१९७

श्रीलक्ष्मीरुवाच-
आचार्यपूजनं व्यासपूजनं गुरुपूजनम् ।
ब्रूहि मे भगवन्देव नित्यपूजात्मकं तु यत् ॥१ ॥ श्रीनारायण उवाच-
पूजयेद्विधिवद्भक्त्याऽऽचार्यं व्यासं गुरुं तथा ।
पूजापात्रं सोपचारं नीत्वा गत्वा गुरोः पुरः ॥२ ॥ नमस्कुर्यात्प्रथमं वै शिरसा पादयोः स्पृशेत् ।
जलेन दक्षिणपादाङ्गुष्ठाभिषेचनं ततः ॥३ ॥ स्थाल्यां कुर्यात् ततस्तत्र सपुष्पकुङ्कुमाऽक्षताम् ।
अर्पयेच्चन्दनं चैव लेपयेत् तत्र बिन्दुना ॥४ ॥ पश्चात् तच्चन्दनं भाले लेपयेदूर्ध्वरेखया ।
चन्द्रकं कौङ्कुमं मध्ये साक्षतं कल्पयेच्छुभम् ॥५ ॥ मस्तके पट्टकं दद्यात् बहुमूल्यं समुज्ज्वलम् ।
स्वर्णतारावलिप्रोतं रङ्गाढ्यं दीर्घमुत्तमम् ॥६ ॥ गलपट्टं तथा दद्यादौर्णं सत्कञ्चुकं तथा ।
उत्तरीयं स्वर्णतारं धौत्रे द्वे च तथा विधे ॥७ ॥ कटिवस्त्रं स्नानवस्त्रं तथा प्रावरणं नवम् ।
दद्याच्च गेन्दुकं रम्यं मृदु वै गुप्तदोरकम् ॥८ ॥ मञ्चं दद्याच्च कशिपुं वस्त्रखण्डाँश्च नक्तकम् ।
पत्त्राणे कोमले दद्याद्यज्ञोपवीतमित्यपि ॥९ ॥ स्कन्धपट्टं तथा दद्यादासनं श्रेष्ठमित्यपि ।
पार्श्वके द्वे च कार्पासे दद्यात् तूलपटीं तथा ॥1.197.१० ॥ स्थालिकाद्वयमेवं च वाटिकाद्वयमित्यपि ।
आचमनीं होमपात्रं पूजापात्रं त्रिभाणकम् ॥११ ॥ वृत्तपात्रं तथा पानपात्रं च कलशं वरम् ।
ताम्बूलपात्रं सच्छत्रमुपानहौ सुकोमलौ ॥१२॥ पादुके यष्टिकां चैव कटिबन्धनमुत्तमम् ।
दद्याद्विविधधातूनां द्रव्याणां कारितानि वै ॥१३ ॥ कर्णयोः स्वर्णभूषाश्च कण्ठभूषास्तथा शुभाः ।
हस्तभूषाः कटिभूषाः पादभूषाश्च सर्वशः ॥१४॥ शृङ्खलाः कटकान् मालाश्चोर्मिकाः कण्ठिका वराः ।
रशनां पौरटीं दद्यात् सुगन्धिद्रव्यमुत्तमम् ॥१५॥ कस्तूरीं कर्पूरकं च स्नेहं विविधसौरभम् ।
श्राङ्गारिकं च शारीरं दद्याद्वै बहुभावतः ॥१६ ॥ यानं विमानं गन्त्रीं च वाहनं गां च दुग्धदाम् ।
दासान् दासींस्तथा द्रव्यं स्वर्णं रूप्यं विशेषतः ॥१ ७॥ दद्याच्च विविधं स्वन्नं धान्यं च द्विदलादिकम् ।
संस्कारवस्तु पात्रादि जीरकादि तथाम्लकम् ॥१८॥ ऐक्षवं नवनीतं च घृतं भोज्यं च नैकधा ।
दद्याच्छ्रीगुरवे साक्षान्नारायणाय योगिने ॥१९॥ ब्रह्मणे ज्ञानदात्रे च मन्त्रदात्रे कृपालवे ।
यद्यत्स्वस्य भवेत् हृद्यं तत्तच्छ्रीगुरवेऽर्पयेत् ॥1.197.२० ॥ एवं सर्वं विधायांऽकसमीपे च ततः पुनः ।
विविधानि फलान्येव शुष्काण्यार्द्राणि वा तथा ॥२ १॥ दद्याच्छ्रीगुरवे यो वै मोक्षं दानं ददाति च ।
ततश्चरणयोर्नत्वाऽबीरं गुलालमित्यपि ॥२२॥ दद्याछ्रीतुलसीपत्रं पुष्पाणि विविधानि च ।
दुग्धप्रक्षालनं कुर्याच्चरणयोः पवित्रयोः ॥२३॥ स्नपनं चापि दुग्धेन गुरोः कुर्याद्विधानतः ।
एवं पञ्चामृतैः स्नपयित्वा शुद्धोदकेन च ॥२४॥ मलनाशकद्रव्येण स्नपयित्वा पुनः पुनः ।
परिश्रमविनाशार्थं गुर्वङ्गानि प्रमर्दयेत् ॥२५॥ वस्त्रैः सम्मार्जयेद्देहं सुगन्धं त्वर्पयेत्ततः ।
वस्त्राण्याधारयेद्भूषाः शृङ्गाराणि च धारयेत् ॥२६॥ चन्दनाऽक्षतमालाभिः कज्जलैर्गन्धमूर्धकैः ।
स्वर्णहारैश्च मणिभिर्हीरकादिभिरादरात् ॥२७॥ पूजयेद्धूपदीपैश्च नैवेद्यैर्विविधैः शुभैः ।
मिष्टैर्हृद्यैः स्वादुतमैः पूजयेद्भोजयेत् सुखम् ॥२८॥ जलं सुगन्धं पानार्थं दद्यात्ताम्बूलमुत्तमम् ।
फलं दद्यात्तथा सौम्यं चारार्त्रिकं विधापयेत्॥२९॥ दण्डवत् सुस्तुतिं नमस्कारान् क्षमापनं ततः ।
प्रदक्षिणं प्राञ्जलिं च पुष्पाञ्जलिं समर्पयेत् ॥1.197.३० ॥ आशीर्वादान् गुरूक्तांश्च गृहीत्वाऽत्त्वा प्रसादकम् ।
आपृच्छ्य च गृहं गच्छेत् सह नीत्वा प्रसादिकम् ॥३ १ ॥ स्वसम्बन्धिजनेभ्यश्च दत्वा प्रसादमेव तम् ।
गुरुं ध्यात्वा सदा प्रातः पूजयेत् क्रमशस्तथा ॥३२॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म मोक्षदः पावको हि सः ॥३३॥ नास्ति गुरुसमं द्रव्यं नास्ति देवो गुरोः परः ।
नास्ति मोक्षो गुरोरन्यो नास्ति पुण्यं गुरोः परम् ॥३४॥ गुरोर्देहे परब्रह्म सर्वदा राजते हरिः ।
मूर्धनि चाऽक्षरं ब्रह्म वासुदेवो ललाटके ॥३५॥ नेत्रयोः सूर्यचन्द्रौ च नस्यश्विनीकुमारकः ।
मुखे नारायणो यज्ञो जिह्वायां वेदमण्डलम् ॥३६॥ सरस्वती गुरोर्वाण्यां हृदि विष्णुः स्वयं स्थितः ।
उदरे भगवान्वैश्वानरो वसति सर्वदा ॥३७॥ हस्ते पद्मं च कमला महालक्ष्मीस्तु मानसे ।
चरणे वसवः सन्ति तीर्थानि पावनानि च ॥३८॥ सर्वेन्द्रियेषु तत्त्वानि देवताः सन्ति रोमसु ।
गुरोर्मूर्तिः पुण्यमूर्तिर्मन्त्रमूर्तिर्महेश्वरी ॥३९॥ स्वर्गं सत्यं च वैकुण्ठं गुरोर्मूर्तौ व्यस्थितम् ।
ब्रह्मानन्दो गुरावस्ति शाश्वतो निरुपाधिकः ॥1.197.४० ॥ आनन्दो ब्रह्मणो विद्वान् गुरुरेव न चाऽपरः ।
गपदं किरणे ज्ञाने रपद्ं द्रव्यदानयोः ॥४१ ॥ ज्ञानदानाद्गुरुः प्रोक्तः प्रकाशद्रव्यवान् स्वयम् ।
गपदं मन्त्रविज्ञानं रपदं दापनं तथा ॥४२॥ मन्त्रदापनसामर्थ्याश्रयो गुरुर्हरिः स्वयम् ।
गुरवे भोजनं दत्तं राजसूयफलं क्रियात्॥४३॥ गुरवे वस्त्रदानादि ज्योतिष्टोमफलप्रदम् ।
गुरुपूजा हरेः पूजा गुरुर्योगफलं मतम् ॥४४॥ गुरुर्व्रतं गुरुर्यज्ञः समाधिर्गुरुरेव च ।
सम्प्रदायो गुरुः प्रोक्तः साक्षात्कारो गुरुर्मतः ॥४५॥ गुरोः प्रसन्नतायां स्युर्यमाश्च नियमाः शमः ।
साधनानि च सर्वाणि गुरौ तुष्टे कृतानि वै ॥४६॥ जन्मदौ पितरौ प्रोक्तौ गुरू नामकरो गुरुः ।
भाषायाः शिक्षिका माता कार्यादिशिक्षिका स्वसा ॥४७॥ यज्ञोपवीतदो विप्रः शास्त्राध्यापक एव च ।
मन्त्रदो ज्ञानदश्चैव मोक्षदो गुरुरुत्तमः ॥४८॥ अनाद्यज्ञानमग्नोऽयमात्मा भ्रमति योनिषु ।
तस्याऽज्ञानं विनाश्यैव ज्ञानदानेन नित्यदा ॥४९॥ वासनानां कर्मणां च कारयित्वा क्षयं ततः ।
हर्याराधनया भुक्तिमार्गं दर्शयति ध्रुवम् ॥1.197.५० ॥ मोक्षस्थितिं गमयति सोऽयं सर्वप्रदो गुरुः ।
दुःखहर्ता सुखदाता कोन्यस्तस्मात्परो गुरुः ॥५ १ ॥ गुरोः शक्तिर्ज्ञानरूपा शिष्यात्मनि प्रविश्य च ।
स्वाऽपरोक्षानुभूत्या च मोक्षं सम्प्रापयेद् गुरुः ॥५२॥ शक्तिज्ञानवन्ती दीक्षा शिष्यदेहं प्रविश्य च ।
मुक्ततां नयते दानात् क्षालनाच्च गुरोर्बलात् ॥५३॥ दीक्षाशिक्षानुसारेण शिष्योऽनुग्रहमर्हति ।
दीक्षाशिक्षावियोगे तु न विद्यासिद्धिमुक्तयः ॥५४॥ अतो दीक्षाख्यसंस्कारात् शिक्षाख्यज्ञानसङ्ग्रहात् ।
गुरुद्वारा सदा शिष्यः शुद्धतां प्राप्नुयात् क्रमात् ॥५५॥ शिष्यस्तु शिक्षणीयत्वाद् गुरोर्गौरवकारणात् ।
व्यवहाराच्च शिष्टानां गुरोर्गौरवमाचरेत् ॥५६॥ यो गुरुः स हरिः प्रोक्तो यो हरिः स गुरुः स्मृतः ।
गुरुर्हरिः स्वयं कृष्णो विद्याशिक्षात्मकः स्थितः ॥५७॥ यथा कृष्णस्तथा विद्या यथा विद्या तथा गुरुः ।
कृष्णविद्यागुरूणां च पूजया सदृशं फलम् ॥५८॥ सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः ।
शिष्यः सर्वप्रयत्नेन गुर्वाज्ञां शिरसा वहेत् ॥५९॥ श्रेयोर्थी यदि गुर्वाज्ञां मनसापि न लङ्घयेत् ।
गुर्वाज्ञापालकः शिष्यो ज्ञानसम्पत्तिमश्नुते ॥1.197.६ ० ॥ गच्छँस्तिष्ठन्स्वपन्भुञ्जन् गुरोर्वचनमाचरेत् ।
गुर्वाज्ञयाऽन्यकर्माणि कुर्यादात्मनिवेदिवत् ॥६ १ ॥ समक्षं कर्म कुर्वीत सर्वं चानुज्ञया गुरोः ।
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥६२॥ गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ।
यथेह वह्निसम्पर्कान्मलं त्यजति काञ्चनम् ॥६३॥ यथा वह्निसमीपस्थं घृतं प्रलीयते द्रुतम् ।
यथा प्रज्वलिते वह्नौ शुष्कं काष्ठं प्रदह्यति ॥६४॥ तथैव गुरुसम्पर्कान्मलं त्यजति मानवः ।
पापं विलीयते सर्वं वासना च प्रदह्यति ॥६५॥ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ।
तस्य क्रोधेन दह्यन्ति ह्यायुःश्रीज्ञानसत्क्रियाः ॥६६॥ तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ।
यमाः सनियमाश्चापि निष्फलाः सम्भवन्ति हि ॥६७॥ कदापि न गुरोर्मर्मभेदि विरुद्धमावदेत् ।
वदेद् यदि महागर्वाद् याति शिष्यो ह्यधोगतिम् ॥६८॥ मनसा कर्मणा वाचा न मिथ्याचारमाचरेत् ।
गुरोर्हितं प्रियं कुर्यादादिष्टो वा नवा सदा ॥६९॥ असमक्षं समक्षं वा गुरोः प्रियकरो भवेत् ।
स्वकार्यं परितस्त्यक्त्वा गुरोः कार्यं समाचरेत् ॥1.197.७० ॥ संवित्सञ्जनन तत्त्वं परमानन्दमिश्रितम् ।
येनात्र विदित लोके स एवात्र प्रमुक्तिदः ॥७ १॥ आश्रितं तारयेन्नौका किं शिला तारयेच्छिलाम् ।
ब्रह्महीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥७२॥ ब्रह्मतत्त्वसमेतोऽत्र मुक्तो मोचयति प्रजाः ।
यस्याऽनुभवसन्तुष्टा बुद्धिरानन्दकाष्ठिका ॥७३॥ तस्य दर्शनमात्रेण परानन्दोऽभिजायते ।
तस्य सेवनकार्येण नैष्कर्म्यं सिद्ध्यति ध्रुवम् ॥७४॥ तस्य शुश्रूशया सर्वं सिद्धं भवति देहिनः ।
स एवानन्दपूर्णस्तु सेवनीयो मुमुक्षुभिः ॥७५॥ यस्माद् विद्या चात्मवित्तिर्ब्रह्मलब्धिर्न मुक्तता ।
आनन्दोऽपि न चाप्येत न भाव्यः स गुरुस्थितौ ॥७६॥ गुरोर्भ्रातॄंस्तथा पुत्रान् बोधदान् भक्तिसङ्ग्रहान् ।
सेवेत भावतो नित्यं गुरुमाराधयेत्सदा ॥७७॥ सर्वाऽभयप्रदातारं करुणाऽऽक्रान्तमानसम् ।
तोषयेद् बहुधा भक्त्या सर्वस्वाऽर्पणपूजया ॥७८॥ तावदाराधयेच्छिष्यः प्रसन्नोऽसौ भवेद्यथा ।
गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥७९॥ तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ।
भूषणानि च वासांसि यानशय्यासनानि च ॥1.197.८ ० ॥ एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छ्रेयमात्मनः ॥८१ ॥ स एव जनको माता भर्ता बन्धुर्धनं सुखम् ।
सखा मित्रं च यत् तस्मात्सर्वं तस्मै निवेदयेत् ॥८२॥ आक्रूष्टास्ताडिता वापि ये विषादं न यान्त्यपि।
अहिंसका दयावन्तो मोक्षोद्यतसुचेतसः ॥८३॥ अमानिनो बुद्धिमन्तस्त्यक्तस्पर्धाः प्रियंवदाः ।
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥८४॥ एतादृशा नित्यसत्त्वमया नारीनराः शुभाः ।
श्रयेयुः सद्गुरुं शिष्याः कन्यकाश्च कुमारकाः ॥८५॥ शिष्याः परिश्रिताः सेवां गुरोः कुर्वन्ति नैव ये ।
अस्वातन्त्र्यकृतो दोषो नास्ति तेषां परार्थतः ॥८६॥ बहुनाऽत्र किमुक्तेन योपि कोपि गुरुश्रितः ।
ब्रह्ममार्गगतो भावी मुक्तिभाङ्नात्र संशयः ॥८७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सप्तनवत्यधिकशततमोऽध्यायः ॥१९७॥