श्रीनारायण उवाच-
शृणु प्रिये प्रवक्ष्यामि शम्भुः किं किं चकार च ।
कैलासे संस्थितो देवः प्राप्य मङ्गलपत्रिकाम् ॥१ ॥
मानं व्यधाद् वाचयित्वा स्वीचकार विधानतः ।
सत्कृत्य पत्रिकावाहं यापयामास चादरात् ॥२ ॥
विष्णुप्रभृतिदेवान्निमन्त्रयामास शङ्करः ।
सर्वे आयान्तु सोत्साहा सस्त्रीपुत्रसुतादयः ॥३ ॥
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे तु ते ।
स्वकीया नैव मन्तव्या ये केऽपि स्युर्महाजनाः ॥४ ॥
नारदं प्रेषयामास चतुर्दशसु भूमिषु ।
निमन्त्र्य मानतः सर्वान् त्वाययौ शङ्करं मुनिः ॥५ ॥
अथ प्राघूणिकानां च सन्मानाय तु शम्भुना ।
रचितं नगरं दिव्यं कैलासमपरं नवम् ॥६ ॥
सौधानि यत्र लक्षाणि गृहाश्च कोटिशस्तथा ।
उद्यानानि सहस्राणि वाटिकाः शतशस्तथा ॥७ ॥
वाप्यश्च दीर्घिकाश्चैव विमानानि च मण्डपाः ।
रसशालाः सूदशाला नृत्यशाला विहारिकाः ॥८ ॥
भोज्यशाला मोदशालाः प्रदर्शन्यस्तथाऽतुलाः ।
पानशालाः स्नानशालाः कुण्डाः कथासभागृहाः ॥९ ॥
मण्डपाः कारिता दिव्याः समस्तं निहितं दिवम् ।
न न्यूनं ब्रह्मलोकाद्वा वैकुण्ठाद्वापि नाकतः ॥1.191.१० ॥
जनवाहास्त्वाययुश्च ब्रह्माण्डस्था निमन्त्रिताः ।
सकुटुम्बपरीवारदासदासीसुहृज्जनाः ॥११ ॥
प्रथमं तु महाविष्णुर्लक्ष्मीयुक्तः सपार्षदः ।
शृङ्गारान् रचयित्वा चाऽऽजगाम सपरिच्छदः ॥१ रे ॥
स्वकुटुम्बानि सर्वाणि चादाय विश्वसृट् तथा ।
तद्दासदासीवर्गैश्चाऽऽययौ चाऽलङ्कृतोऽभितः ॥१३ ॥
वैराजा ब्रह्ममुनयो वासुदेवादयस्तथा ।
अवतारा हरेश्चैव रुद्राश्च कोटिशस्तथा ॥१४ ॥
यमादयश्च पितरः सौर्याश्चान्द्रा गणास्तथा ।
लोकपालाश्च ऋषयो दिक्पाला भिन्नमूर्तयः ॥१५ ॥
सालङ्कृताः सशृङ्गाराः सर्वपरिच्छदैर्युताः ।
सस्त्रीपुत्रसुतात्वसृतत्कुटुम्बादिकान्विताः ॥१६ ॥
आययुः शिवकैलासं विवाहः शिवयोरिति ।
पितरौ द्यौः समस्ता च यक्षाश्च राक्षसा अपि ॥१ ७॥
भूताः प्रेताः पिशाचाश्च गणाश्चार्बुदकोटयः ।
कूष्माण्डा भैरवाश्चैव वैताला श्चाग्नयस्तथा ॥१८ ॥
विद्युतश्च महाकालो जरामृत्युमहालयाः ।
रात्र्यो धूम्रास्तथा देव्यश्चण्डिकाद्याश्च मातरः ॥१९ ॥
ज्वराश्चापि तथा रोगाः केतवश्च ग्रहास्तथा ।
उपद्रवास्तथाऽऽयाता विवाहः शिवयोरिति ॥1.191.२० ॥
किम्पुरुषा मागधाश्च सूताश्चापि च बन्दिनः ।
चारणाश्च तथा भूस्था दिव्यमानुषयोनयः ॥२१ ॥
स्थावरा जङ्गमाश्चैवाऽर्णवा नद्यो नदादयः ।
असुरा दानवा दैत्याः शैवा ये कद्रुजास्तथा ॥२२ ॥
नागाः सर्पाश्च गरुडा ये चान्ये शैवपक्षगाः ।
देवा देव्यश्चार्बुदाब्जशेवधिसङ्ख्यकास्तदा ॥२३ ॥
सस्त्रीपुत्रकुटुम्बाश्च पृथ्व्याद्याः शिवमूर्तयः ।
सोत्साहाः सपरिच्छदाः सालङ्काराः सवाहनाः ॥२४॥
दुर्वासादिमहायोगिजना योगिन्य इत्यपि ।
साध्व्योऽवधूतवर्याश्चाऽवधूतान्यस्तदाऽऽययुः ॥२५ ॥
आजग्मुर्ब्रह्मचारिण्यो दुर्गा देव्यस्तथाऽऽययुः ।
शक्तयश्चाययुः सर्वा विवाहः शिवयोरिति ॥२६ ॥
आगतानां स्वयं शम्भुः सत्कारान् बहुधा व्यधात् ।
महोत्सवे सुनृत्यानि चक्रे नर्तकिकागणः ॥२७ ॥
वरयात्रां कारयितुं कैलासे महीमानकाः ।
न्यूषुः कार्यं स्वकं मत्वा चक्रिरे सुसहायताम् ॥२८ ॥
चक्रिरे गिष्टकामर्द शम्भोवै- सर्वमातरः ।
चक्रिरे च यथायोग्यं शिवभूषाविधिं परम् ॥२९ ॥
अवाद्यन्त सुवाद्यानि शिवभूषाविधौ तदा ।
भुञ्जते च महीमाना नृत्यन्ति सुरयोषितः ॥1.191.३० ॥
शृङ्गारयन्ति यानानि जनवाहाः पृथक्-पृथक् ।
संस्कारयन्ति गात्राणि देव्यः श्राङ्गारिकैर्द्रवैः ॥३१ ॥
महोत्साहाः प्रवर्तन्ते मण्डपे मण्डपे तदा ।
पूर्वसृष्टौ समुत्पन्ना गणेशाः कार्तिकास्तथा ॥३२ ॥
वैराजधामतो लक्षा आययुर्मङ्गलार्थकाः ।
शाश्वतस्य पितुः कार्ये सहाया वाहिनीकृते ॥३३ ॥
शिवस्य तु तदा वेषः कीदृशोऽभूच्छृणु प्रिये ।
तस्य स्वाभाविको वेषो भूषाविधिरभूत् तदा ॥३४॥
स्वाभाविके जटायूथे विद्युतः स्तनयित्नवः ।
शीता भूत्वा स्थिता ह्यासन् प्रोज्ज्वलाः केशराशयः ॥३५ ॥
गङ्गा स्वयं वारिरूपा ब्रह्मकिरणमिश्रिता ।
तेजःपरिधिं त्वभितश्चक्रे धाममयं तदा ॥३६ ॥
गोलोकात्स्वर्णमुकुटो दिव्यो जटासहायकृत् ।
श्रीकृष्णेनार्पितः कल्गिसहितो मूर्ध्नि राजते ॥३७॥
पारीजातकुसुमानां हाराली तत्र लम्बते ।
द्वितीयायाः शशी भाले सकलस्तिलकायते ।, ३८ ॥
शान्तमुन्निद्रमतिभं चक्षुर्भाले तृतीयकम् ।
सप्रकाशं तदा भाले त्रिपुण्ड्ररचनायते ॥३९ ॥
कामरूपधरौ सर्पौ वासुकी कर्णयोस्तदा ।
कुण्डलेऽभवतां शम्भोः रत्नमण्यञ्चिते प्रभे ॥1.191.४० ॥
कण्ठे तु वासुकिः कण्ठी पौरटी दृश्यते शुभा ।
भुजयोर्वासुकी स्वर्णकटकेऽभवतां तदा ॥४ १ ॥
रुद्राक्षाश्च तदा शम्भोः प्रकोष्ठशृङ्खलामयाः ।
पौरटा मणियुक्ताश्च बभूबुः कामरूपगाः ॥४२ ॥
मालायाः स्फटिकाश्चास्योर्मिकाः स्युस्त्वग्निजाः शुभाः ।
चिताभस्माऽस्य नेत्रेषु कज्जलं चाऽभवत् तदा ॥४३ ॥
तच्च भस्म मुखे शम्भोर्द्रवो जातो हि दुग्धजः ।
धवलं लेपनं चूर्णं भस्माऽभवत्तु वर्ष्मणि ॥४४ ॥
वल्कलं तु तदा जातं स्वर्णकञ्चुकमुत्तमम् ।
गजचर्म तदा जातं सुसम्राडुत्तरीयकम् ॥४५॥
मेखला च तदा जाता रशना दिव्यपौरटी ।
सप्तविंशतिरज्ज्वाढ्या नद्धसद्रत्नहीरका ॥४६॥
तदा हिमकणाः शम्भोरभवंश्चन्दनार्हणाः ।
कण्ठस्थितं विषं तस्य तदा वै कौस्तुभोऽभवत् ॥४७ ॥
व्याघ्रचर्माऽभवत् कट्यां दुकूलं पीतवस्त्रकम् ।
त्रिशूलं चाऽभवत्तस्य स्वर्णखड्गो महोज्ज्वलः ॥४८ ॥
पावटिकाऽभवत्तस्य पौरटी यष्टिका शुभा ।
काष्ठस्य पादुके स्वर्णमखमल्लसुकोमले ॥४९ ॥
सुस्निग्धेऽभवां पादरक्षिके दिव्यशोभने ।
भङ्गाऽभवत्तदा चास्य ताम्बूलं सुसुगन्धवत् ॥1.191.५० ॥
गृञ्जोऽभवत्तदा तस्योत्तेजिका गूटिका परा ।
कनकाश्च तदा तस्याऽभवत्केयूरनूपुराः ॥५१ ॥
मुण्डमालाऽभवन्महामणिमाला ह्यमूल्यका ।
कपालं च तदा त्वस्याऽभवच्छ्रेष्ठसुशेखरः ॥५२ ॥
विवृत्य वृषभस्तत्राऽभवत् श्वेतं विमानकम् ।
सहस्रश्वेतहस्त्यश्ववृषवाहादिसंयुतम् ॥५३ ॥
गजाधिरूढो देवेन्द्रश्छत्रं शुष्कपटं विभोः ।
धारयामास विततं सहेन्द्राण्या सहस्रधृक् ॥५४॥
यमुना सरितांश्रेष्ठा कच्छपे संस्थिता तदा ।
प्रगृह्य वालव्यजन श्वेतं भाति च पार्श्वतः ॥५५ ॥
सरस्वती द्वितीयं तद्गजारूढा समादधे ।
ऋतवः षट् कुसुमानामञ्जलीन्दधते हरे ॥५६ ॥
वह्नयश्च प्रदीपान्सङ्गृह्य वै सर्वतः स्थिताः ।
समुद्रश्चानुलेपस्य पात्रमादाय संस्थितः ॥५७ ॥
ईदृशं सुन्दरं रूपं कामरूपं धृतं तदा ।
सर्वं परिणतं चेशेऽपरिणामपरात्मनि ॥५८ ॥
ईशेच्छया क्रूर रूपा योग्यरूपास्तदाऽभवन् ।
वरयोग्यविभूषास्तेऽभवन् श्रीशङ्करेच्छया ॥५९ ॥
एवं यात्राजने सज्जीकृते शङ्करपक्षगाः ।
समेत्य प्राहुरस्माभिः सह यानं कुरु प्रभो ॥1.191.६० ॥
विष्णुः प्राह तदा शम्भुं गृह्योक्तविधिनाऽद्य वै ।
स्वविवाहस्य पार्वत्याः कर्म कर्तुमिहाऽर्हसि ॥६१ ॥
मण्डपस्थापनं नान्दीमुखं कर्म च कारय ।
ब्रह्मा ह्यधिकृतस्तत्राऽभ्युदयोचितकर्मणि ॥६२ ॥
ब्रह्मणा नोदिताश्चक्रुः ऋषयो विधिवत् क्रियाम् ।
कश्यपोऽत्रिर्गौतमश्च कण्वो ब्रहस्पतिर्गुरुः ॥६३ ॥
वसिष्ठो भागुरिः शक्तिरगस्त्यश्च्यवनस्तथा ।
गर्गः शिलादोऽकृतश्रमोऽरुणश्च पराशरः ॥६४॥
जमदग्निः शिलापाको मार्कण्डेयोऽकृतवृणः ।
भरद्वाजो दधीचिश्चोपमन्युः कुशिकस्तथा ॥६५॥
पिप्पलादश्च कौत्सश्च श्वेतव्यासः सशिष्यकः ।
वेदोक्तविधिकर्माणो वेदवेदाङ्गपारगाः ॥६६॥
ऋषयो लक्षशस्तत्र त्वाययुर्मङ्गलाह्वयाः ।
रक्षां चक्रुश्च ते शम्भोः कृत्वा कौतुकमङ्गलम् ॥६७॥
वेदोक्तविधिना चक्रुः ऋग्यजुःसामसूक्तकैः ।
मङ्गलानि विविधानि शम्भुना ग्रहपूजनम् ॥६८ ॥
मडलस्थसुरपूजां चक्रुश्च विघ्नशान्तये ।
ततः शिवः प्रसन्नः सन्ननाम द्विजपुङ्गवान् ॥६९ ॥
विप्रान् देवादिकानग्रे कृत्वा वै निःससार सः ।
कैलासाच्च बहिः सज्जो भूत्वा गत्वा स्थितो हरः ॥1.191.७ ० ॥
गानवाद्यसुनृत्यानि जायन्ते च तदोत्सवः ।
ययुश्चापि गणाश्चान्यो कैलासरक्षकान् विना ॥७ १॥
अभ्यगाच्छङ्खकर्णश्च गणकोट्या सुस्मृद्धया ।
दशकोट्या केकराक्षो विकृतश्चाऽष्टकोटिकः ॥७२ ॥
चतुःकोट्या विशाखः पारिजातो नवकोटिकः ।
सर्वान्तकश्च विकृताननश्च षष्टिकोटिभिः ॥७३ ॥
दुन्दुभोऽष्टकोटिभिश्च कपालः पञ्चकोटिभिः ।
कन्दुकः कुन्दकश्चोभौ कोटिकोटिगणैर्युतौ ॥७४॥
षड्भिः सन्दारको विष्टम्भकोऽष्टकोटिभिर्युतः ।
पिप्पलश्च सनादश्च सहस्रकोटिभिर्युतः ॥७५ ॥
आवेशनोऽष्टकोटिभिस्तद्वद्वै चन्द्रतापनः ।
सहस्रकोटिभिर्युक्तो महाकेशो गणो ययौ ॥७६ ॥
कुण्डश्च पर्वतश्चैव द्वादशकोटिसंयुतौ ।
कालश्च कालकश्चाग्निर्महाकालो गणेश्वराः ॥७७॥
शतकोटिगणैर्युक्ताः कोट्याऽग्निमुख इत्यपि ।
आदित्यमूर्धा कोट्या च कोट्या चैव घनावहः ॥७८॥
सन्नाहः कुमुदोऽमोघः कोकिलो गणनायकाः ।
शतकोट्या ययुश्चाथ सुमन्त्रः कोटिकोटिभिः ॥७९ ॥
काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ।
महाबलो मधुपिङ्गो नवभिः कोटिभिर्युतः ॥1.191.८ ० ॥
नीलश्च पूर्णभद्रश्च नवतिकोटिभिर्युतौ ।
चतुर्वक्त्रः सप्तकोट्या करणो विंशकोटियुक् ॥८ १॥
यज्वाक्षः शतमन्युश्च मेघमन्युस्तथा परः ।
अहिरोमको नवतिकोटिभिः सहिता ययुः ॥८२॥
काष्ठागूष्टश्चतुःषष्ट्या सहितो गणनायकः ।
विरूपाक्षः सुकेशश्च वृषभश्च सनातनः ॥८३ ॥
संवर्तको लकुलीशश्चञ्च्वास्यश्च षडाननः ।
संवर्तकस्तालकेतुर्नकुलीशोऽथ चैत्रकः ॥८४॥
लोकान्तकश्च दीप्तात्मा भृङ्गिदैत्यान्तकस्तथा ।
रिटिर्देवप्रियोऽशनिर्भानुकश्च गणा इमे ॥८५॥
चतुःषष्टिकोटिगणैर्ययुर्विवाहसूत्सवाः ।
साऽलङ्काराः शुभवेषा विवाहः शिवयोरिति ॥८६॥
भूतकोटिसहस्रं प्रमथास्त्रिकोटिका ययुः ।
वीरभद्रश्चतुःषष्ट्या रोमजानुस्त्रिकोटिभिः ॥८७॥
नन्याद्या द्विसहस्रेण कोटिकोटिसहस्रकैः ।
कोटिकोटिगणैर्युक्तो भैरवोऽपि ययौ तदा ॥८८॥
अनेकहस्ताः सुरूपा जटामुकुटधारिणः ।
चन्द्रभालाः सुत्रिनेत्रा नीलकण्ठास्त्रिशूलिनः ॥८९॥
रुद्राक्षभस्मसंशोभा दिव्यरूपा महेश्वराः ।
हारकेयूरकुण्डलमुकुटाद्यैरलङ्कृताः ॥1.191.९०॥
अणिमाद्यैः सेविताश्च व्योमभूस्वर्गचारिणः ।
सप्तस्वःसप्तपातालचारिणः के च संययुः ॥९ १॥
सर्वे प्रसन्नमनसः कामरूपधरास्तथा ।
देवाः सौम्यास्तदा भूत्वा ययुस्तस्मिन् महोत्सवे ॥९२॥
हर्षो माति न सर्वेषां विवाहः शिवयोरिति ।
रुद्रस्य भगिनी चण्डी सर्पाभरणभूषिता ॥९३॥
प्रेतवाहसमारूढा मूर्ध्नि स्वर्णघटान्विता ।
जलपूर्णकलशा सा सुरूपा हर्षविह्वला ॥९४॥
कुतूहलसमायुक्ता तत्राऽऽजगाम सूत्सवे ।
कोटिभूतगणैर्युक्ता ह्यायाता जयवादिनी ॥९५॥
कोट्यैकादशरुद्रैश्च पृष्ठं यातैरनुसृता ।
डमरूणां महाघोषास्तदा व्याप्ता जगत्त्रये ॥९६॥
दुन्दुभिशङ्खभेरिणां घोषैश्चापूरितं जगत् ।
गणानां पृष्ठतो देवास्ततः सिद्धा महर्षयः ॥९७॥
ततोऽन्वयुर्लोकपाला मध्ये सगरुडो हरिः ।
लक्ष्मीयुक् पार्षदैर्युक्तः स्वभूषाभूषितैः शुभैः ॥९८॥
कोट्यर्बुदैर्वैष्णवैश्च दासैरब्जाब्जवर्गकैः ।
लक्ष्मीभिश्च रमाभिश्च कमलाभिर्युतो ययौ ॥९९॥
ततो ब्रह्मा वेदशास्त्रसंहिताऽऽगमवित्तिभिः ।
वैराजैर्ब्रह्मचर्यस्थैः सिद्धैश्च सनकादिभिः ॥1.191.१०० ॥
प्रजापतिभिः पुत्रैश्च सावित्रीप्रमदादिभिः ।
ऋषिभिर्मुनिभिश्चैव सालङ्कृतोऽनुसंययौ ॥१०१ ॥
हंसयानविमानैश्च वाहनैः समलङ्कृतैः ।
ततः ससैन्यस्त्विन्द्रश्च ऐरावतकृतासनः ॥१०२ ॥
नैकदेवगणैर्युक्तो रेजे सालङ्कृतः कृती ।
ततश्च ऋषयो विप्राः साध्यश्च साधवस्तथा ॥१०३ ॥
त्यागिनो वानप्रस्थाश्च वैष्णवाः संययुर्मुदा ।
सर्वे निमन्त्रिता हृष्टा विवाहः शिवयोरिति ॥१ ०४॥
योगिनो यतयश्चैव वीतरागाः शिवायनाः ।
सन्न्यासिनस्तदा जग्मुमुर्विवाहः शिवयोरिति ॥१०५ ॥
गण्यश्च गणिकाश्चापि कोटिकोटयः शिवायनाः ।
गणदास्यो गणपत्न्यो जग्मुरसङ्ख्यकोटिकाः ॥१० ६॥
भूषावेशादिसंशोभाः सर्वालङ्कृतिशोभनाः ।
सर्वाः कैलासवासास्ता विवाहः शिवयोरिति ॥१०७॥
ततो ययुर्योगिनीनां मण्डलान्यर्बुदानि च ।
सन्यासिनीनां यूथानि कोट्यब्जानि ययुर्मुदा ॥१ ०८॥
यदर्थमाश्रमाः सर्वे वर्णा यदर्थमादृताः ।
यदर्थं सम्प्रदायास्तद्विवाहः शिवयोरिति ॥१० ९॥
डाकिन्यश्चापि शाकिन्यो वेतालिन्यश्च मातरः ।
भैरव्यो यातुधान्यश्च किन्नर्यश्च ययुस्तदा ॥1.191.११० ॥
तुम्बुरुर्नारदो हाहा हूहूश्च पर्वतादयः ।
गन्धर्वाः किन्नरा जग्मुर्वाद्यान्याध्माय हर्षिताः ॥१११ ॥
कोटिकन्यापरिवृतो वरः शृङ्गारशोभितः ।
देवीभिर्वर्धितो गीतैः शङ्करश्च ययौ ततः ॥११२ ॥
शुद्धस्फटिकसूज्ज्वलवृषविमानमारुढः ।
परीभिः पूजितो व्योम्ना ब्रह्मसरोभिरादरात् ॥११३ ॥
पुष्पवृष्ट्या जयनादैर्वर्धितः शङ्करो ययौ ।
हिमशैलसुतापाणिग्रहणार्थं हरो ययौ ॥१ १४॥
नारदः प्रेषितश्चाग्रे हिमाद्रेर्भवनं प्रति ।
वरवाहिन्यागमादिसूचनार्थं द्रुतं ययौ ॥११५ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शङ्करेण लग्नपत्रिका प्राप्ता, चतुर्दशलोकस्थानिनो निमन्त्रिता आययुः, शिवस्य वरयोग्यंवेषः मण्डपस्थापननान्दीप्रभृतिर्मङ्गलकर्म, वरयात्राक्रमव्यवस्था, प्रथमं नारदः प्रेषितश्चेत्यादिनिरूपणनामैकनवत्यधिकशततमोऽध्यायः ॥१९१ ॥