श्रीनारायण उवाच-
शृणु सुप्रीतितो लक्ष्मि यज्जातं तदनन्तरम् ।
पार्वत्यागमनं श्रुत्वा मेनायुक्तो हिमाचलः ॥१ ॥
योजयित्वा सुयानानि प्रययौ हर्षविह्वलः ।
पुरोहितश्च पौराश्च सख्यश्चापि कुमारिकाः ॥२ ॥
सम्बन्धिनस्तथा चान्ये भ्रातरो हर्षविह्वलाः ।
जयशब्दं प्रकुर्वन्तो जग्मुस्तां तापसीं प्रति ॥३ ॥
सुमङ्गलघटान् न्यस्य राजमार्गे समीकृते ।
चन्दनाऽगुरुकस्तूरीफलशाखादिशोभिते ॥४ ॥
पुरोधोविप्रमुनिभिर्ब्रह्मर्षिभिश्च सङ्कुले ।
नारीभिर्नर्तकीभिश्च गायिकाभिश्च घोषिते ॥५ ॥
गजेन्द्राश्वमहाहंसयानवाहनपूरिते ।
अशोकचूतपत्रादितोरणैः समलङ्कृते ॥६ ॥
रम्भास्तम्भादिसङ्क्लृप्तमण्डपादिविभासिते ।
पतिपुत्रवतीयोषित्समूहैश्च निनादिते ॥७ ॥
शतसहस्रदीपानां प्रकाशैर्धवलीकृते ।
मङ्गलध्वनिकर्तृभिर्द्विजवृन्दैर्विलासिते - ॥८ ॥
नानावाद्यध्वनिव्याप्ते स्वागतलक्षणाङ्किते ।
देशाभिजनवृन्दाश्च ययुर्वै पार्वतीं प्रति ॥९ ॥
एतस्मिन्नन्तरे दुर्गाऽऽजगाम गोपुरान्तिकम् ।
विशमाना नगरं प्राक् ददर्श पितरौ हृदा ॥1.188.१० ॥
सुप्रसन्नौ साश्रुनेत्रौ हर्षविह्वलमानसौ ।
पुत्रीं दृष्ट्ववा प्रधावन्तौ ननाम साऽऽलिभिः सती ॥११ ॥
तौ सुतां वक्षसि कृत्वा युयुजतुः शुभाशिषः ।
भ्रातृस्त्रीप्रभतिनार्यो दृढालिङ्गनमादधुः ॥१ २॥
साधितस्तपसा कुलतारकः पाविता वयम् ।
इति प्रशंस्य नेमुस्तामानर्चुः पुष्पचन्दनैः ॥१३ ॥
व्योमदेवाः पुष्पवृष्टिं चक्रुर्नेमुश्च तुष्टुवुः ।
पुरं प्रवेशयामासुर्बहुवाद्यमहोत्सवैः ॥१४॥
अथ विप्राः पुरोधाश्च सख्योऽन्याश्च स्त्रियः सतीम् ।
गृहं प्रवेशयामासुर्बहुमानपुरःसरम् ॥१५॥
सख्यो निर्मञ्च्छनं चक्रुर्वृद्धा युयुजुराशिषः ।
मेनिरे सफलं जन्म कुपुत्रात् पुत्रिकां वराम् ॥१६॥
साधुब्राह्मणबन्दिभ्यो हिमाद्रिरूपदा ददौ ।
मङ्गलानि विविधानि गापयामास सोत्सवः ॥१७॥
सवाद्यगायने प्रवर्तिते वृद्धाश्च जामयः ।
भ्रातरो ज्ञातयः पौराः समूषुर्मण्डपे प्रिये ॥१८॥
नार्यो वृद्धाश्च युवत्यश्च कन्या बालास्तथाऽपरा ।
शृण्वन्ति स्म शुभं गानं पश्यन्ति स्म च नृत्यकम् ॥१ ९॥
एतस्मिन्नन्तरे तत्र स्वेच्छया शङ्करः स्वयम् ।
सुनर्तकनटो भूत्वा मण्डपं प्रविवेश सः ॥1.188.२० ॥
शृङ्गं वामे करे धृत्वा दक्षिणे डमरुं तथा ।
पृष्ठे नटीयचित्राढ्यां सकञ्चुकां पटीं दधन् ॥२१ ॥
रक्तवस्त्रो नृत्यगानकुशलः सन्ननर्त ह ।
चक्रे मनोहरं गानं प्रेमरसप्रचूरकम् ॥२१ ।
अङ्गं च डमरू तत्र वादयामास घुर्घुरान् ।
किङ्किणीः ठम्मयामास नर्तयामास कल्गिनम् ॥२३॥
नारीराकर्षयामास भावयामास पार्वतीम् ।
नरान्सन्दर्शयामास नृत्यचातुर्थमेकलम् ॥२४॥
मेनकां ज्ञापयामास तापसी लग्नमानसम् ।
नागरान्बोधयामास पात्रं महोत्सवस्य सः । २५॥
तं च विलक्षणं द्रष्टुमाजग्मुर्नागराः परे ।
मुमुहुश्च नरा नार्यः पार्वतीमुदमाप च ॥९६॥
हृाएद ददर्श शम्भुं तं त्रिशूलादिसमन्वितम् ।
विभूतिभूषितं चास्थिमालं त्रिलोचनं हरम् ॥२७॥
सचन्द्रं कृतनागोपवीतं व्याघ्रगजाजिनम् ।
सजटं धवलं पुष्टं युवानं षोडशाब्दकम् ॥२८॥
वरं वृण्वित्युक्तवन्तं दृष्ट्वा सा प्रणनाम तम् ।
वरं वव्रे मानसं सा पतिर्मे त्वं भवेति च ॥२९॥
वरं दत्वा तिरोभूय बहिर्ननर्त भिक्षुकः।
मेना ददौ तु रत्नानि पारितोषिकसञ्ज्ञया ॥1.188.३ ०॥
तानि न स्वीचकाराऽसौ भिक्षां याचे तु पार्वतीम् ।
मेना चुकोप चात्युग्रं भर्त्सयामास भिक्षुकम् ॥३ १॥
ततः स दर्शयामास चमत्कारं हिमाद्रये ।
विष्णुरूपधरं शैलो ददर्श वनमालिनम् ॥३ २॥
किरीटकुण्डलोपेतं पीतवस्त्रं चतुर्भुजम् ।
यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते ॥३३ ॥
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ।
ततो ददर्श तत्रैव ब्रह्माणं स चतुर्भुजम् ।ः ३४॥
पठन्तं श्रुतिसूक्तानि सवेद्ं सकमण्डलुम् ।
ततः सूर्यस्वरूपं च जगच्चक्षुःस्वरूपकम् ॥३५॥
ततो ददर्श शम्भुं तं पार्वतीसहितं प्रभुम् ।
ततस्तेजःस्वरूपं च ज्योतिर्लिङ्गस्वरूपकम् ॥३६ ॥
पुना रूपाणि सङ्क्षिप्य ननर्त बहुधा जगौ ।
दत्तेषु बहुरत्नेषु न जग्राह सतीं विना ॥३७॥
ययाचे पार्वतीं भिक्षां न ददौ हिमवाँश्च ताम् ।
ततः शिवां मनाक् वीक्ष्य तत्रैवाऽन्तर्दधे हरः ॥३८ ॥
ततश्चेन्द्रादयश्चिन्तां चक्रिरे बहुधा तदा ।
ययाचे शङ्करो भिक्षां न ददौ पर्वतस्तु ताम् ॥३९ ॥
मेनयाऽपि न दत्ताऽहो हानिर्वै समयच्युतिः ।
जानाति मेनका चापि जानाति च हिमाचलः ॥1.188.४० ॥
पुत्रीयं शम्भवे देया विस्मृतं तद्धि सर्वथा ।
पात्रे रुद्रे यन्न दत्तं हानिश्चेयं महत्यपि ॥४ १ ॥
अहो माया शङ्करस्य मोहो वितन्यतेऽनया ।
देयेति प्रतिश्रुत्याऽपि न ददाम्यभिमन्यते ॥४२ ॥
भूतं यद्भूतमेवैतदथ किं नु भविष्यति ।
पुनः कालः प्रतीक्ष्यः स्यादस्मत्पुण्याऽबलान्ननु ॥४३ ॥
विचार्येति मासकालं विनिर्गमय्य ते सुराः ।
ययुः कैलासमानम्य शम्भुं तुष्टुवुरुत्सुकाः ॥४४॥
देवदेव महादेव वयं ते शरणागताः ।
दीनोद्धार कृपासिन्धो कृपां कुरु नमोऽस्तु ते ॥४५ ॥
एकान्तभक्त्या शैलश्चेत्कन्यां ते स प्रदास्यति ।
पुण्यात् पृथ्वीं परित्यज्य शैलो मोक्षमवाप्स्यति ॥४६ ॥
अनन्तरत्नाढ्यशैलशून्या पृथ्वी भविष्यति ।
वयं रन्तुं वसितुं च क्व गमिष्याम ईश्वराः ॥४७॥
तवापि शम्भो! कैलासं शिखरं मोक्षगं भवेत् ।
तस्मादेवं न कर्तव्यं कर्तव्यं लाभदं तु यत् । ४८ ॥
शैलः पृथ्व्यां सदा तिष्ठेत् पार्वती च हरोऽर्जयेत् ।
अस्मल्लाभो भवेन्नित्यस्तथा कुरु त्रिलोचन ॥४९ ॥
देवनिन्दाश्रवणेन पुण्यं सर्वं विनश्यति ।
कुरु निन्दां स्वकीयां त्वं तत्र गत्वा महेश्वर ॥1.188.५ ० ॥
परनिन्दा पुण्यहा स्यात् स्वनिन्दा यशसे भवेत् ।
तव निन्दां स संश्रुत्वाऽनिच्छुः पुत्रीसमर्पणे ॥५ १॥
भविष्यति ततः कन्या त्वां प्रसह्य वरिष्यति ।
त्वां विहाय सती दुर्गा वरं नान्यं वरिष्यति ॥५२॥
एतत्तु निश्चितं सर्वं तस्माद्गच्छ महेश्वर ।
कन्यादाने तथाऽनिच्छोर्नैव पुण्यं भविष्यति ॥५३॥
तादृक् येन स निर्वाणं ध्रुवं यायाद्धिमाचलः ।
लप्स्यते भूमिजीवित्वं यशः पूज्यत्वमित्यपि ॥५४॥
तथास्त्विति हरः प्रोक्त्वा जगाम हिमभूभृतम् ।
दण्डी छत्री स्वर्णवासा बिभ्रन्पुण्ड्रं समूर्ध्वगम् ॥५५॥
करे तुलसीसन्मालां शालग्रामं गले दधन् ।
जपन्नारायणकृष्णहरिनामानि भक्तितः ॥५६॥
साधुवेषधरं दृष्ट्वा शैलः सत्वरमुत्थितः ।
ननाम दण्डवद्भूमौ भक्त्याऽतिथिमपूर्वकम् ॥५७॥
ननाम पार्वती ज्ञात्वा तपोबलात्तु शङ्करम् ।
मधुपर्कादिकं शैलार्पितं जग्राह वैष्णवः ॥५८॥
आशिषं युयुजे विप्रः पप्रच्छ कुशलं नगः ।
स्थानासनादिकं चापि प्रयोजनं निरामयम् ॥५९॥
प्रत्युवाच तदा विप्रो वैष्णवोऽहं तु वृत्तये ।
भ्रमामि यजमानेषु सर्वज्ञोऽस्मि गुरोर्बलात् ॥1.188.६० ॥
मया ज्ञातं हराय त्वं स्वपुत्रीं दातुमिच्छसि ।
इमां पद्मसमां दिव्यां किञ्जल्ककोमलाङ्गुलीम् ॥६ १ ॥
गृहद्वारविहीनाय धनहीनाय रोषिणे ।
श्मशानव्यवसायाय सर्पमित्राय लोभिने ॥६२॥
विवस्त्राय कुगात्राय कुशीलाय च भस्मिने ।
अज्ञातकुलगोत्रार्थवयोनाम्ने जटालवे ॥६३॥
कुमार्गगामिने व्यसनिने भ्रमत्प्रभिक्षवे ।
एतादृशाय कस्माद्वै ज्ञानिना दीयते सुता ॥६४॥
क्व ते कुलं धनयशःख्यातं क्व सः श्मशानलुठ् ।
यदि महाजनः कश्चित् श्रोष्यति स हसिष्यति ॥६५॥
बान्धवान् मेनकां वृद्धान् पृच्छ त्वं पार्वतीं विना ।
पिताऽभिजनमन्विच्छेन्माता चेच्छेद्गृहं स्मृद्धम् ॥६६॥
कन्या त्विच्छेद्वरं रूपं मिष्टान्नमितरो जनः ।
शैल! शम्भोर्नाभिजनो मेने! शम्भोर्न वै स्मृद्धिः ॥६७॥
सति! शम्भुः कुरूपोऽस्ति मिष्टान्नाशा कथं मम ।
त्यजतामीदृशो मूर्तो ग्रावाणसदृशः खलः ॥६८॥
रोगिणो औषधं पथ्यं रोचते किन्त्वपथ्यकृत् ।
इत्युक्त्वा भोजनं लब्ध्वा निर्जगाम हरो द्विजः ॥६९॥
मेना प्राह पतिं देव! श्रुतं शम्भोर्विचेष्टितम् ।
न तादृशे मया देया खाते क्षेप्या न पुत्रिका ॥1.188.७०॥
न मन्यसे वचश्चेन्मे मरिष्यामि न संशयः ।
त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ॥७१ ॥
गले बध्वा मम पुत्रीं यास्यामि गहनं वनम् ।
महाम्बुधौ निमङ्क्ष्यामि तस्मै दास्यामि नो सुताम् ॥७२॥
शैलोऽमन्यत योग्यं तन्न क्षेप्या निर्गुणे सुता ।
किं करोमि क्व गच्छामि पुत्र्याग्रहं करोति वै ॥७३ ॥
विवाह्या शङ्करेणैव नान्येन केनचित्त्वहम् ।
अन्यथा तु मरिष्यामि वा जीविष्यामि वन्यका ॥७४॥
यच्च भावि तद्भवतु न मे रुचिस्तु विद्यते ।
शङ्कराय प्रदातुं वै यथाभाग्यं प्रयातु सा ॥७५ ॥
इत्युदासीनतां प्राप्तौ मेनाशैलौ हरं प्रति ।
इष्टं जातमिति मत्वा हृष्टा ह्यासन्सुरादयः ॥७६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तपोनिवृत्तपार्वतीस्वागतम्, मण्डपे शम्भोर्नटवेषेण नर्तनम्, पार्वत्या याञ्चा, मेनाशैलाभ्यां सा नाङ्गीकृता, पुनः शम्भोर्वैष्णववेषेणागमनम्, शिवाय न देयेति निन्दनम्, मेनाशैलयोरभावाविर्भाव इत्यादिनिरूपणनामाऽष्टाशीत्यधिकशत-
तमोऽध्यायः ॥१८८॥