श्रीनारायण उवाच-
ततो लक्ष्मि हिमगिरिर्गर्गेण स्वपुरोधसा ।
लेखयामास मेर्वादीनामन्त्र्य लग्नपत्रिकाम् ॥१ ॥
शिवाय प्रेषयामास ससामग्रीसुपत्रिकाम् ।
विप्रो ददौ च तिलकं विधाय शङ्कराय ताम् ॥२ ॥
ततः सम्मानितोऽत्यर्थमाजगाम गिरिं द्विजः ।
शैलो निमन्त्रयामास बन्ध्वादीन् सर्वदिक्स्थितान् ॥३ ॥
कारयामास विविधोत्तमस्वन्नादिसङ्ग्रहम् ।
भिन्नजातीयसामग्रीरुद्वाहकरणोचिताः ॥४ ॥
तण्डुलानां चणकानां पृथुकानां बहून् बहून् ।
गोधूमानां यवानां द्विदलादीनां तु पर्वतान् ॥५ ॥
गुडानां शर्कराणां च लवणानां सुपर्वतान् ।
लड्डुकानां शष्कुलीनां खाजकानां च पर्वतान् ॥६ ॥
शाटकानां घृतभ्राणां शतच्छिद्रादिपर्वतान् ।
मौक्तिकानां पिण्डकानां पर्पीणां चापि पर्वतान् ॥७ ॥
पूरीणां पोलिकानां च भर्जिकानां महत्स्तरान् ।
फुल्लवटीपर्पटानां शृङ्गाणि विविधानि च ॥८ ॥
स्वस्तिकानां शर्कराक्तकणानां शिखराणि च ।
दुग्धानां च घृतानां च दध्नां प्रमिष्टवारिणाम् ॥९ ॥
अमृतेक्षुरसानां चाऽऽसवानां दीर्घिकास्तथा ।
विविधद्रवपानानां तथा वापीश्चकार सः ॥1.190.१० ॥
क्षीरसारतरहैयङ्गवीनानां समुच्छ्रयान् ।
वल्मीकान् कारयामास बहुपक्वान्नपर्वतान् ॥११ ॥
नैकसंस्कारवस्तूनि शाकपत्रादिकानि च ।
राजिकाराद्धभाजाऽऽरनालादीनि बहून्यपि ॥१२॥
अमूल्यस्वर्णवस्त्राणि बृसीसिंहासनानि च ।
भूतूलिकोल्लेचमुख्यवितानानि महान्ति च ॥१३ ॥
मणिरत्नप्रकाराणि सुवर्णरजतानि च ।
नैकधानि च पात्राणि यानानि वाहनानि च ॥१४॥
एवमादीनि चान्यानि सङ्गृह्य सुरभीणि च ।
मङ्गलं कर्तुमारेभे शैलो मङ्गलकृद्दिने ॥१५॥
विधिपूर्वकसंस्कारं पार्वत्याः पर्वतस्त्रियः ।
कारयामासुरथ तां भूषयामासुराजगुः ॥१६ ॥
मङ्गलैर्भूषणैर्माङ्गलिकद्रव्यैश्च चक्रिरे ।
पौरस्त्रियोऽपि संहृष्टा लोकाचारं प्रचक्रिरे ॥१७॥
बन्धुवर्गाऽऽगमहृष्टः शैलोऽप्याचारमङ्गलम् ।
सोत्सवं सर्वभावेन चक्रे मङ्गलमङ्गलम् ॥१८॥
आयातस्तत्र वै मूर्तो दिव्यो देवालयो गिरिः ।
महारत्नानि चादायाऽनर्घ्योपकरणानि च ॥१९॥
नैकहीरकसद्रत्नमणिभ्राजत्समाजयुक् ।
मन्दराद्रिः साभिजनः सोपायनः समाययौ ॥1.190.२०॥
सालङ्कृतकुटुम्बाऽस्ताचलः सोपद आययौ ।
ससम्बन्धिजनः स्वर्णभूषारत्नमणिभृतः ॥११ ॥
उदयाद्रि समायाच्च बह्वानन्दप्रपूरितः ।
आजगाम मलयाद्रिः सरत्नपरिवारकः ॥२२॥
दिव्यशोभः सकलत्रादिराजगाम दर्दुरः ।
सपरिच्छदसपरिवारो निषध आययौ ॥२३॥
सस्त्रीपुत्रहिरण्यादिर्गन्धमादन आगतः ।
महास्मृद्धः करवीरो महेन्द्रश्चाजगाम ह ॥२४॥
ससुतस्त्रीदासदासीकुटुम्बिजनसंयुतः ।
पारियात्रो मणिरत्नखनिस्तत्र समाययौ ॥२५॥
सभृत्यपरिवारोपायनः क्रौञ्चः समागतः ।
पुरुषोत्तमशैलश्चाजगामोपायनादियुक् ॥२६॥
नीलाद्रिः सपरिवारोपायनादिः समाययौ ।
स्त्रीपुत्रादियुतस्तत्र रैवताद्रिः समाययौ ॥२७॥
उरलः सैन्यसहितो विन्ध्यश्चापि तथाविधः ।
बहुरत्नोपस्करादिसहितस्तत्र चाययौ ॥२८ ॥
त्रिकूटश्चित्रकूटश्च वेङ्कटः श्रीगिरिः शुभः ।
गोकामुखो नारदाद्रिराययौ स्वाश्रितादिभिः ॥२९ ॥
कालञ्जरश्च सगणः कैलासो दिव्यविग्रहः ।
अन्येऽपि भूभृतो ये च पृथ्व्यां द्वीपेषु संस्थिताः ॥1.190.३० ॥
समुद्रेषु चान्तरीक्षे ग्रहेष्वपि नगाश्च ये ।
हिमाद्रिणा निमन्त्रिताः सस्त्रीपुत्रसुतादिभिः ॥३ १ ॥
दासदासीभृत्यसेनापरिवारकुटुम्बिभिः ।
सद्रत्नमणिहीरकस्वर्णरूप्यादिवस्तुभिः ॥३२ ॥
भूषाम्बरविमानैश्च नैकाऽमूल्योपदादिभिः ।
आययुर्बहुसंहर्षा विवाहः शिवयोरिति ॥३३ ॥
घर्घरः शोणभद्रश्च ब्रह्मपुत्रो महानदः ।
अन्ये नदाः समायाता विवाहः शिवयोरिति ॥३४॥
गोदावरी च यमुना त्रिवेणी च सरस्वती ।
आययुर्दिव्यभूषाढ्या विवाहः शिवयोरिति ॥३५ ॥
महामोदा नर्मदा च गङ्गा च रुद्रकन्यका ।
महाप्रीत्याऽऽययुर्दिव्या विवाहः शिवयोरिति ॥३६ ॥
सिन्धुस्तपती कावेरी तुङ्गभद्रा महीनदी ।
ओजस्वती स्वर्णरेखा भद्रा साभ्रमती तथा ॥३७ ॥
शत्रुजिता गोमती च भोगवती च गण्डकी ।
ताम्रपर्णी देवनद्यस्तथाऽन्या आपगाः शुभाः ॥३८ ॥
पुत्रपुत्रीपरिवारकुटुम्बिजनसङ्कुलाः ।
भूषारत्नपरिहाराऽर्पणसामग्रिकायुताः ॥३९ ॥
दिव्या देवीस्वरूपाः सुरूपाः कनकसूज्ज्वलाः ।
षोडशन्यूनवर्षाढ्याः सर्वा लावण्यमूर्तयः ॥1.190.४० ॥
समाजग्मुर्महानन्दा विवाहः शिवयोरिति ।
महाकालवनं सुन्दराख्यं मधुवनं वनम् ॥४ १ ॥
वृन्दावनं तथाऽन्यानि वनान्याययुरादरात् ।
सिंहारण्यं तथा धर्मारण्यं नैमिषमित्यपि ॥४२ ॥
अन्यान्यपि समृद्धान्यरण्यान्याययुरादरात् ।
कुरुक्षेत्रं भृगुक्षेत्रं ब्रह्मक्षेत्रादिकानि च ॥४३ ॥
सुस्मृद्धान्याययुः प्रेम्णा विवाहः शिवयोरिति ।
स्वर्णपूर्यादयः पुर्यो दिव्यानि नगराणि च ॥४ ४॥
भुवनानि समाजग्मुर्विवाहः शिवयोरिति ।
स्वर्णरौप्याभूषणानि दिव्यानि वसनानि च ॥४५ ॥
सुगन्धादीनि सर्वाणि मर्दनार्हाणि यान्यपि ।
अम्लानफलपुष्पाणि सद्रत्नमणिहीरकान् ॥४६ ॥
पात्राणि च विचित्राणि भूरीणि ह्यासनानि च ।
वाहनानि सुयानानि विमानानि महान्ति च ॥४७॥
मौक्तिकानां दिव्यहारान् दिव्योपकरणानि च ।
शृङ्गाराणि विविधानि वेषानश्रवदर्शनान् ॥४८॥
सूर्यसमोज्ज्वलान्दिव्यान् भामन्तोऽसीमकान्तिकान् ।
उपायनाय सङ्गृह्य विवाहः शिवयोरिति ॥४९॥
आगतैस्तैस्ततः सर्वैः सर्वतो हिमभूभृतः ।
सङ्कुलाऽऽसीत्पुरी दिव्या बहुशोभान्विता तदा ॥1.190.५० ॥
गोपुराः शोभिताः केतुध्वजवितानतोरणैः ।
घटैर्वस्त्रैः कलीहारैः कदलीस्वस्तिकैः शुभैः ॥५ १ ॥
रङ्गवल्लीविचित्रैश्च दीपवादित्रमण्डिताः ।
राजमार्गाश्चतुष्काश्च रथ्याः सौधा विहारकाः ॥५२॥
उद्यानस्थलभागाश्च मार्जनाऽऽसेचनर्द्धिभिः ।
संस्कृता गन्धिताश्चालङ्कृता वै स्वर्गसन्निभाः ॥५३॥
सुच्छाया मण्डपा निवृत्तार्कतापा विधापिताः ।
पानभोजनशालाश्च विरामभूमिकाः कृताः ॥५४॥
नटनर्तकगन्धर्वमल्लचारणपर्षतः ।
व्याख्यानरञ्जनक्रीडाप्रदर्शनकथानकाः ॥५५॥
कारिता विविधानन्दकराः प्राघूणिकार्थकाः ।
किं न्यूनं भूधरो यत्र श्वशुरो भवतीति वै ॥५६॥
भगवान् शङ्करो यस्य जामाताऽऽयास्यति गृहम् ।
जगदम्बा महामाया वधूर्भवति यत्र च ॥५७॥
यथा स्वर्गं भवेद्दिव्यं वैकुण्ठमपरं च वा ।
यथा वा ब्रह्मणो लोकस्तथा दिव्यति वै पुरी ॥५८॥
हिमालयो महाप्रीत्या भावतः श्रद्धयाऽऽदरात् ।
समागतानां सम्मानं चकाराति यथायथम् ॥५९॥
सर्वान् सौधेषु रम्येषु सप्रेङ्खोद्यानवारिषु ।
सदोलाशयनागारासनवस्तुविभासिषु ॥1.190.६०॥
स्वर्विमानस्वरूपेषु ददौ वासान् पृथक-पृथक् ।
दासदासीश्च सेवायां न्ययुङ्क्त लक्षशस्तदा ॥६ १॥
सामग्रीभिरनेकाभिरिष्टाभिः शैलराट् च तान ।
तोषयामास दानैश्च भोग्यैश्च कृत्स्नशो गिरिः ॥६२॥
स्वपुर्यां स्वाङ्गणे कारयामास रचनां शुभाम् ।
द्वारि द्वारि तु रम्भादिमङ्गलानि कृतानि वै ॥६३ ॥
प्राङ्गणं रचयामास रभास्तम्भसमन्वितम् ।
पट्टस्तम्भसुनिबद्धरसालपत्रतोरणम् ॥६४॥
मालतीमाल्यहारालिकृतकाङ्गरिकान्वितम् ।
चतुर्दिक्षु महामङ्गलद्रव्यादिविभूषितम् ॥६५॥
पुरस्कृत्य गिरिर्गर्गं प्रस्तावार्हसुमङ्गलम् ।
स्वपुत्र्यर्थं मुदा चक्रे सर्वं श्रेष्ठतरं तदा ॥६६ ॥
पृथ्वी देवी समागत्य मण्डपार्थं भुवं ददौ ।
अन्तरीक्षगता भूः सा तदा द्यौरिव शोभते ॥६७॥
आहूय विश्वकर्माणं कारयामास मण्डपम् ।
पौरटं चातिविस्तीर्णं वेदिकादिमनोरमम् ॥६८॥
हिमालयोपत्यकायां बहुयोजनविस्तृतम् ।
नैकचमत्कृतियुक्तं व्योमस्थं तु यथादिवम् ॥६९॥
स्थावरं जङ्गमं सर्वं सादृश्येन परस्परम् ।
दर्शकभ्रान्तिजनकं हंसपार्षदमिश्रितम् ॥1.190.७० ॥
जङ्गमं स्थावरेणात्र शोभया विजितं तदा ।
स्थावरं जङ्गमेनापि जितं विशिष्टशोभया ॥७ १ ॥
जलेन तु जिता भूमिः स्थलेन च जितं जलम् ।
किं स्थलं किं जलं तत्र नाऽबुद्ध्यत यथार्थतः ॥७२॥
द्वारे कम्मानिकापार्श्वे क्वचित् सिंहास्तु कृत्रिमाः ।
क्वचित्तु सारसा हंसाः क्वचित् तत्र तु हस्तिनः ॥७३॥
क्वचित् शिखण्डिनस्तत्र शुका मेनाश्च सारिकाः ।
कोकिलाश्च क्वचित्तत्र कृत्रिमाश्चेतना इव ॥७४॥
क्वचित्कम्मानिकोर्ध्वे च नृत्यन्त्यः पुरुषैः स्त्रियः ।
मोहयन्त्यो दर्शकाँश्च पश्यन्त्यः कृत्रिमाश्च ताः ॥७५॥
क्वचिदग्रोर्ध्वके भागे पर्यश्चाप्सरसस्तथा ।
सपुष्पमालाः पक्षाढ्या दिव्यास्ताः कृत्रिमाः स्थिताः ॥७६॥
सोपानगोपुराग्रेषु द्वारपाला धनुर्युताः ।
सशस्त्राः सधूष्कृतयो भूशुण्डीसहितास्तथा ॥७७॥
घृताक्षयश्च तिष्ठन्ति स्थावरा जङ्गमोपमाः ।
द्वारि स्थिता महालक्ष्मीरुपरि कृत्रिमा शुभा ॥७८॥
गजैर्घटैः सकमलैरभिषिक्ता द्विपार्श्वतः ।
सरस्वती कृत्रिमा च तन्व्या गायति वादिका ॥७९॥
चतुष्केऽम्बालिकायुक्ताऽलङ्कृताः कृत्रिमा गजाः ।
अश्वाः सालङ्कृताश्चाश्ववारा गजपकादयः ॥1.190.८० ॥
रथा रथिभिराकृष्टवाहनाग्रसुशोभिनः ।
वाहनानि गरुडाश्च हंसा यानानि भूरिशः ॥८ १॥
पत्तयश्च विमानानि कृत्रिमान्यकृतोपमाः ।
तस्य सभाग्रहे कृत्रिमोद्यानो द्रुमराजिमान् ॥८२॥
कृत्रिमाश्च नटा नट्यो नर्तका बहुरूपिणः ।
अप्सरोरासकर्त्रीणां मण्डलानि कृतानि च ॥८३॥
एवं विमोहनार्थं च मण्डपेऽपि कृतं बहु ।
मुन्यृर्षीणां च देवानां नदीनां भूभृतां तथा ॥८४॥
नदानां चाप्यरण्यानां कृत्रिमाः रूपपङ्क्तयः ।
जगमभ्रान्तिदाः सर्वाः कृता वै विश्वकर्मणा ॥८५॥
ये ये तत्राऽऽगताश्चान्ये समायास्यन्ति ये च ताम् ।
कृत्रिमान् मण्डपे स्थल्यां विश्वकर्मा चकार ह ॥८६ ॥
जनवाहाः शङ्करश्च वरवेशो वृषोपरि ।
कृत्रिमश्च कृतो विश्वकर्मणा शम्भुतुष्टये ॥८७॥
महाद्वारि तथा नन्दी स्फटिका भो महान् कृतः ।
नन्द्युपरि त्वन्तरीक्षे ककुदाधारकं महत् ॥८८॥
रत्नाढ्यं पुष्पकसञ्ज्ञं विमानं कृत्रिमं कृतम् ।
सुछत्रचामरादर्शपत्रतोरणशोभितम् ॥८९॥
दिव्यप्रदीपताराधिवासितं शशिसूज्ज्वलम् ।
कदलीपल्लवपुष्पफलमालाद्यलङ्कृतम् ॥1.190.९० ॥
वामपार्श्वे गजौ स्वर्णवर्णौ साऽम्बालिकौ कृतौ ।
चतुर्दन्तौ षष्टिवर्षौ मदयुक्तौ गिरिप्रभौ ॥९१॥
तथाऽश्वौ द्वौ सूर्यवणौ ह्यलङ्कृतौ तु कृत्रिमौ ।
कृतौ चान्ये प्रतीहाराः स्वर्णवेत्रधरा जनाः ॥९२॥
कृत्रिमाश्च हसन्तश्च लोकपालाः शुभाः कृताः ।
सर्वे देवीयुता देवाः कुटुम्बसहिताः कृताः ॥९३॥
उपदेवा गुह्यकाश्च सिद्धचारणकिन्नराः ।
ऋषयः पितरश्चैव मनवश्चापि कृत्रिमाः ॥९४॥
अयोजितात्ममात्रास्ते दृश्यन्ते चेतना इव ।
विष्णुर्लक्ष्मीयुतो नारायणश्च रमया युतः ॥९५॥
वाण्या युतस्तथा ब्रह्मा गरुडो हंस इत्यपि ।
पार्षदाश्च कुटुम्बानि तत्तदीयानि सर्वथा ॥९६॥
वेदाश्च सनकाद्याश्च पाठकाः करपुस्तकाः ।
कृत्रिमाश्च कृताः सर्वे प्रीतेन विश्वकर्मणा ॥९७॥
ऐरावतस्थितश्चेन्द्रः पत्नीपुत्रादिसंयुतः ।
अन्ये च धनदाद्याश्च दिक्पाला लोकपालकाः ॥९८॥
कृत्रिमाश्च कृतास्तत्र विश्वकर्मेश्वरेण वै ।
बहूक्तेन च किं लक्ष्मि! ह्युभयोः पक्षयोस्तु यः ॥९९॥
समाजश्चागतश्चाथाऽगमिष्यति महाजनः ।
ते सर्वे ताश्च सर्वाश्च कृत्रिमा विश्वकर्मणा ॥1.190.१०० ॥
निर्मिता अकृतनिभा आश्चर्यार्थं द्वयोस्तयोः ।
इत्यत्र मण्डपे मञ्चा बृस्यश्चोपरि पट्टिकाः ॥१० १॥
दुग्धाऽऽभा स्फटिकाभाश्च दर्पणाभाः कृताः शुभाः ।
स्थल्यश्चन्द्रनिभा रम्या हरिताः शाद्वलात्मिकाः ॥१ ०२॥
कृत्रिमाश्चित्रितास्तत्र मुह्येयुर्भ्रान्तिचेतनाः ।
स्वयम्भुवो निवासार्थं कृत्रिमः सत्यलोकजः ॥१ ०३॥
सौधः सुधर्मा सुसभा कृत्रिमा चाद्भुता कृता ।
विष्णोर्निवासनार्थाय वैकुण्ठं बहुस्मृद्धिमत् ॥१ ०४॥
दिव्यं दिव्याश्चर्यमयं विरेजे विश्वकर्मकृत् ।
इन्द्रपुरी कृत्रिमा च कृता यद्वत् दिवि स्थिता ॥१ ०५॥
तथाऽन्यदिक्प्रपालानां पुर्यो निवासनाय हि ।
लोकपालमनूनां च पुर्यश्च विश्वकर्मणा ॥१ ०६॥
कृत्रिमास्तत्र रचितास्तत्तद्वासाय चाम्बरे ।
सदनानि निवासाय महादिव्याऽद्भुतानि च ॥१ ०७॥
रचितानि महाबुद्ध्या क्षणतो विश्वकर्मणा ।
सौधानां पङ्क्तयो राजप्राकाराः कृत्रिमाः कृताः ॥१ ०८॥
तथा दिव्यं च कैलासं रचयामास सूज्ज्वलम् ।
सर्वस्मृद्धिमयं गेहं शङ्करस्य महात्मनः ॥१ ०९॥
बदरिकाश्रमस्तत्र श्वेतश्च क्षीरसागरः ।
गोलोकश्चित्रितस्तत्र कृत्रिमश्च द्रवैः कृतः ॥1.190.११ ०॥
एवम्भूताः कृता विश्वकर्मणा रचनाः शुभाः ।
शर्वहर्यादयः सर्वे प्रसन्नाः स्युरितीच्छया ॥११ १॥
सर्वं सज्जं शोभितं च कृतं च कारितं मुदा ।
पुत्र्या विवाहशोभाभिवृद्धये हिमभूभृता ॥११ २॥
एवं सुसज्य सर्वार्थं लोकरीतिं विवर्ध्य च ।
पर्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥११ ३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हिमालयेन पक्वान्नरत्नोपकरणानां राशयो, मङ्गलानि च कारितानि
निमन्त्रितपर्वतनदनदीतीर्थारण्यदेवदेव्याद्यागमनम्, नगरमण्डपादिशोभा विश्वकर्मद्वारा कारिता चेत्यादिनिरूपणनामा नवत्यधिकशत-
तमोऽध्यायः ॥१९०॥