ब्रह्मा प्राह तदा पुत्रं सर्वज्ञानाऽऽकरं प्रियम् ॥७४॥ पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयात् कदाचन ।
गुरुर्महेश्वरस्तेऽस्ति प्राक्तनो गच्छतं प्रति ॥७५॥ श्रुत्वा प्रणम्य पितरं शिवलोकं ययौ मुनिः ।
द्वितीयमिव वैकुण्ठं सर्वस्मृद्धिसमन्वितम् ॥७६॥ कोट्यब्जाऽर्बुदलक्षैश्च गणैश्च पार्षदोत्तमैः ।
विकटैर्भैरवैः क्षेत्रैः कल्पवृक्षैश्च शोभितम् ॥७७॥ शिवं ददर्श मध्यस्थं गणानां दिव्यसंसदि ।
त्रिनेत्रं पञ्चवक्त्रं च गङ्गाढ्यं चन्द्रशेखरम् ॥७८॥ स्वर्णचञ्चज्जटाजूटं जपन्तं मालया हरिम् ।
नीलकण्ठं सर्पसूत्रं योगिसिद्धादिवन्दितम् ॥७९॥ प्रसन्नं शान्तिदं भक्तप्रियं परमवैष्णवम् ।
गत्वा नमाम तुष्टाव त्रितन्त्रीं क्वणयन् जगौ ॥1.203.८०॥ ददौ च शङ्करस्तस्मै चासनं योग्यमर्हणम् ।
पप्रच्छाऽऽगमसद्ध्येयं चातिथ्यं प्रचकार च ॥८ १ ॥ मुनिर्निवेदनं चक्रे मन्त्रार्थागमनादिकम् ।
श्रुत्वा शम्भुः प्रसन्नोऽभूत्प्राह नारदमोमिति ॥८२॥ हरिस्तोत्रं च कवचं मन्त्रं श्रीहरये नमः ।
ध्यानं ज्ञानं नारदाय ददौ सम्यङ्महेश्वरः ॥८३ ॥ नारदः प्राह देवेशं चाह्निकं मे वद् प्रभो ।
शम्भुर्ब्राह्मणधर्मांश्च कथयामास तं ततः ॥८४॥ सङ्क्षेपेण सदाचारान् इहाऽमुत्र सुखप्रदान् ।
शृणु लक्ष्मि च ते सर्वान् कथयामि सनातनान् ॥८५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणा नारदाय सृष्ट्यर्थमुपदिष्टम्, नारदेन ज्ञानद्वारा तदङ्गीकृतम् वैष्णवगुरुमन्त्रार्थं कैलासगमनं चेत्यादिनिरूपणनामा त्र्यधिकद्विशततमोऽध्यायः ॥२० ३॥