१९४

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो दुर्गां शैलाऽन्तःपुरचारिकाः ।
बहिर्जग्मुः पूजयितुमादाय कुलदेवताम् ॥१ ॥ शम्भोर्निवाससौधस्य राजमार्गेण पार्वती ।
विनिर्जगाम सा पद्भ्यां चारिणी स्पष्टदर्शना ॥२ ॥ तत्र तां ददृशुर्देवा निमेषरहितास्तदा ।
कान्तिश्चान्द्री शारदीव प्रोज्ज्वला स्वर्णभूषणा ॥३ ॥ ताम्ररक्ता सुवर्णाभा स्थलपद्मस्वरूपणी ।
कमलकुसुममृद्वी तेजःपरिधिमण्डिता ॥४ ॥ कोटिकोटिरतिगर्वशोभालावण्यसम्भृता ।
दृश्यते च चतुर्दशाऽवरवर्षा हि कन्यका ॥५ ॥ ब्रह्मतेजःसुसंराजत्प्रत्येकाङ्गोत्तमोत्तमा ।
रमालक्ष्मीमहालक्ष्मीन्द्राणीतेजोऽधिकप्रभा ॥६ ॥ दृश्यते सर्वनारीणां देवीनामुत्तमश्रिया ।
ईषद्धास्यप्रसन्नास्या सकटाक्षा मनोहरा ॥७ ॥ सुचारुकबरीभारा भालपत्रकसत्प्रभा ।
सिन्दूरकुङ्कुमकस्तूरिकाबिन्दुसुमण्डिता ॥८ ॥ मणिसद्रत्नहीरकस्फटिकस्वर्णमालिका ।
रत्नकेयूरवलयवङ्गिडीकङ्कणान्विता ॥९ ॥ सद्रत्नकुण्डलफुल्लकर्णपूरकटान्विता ।
सुचन्द्रटपकीराजच्चारुगण्डस्थलोज्ज्वला ॥1.194.१० ॥ स्वल्पमणिकलिकावद्दन्तराजिविराजिता ।
मधुबिम्बाधरौष्ठा सद्रत्नयावकसंयुता ॥११ ॥ काश्मीररससक्तालक्तकाढ्यकरपत्तला ।
रत्नदर्पणहस्ता चोर्मिकाधृगङ्गुलीवरा ॥१२ ॥ रशनामित्रताप्राप्तश्रोणीदेशातिचञ्चला ।
चन्दनाऽगुरुकस्तूरीकुङ्कुमाऽऽवासचर्चिता ॥१३ ॥ क्वणत्किङ्किणिकाराजज्झाञ्झराढ्यप्रकोष्ठका ।
स्वर्णमञ्जिरसंशोभज्जङ्घाऽधोगुल्फकण्डिका ॥१ ४॥ स्वर्णमालान्विता रङ्गक्रीडापद्मविभूषिता ।
सर्वसमाजनेत्राब्जविषया गतिमन्थरा ॥१५ ॥ विकसत्स्वल्पस्तनयुगीषत्प्रोद्भिन्नयौवना ।
स्वर्णतारावलिराजद्वस्त्रलज्जावगुण्ठिता ॥१६ ॥ शुशुभे स्वसखीकन्याप्रमदावर्गमध्यगा ।
ध्यानेऽधोमुखदृष्ट्याढ्या हृदि चोर्ध्वं हराभिगा ॥१७॥ चरणाभ्यां तु मार्गस्था मनोहृद्भ्यां हरान्तिका ।
स्थूलदेहेन भूमिस्था सूक्ष्मदेहेन शम्भुगा ॥१८ ॥ यदा शम्भोर्वाससौधपार्श्वमार्गत आगता ।
शुशुभे सुन्दरी रम्या सर्वदृष्ट्यैकपात्रिका ॥१९॥ सुराः प्रणेमुः शिरसा यान्तीं देवीं सुमेनकाम् ।
त्रिनेत्रो नेत्रकोणेन दृष्ट्वा विरहवेदनाम् ॥1.194.२० ॥ जहौ सर्वं विसस्मार हर्षाद् गौरीगलोचनः ।
अथ काली बहिः पुर्या गत्वा प्रार्च्य कुलाम्बिकाम् ॥२१ ॥ प्रपूज्याऽऽवृत्य जनकाऽऽलयं विवेश साङ्गना ।
ततः शैलवरः पुण्या प्रीत्या यज्ञोपवीतकम् ॥२२॥ कारयामास सोत्साहं वेदमन्त्रैः शिवस्य च ।
अथ देवाः समुनयः प्रविश्याऽन्तर्गृहं गिरेः ॥२३॥ श्रुत्याचार भवाचारं विधाय च यथार्थतः ।
ददुर्वस्त्रविभूषाश्च शिवाधारणहेतवे ॥२४॥ प्रथमं स्नपयित्वा तां भूषयित्वाऽथ कन्यकाः ।
नीराजयित्वा शृङ्गारं कारयामासुरुत्तमम् ॥२५॥ दिव्यस्वर्णमयी मृद्वी घर्घरी सन्धृता तथा ।
स्वर्णरत्नान्विता दिव्या कञ्चुकी शाटिका शुभा ॥२६ ॥ विधृता च तथा देवी शोभते सूर्यसूज्ज्वला ।
सन्धृतः सुभगो हारो दिव्यरत्नसमन्वितः ॥२७॥ वलयानि महार्हाणि पौरटानि धृतानि च ।
अन्यान्यानखकेशान्तं भूषणानि धृतानि च ॥२८ ॥ यथापेक्षं यथायोग्यं वस्त्रभूषणसद्द्रवैः ।
एवं शिवामलञ्चक्रुः शिवप्रेषितभूषणैः ॥२९॥ दानं बभूव विविधं साधुविप्रेभ्य आदरात् ।
गीतवाद्यविनोदाश्च बभूवुश्चोत्सवोत्तमाः ॥1.194.३० ॥ अथ गर्गः सुदैवज्ञो हिमवन्तमभाषत ।
शम्भुं पाणिग्रहार्थं त्वमानय स्वीयमण्डपम् ॥३१ ॥ शैलस्तदा महाशैलान् पत्नीव्रतमुखान् द्विजान् ।
प्रेषयामास सुप्रीत्या शिवस्याऽऽनयनाय च ॥३ २॥ सवादित्रमहाघोषैः रम्यमङ्गलपाणिभिः ।
शैलैर्विप्रैश्च सहितान् ब्रह्मघोषकरान् द्विजान् ॥३ ३ ॥ दृष्ट्वा समागतान् सर्वे शम्भुपक्षीयसेवकाः ।
सज्जाश्चाऽऽसन् शिवश्चापि सस्नौ सुगन्धवारिणा ॥३४॥ तावदागत्य शैलस्य मन्त्रिणः शङ्करं तथा ।
विष्ण्वादीन् जनवाहाँश्च कृष्णं च वनितास्तथा ॥३५ ॥ प्रार्थयाञ्चक्रुरादरविनीतभावनाभृताः ।
कन्यादानोचितः कालो वर्तते गम्यतामिति ॥३६ ॥ शिवो माङ्गलिकैर्द्रव्यैः स्नातः शृङ्गारितस्तथा ।
वस्त्रभूषामुकुटादिवरवेषादिशोभितः ॥३७॥ आरोपितो वृषस्कन्धे तैः सर्वै परिवारितः ।
नीतः शैलगृहं विप्रैर्जयशब्दैश्च वर्धितः ॥३८॥ पुरो वाद्यान्यवाद्यन्ताऽग्रगाश्चासन् द्विजाऽद्रयः ।
ततः कृष्णब्रह्मविष्णुदेवकोट्यो ययुः शनैः ॥३९॥ शम्भुर्बभौ सुछत्रेण सन्धृतेन तु मूर्धनि ।
चामरैर्व्यजनैर्वीज्यमानश्च सद्वितानकः ॥1.194.४० ॥ विकीर्यमाणः कुसुमैर्ययौ शनैःशनैः शिवः
तदा शङ्खाश्च भेर्यश्च पटहानकगोमुखाः ॥४१ ॥ पुनःपुनरवाद्यन्त वादित्राणि वरोत्सवे ।
तदा तु गायकाश्चाग्रे जगुः सन्मङ्गलानि वै ॥४२॥ नर्तक्यो ननृतुः सर्वा नानातालसमन्विताः ।
एवं समाजमध्यस्थः प्राप शैलाङ्गणं हरः ॥४३ ॥ वृषादुत्तारयामासुर्महेशं पर्वतादयः ।
सम्पूजितस्ततः शम्भुः प्रविष्टो यज्ञमण्डपम् ॥४४॥ निन्युर्गृहान्तरं शम्भुं प्रणेमुः पुपुजुस्तथा ।
हिमालयश्च विधिवन्नीराजनमथाऽकरोत् ॥४५ ॥ सुरादीन्सम्प्रणम्याऽथ सम्मानमकरोन्मुदा ।
प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् ॥४६॥ मेना नीराजनं चक्रे सर्वनारीसमन्विता ।
गर्गेण मधुपर्कादि यत्कृत्यं तत्कृतं तदा ॥४७॥ सुमङ्गलं च यत्कर्म प्रस्तावसदृशं कृतम् ।
अन्तर्वेद्यां महादेवो हिमशैलेन वेशितः ॥४८॥ हुतभुक्सहितां वेदीमारुरोह च शङ्करः ।
अथ शृङ्गारिता स्त्रीभिः सर्वाभरणभूषिताम् ॥४९॥ भ्राता सुनाभः शम्भोश्चाऽभ्याशं कालीं निनाय ताम् ।
वेदिकायां पार्वती च निषसाद ननाम तम् ॥1.194.५०॥ तत्रोपविष्टो गर्गश्च प्रतीक्षन् घटिकां तदा ।
यावच्छेषा घटी तावत्कृतवान्प्रणवस्वरम् ॥५१ ॥ पुण्याहं प्रवदन् गर्गः समादध्रेऽक्षताञ्जलिम् ।
पार्वत्युपरि ववृषे ववृषे च शिवोपरि ॥५२॥ तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ।
समानर्च शिवां शम्भुर्लौकिकाचारसंरतः ॥५३॥ एवं परस्परं तौ तु पार्वतीपरमेश्वरौ ।
अर्चयन्तौ शुशुभाते निरीक्षन्तौ परस्परम् ॥५४॥ नीराजितौ च लक्ष्म्यादिस्त्रीभिर्देव्यादिभिस्तदा ।
अथ स्थाल्यां महत्यां च मुक्तास्वर्णोर्मिकादिभिः ॥५५॥ रङ्गात्मजलमग्नैश्च रेमाते विजयाय तौ ।
अथ गुलालपुञ्जैश्च क्षणं चिक्रिडतुश्च तौ ॥५६ ॥ अथ गर्गेण चाज्ञप्तो हिमवान् मेनया सह ।
हैमं कलशमादाय सजलं साक्षतादिकम् ॥५७॥ पुरोहितोक्तविधिना वस्त्रचन्दनभूषणैः ।
पाद्यार्घ्यादिभिश्च वरं वरयामास भावतः ॥५८॥ तिथ्यादिकीर्तनं चक्रुः कालज्ञा द्विजसत्तमा ।
पत्नीव्रतस्तदा विप्रः सस्वस्तिसलिलं तदा ॥५ ९ ॥ प्रोक्षितवान् वरवध्वोः शिरसोः साक्षतं मुदा ।
हिमाचलस्तदा प्राह शम्भुं गोत्रं कुलं वद ॥1.194.६ ० ॥ प्रवरं नाम वेदं च शाखां श्रावय सर्वथा ।
निरुत्तरमुखः शम्भुर्मौनमाश्रित्य संस्थितः ॥६१ ॥ तदा तु नारदः प्राह गोत्रं नादोऽस्य विद्यते ।
कुलं ब्रह्मकुलं बोध्यं वेदः सत्यसङ्कल्पता ॥६२ ॥ प्रवरास्तु त्रयोऽस्याऽऽद्याः हरिर्नारायणो विराट ।
शाखा सदाशिवा बोध्या पिता कृष्णो यतो जनिः ॥६ ३ ॥ माता कृष्णमहेच्छा च नान्यज्जानामि किञ्चन ।
अथ हिमालयः श्रुत्वा प्रसन्नोऽभूच्छिवोपरि ॥६ ४॥ योगिनां कुलगोत्रप्रवरैर्वा किं प्रयोजनम् ।
एवं वदन्स्वकन्यादानं चाकरोद्विधानतः ॥६५ ॥ मत्पुत्री भगवन् कालीं पार्वतीं गिरिवंशजाम् ।
पितृणामपि दौहित्रीं प्रतीच्छेमां मयाऽर्पिताम् ॥६६ ॥ इमां कन्यां तुभ्यमहं ददामि परमेश्वर ।
भार्यार्थं परिगृह्णीष्व प्रसीद सकलेश्वर ॥६७ ॥ इत्थं शिवाकरं शैलः शिवहस्ते ददौ तदा ।
तस्मै रुद्राय महते मन्त्रेणाऽनेन दत्तवान् ॥६८ ॥ इत्येवमुक्त्वा शैलेन्द्रो हस्तं हस्तेन योजयन् ।
प्रादात् प्रतीच्छ भगवन्निदमुच्चैरुदीरयन ॥६९ ॥ वेढमन्त्रेण गिरिशो गिरिजाकरपङ्कजम् ।
जग्राह स्वकरेणाऽऽशु प्रसन्नः परमेश्वरः ॥1.194.७० ॥ क्षितिं संस्पृश्य कामस्य कोऽदादिति मनुं ब्रुवन् ।
जग्राह शङ्करः प्रीत्या दर्शयन् लौकिकीं गतिम् ॥७ १ ॥ न मे माता पिता नास्ति न ज्ञातिर्न च बान्धवाः ।
न कुलं पर्वतवासी प्रतीच्छामि सुतां तव ॥७२ ॥ इत्युक्त्वाऽपीड्यच्छैलपुत्र्याः करं करेण सः ।
संस्पृष्टौ तौ पुलकितौ सस्वेदसुप्रकोष्ठकौ । ७३ ॥ चीरदूरस्थौ द्राक्जातौ मिलितौ शाश्वताय च ।
जयशब्दा नमःशब्दास्तदाऽऽसन् भूःस्वरादिषु ॥७४॥ गन्धर्वाः सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ।
मुमुदिरे वरवधूपक्षगाश्च महोत्सवाः ॥७५॥ द्वयोश्च वस्त्रयोः प्रान्तग्रन्थिं विप्रो बबन्ध ह ।
सिन्दूरं प्रददौ शम्भुस्तदा वध्वाः शिरस्यथ ॥७६॥ ततः शैलः शिवायाऽदात् कन्यादानस्य साङ्गताम् ।
बान्धवाश्च शिवां नत्वा ददुर्द्रव्यं शिवाय च ॥७७॥ हिमालयोऽपि सन्तुष्टः पार्वतीशिवप्रीतये ।
नानाविधानि द्रव्याणि रत्नानि कौतुकानि च ॥७८॥ चारुरत्नविकाराणि पात्राणि शयनानि च ।
गवां लक्षं हयानां चाऽयुतं दासीसुलक्षकम् ॥७९॥ नागानां च रथानां च शतलक्षं ददौ तदा ।
स्वर्णं रौप्यं मणींश्चापि रत्नमौक्तिकहीरकान् ॥1.194.८ ०॥ असङ्ख्यातान् ददौ ताभ्यां प्रहृष्टो गिरिराट् तदा ।
शिरोभिषेकं पार्वत्याश्चक्रुस्ते मुनयोऽखिलाः ॥८ १॥ शिवाभिधानमुच्चार्य पर्युक्षणविधिं व्यधुः ।
अथ शिवाशिवौ तत्र मधुपर्कं समश्नुतः ॥८२॥ ब्राह्मणैः स्थापिते वह्नौ होमं चक्रतुरादरात् ।
दत्वा लाजान्कलभस्य शुक्लान् ससर्पिषा तथा ॥८ ३॥ ऋग्यजुः साममन्त्रैश्चाऽऽहुतिं ददतुरग्नये ।
लाजाञ्जलिं ददौ कालीभ्राता मैनाकनामतः ॥८४॥ अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा ।
वह्निप्रदक्षिणं तत्र लोकाचारं विधाय च ॥८५॥ वरमालासमायुक्तौ लग्नग्रन्थिसुयोजितौ ।
गिरिजया गिरीशेन हुताशस्त्रिप्रदक्षिणम् ॥८६॥ कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने ।
निषेदतुर्वधूवरौ तावत्तत्र च मालिनी ॥८७॥ जग्राह शङ्कराङ्घ्रिं वै दायस्य प्राप्तये तदा ।
किं याचसे ते प्रदास्ये मुञ्चस्वेति हरोऽब्रवीत् ॥८८॥ मालिनी प्राह मत्सख्या देहि शङ्कर शाश्वतम् ।
सौभाग्यं निजगोत्रीयं ततौ मोक्षमवाप्स्यसि ॥८९॥ अथोवाच महादेवो दत्तो मालिनि मुञ्च माम् ।
योऽसौ कृष्णोऽखिलनाथो गणेशाख्यः सुतस्तव ॥1.194.९० ॥ सख्या भविष्यति चैतत्सौभाग्यं चार्पितं मया ।
तदन्तरे तु पार्वत्याः उद्गृह्य मुखवस्त्रकम् ॥९ १॥ ब्रह्मणा दृष्टमास्यं तत् शशितेजोऽधिकप्रभम् ।
तद्दृष्ट्वा मोहमगमच्छुक्रं च्युतिमवाप च ॥९२ ॥ तच्छुक्रं वालुकायां च खिलीचक्रे ससाध्वसः ।
मर्दिताच्च मुहुस्तस्मात्कणका वै सहस्रशः ॥९३॥ परोज्ज्वलाः समुत्पन्नाः शङ्करः प्राह वेधसम् ।
इमे महर्षयो जाता न द्विजान् हन्तुमर्हसि ॥९४॥ जातास्ते ऋषयस्तत्र वालखिल्याभिधा द्रुतम् ।
आज्ञप्ताश्च चिरं स्थातुं गन्धमादनपर्वते ॥९५॥ गतास्तत्र तपस्तप्त्वा भविष्यन्त्यर्कसेवकाः ।
इत्येते वालखिल्याश्चोद्भूताश्चात्र पुनः प्रिये ॥९६ ॥ दृष्ट्वैतान् देवताः सर्वे चकिता ह्यभवँस्तदा ।
तयोः शिरोऽभिषेकोऽथ बभूवाऽऽदरतस्ततः ॥९७॥ ध्रुवस्य दर्शनं विप्राः कारयामासुरादरात् ।
हृदयालम्भनं कर्म बभूव तदनन्तरम् ॥९८॥ स्वस्तिपाठश्चाभवच्च महोत्सवपुरःसरः ।
शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ॥९९॥ ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।
नरैर्नारीभिराशीर्भिर्वर्धितौ मुदितौ तदा ॥1.194.१० ०॥ मण्डपात्तौ समुत्थाय वह्निवेदीं प्रणम्य च ।
निवासस्थानमागत्य संस्रवप्राशनं ततः ॥१० १॥ चक्रतुर्विशश्रमतुर्यज्ञश्च पूर्णतां गतः ।
निवृत्तं विधिवत् सर्वं कर्म वैवाहिकं ततः ॥१०२॥ ब्रह्मणे पूर्णपात्रं च ददौ लोककृतः शिवः ।
गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ॥१० ३॥ महादानानि सर्वाणि मङ्गलादीनि यानि च ।
आचार्याय द्विगुणं तत् ददौ श्रीशङ्करः स्वयम् ॥१ ०४॥ विप्रेभ्यश्च शतं स्वर्णमुद्राद्यं तु ददौ पृथक् ।
रत्नकोटिं बहुभ्यश्च पृथक्द्रव्याणि सन्ददौ ॥१ ०५॥ नृत्यं गानं वाद्यवादा जयशब्दः सुकीर्तयः ।
समभवन् शैलराजगृहे मोदप्रवर्धकाः ॥१०६॥ विष्णुप्रभृतयस्ततो भोजनार्थं हिमाद्रिणा ।
समाहूताः कोटिकोट्यर्बुदाब्जवरपक्षगाः ॥१ ०७॥ सम्भोजिता बहुभोज्यैस्तर्पिताः क्षीरवारिभिः ।
न कश्चित्तद्गृहे प्राणी क्षुधितः शिष्यतेऽधुना ॥१ ०८॥ अथैवं शैलनगरे स्त्रियश्च मुदिता ततः ।
वरं वधू समानीय ययुः कुहवरालयम् ॥१ ०९॥ लौकिकाचारमाजह्रुस्ता महादरसम्भृताः ।
ततस्तास्तौ समानीय वासालयमगुस्ततः ॥1.194.११० ॥ चक्रुर्दिव्यं भवाचारं पूजाचारं व्यधुश्च ताः ।
हस्तिरथं समादाय प्रमदाः कृष्णधामजम् ॥१११ ॥ संस्थाप्य दम्पती तत्र जगुर्गीतानि भावतः ।
नगरे वाहयामास महाराजपथेऽभितः ॥१ १२॥ नागराश्च नरा नार्यो देशिकाश्च जनाः स्त्रियः ।
चक्रुर्दम्पत्यर्हणां ते स्थानिनो वै स्थले स्थले ॥११३॥ तदा गुलालं बहुधा सिन्दूरं चापि कृत्स्नशः ।
क्षिपतो दम्पती भूमिं रक्तां चक्रे हि नागरीम् ॥१ १४॥ शीघ्रं स्वीयां प्रसृतिं च तौ प्रपूर्य परस्परम् ।
प्रक्षिप्य बहु रेमाते जनानन्दो ह्यभून्महान् ॥१ १५॥ एवं समग्रनगरं भ्रामयित्वा रथेन तौ ।
सवाद्यगीतनिददैर्जग्मुर्वरालयं तदा ॥१ १६॥ एवं शैलेन्द्रनगरीवनिता मोदनिर्भराः ।
निर्वर्त्य मङ्गलं कर्म प्रापयन् दम्पती गृहम् ॥१ १७॥ कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।
वासगृहं सम्प्रविश्य प्रशशंसुश्च तौ स्त्रियः ॥१ १८॥ सरस्वती तथा लक्ष्मीः सावित्री जाह्नवी शची ।
लोपामुद्राऽरुन्धती चाऽदितिस्तुलसी रोहिणी ॥११ ९॥ शतरूपा रतिः सञ्ज्ञा स्वाहाऽहल्या वसुन्धरा ।
तौ दम्पती च सन्द्रष्टुमेता देव्यः समाययुः ॥1.194.१२० ॥ मुनिकन्याः पितृकन्या देवकन्या नृकन्यकाः ।
अदेवकन्या नागानां कन्या याश्चान्यकन्यकाः ॥१२ १॥ नर्ममधुरहास्यं ताश्चक्रुः शम्भोस्तदा मुदा ।
त्वया फलं नवं मिष्टं प्राप्तं भक्षय मा चिरम् ॥१ २२॥ मधुरं शीतलं पेयं पिब तृप्तिं प्रदेहि ताम् ।
स्थानं वक्षसि दत्वा सम्भज देवं मनोभवम् ॥१२३॥ भक्ष्यं विना क्षुधा नैव शाम्यतीमां प्रभोजय ।
स्वर्णहस्ततले विद्युत्केशान् कृत्वाऽभिमार्जय ॥१ २४॥ पूर्णिमाचन्द्रबिम्बं तत् सूर्यबिम्बेन योजय ।
नागवल्लीदलं भुक्त्वा तामालीं सफलां कुरु ॥१२५।
आत्मनश्च कृते ह्यात्मा प्रियः समर्थय श्रुतिम् ।
आनन्दाख्ये परे तत्त्वे समाधिं कुरु योगतः ॥१२६ ॥ अवग्रहमयीं भूमिं वृष्ट्या तर्पय गुप्तभुक् ।
गिरिश्रोणीप्रदेशस्थो मेघः शृङ्गे स्पृशत्विमे ॥१२७॥ सञ्जीवनी भवताप्ता युनक्तु भस्मितं भवम् ।
शैलपुत्री त्वया लब्धा मृत्युपुत्री च माऽस्तु ते ॥१ २८॥ माऽति स्वपिहि निद्रालो गृहलक्ष्मीं निभालय ।
माऽतिप्रवर्तयेः स्वार्थे परार्थो मोक्षणे भव ॥१२९।
क्षुधां दशगुणां शान्त्वा ततो मोक्षमवाप्नुयात् ।
तदा स्ववसरं प्राप्य रतिः प्राह कपर्दिनम् ॥1.194.१३० ॥ येन विनाऽस्म्यहं साध्वी तं विना किं भवेत् तव ।
विवाहिताऽद्य वर्तते ते व्यर्था जानासि किं न तत् ॥१३ १॥ तदत्र रत्याः पार्वत्याः सार्थक्यं कुरु शङ्कर ।
श्रुत्वैतन्मर्मवेत्ता स दयालुः शङ्करस्तदा ॥१३२॥ रत्या तु रक्षितां कामभस्मपोटलिकां प्रति ।
ददर्श यावत्तावत्तु भस्मतो निर्गतः स्मरः ॥१३३ ॥ मूर्तिमान्सर्वदा कामो बभूवाऽमूर्तकोऽपि च ।
आज्ञापितः सर्वसृष्टौ स्थातुं देवादिभिस्ततः ॥१३४॥ तद्रूपवेषचिह्नात्मा यथापूर्वधनुश्शरः ।
अव्याप्नोत् सर्वतः सृष्टौ न कदापि मरिष्यति ॥१ ३५॥ देव्यो नर्म समाप्यैव गालं कृष्ट्वाऽऽगता बहिः ।
शम्भुर्नैजे वासगेहे त्वङ्के संस्थाप्य पार्वतीम् ॥१ ३६॥ मिष्टान्नं भोजयामास तं च सापि मुदान्विता ।
मेनाद्र्यामन्त्र्य सस्त्रीशो जनावासं ययौ तदा ॥१३७॥ वाद्यानि वादयामासुर्जनाः सर्वविधानि च ।
अथ शैलो वरपक्षान् नरान् नारीश्च सर्वशः ॥१ ३८॥ भोजयामास दुग्धान्नपक्वान्नादीनि भूरिशः ।
ततः स्वपक्षान्सर्वान् भोजयामास च कृत्स्नशः ॥१३ ९॥ अथाऽशयिष्ट शर्वः सः पार्वत्या परिसेवितः ।
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥1.194.१४० ॥ नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ।
अथ शम्भुः स्वपक्षैश्च कैलासं गन्तुमुत्सुकः ॥१४१ ॥ मेनां शैलं समापृच्छ्य त्वरावानभवत्तदा ।
शैलः सबान्धवश्चक्रे प्रार्थनां समयोचिताम् ॥१४२॥ कियद्दिनानि सन्तिष्ठ मद्गेहे सफलैः सह ।
शम्भो कृष्ण महाविष्णो विष्णो ब्रह्मन् सुरेश्वर ॥१४३॥ सूर्य चन्द्र सुरा देव्यो पितरो मुनयोऽपरे ।
ऋषयो लोकपालाश्च दिक्पाला भुवनेश्वराः ॥१४४॥ दर्शनेन च युष्माकं कृतार्थो ह्यभवं खलु ।
धन्योऽहं मद्गृहं पुण्यं कुटुम्बं श्रेष्ठताङ्गतम् ॥१४५॥ सर्वे मे पावनं जातं शश्वद् यशोऽभिवृद्धये ।
इत्युक्त्वाऽऽदरसत्कारपूर्वं प्रणम्य साञ्जलिः ॥१४६॥ हरं निमन्त्रयामास सह विष्णुसुरादिभिः ।
हरेणाऽऽज्ञापिता देवा नत्वा हिमालयं तदा ॥१४७॥ मुनयः ऋषयश्चापि प्रत्यूचुः समयंविदः ।
भूभृत्! विष्णुसमा कीर्तिस्त्रिषु लोकेषु तेऽधुना ॥१४८ ॥ नहि पुण्यतमश्चान्यस्त्वत्समो वै भविष्यति ।
यस्य द्वारि भगवन्त ईश्वरा देवकोट्यः ॥१४९॥ अनाहूता अपि शम्भोर्विवाहे स्वयमागताः ।
जनवासाः कृता रम्या व्यवहारोऽपि सत्कृतः ॥1.194.१५० ॥ सन्मानं वस्तुसामग्र्युपस्थितिर्भोजनानि च ।
पेयानि दासदास्यश्च सेवायां नियताश्च याः ॥१५१ ॥ सर्वमपूर्वमवर्ण्यमनवशेषमादृतम् ।
परिपूर्णं कृतं शैल त्वया तव च बान्धवैः ॥१५२॥ इत्थं शैलस्य पक्षस्य प्रशंसाऽभवदुत्तमा ।
स्नानसन्ध्याजपहोमस्वाध्यायतर्पणोत्तरम् ॥१५३ ॥ भोजनार्थं हरं प्रीत्याऽऽनयामास वधूयुतम् ।
प्रक्षाल्य चरणौ शम्भोस्तथा भगवतामपि ॥१ ५४॥ सर्वेषां जनवाहानां कृत्वा चापि समादरम् ।
आसयामास दीर्घेषु मण्डपेषु सुपङ्क्तिशः ॥१५५ ॥ सुरसैर्विविधान्नैश्च मिष्टैः स्वादुतमैर्बहु ।
भक्ष्यभोज्यैर्लेह्यचोष्यैस्तिक्तकैश्च प्रवाहिभिः ॥१५६ ॥ शङ्करं तर्पयामास सवधूं च जनाँस्तथा ।
लौकिकाचाररीत्या च पुरनार्यश्च भुञ्जतः ॥१५७॥ वरपक्षजनवाहान् श्रावयामासुराफटान् ।
मृदुवाण्या हसन्त्यश्च गालीवाचो व्यधुर्बहु ॥१५८ ॥ ते भुक्त्वाऽऽचम्य विधिवद् गिरिमामन्त्र्य शाङ्कराः ।
ऊषुः सुखतो दिवसे द्वितीये तृतीयके ॥१५९ ॥ चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ।
बभूव विधिवद् येन विना खण्डित उत्सवः ॥1.194.१६० ॥ पञ्चमे दिवसे देवा नगं यात्रार्थमूचिरे ।
तदाकर्ण्य गिरिः प्राह कृपां कुर्वन्तु मां सुराः ॥१६१ ॥ कियद्दिनानि तिष्ठन्तु सर्वं युष्माकमेव मे ।
इत्युक्त्वा वासयामास बह्वहान्येव चादरात् ॥१६२ ॥ प्रत्यहं भोजनं दिव्यं नूतनं नूतनं सदा ।
पानानि नूतनान्येव सेवाः पूर्णतया तथा ॥१६३ ॥ प्रत्यहं नृत्यगीतानि वाद्यानि सोत्सवानि च ।
बहुदानानि गानानि प्रत्यहं कारयत्ययम् ॥१६ ४॥ प्रत्यहं मल्लयुद्धं च प्रत्यहं नटनर्तनम् ।
प्रत्यहं नाटकं दिव्य यज्ञकार्यं च नित्यदा ॥१६५ ॥ प्रत्यहं चारणीगाथा व्याख्यानानि च नित्यशः ।
नारीणां चापि रम्याश्च विलासाः प्रत्यहं तथा ॥१६६ ॥ अभवन्महीमानाना सुखार्थं गिरिकारिताः ।
न न्यूनं चाऽभवत् किञ्चित् काचिद्बाधा न चाऽभवत् ॥१ ६७॥ इत्थं व्यतीयुर्दिवसा बहवो वसतां ततः ।
स्वयं निर्णयतो यात्रामर्थयामास शङ्करः ॥१६८ ॥ शैलो ऽपि सुप्रसन्नः सन्नाज्ञां ददौ प्रवासने ।
सज्जाः सर्वेऽभवन् मेना शिवं प्राह सुकालिकम् ॥१६९ ॥ मम पुत्रीं कृपां कृत्वा सर्वथा पालयिष्यसि ।
तव वध्वा लक्षदोषानाशुतोषः क्षमिष्यसे ॥1.194.१७० ॥ धनं चेद्ं चेतनं ते मा व्यत्येयं जडार्थवत् ।
तनुवत् सा सदा रक्ष्या न दण्ड्या विगतार्थवत् ॥१७१ ॥ त्वदर्थं मानसा वाचा कर्मणा तपसा बहु ।
कष्ट प्राप्तं फल प्राप्तस्त्वं प्राप्तां पाहि किङ्करीम् ॥१७२॥ यदी मां सा स्मरेत् यद्वा द्रष्टुमिच्छेदिहाऽऽनय ।
ममापि सुसुखं स्याच्च युवयोर्दर्शनात्तदा ॥१७३ ॥ समाचारश्च वृत्तान्तो दूतैर्देयो यथामुहुः ।
सुखिनौ भवतं स्वस्थौ स्मरिष्यामि सदा युवाम् ॥१७४॥ शृणु पुत्रि हितं तेऽत्र वधूभावेऽर्थदं वचः ।
पतिव्रता सदा लोके जयं प्राप्य प्रपूज्यते ॥१ ७५॥ पातिव्रत्यसमो धर्मो नास्ति सर्वार्थदः स्त्रियाः ।
सेवते सर्वभावेन सर्वथा सर्वदा पतिम् ॥१७६ ॥ सेह भुक्त्वाऽखिलान्भोगानन्ते पत्या शुभां गतिम् ।
पावनी सर्वलोकानां पूज्या धन्या विशेषतः ॥१७७॥ भुञ्ज्याद् भुक्ते प्रिये पत्यौ तिष्ठेत् पत्यौ च तिष्ठति ।
स्वप्यात् स्वपिति पत्यौ च बुध्येद् वै प्रथमं सदा ॥१७८ ॥ सर्वथा तद्धितं कुर्यादकैतवसुवर्तना ।
अनलङ्कृतमात्मानं स्वामिने दर्शयेन्न वै ॥१७९ ॥ कार्यार्थं प्रोषिते पत्यौ भवेच्छृङ्गारवर्जिता ।
आक्रुष्टापि न चाक्रोशेत् प्रसीदेत्ताडितापि च ॥1.194.१८० ॥ ताडयामीति चेद्ब्रूयात् स्वामिन्निति कृपां कुरु ।
आहूता गृहकार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ॥१८१ ॥ चिरं तिष्ठेन्न च द्वारे तिष्ठेन्नैव परगृहे ।
गृहतत्त्वं तु नान्यस्मै कस्मैचित्त्वपि दर्शयेत् ॥१८२॥ पूजोपकरणं सेवामनुक्ताऽपि प्रसाधयेत् ।
प्रतीक्षमाणा सेवाया अवसरं च वर्तयेत्॥१८३ ॥ पत्युर्नाम न गृह्णीयात् गृहच्छिद्रं न दर्शयेत् ।
तीर्थयात्रां च पत्याज्ञां विना गच्छेन्न सर्वथा ॥१ ८४॥ पतिं विना समाजादौ न च यायात्कदाचन ।
पतिपादोदकं तीर्थं सर्वतीर्थोत्तमं मतम् ॥१८५ ॥ भुञ्ज्यात् पतिप्रसादान्नं मत्वा महाप्रसादनम् ।
अविभज्य च नाश्नीयाद् देवपित्रतिथिष्वपि ॥१८६ ॥ परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।
संयतोपस्करा दक्षा हृष्टा व्ययपराङमुखी ॥१ ८७॥ पत्याज्ञया व्रतं कुर्यादन्यथा निष्फलं भवेत् ।
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ॥१८८ ॥ आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत् क्वचित् ।
सुप्ते पत्यौ न वै निद्राभङ्गं कुर्यात् कदाचन ॥१८९ ॥ क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमित्यपि ।
निर्धनं दुःखितं वापि पतिमेकं न लङ्घयेत् ॥1.194.१९० ॥ स्त्रीधर्मिणी त्रिरात्रं स्वमुखं नैव प्रदर्शयेत् ।
स्ववाक्यं श्रावयेन्नापि यावत् स्नानान्न शुद्ध्यति ॥१९१ ॥ स्नात्वा स्वपतिवदनमीक्षेतान्यस्य नैव हि ।
पत्यौ दूरे तु तं स्मृत्वा सूर्यदर्शनमाचरेत् ॥१९२।
सौभाग्योपकरणानि हरिद्रां कुङ्कुमं तथा ।
सिन्दूरं कज्जलं चाऽलक्तकं तैलं सुगन्धिमत् ॥१९३ ॥ कूपासिकं च ताम्बूलं तथा मङ्गलसूत्रकम् ।
तन्तिकां नत्थिकां कण्ठीं कर्णफुल्लीमिरीणिकान् ॥१ ९४॥ कटकं वङ्गिडी चैवोर्मिकां च रशनां तथा ।
शृङ्खलां झाञ्झरीं केशसंस्कारकबरीं तथा ॥१९५॥ दत्यूहं दूरयेन्नैव भर्त्रायुष्येच्छुकी वधूः ।
न घर्मनाशयित्र्या वाऽटन्त्या मैत्रीं समाचरेत् ॥१ ९६॥ पतिनिन्दां न शृणुयात् स्नायान्नग्ना नहि क्वचित् ।
विना व्यवायसमयं नैर्लज्ज्यं नाऽऽचरेत् क्वचित् ॥१ ९७॥ नोलूखले न वर्धन्यां प्रस्तरे मूशले न च ।
न पेषण्यां न मार्जन्यां देहल्यामासनं क्रियात् ॥१ ९८॥ प्रेमवत्या तत्र भाव्यं यत्र भर्तूरुचिर्भवेत् ।
हृष्टे हृष्टे विषण्णे च विषण्णा च प्रिये प्रिया ॥१९९ ॥ पत्युर्हिता चैकरूपा सम्पत्सु च विपत्सु च ।
सधैर्या विकृतिं नेयात् प्रसन्नास्या सदा भवेत् ॥1.194.२०० ॥ तैलगूडाद्यसत्त्वेऽपि पतिं दुःखे न योजयेत् ।
पत्युर्भोजनकाले स्वोद्वेगं नैव प्रकाशयेत् ॥२०१ ॥ विधेर्विष्णोर्हराद्वापि पतिर्नारायणोऽधिकः ।
उक्ता प्रत्युत्तरं दद्याद् विनयेन न रोषतः ॥२०२॥ उच्चासनं न सेवेत न चोद्वेगकरं वदेत् ।
अपवादं न वै ब्रूयान्न कुर्यात्कलहं क्वचित् ॥२०३ ॥ गुरूणां सन्निधौ हास्यं न कुर्यान्नोच्चमावदेत् ।
बाह्यादायान्तमालोक्योत्थातव्यं सस्मितं तथा ॥२०४॥ जलान्नताम्बूलवस्त्रासनपादाङ्गमर्दनैः ।
श्रमखेदहरैर्वाक्यैः प्रीणनीयः पतिः सदा ॥२०५ ॥ ददाति पिता स्वल्पं च भ्राता स्वल्पं सुतस्तथा ।
अनल्पस्य प्रदातारं स्वामिनं सम्प्रसन्नयेत् ॥२०६ ॥ भर्ता देवो गुरुर्भर्ता उभलोकप्रदः पतिः ।
धर्मस्तीर्थं व्रतं भर्ता पत्न्याः सर्वं पतिर्मतः ॥२ ०७॥ पतिं विना शवतुल्या ह्यशुचिः प्रमदा मता ।
माता पिता पतिर्धन्या यद्गेहेऽस्ति पतिव्रता ॥२०८ ॥ पितुर्मातुश्च पत्युश्च दिवं वंश्यास्त्रयस्त्रयः ।
यान्ति पतिव्रतापुण्यादन्यथा पातयन्ति तान् ॥२०९ ॥ पतिव्रतापादरजः पावनं साधुपादवत् ।
पूयन्ते पादरजसा सूर्यचन्द्रानिलानलाः ॥1.194.२१० ॥ जलान्यपि च पूयन्ते सा गङ्गातोऽधिका मता ।
पतिव्रतावलोकात्तु साधुदर्शनजं फलम् ॥२११ ॥ पत्युस्तिरस्करी नारी शृगाली सरमा भवेत् ।
भर्तुस्त्यागकरी नारी उलुकी वृक्षगा भवेत् ॥२१२ ॥ भवेद्भर्तुस्ताडयित्री व्याघ्री च वृषदंशिका ।
नेत्ररोषं दर्शयित्री केकराक्षी तु सा भवेत् ॥२१३ ॥ पतिं विना मिष्टभोक्त्री वल्गुर्वा शुकरी भवेत् ।
पतिं तूँकृत्यब्रूवा सा मूका सञ्जायते जनेः ॥२१४ ॥ सपत्नीं चेर्ष्यति या सा दुर्भगा रोगिणी भवेत् ।
कामतोऽभर्तृपश्या सा भवेत् काणा कुरूपिणी ॥२१५ ॥ गार्हस्थ्यस्य सुखस्याथ धर्मस्य मूलमेव सा ।
देवपित्रतिथीज्यादिकर्ममूलं पतिव्रता ॥२१६ ॥ सन्ति गृहे गृहे नार्यो रूपलावण्यगर्विताः ।
ग्रसन्ते पुरुषान् दुःखे क्षिप्त्वा राक्षस्य एव ताः ॥२१ ७॥ पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती
शाण्डिल्या शतरूपाऽनसूया लक्ष्मीः स्वधा सती ॥२१८ ॥ सञ्ज्ञा च सुमतिः श्रद्धा मेना स्वाहा पतिव्रता ।
पातिव्रत्यवृषेणैव ता गताः सर्वपूज्यताम् ॥२१९ ॥ श्रेष्ठा मध्या कनिष्ठाऽतिकनिष्ठास्ताश्चतुर्विधाः ।
त्र्यवस्थासु भर्तृपरा श्रेष्ठा नान्यपरा क्वचित् ॥1.194.२२० ॥ स्वप्ने देहेन चान्यं न स्पृशति मध्यमा च सा ।
जाग्रत्यन्यं शरीरेण न स्पृशति कनिष्ठिका ॥२२१ ॥ यं कमपि स्पृशत्यन्यं व्यभिचारं करोति न ।
पत्युर्भयाल्लोकभयात् साऽतिकन्ष्ठिका मता ॥२२२ ॥ परप्रसङ्गकर्त्री या सा प्रोक्ता व्यभिचारिणी ।
जगदम्बा महेशी त्वं शिवः साक्षात्पतिस्तव ॥२२३ ॥ तव स्मरणतो नार्यो भविष्यन्ति पतिव्रताः ।
किं त्वग्रे कथनेन कथितं लोकचारतः ॥२२४ ॥ इत्येवं च समादिश्य प्रिये पुत्रि प्रगच्छसि! ।
आगन्तव्यं योग्यकाले इतिकृत्वाऽऽश्लिषत् सुताम् ॥२२५ ॥ किञ्चिदाचाररक्षार्थं सा रुरोद मनाक् ततः ।
शिवापि जननीस्नेहाद् रुरोद गद्गदा सती ॥२२६ ॥ तदा सर्वं कुटुम्बं च रुरोद प्रेमविह्वलम् ।
उभयोः पक्षयोश्चापि स्नेहबद्धहृदादिभिः ॥२२७॥ नरा नार्यः सुरा देव्यः पर्यश्चाप्सरसस्तथा ।
साश्रुनेत्राः समभवन् प्रयाणसमये जनाः ॥२ २८ ॥ अथाऽऽनयामास शैलः शिबिकां पार्वतीकृते ।
शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ॥२२९ ॥ आशिषं प्रददुः सर्वे पिता माता द्विजादयः ।
महाराज्ञ्युपचाराँश्च ददू रत्नादि यौतकम् ॥1.194.२३० ॥ शिवा नत्वा गुरून्सर्वान् जनकं जननीं तथा ।
द्विजान्पुरोहितं नत्वा यामीत्युक्त्वा ययौ ततः ॥२ ३१ ॥ हिमाचलादयः शम्भुं गत्वाऽभिरेभिरे च ते ।
सुमण्डपजनाः सर्वे जनवाहजनास्तथा ॥२३२॥ परस्परं समाश्लिष्य नत्वाऽभिरेभिरे मुहुः ।
जयेत्युच्चारयन्तस्ते जग्मुः स्वां स्वां पुरीं प्रति ॥२३३ ॥ नार्यश्च दम्पती यात्रां कारयित्वा गृहं ययुः ।
शिवपक्षास्तथा चान्ये यात्रां प्रचक्रिरे ततः ॥२३४ ॥ यात्रापयितुं शैलस्तान् सीमान्तं सह तैर्ययौ ।
प्रशंसन्तो विवाहं च सर्वे स्वस्वगृहं ययुः ॥२ ३५ ॥ हिमालयमहीमानाश्चामन्त्र्याऽत्त्वा गृहं ययुः ।
शिवः सर्वसहितः स्वपुरीं प्राप्तो जनाँस्तदा ॥२३६ ॥ भोजयामास च कृष्णनारायणपुरोगमान् ।
तथाऽन्यान्निखिलान् प्रीत्या स्वविवाहसमागतान् ॥२३७ ॥ योग्यां पूजां प्रदत्वा प्रसादयामास शङ्करः ।
तेऽप्यामन्त्र्य च प्रययुः स्वस्थलोकान् सुरादयः ॥२३८ ॥ ब्रह्मब्राह्म्योश्च दिव्योऽयं विवाहः कथितः प्रिये ।
पठनाच्छ्रवणाच्चायं पापघ्नः स्वेष्टपूरकः ॥२३९ ॥ आयुष्यो धनदो मुक्तिप्रदो भुक्तिप्रदोऽपि च ।
विध्नव्याधिप्रशमनः सर्वथा मङ्गलायनः ॥1.194.२४० ॥ सुयशस्यः स्वर्ग्योऽपत्यवंशदः कामदः परः ।
शिवोत्सवेषु सर्वत्र पठनीयो विशेषतः ॥२४१ ॥ इत्येवं कथितं लक्ष्मि! चरितं लग्नमङ्गलम् ।
वैवाहिकं च सर्वेषां गृहस्थानां हिताय वै ॥२४२ ॥ कन्यानां च कुमाराणां पक्षयोश्चोभयोरपि ।
शिक्षाऽर्हं सर्वथा शोकनाशनं सुखदं महत् ॥२४३ ॥ विवाहे च तव लक्ष्मि! एवमेवाऽभवत्पुरा ।
वद चेत्ते समुत्साहः किमन्यच्छ्रोतुमिच्छसि ॥२४४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुलदेवीपूजनं, पार्वत्या यज्ञोपवीतं, शिवप्रेषिताऽऽभरणादीनि, मण्डपादावागमनं, मधुपर्कादि, नामगोत्रादि,
पाणिग्रहणविधिः, दानं, वह्निप्रदक्षिणं, ब्रह्णणोऽन्ये वालखिल्या उत्पन्नाः, वेदिकाचारोलोकाचारः, व्यङ्ग्यादि, रतिप्रार्थनया कामसजीवनता, भोज्यसत्कारादि, पतिव्रताधर्माः, दम्पती-
प्रभृतीनां कैलासाभिगमनं चेत्यादिनिरूपणनामा चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४ ॥