१९६

श्रीलक्ष्मीरुवाच-
ब्रह्मविष्ण्वोरन्तराले ब्रह्मणः किरणं च यत्॥ समुत्पन्नस्ततः शर्वः सोऽभवद्वै सदाशिवः ॥१ ॥ किरणं तद्ब्रह्मलिङ्गं श्रुतं तव मुखान्मया ।
निराकारं हि तद्ब्रह्म बाणरूपं निरूप्यते ॥२ ॥ तदेव शिवलिङ्गं वा चान्यद्वा लोकपूजितम् ।
इति मे संशयं छिन्धि यथावृत्तान्तबोधनात् ॥३ ॥ श्रीनारायण उवाच-
शृणु लक्ष्मि कथां दिव्यां साश्चर्यां पापनाशिनम् ।
दैवीं देवचमत्कारमयीं नाऽन्यस्य भाविनीम् ॥४ ॥ यतस्तपःप्रकर्तारो भवन्ति संयमैर्युताः ।
सस्त्रीका अपि मुनयो ब्रह्मध्यानपरायणाः ॥५ ॥ तथापि कामभावेन क्वचिद्बन्धजवेगतः ।
व्यवहारं समाश्रित्य ब्रह्मत्वमनवाप्य च ॥६ ॥ अज्ञत्वेन च देवानामनभिज्ञा भवन्ति ते ।
पुरा दारुवने ह्यासन् ऋषयः संशितव्रताः ॥७ ॥ न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः ।
यद्यपि मुनयः सर्वे काष्ठलोष्ठासमदृशः ॥८ ॥ वेदं त्वधीयमानाश्च कृताग्निसदनक्रियाः ।
वर्तन्ते स्म च शारीरभावेन गृहमेधिनः ॥९ ॥ पार्वत्यास्तपसः काले शिवोऽपि चाऽद्वितीयकः ।
सर्वस्वपरित्यागेनाऽवर्तत तापसो यथा ॥1.196.१० ॥ न चर्म न च कौपीनं नान्यत् किमपि साधनम् ।
रक्षति स्माऽऽवरणार्थं दिगम्बरो ह्यटत्यपि ॥११ ॥ पुष्पमालां दधन् कण्ठे युवा सर्वाङ्गसुन्दरः ।
वने वने ऋष्याश्रमे प्राऽटत् भिक्षाकपालभृत् ॥१२॥ देहि भिक्षां ततश्चोक्त्वा सम्भ्रमन्नाश्रमान् ययौ ।
द्विजर्षभाश्च दिवसे समिधार्थं वनं गताः ॥१३ ॥ आसन्नाश्रमवर्येषु ऋषिपत्न्यश्च केवलाः ।
तं विलोक्याऽऽश्रमगतं योषितो ब्रह्मवादिनाम् ॥१४॥ विह्वला विस्मिता जाताः काश्चिद्भयमुपागताः ।
काश्चिच्च मोहितास्तत्राऽऽजग्मुर्दर्शनलालसाः ॥१५ ॥ प्रोचुः परस्परं नार्यः पश्याम एहि भिक्षुकम् ।
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते ॥१६ ॥ परस्परमिति प्रोक्त्वाऽऽदाय मूलफलादिकम् ।
आलिलिङ्गुस्तथा चान्या करं धृत्वा तथाऽपराः ॥१७ ॥ परस्परं तु संस्पर्शात्सम्मग्ना ऋषिपत्निकाः ।
गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ॥१८॥ सोपि भिक्षाकपालं च प्रसार्य योषितः प्रति ।
देहि भिक्षां शिवं तेऽस्तु धनपुत्रवती भव ॥१९ ॥ भिक्षां दत्वा तु ता नार्यो जहसुश्चञ्चला बहु ।
पप्रच्छुश्च त्वया कोऽयं नग्नव्रतविधिर्धृतः ॥1.196.२ ०॥ भवान् वै तापसो हृद्यो ब्रूहि स्म यदि मन्यसे ।
शङ्करस्तु हसन् प्राह रहस्यं व्रतमस्ति मे ॥२१ ॥ प्रकाशने फलं न स्यादिति मत्वा न पृच्छत ।
इत्युक्तास्ता ब्रह्मपत्न्यः प्रत्यूचुरेहि नो गृहम् ॥२२॥ इत्युच्चार्य तदा तं वै जगृहुः पाणिपल्लवैः ।
काश्चित् कण्ठे काश्चित्पृष्ठे काश्चिदुदरमण्डले ॥२३ ॥ काश्चिजान्वोश्च कट्यां च जटासु पार्श्वयोस्तथा ।
काश्चित्तु पादयोः काश्चिन्नासिकायां च कर्णयोः ॥२४॥ एवं समन्ततो भिक्षुकेश्वरं परिवार्य ताः ।
रञ्जयामासुराकृष्य स्वां स्वां प्रति द्विजाङ्गनाः ॥२५॥ एतस्मिन्नन्तरे विप्रा आदाय समिधो ययुः ।
स्वगृहाणि च तत्रैतत्कौतुकं तैर्विलोकितम् ॥२६ ॥ विरुद्धं तच्च ते दृष्ट्वा सरोषा ह्यभवन् क्षणात् ।
कोऽयं कीदृक् प्रमत्तोऽयं योषितां क्षोभकारकः ॥२७॥ कोऽसि कस्मादागतोऽसि वस्त्रं न ध्रियते कथम् ।
पृष्ठोऽपि नाऽवदत् किञ्चित् सोऽवधूतो दिगम्बरः ॥२८ ॥ प्रत्युत तदनाश्रुत्य लिङ्गे चाञ्चल्यमावहन् ।
प्रमत्तयोगिवत्तत्राऽदर्शयत् कामनाबलम् ॥२९ ॥ क्षोभं विलोक्य भूदेवा ज्ञात्वा प्रमत्तमेव तम् ।
दृष्ट्वा विकारवल्लिङ्गं जघ्नुर्दर्भशलाकया ॥1.196.३० ॥ ताडयामासुरत्यर्थं काष्ठपाषाणपत्तलैः ।
समन्त्रया तया दर्भशलाकया तु मूलतः ॥३१ ॥ लिङ्गं भुवि प्रपतितं विहाय वृषणौ हतम् ।
शलाकया हतस्याऽस्य खण्डाश्च द्वादशाऽभवन् ॥३२॥ पातिते तु ततो लिङ्गे गतोऽन्तर्धानमीश्वरः ।
तदा शोकोऽभवत्तेषामृषीणां भावितात्मनाम् ॥३३ ॥ वर्तन्ते व्याकुलाः सर्वे विद्मो वयं न शङ्करम् ।
कोऽयं योगी कथमायात् किमर्थं तापसः स्वयम् ॥३४॥ ब्रुवन्त एवं ते सर्वेऽमन्यन्त पापकं कृतम् ।
लिङ्गखण्डास्तदा सर्वे समुत्पतन्ति चाम्बरे ॥३५॥ यत्र यत्र च यः खण्डो याति तत्राग्निवत् तदा ।
ददाह पुरतः प्राप्तं पुनरुत्प्लुत्य गच्छति ॥३६ ॥ यत्र यत्र च यो याति तत्र दहति सर्वथा ।
पाताले च गताः खण्डाः स्वर्गे चापि तथागताः ॥३७॥ भूमौ सर्वत्र ते याता उड्डयन्ते पतन्ति च ।
दाहयन्त्यखिलं विश्वं स्थिरा नैवाऽभवन् क्वचित ॥३८ ॥ लोकाश्च व्याकुला जाताः ऋषयस्तेऽतिदुःखिताः ।
न शर्म लेभिरे केऽपि सुराऽसुरर्षिमानवाः ॥३९ ॥ शान्त्युपायविहीनास्ते ब्रह्माणं शरणं ययुः ।
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं तदा ॥1.196.४० ॥ प्रलये तु निमित्तास्ते लज्जयाऽधोमुखाः स्थिताः ।
तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे ॥४१ ॥ ज्ञात्वा तच्छाङ्करं कृत्यं ब्रह्मा वचनमब्रवीत् ।
अहो विप्राः सदा क्रुद्धा जानन्त्येव न तात्त्विकम् ॥४२॥ न धर्मं च क्रियां काञ्चिज्जानन्ति मूढबुद्धयः ।
ब्रह्मतत्त्वं विजानन्ति ब्राह्मणास्ते प्रकीर्तिताः ॥४३ ॥ ब्रह्मणि नैव कामोऽस्ति विकृतिर्न कुतश्च रुट् ।
देहधर्मा न वै देहाऽध्यक्षे सन्ति यथार्थतः ॥४४॥ आत्मधर्मा न वै देहे इति जानन्ति भूसुराः ।
ह्येतज्ज्ञानविहीना ये देहाहम्ममतान्विताः ॥४५॥ क्रुध्यन्ति देहमाश्रित्य घातयन्ति पराँस्ततः ।
द्रुह्यन्त्यपि च पारक्यस्वीयभेदसमाश्रिताः ॥४६॥ ततः कर्मवशास्ते वै भुञ्जते स्वर्गनारकान् ।
तन्मनः शोधयेद्धीमान् ज्ञानयोगात्मभावनैः ॥४७॥ तस्मिन् शुद्धे ह्यन्तरात्मा स्वयमेवाऽविकारवान् ।
न क्लिश्यति वपुःक्लेशैर्वपुर्धर्मैः शुभाऽशुभैः ॥४८॥ तथा सति च नाऽऽवेशः कामक्रोधादिमूलकः ।
तद्भावे च नाऽनर्थः समुत्पद्येत चेदृशः ॥४९॥ भवन्तः क्रोधकामाभ्यामभिभूताऽऽश्रमे स्थिताः ।
ज्ञानिनामाश्रमे क्रोधकामाभिभवनं वृथा ॥1.196.५० ॥ वस्तुतो नास्ति नारीणां देहो नारीति नामभाक् ।
नापि नरस्य देहोऽपि नर इत्यपि नामभाक् ॥५१॥ उभयोस्तु सदा शारीराऽऽत्मास्ति नरशब्दभाक् ।
नृभोग्यशरीरं यत् तन्नारीति सम्प्रकीर्त्यते ॥५२॥ श्मश्रुलोऽश्मश्रुलको वा देहो नारीति वोच्यते ।
देहस्यैवोपभोगोऽस्ति नान्यदेहस्य कस्यचित् ॥५३॥ परदेहसुखदुःखे न भुज्येते परात्मना ।
स्वीयदेहसुखदुःखे भुज्येते हि निजात्मना ॥५४॥ तस्मात् केयं कस्य नारी कोऽयं कस्या नरस्तथा ।
क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः ॥५५॥ क्व क्रोध ईदृशो घोरो येनात्मानं न जानथ ।
सक्रोधो यजते यच्च ददाति च जपत्यपि ॥५६॥ जुहोत्यपि न वै तस्य फलमाप्नोति मोघकृत् ।
ज्ञातारच्च भवन्तो वै कुर्वते गर्हितं द्विजाः ॥५७॥ अज्ञातारस्तर्हि कुर्युः किं तत्राश्चर्यमूह्यते ।
शिवं विरुद्ध्य कुशलं कस्य जातं च वा भवेत् ॥५८॥ मध्याह्नसमये प्राप्तमतिथिं न परामृशेत् ।
तस्यैव सुकृतं नीत्वा दत्वा स्वीयं च दुष्कृतम् ॥५९॥ निर्यात्यतिस्थितद्वासात् किं पुनर्यत्र शङ्करः ।
यावल्लिङ्गं स्थिरं न स्यान्न वै स्याज्जगतां शुभम् ॥1.196.६० ॥ भवद्भिस्तु तथा कार्यं यथा स्वास्थ्यं भवेदिह ।
श्रुत्वैतत् ऋषयः प्राहुर्ब्रह्मन् तत्त्वं समादिश ॥६१ ॥ ब्रह्मोवाच समाराध्य हरं सुखमवाप्नुमः ।
गच्छामः शरणं देवं कैलास तु शिवालयम् ॥६२॥ जग्मुश्च संहतास्तत्र ददृशुः शङ्करं स्थितम् ।
अलिङ्गं च ततः स्तोतुं समारब्धाः सुरास्तदा ॥६३ ॥ अलिङ्गाय महाज्वालानलरूपाय ते नमः ।
दिगम्बरायाऽविकृतये पराऽऽकृतये नमः ॥६४॥ दिव्यलीलाप्रर्कत्रे ते क्षमाशीलाय ते नमः ।
नमः शान्तस्वरूपाय घोरलिङ्गाय ते नमः ॥६५॥ नोऽपराधान् क्षमस्वाऽत्र महादेव नमोऽस्तु ते ।
स्वलिङ्गं पतितं देव प्रभो समुपसंहर ॥६६॥ त्रैलोक्यं दहति वह्निमयं द्वादशरूपभाक् ।
कृपां कुरु महादेव तव लीलामयं जगत् ॥६७॥ एवं स्तुतः प्रसन्नश्च प्राहर्षीन् शङ्करस्तदा ।
यस्य द्रोहः कृतस्तस्य पूजनं कुरुत द्विजाः ॥६८ ॥ तदा भविष्यति शान्तिर्लिगं स्थाने लगिष्यति ।
सलिङ्गोऽहं तथा स्यां वै येन मे प्रीतिरुत्तमा ॥६९॥ यथाऽभिलषितं सौख्यं ततः प्राप्स्यथ भूसुराः ।
देवा ऋषयो मुनयो ब्राह्मणा ह्यसुरास्तथा ॥1.196.७० ॥ मिलित्वा मम लिङ्गस्य पूजां कुर्वन्तु षोडशैः ।
उपचारैस्ततः शान्ता भविष्यन्त्येव द्वादश ॥७१ ॥ शकला मम लिङ्गस्य नान्यथा तु कदाचन ।
कुरुक्षेत्रे तथाऽन्यत्र यत्र यत्र पतन्ति ते ॥७२॥ तत्र तत्र योनिपीठे स्थापयन्तु द्विजा नु तान्॥ प्रथमं कुरुक्षेत्रे च यूयं गच्छन्तु संहताः ॥७३ ॥ तत्र सरसि संस्नात्वा कुरुतैकस्य पूजनम् ।
तस्य शान्तौ भविष्यन्ति तदन्ये शान्तवह्नयः ॥७४॥ लिङ्गखण्डा यत्र यत्र पतितास्तत्र पूजनम् ।
प्रकुर्वन्तु महाभागा गच्छन्तु मा चिरं यतः ॥७५॥ आराध्य प्राग्भवीयां मे पत्नीं सतीं स्थिरायनाम् ।
योनिरूपां प्रसङ्कृत्वा स्थापयन्तु च तत्र तत् ॥७६॥ कुभमेकं च संस्थाप्य कृत्वाऽष्टदलमुत्तमम् ।
दुर्वायवांऽकुरैस्तीर्थोदकैरापूरयन्तु तम् ॥७७॥ वेदमन्त्रैस्ततस्तं च कुम्भं प्रमन्त्रयन्तु च ।
पूजयित्वा कलशं तं तज्जलेनाऽभिषेचनम् ॥७८ ॥ शतरुद्रीयमन्त्रैश्च प्रोक्षणं शान्तिमित्यपि ।
कुर्वन्तु योनिरूपायां बाणं शान्तिं गमिष्यति ॥७९॥ संस्थाप्यैवं लिङ्गखण्डं लिङ्गाऽग्रे चाऽऽह्वयन्तु माम् ।
सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ॥1.196.८० ॥ नैवेद्यादिकपूजाभिस्तोषयन्तु परेश्वरम् ।
प्रणामैः संस्तवैर्नृत्यैर्गीतैश्चापि प्रदक्षिणैः ॥८ १ ॥ ततः स्वस्त्ययनं कृत्वा जयेति व्याहरन्तु च ।
सर्वशान्तिं कुरु देव प्रसन्नो भव सर्वथा ॥८ २ ॥ शान्तो भव महादेव रक्षां कुरु च नः सदा ।
एवं कुर्वन्तु भो विप्रा गच्छन्तु मा चिरं यतः ॥८ ३ ॥ इत्युक्तास्ते द्विजदेवादयो नत्वा महेश्वरम् ।
प्राप्ताः प्रसन्नमनसः कुरुक्षेत्रे सरस्तटम् ॥८४॥ तत्र त्वाराधिता देवी सती संस्मृत्य भूसुरैः ।
द्रागेव सा शङ्करार्थं दिव्या ह्युपस्थिता ह्यभूत् ॥८५ ॥ ब्राह्मणैर्वन्दिता योनिरूपा दिव्याऽभवत्तदा ।
तत्र तु ब्राह्मणैर्मन्त्रैर्लिङ्गाग्रं स्थापितं तथा ॥८६॥ सर्वं रक्तादि सङ्क्षाल्य मर्दनाद्यैः समीकृतम् ।
षोडशोपचारकैस्तद् वेदमन्त्रैः सुरादिभिः ॥८७॥ लिङ्गाग्रं पूजितं तत्र भक्त्या यथोपवस्तुभिः ।
सुप्रसन्नो महादेवो ह्याविरास च मूर्तिमान् ॥८८ ॥ स्वर्णवर्णोऽतितेजस्वी किरणैः परिवेष्टितः ।
प्रसन्नवदनः शान्तः सर्वानाह ततो हरः ॥८९ ॥ शान्तं च ब्राह्मणा युष्मत्कृतं द्रोहाख्यकर्म तत् ।
शान्ताश्च सकला यत्र यत्र सन्ति च ते तथा ॥1.196.९० ॥ इदं तु पूजितं सत्या योन्यां संस्थाप्य यन्मम ।
लिङ्गाग्रं तत् हाटकेशसञ्ज्ञं ख्यातिं गमिष्यति ॥९१ ॥ वसतु तच्च पाताले हाटकेश्वरसञ्ज्ञया ।
अत्र च सृष्टिकृद् ब्रह्मा लिङ्गं शैलमयं तदा ॥९२॥ आद्यं लिङ्गं समास्थाप्य स्वयं पूजितवाँस्ततः ।
तस्य स्थाण्वीश्वरनाम्ना ब्रह्मणा ख्यातिरास्थिता ॥९३ ॥ ततः कालान्तरे तद्वै ख्यातिं नागेश्वराभिधाम् ।
दारुकावनमाश्रित्य समेष्यतीति जानथ ॥९४॥ अथ देवा यत्र खण्डाः पतिता ह्यभवँस्तदा ।
तत्र गत्वा पुपूजुस्तान् योनिपीठान् विधाय च ॥९५॥ तत्र तत्र च ते खण्डाः पूजां सङ्गृह्य भक्तितः ।
स्वयमहृश्यतां याता योजिताश्च यथाक्रमम् ॥९६॥ लिङ्गाग्रं चापि पातालात्समुत्थाय समागतम् ।
तच्चापि च यथास्थानं संयोगं लब्धवत्तदा ॥९७॥ एवं सम्पूर्णतां यातं लिङ्गं सचेतनं ततः ।
शिवस्य वृषणौ प्राप्य यथास्थानमवस्थितम् ॥९८ ॥ संयोजितं यथावत्तत् शिवेनाऽद्भुतकर्मणा ।
ब्रह्मा वा शङ्करो वाऽथ विष्णुर्वा शक्नुयात्तथा ॥९९॥ नाऽन्यस्यैतद्धि सामर्थ्यं मारणे योजने गतौ ।
पूजनार्थं तु सर्वेषां चमत्कारः कृतो ह्ययम् ॥1.196.१०० ॥ चैत्रस्य कृष्णपक्षे वै लिङ्गपातोऽभवत्तदा ।
तत्र दिनेऽर्हणीयानि लिङ्गानि दश च द्वयम् ॥१० १॥ चैत्रे मासे त्रयोदश्यां दिव्यनक्षत्रयोगतः ।
शुक्राऽर्कचन्द्रसंयोगे दिने पुण्यतमे शुभे ॥१० २॥ प्रतिष्ठितं स्थाणुलिङ्गं ब्रह्मणा लोकधारिणा ।
ऋषिभिर्देवसङ्घैश्च पूजितं शाश्वतीः समाः ॥१०३ ॥ एवं द्वादशलिङ्गानि ज्योतिर्लिङ्गानि तानि वै ।
शङ्करस्य महाज्योतिर्मयलिङ्गानि सन्ति हि ॥१ ०४॥ सचेतनस्वरूपाणां खण्डानां यत्र संस्थितिः ।
पूजनं च प्रतिष्ठानं कृतं स एव शङ्करः ॥१ ०५॥ साक्षादस्तीति तान्येव मूर्तिमान् शङ्करः स्वयम् ।
विराजते महद्ब्रह्म ज्योतीरूपः स सर्वदा ॥१०६॥ ज्योतिर्लिङ्गानि तान्येव कथयामि शृणु प्रिये ।
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ॥१०७ ॥ उज्जयिन्यां महाकालमोङ्कारे चाऽमरेश्वरम् ।
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् ॥१ ०८॥ वाराणस्यां च विश्वेशं त्र्यम्बकं गोमतीतटे ।
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ॥१० ९॥ सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ।
ग्राह्यमेषां तु नैवेद्यं भोजनीयं प्रयत्नतः ॥1.196.११ ०॥ ततस्तत्तत्स्थले ह्रासे स्थापितानि पुनः पुनः ।
भक्तैर्लिङ्गानि तान्यत्र कथयामि शृणु प्रिये ॥१११ ॥ सौराष्ट्रे सोमनाथस्तु चन्द्रदुःखक्षयङ्करः ।
चन्द्रसंस्थापितो देवः प्रत्यक्षो लीनतां गतः ॥११२॥ क्षयकुष्ठादिरोगाणां नाशकः पूजनात् प्रिये ।
शिवावतारः सोमेशो लिङ्गरूपेण संस्थितः ॥११३ ॥ मल्लिकार्जुनसञ्ज्ञश्चावतारः शङ्करस्य वै ।
द्वितीयः श्रीगिरौ प्रोक्तो लिङ्गरूपेण संस्थितः ॥१ १४॥ गणेशस्य विवाहेन कार्तिकेयस्तु रोषतः ।
व्रह्मचारिव्रतप्रतिज्ञां कृत्वा संययौ यदा ॥१ १५॥ तत्र पुत्रवियोगेन सशोकः शङ्करो ययौ ।
संस्थितो लिङ्गरूपेण द्वितीयः स हरः स्वयम् ॥११६ ॥ उज्जयिन्यां नगर्यां तु महाकालाभिधाहरः ।
वेदविप्रस्य रक्षार्थं मूर्तिमान् शङ्करो ययौ ॥१ १७॥ वेदधर्मविलोप्तारं दूषणाऽऽख्यासुरं तदा ।
हुङ्कारेणैव तूर्णं वै भस्मसात् कृतवान् हरः ॥१ १८॥ महाकालाभिधः सोऽयं लिङ्गरूपेण संस्थितः ।
देवैः सम्प्रार्थितः शम्भुर्ज्योतिर्लिङ्गस्वरूपवान ॥१ १९ ॥ अथ विन्ध्याचलध्यातो मूर्तिमान् शङ्करः स्वयम् ।
ब्रह्मणा स्थापितस्तत्र ज्योतिर्लिङ्गचतुर्थकम् ॥1.196.१ २ ० ॥ ओङ्कारेश्वरमित्याख्यं शम्भुस्तत्र व्यवस्थितः ।
केदारे पर्वते साक्षात्स्वयं हिमगिरौ हरः ॥१२१ ॥ केदारेश्वर इत्याख्यो नरनारायणेच्छया ।
तिष्ठति पञ्चमो दिव्यो मूर्तिमान् बाणरूपतः ॥१२२ ॥ अथ षष्ठः शिवज्योतिर्लिङ्गावतार उत्तमः ।
सुदक्षिणाख्यं राजानं कामरूपाधिपं हरः ॥१२३ ॥ संररक्षाऽसुरं भीमं हत्वा भीमेश्वरो हि सः ।
ज्योतिर्लिङ्गस्वरूपेण डाकिन्यां संस्थितः स्वयम् ॥१२४ ॥ मन्दराद्रेः समागत्य स्वयं काश्यां तु यः स्थितः ।
ज्योतिःस्वरूपः काशीविश्वेश्वरः स तु सप्तमः ॥१२५ ॥ अथ गौतमसंस्तुत्या प्राविर्भूतो हरः स्वयम् ।
गोदावर्यास्तटे त्र्यम्बकेश्वराख्यस्तथाऽष्टमः ॥१२६ ॥ अथ रावणसंस्तुत्या चिताभूमौ हरः स्वयम् ।
आविर्भूतो वैद्यनायेश्वरो ज्योतिर्व्यवस्थितः ॥१२७ ॥ दशमो दारुकसञ्ज्ञं राक्षसं हतवान् हरः ।
ररक्ष भक्तं वैश्यं सः सुप्रियाख्यं ततः स्वयम् ॥१२८ ॥ सन्तस्थौ साम्बिकः शम्भुर्ज्योतिर्लिङ्गस्वरूपधृक् ।
अथैकादशसङ्ख्याको रामादित्यप्रतिष्ठितः ॥१२९ ॥ रामेश्वरस्वरूपः स ज्योतिर्लिङ्गात्मकः स्वयम् ।
शम्भुर्विराजते भक्तेभ्यो विजयवरप्रदः ॥1.196.१३० ॥ भक्तेन घुष्मना संराधितो हरः स्वयं ययौ ।
घुष्मापुत्रस्य रक्षार्थं सुदेह्येन हतस्य वै ॥१३१ ॥ ततो घूष्मेश्वरज्योतिर्लिङ्गरूपो विराजते ।
इति ते कथिता लक्ष्मि हरद्वादशमूर्तयः ॥१३२॥ तान् दृष्ट्वा च समभ्यर्च्य ध्यात्वा श्रुत्वाऽपि मानवः ।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति ॥१३३ ॥ एवं निमित्तमालम्ब्य ज्योतिर्लिङ्गानि चाऽभवन् ।
अथ कालान्तरे स्थानह्रासाच्च युगभेदतः ॥१ ३४॥ अन्येऽन्ये स्थापयिष्यन्ति प्रजीर्णोद्धारकर्मभिः ।
युगान्तरप्रभेदेन किमन्यच्छ्रोतुमिच्छसि ॥१ ३५॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दारुवने भिक्षार्थं गतस्य नग्नस्य शङ्करस्य दर्भशलाकया लिङ्गपतनं द्वादशखण्डाश्च ज्योतिर्लिङ्गानीतिनिरूपणनामा षण्णवत्यधिकशततमोऽध्यायः ॥१९६ ॥