१८७

श्रीनारायण उवाच-
ऋषयः प्राहुरव्यग्रा देवेशं शङ्करं प्रिये ।
पार्वती शङ्करार्थं वै प्राणग्लहं विधाय च ॥१ ॥ निर्भीका च निरालम्बा निराशा निष्परिग्रहा ।
निर्गुणा च निरीहा च तपत्याभूतसम्प्लवम् ॥२ ॥ मिलेद्वा न मिलेच्छम्भुस्तपः शैलनिसर्गजम् ।
मिलेत् स्यादुभयं सौख्यं न मिलेन्मोक्षजं ततः ॥३ ॥ सुखं भवत्यधिकं वै तपो नास्ति निरर्थकम् ।
साधयामि शिवं यद्वा पातयामि शरीरकम् ॥४ ॥ शम्भुमुद्वाहयिष्ये वा स्थास्ये कुमारिका सदा ।
नेष्ये च ब्रह्मचर्यात्वं ग्रहीष्यामि प्रव्रज्यिकाम् ॥५ ॥ मरिष्यामि नैष्ठिकत्वे यास्यामि ब्रह्मशङ्करम् ।
इति वै निर्णयं कृत्वा तपः करोति सा सती ॥६ ।
अथाऽत्र यद्विधेयं स्यात्कर्तव्यमीश्वरेण वै।
इति निवेद्य वृत्तान्तं प्राप्याऽऽज्ञां स्वगृहं ययुः ॥७ ॥ शङ्करस्तु तपो देव्या ऐच्छन् परीक्षितुं तदा ।
परीक्षाकामुको रूपं धृत्वा जाटिलमुत्तमम् ॥८ ॥ स्थविरो विप्रचिह्नाढ्यो दण्डच्छत्रान्वितो द्विजः ।
भूत्वा ययौ तु तच्छृङ्गं प्रज्वलँस्तेजसाऽभितः ॥९ ॥ मृगाजीनधरं मुञ्जमेखलं सकमण्डलुम् ।
सोपवीतं महावृद्धं सजरं भस्मविग्रहम् ॥1.187.१० ॥ प्रत्याश्रमं पर्यटन्तं काल्याश्रममुपागतम् ।
दृष्ट्वाऽऽयान्तं भिक्षुकं सा समुत्थाय ननाम च ॥११ ॥ उपकण्ठं ययौ प्रीत्या पादयोरपतत् सती ।
अपूजयत्तथा सर्वातीथ्यसत्कारवस्तुभिः ॥१२ ॥ ब्रह्मचारिस्वरूपं तं पप्रच्छ कुशलं सती ।
कस्मादागम्यते विप्र कुत्र स्थाने तवाऽऽश्रमः ॥१३ ॥ कां दिशं परिगन्ताऽसि विश्रामं कुरु चात्र वै ।
भिक्षुरुवाच तीर्थेभ्य आगच्छाम्यत्र तापसि ॥१४॥ वाराणस्यां निवासो मे यास्ये पृथूदकस्थलम् ।
मया स्नात प्रयागे च कुब्जाम्रे चण्डिकेश्वरे ॥१५॥ बन्घुवृन्दे कुरुक्षेत्रे हरिद्वारे कनक्खले ।
केदारे बदरीकुण्डे ततोऽभ्यागां तवाश्रमम् ॥१६ ॥ अत्र तीर्थविधिं कृत्वा गमिष्यामि पृथूदकम् ।
अहमिच्छाभिगामी च तपस्व्यन्यसुखप्रदः ॥१७॥ निष्काययात्राकुशलस्तपस्विदुःखभञ्जनः ।
निर्द्वन्द्वोऽस्मि मुमुक्षुश्च देवानां पूजकोऽस्मि च ॥१८॥ वृद्धोऽहं तपसाऽऽत्मानं शोषयामि यथोचितम् ।
पृच्छामि यदहं त्वां वै तत्र मे वक्तुमर्हसि ॥१९ ॥ किमर्थं भवती रौद्रं प्रथमाश्रमसंस्थिता ।
तपः करोषि कल्याणि दुःखानुभवकारिणि ॥1.187.२० ॥ का त्वं कस्याऽसि तनया किमर्थं विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिश्चापि दुष्करम् ॥२१ ॥ न बाला न च वृद्धाऽसि तरुणी भासि शोभना ।
प्रौढा पतिं विना कस्मात् तीक्ष्णं करोषि वै तपः ॥२२॥ मध्यमे वयसि स्त्रीणां सह भर्त्रा विलासिता ।
सुभोगाऽऽयोजिताः काला व्रजन्ति स्थिरयौवने ॥२३ ॥ किं त्वं तपस्विनो भद्रा कस्यचित्सहचारिणी ।
तपस्वी स न पुष्णाति देवि! त्वां स गतोऽन्यतः ॥२४॥ वद कस्य कुले जाता कः पिता तव का विधा ।
महासौभाग्यपात्रं त्वं कथं तेऽस्ति तपोरतिः ॥२५ ॥ किं त्वं वेदप्रसूर्लक्ष्मीः किं रमा किं सरस्वती ।
मन्ये रूपजनैश्वर्यस्मृद्धिमती भवत्यपि ॥२६॥ तत्किमर्थमपास्यैतानलङ्कारान् जटा धृताः ।
चीनांशुकं परित्यज्य कथं वै वल्कलं धृतम् ॥२७॥ कस्य किमर्थे का चेति योग्योऽस्मि विनिवेदय ।
श्रुत्वैवं प्राह विप्रेन्द्रं पार्वती हिमवत्सुता ॥२८॥ शङ्करार्थं तपः कुर्वे पतिं विन्दामि शङ्करम् ।
पुरा दक्षसुता योगमयी त्वासं सती ततः ॥२९॥ दग्धदेहा शैलपुत्री जाताऽस्म्यद्य कुमारिका ।
तपस्यतश्चात्र शम्भोः सेवायां संस्थिताऽभवम् ॥1.187.३ ० ॥ मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह ।
अहं तु तपसे चाऽत्राऽऽयाताऽप्यप्राप्य शङ्करम् ॥३ १॥ तपोऽन्तेऽग्नौ विविक्षन्ती त्वां दृष्ट्वा संस्थिता क्षणम् ।
गच्छ त्वं प्रविशाम्यग्नौ जन्मान्तरे शिवार्थिनी ॥३२॥ इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश हि ।
बभूव तत्क्षणे वह्निः शीतश्चन्दनपङ्कवत् ॥३३॥ अथ क्षणान्तरे वह्नेरुत्थाय व्योमवर्त्मना ।
समुत्पतन्तीमाकाशं पप्रच्छ विहसन् द्विजः ॥३४॥ अहो तवातितपसः प्रतापो वर्तते महान् ।
यद्बलादनलोऽपि त्वां न ददाह सुशीतलः ॥३५॥ वद देवि यथासत्यं करिष्ये ते मनोरथम् ।
कमिच्छसि वरं सुभ्रु मा गोप्यं वै मनागपि ॥३६॥ त्वयि सर्वं तु सामर्थ्यं चाऽस्ति किं तपसा तव ।
रत्नं हस्ते प्रसम्प्राप्य व्यर्थं काचं किमिच्छसि ॥३७॥ ईदृशं रूपसौन्दर्यं कथं व्यर्थं प्रयापितम् ।
हित्वा भूषाम्बरपुष्पद्रव्याणि वल्कलं धृतम् ॥३८॥ गृहं त्यक्त्वा वनं लब्धं वासाय दुःखदं सदा ।
वद देवि सुखं स्यान्मे करिष्ये तु हितं तव ॥३ ९॥ श्रुत्वैतद्विजयां वक्तुं सखीं प्रैरयताऽम्बिका ।
विजयाऽऽह वृद्धविप्र! सुतेयं हिमभूभृतः ॥1.187.४० ॥ नाम्नास्ति पार्वती काली वरं शङ्करमिच्छति ।
ऊढेयं न च केनापि कुमार्येवास्ति मे सखी ॥४१ ॥ पञ्चवर्षसहस्राणि तपस्यस्या गतानि वै ।
तथापि दैवपुत्रीत्वात् षोडशाब्दा हि दृश्यते ॥४२ ॥ नहि देवसुजातीनां वर्षैर्ह्रासोऽस्ति वर्ष्मसु ।
कोटिवर्षायुषां तेषां रूपं वै षोडशाब्दिकम् ॥४३ ॥ सर्वदा सुस्थिरं चास्ति न जरा पलितानि न ।
सेयं हित्वा महेन्द्रादीन् विष्णुं हित्वा च वेधसम् ॥४४॥ पतिं तु शङ्करं लब्धुमभिवाञ्च्छति पार्वती ।
अनयाऽऽरोपिता वृक्षाः फलपुष्पसमृद्धयः ॥४५॥ शङ्करार्हणयोग्यास्ते कृताः सन्ति हृदा सदा ।
सर्वं समर्पणं कृत्वा सदा तपसि तिष्ठति ॥४६ ॥ आगच्छेद्वा न चागच्छेत् सातु शर्वेऽर्पितास्ति वै ।
इति मया च ते ख्यातं पार्वत्या मानसं वृतम् ॥४७॥ जटिलोऽपि हसन् प्राह सख्युक्ते विश्वसीमि न ।
यथार्थं चेत् नवै हासः स्वमुखेनाभिभाषताम् ॥४८ ॥ पार्वती मनसि ज्ञात्वा शम्भुसम्बन्धिनं जनम् ।
प्रसन्नमानसाऽवोचत् सख्युक्तं तत्तथैव यत् ॥४९॥ मनसा वचसा कृत्या वृतो वै शङ्करो मया ।
जानामि दुर्लभं शम्भुं मत्वा सुलभमेव तम् ॥1.187.५० ॥ करोमि तप आजन्म विश्वासोऽपि तथास्ति मे ।
बाह्यतो न मिलेद्वापि ह्यान्तरे मिलितोऽस्ति सः ॥५ १ ॥ अहोऽस्ति मे महद्भाग्यं सप्तर्षीणां तु दर्शनम् ।
वृद्धब्राह्मणदेवस्य दर्शनं शिवगर्भितम् ॥५२ ॥ प्राप्तं मेऽत्र वने घोरे तत्रापि शैलशृङ्गके ।
तन्मे मनोरथवृक्ष आर्तवं भावमाप्तवान् ॥५३ ॥ जानातु वा न जानातु स उदासीन ईश्वरः ।
जानाम्यहं कृपालेशः प्रेरितोऽस्ति दयालुना ॥५४॥ ब्राह्मणोऽस्य मुखमासीद्-विप्रो वक्तीति तन्मुखम् ।
वक्तीत्येवहि जानामि गूढोऽस्ति शङ्करस्त्वयि ॥५५ ॥ तस्मै चार्प्यः प्रणामो मे संयुज्य तत्पदे शिरः ।
यथाऽहं ते चरणयोः संयुज्य मस्तकं नता ॥१६॥ विप्रः प्राह च तच्छ्रुत्वा शृणु कन्ये हरप्रिये ।
योग्यं सुभ्रू यथायोग्यं सर्वं वदसि सुव्रते ॥५७ ॥ जानाम्यहं महादेवं सावधानतया शृणु ।
क्वचिन्नग्नः क्वचिद्व्याघ्रगजचर्मधरो हरः ॥५८ ॥ वृषध्वजो भस्मदिग्धो जटाजूथविरूपकः ।
कपालास्थिकरकण्ठः सपैर्गात्रेषु वेष्टितः ॥५ ९॥ विषभक्षोऽभक्ष्यभक्षो विरूपाक्षोऽस्ति सर्वथा ।
अज्ञातगृहजन्मादिर्गृहभोगादिवञ्चितः ॥1.187.६ ० ॥ दशहस्तो भूतगणैः सेवितो मलिनोऽसुखी ।
क्रूरः संहारकृत् प्रोक्तो दक्षयज्ञादिनाशकः ॥६१ ॥ यस्य गृहे न वै सौख्यं क्लेशः क्लेशो हि वर्तते ।
तादृशं त्वटमानं तं कथमिच्छसि भामिनि ॥६२॥ त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् ।
तथाविधं पतिं कस्मादुग्रेण तपसेहसे ॥६३ ॥ दत्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ।
हित्वा तु चन्दनं श्रेष्ठं कर्दमं लेप्तुमिच्छसि ॥६४॥ सूर्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ।
चीनांशुकं परित्यज्य चर्मवल्कलमिच्छसि ॥६५॥ सौधवासं विहायैव कुवासं च समिच्छसि ।
रत्नशेवधिमुत्सृज्य कृष्णाङ्गारं समिच्छसि ॥६६ ॥ नृपालान्सम्परित्यज्य गोपालं त्वं समिच्छसि ।
लोकपालान् विहायैव भूतपालं किम्मिच्छसि ॥६७॥ नैतद् योग्यं तु मे भाति विरुद्धं तव दृश्यते ।
का त्वं कमलपत्राक्षी क्वाऽसौ वह्निविलोचनः ॥६ ८॥ शशाङ्कवदना का त्वं क्वाऽसौ पञ्चाऽनलाननः ।
शिरोवेणीमती का त्वं क्व जटाजूटमस्तकः ॥६९॥ क्व त्वं चन्दनयोग्याङ्गा क्व चिताभस्मलेपनः ।
क्व मृदुस्निग्धसद्वस्त्रा क्व व्याघ्रगजवस्त्रकः ॥1.187.७ ० ॥ स्वर्णभूषणयोग्या क्व क्व क्रूरसर्पशेखरः ।
क्व ऋष्यन्नप्रिया देवी क्व भूतबलिसुप्रियः ॥७ १ ॥ क्व तन्त्रीमिष्टवादश्च क्व तड्डमरुड्डुह्ड्डंहः ।
क्व ते कण्ठस्य माधुर्यं क्व वृषभस्वरः खरः ॥७२॥ क्व ते स्थलाब्जमृदुता क्वाऽस्य रूक्षखरस्पृशिः ।
नाऽस्य द्रव्यं मनागस्ति प्राप्यते नापि चाम्बरम् ॥७३॥ नास्य स्मृद्धिर्मनागस्ति बलीवर्दोरगौ विना ।
नाऽस्य सत्सेवकाः सन्ति नग्नान् भूतादिकान् विना ॥७४॥ नाऽस्य सौम्या जनाः सन्ति भैरववीरकान् विना ।
नास्य भोज्यं मिष्टमस्ति भङ्गागृञ्जविषं विना ॥७५॥ ताम्बूलं नाऽऽनने त्वस्य धत्तूरगरलं विना ।
नाऽस्य पुष्पमयी माला प्रेतकपालिकां विना ॥७६ ॥ नास्य हस्ते मृदुलं वै विना त्रिशूललोष्ठकम् ।
नाऽस्य चौष्ठे प्रेमरसो विना संहारनिष्ठुराम् ॥७७॥ नाऽस्य पार्श्वं कोमलाङ्गं काष्ठपावटिकां विना ।
नाऽस्य बिम्बं सुवर्णाभं कृष्णभस्मादिकं विना .॥७८ ॥ नास्य गुप्तं भवेद्वा न कर्तितं ब्राह्मणैः पुरा ।
पुमान्वाऽयं तृतीयः स्यात् स्त्रीरूपो भाति नैव च ॥७९॥ तस्य नास्ति प्रसन्ना स्त्रीः तृतीयप्रकृतिर्भवेत् ।
तृतीयप्रकृतिगुप्त्यै कामोऽनेन हि भस्मितः ॥1.187.८० ॥ अनादरस्तदा ते वै कृतो हित्वाऽन्यतो गतः ।
तस्योदरे महाण्डानि भवन्ति काकपक्षिवत् ॥८ १ ॥ तस्याऽण्डवृद्धि रोगोऽस्ति ज्ञातं नास्ति त्वया तु तत् ।
महारात्रावपि मायां स्वपितुं न ददाति सः ॥८ २॥ पत्नीतोऽपि विशेषेण भुङ्क्ते दुःखाकरोति सः ।
तादृशाऽपलक्षणोऽस्ति त्वां तु दुःखा करिष्यति ॥८३॥ सति! त्यजाऽस्य नामाऽपि शिवोऽपित्वशिवः सदा ।
जातिर्नास्ति कुलं नास्ति माता नास्ति कुतः पिता ॥८४॥ ज्ञानं सौजन्यमास्तिक्यं नास्ति किञ्चिद्धि शङ्करे ।
शरीरे दृश्यते रक्षा कण्ठे सन्दृश्यते विषम् ॥८५॥ आन्तरे दृश्यते क्रोधो रागलेशोऽपि नास्ति वै ।
द्वेष एव धृतस्तेन येन संहरते प्रजाः ॥८६ ॥ क्व हारयोग्यं वक्षस्ते क्व तस्य मुण्डघट्टितम् ।
क्वांऽगरागश्च सौन्दर्यं क्व रक्षाधूलिकाऽञ्चितम् ॥८७॥ मह्यं न रोचते तद्वै यथेच्छसि तथा कुरु ।
असद्वस्तु तु यत्किञ्चित् तत् सर्वं रोचते तव ॥८८॥ मन्ये केनाऽभिचारेण मन्त्रेणैव विभ्रामितम् ।
यद्वा पूर्वाऽर्जिताऽदृष्टबलेनैवं विघट्टितम् ॥८९॥ अन्यथा त्वं कथं दृष्ट्वा खाते पतितुमिच्छसि ।
गच्छाम्यहं महादेवि यथेच्छसि तथा कुरु ॥1.187.९०॥ पार्वती प्राह तं विप्रं मत्वा शिवस्य निन्दकम् ।
गच्छ गच्छसि चेद् विप्र कुतः पादोऽत्र तेऽस्पृशत् ॥९१ ॥ निन्दकस्याऽपवित्रस्य पादोऽपि पुण्यनाशकः ।
शिवो वाऽप्यथवा भीमः सधनो निर्धनोऽपि वा ॥९२॥ नाऽलङ्कृतोऽलङ्कृतो वा यादृशस्तादृशश्च वा ।
अमङ्गलो मङ्गलो वा सौम्यो रूक्षो जडोऽपि वा ॥९३॥ अस्मृद्धो यानहीनो वा विषाक्तोऽविषयोऽपि वा ।
दुर्गुणो निर्गुणो वापि सगुणो विगुणोऽपि वा ॥९४॥ दुर्गन्धो वा सुगन्धो वा निर्गन्धो वा कपालवान् ।
विवस्त्रो वा सवस्त्रो वा धूलीभस्मादिवस्त्रकः ॥९५॥ सलिङ्गो वाप्यलिङ्गो वा तृतीयप्रकृतिश्च वा ।
कामारिर्बहुकामो वा निष्कामो वा निरीहकः ॥१६॥ भस्माढ्यो वा च चर्माढ्यो भूताड्यो डमरूयुतः ।
वृषाढ्यो रूक्षदेहो वा द्रव्यहीनश्च सोरगः ॥९७॥ भङ्गागृञ्जनधत्तूरगरलादियुतोऽपि वा ।
सत्रिशूलोऽथवा नारीचिह्नो वापि महाऽण्डकः ॥९८॥ अकुलोऽजातिपितृको मारको रक्षकोऽपि वा ।
जडो वा चेतनो वापि स्तम्बो ग्रावाण एव वा ॥९९॥ स एव मे पतिश्चास्ति सृष्टौ सृष्ट्यन्तरेऽपि च ।
युगे युगान्तरे चापि चात्र जन्मान्तरेऽपि वा ॥1.187.१०० ॥ स एव मे पतिर्भूतो वर्तते च भविष्यति ।
बहुवारमहं जाता अधवा सधवापि च ॥१० १॥ महालयेऽधवा चाहं सृष्टौ तु सधवा सदा ।
का चिन्ता ते ममाऽसौख्ये गच्छ विप्र यथासुखम् ॥१ ०२॥ न ते लाभो मम सौख्ये दुःखे नैव च भागवान् ।
वृथा निन्दसि शम्भुं मां तपश्चाऽऽशीविषो भवन् ॥१०३।
एतावद्धि मया ज्ञातो भवान् यात्रालुरागताः ।
तापसो हितकर्ता च न ज्ञातो विपरीतकृत् ॥१०४॥ अज्ञात्वा निन्दसि शम्भुं सकलैश्वर्यभाजनम् ।
स्वेचारी भवत्येव क्वचित् त्वादृशवेषवान् ॥१ ०५॥ छली बली विहारी च ब्रह्मचारी प्रतारकः ।
बहुरूपो वनवासी भवत्यपरतन्त्रकः ॥१ ०६॥ निर्गुणोऽपि लीलया सः क्वचित्सगुणतां भजेत् ।
सद्वितीयस्य जातिः स्यानैकस्मिन् जातिरस्ति वै ॥१०७॥ व्यक्तेरभेदो जातित्वे सर्वथा बाधकोऽस्ति हि ।
ज्ञानाऽऽनन्दस्वरूपस्य किं ज्ञानाद्यर्जनेन वै ॥१ ०८॥ गुणे गुणाऽनवस्थानात् ज्ञाने ज्ञानं किमिष्यते ।
ज्ञानं च ज्ञानवान् सोऽस्ति नित्यज्ञानाश्रयोऽस्ति सः ॥१० ९॥ सूर्यक्रियाकृतवयोऽवस्थाः सूर्यकृतः कथम् ।
कर्मकृतं सलिगादि ब्रह्मणोऽकर्मणः कथम् ॥1.187.११ ०॥ ज्ञानक्रियासमीहाश्च तिस्रस्तज्जा हि शक्तयः ।
तस्मिँस्तु ब्रह्मणि नातिप्रवर्तन्ते ह्यशक्तिके ॥१११ ॥ तत्कृपाभिः स्मृद्धयश्चाऽस्मृद्धयः स्युस्ततोऽन्यथा ।
किं तस्य स्मृद्ध्यस्मृद्ध्यादि सत्यसङ्कल्पिनः सदा ॥११२॥ देवा देवत्वमापन्ना यत्कृपालेशतः खलु ।
दिव्यत्वे वा मलिनत्वे किं तस्याऽस्ति प्रयोजनम् ॥११३॥ लोकपालाः सदा यस्य द्वारि तिष्ठन्ति किङ्कराः ।
किं तस्य नरपालत्वे गोपालत्वेऽथ वा स्पृहा ॥१ १४॥ भालचक्षुस्त्रिशूलं वा परिपूर्णं महालये ।
किं तस्याभिजनव्रातेर्नित्यस्य जनकेन किम् ॥१ १५॥ सदा शुद्धस्य किं बाह्यैरशुद्धैः शुचिभिश्च किम् ।
विजरस्य विमृत्योश्चाऽपिपासस्याऽक्षुधस्य च ॥१ १६॥ सत्यकामस्य च सत्यसङ्कल्पस्याऽस्ति किं गृहैः ।
किमम्बरैर्वस्तुभिः किं कल्याणगुणशालिनः ॥१ १७॥ सिद्धयोऽष्टौ यदगारे लुठन्ति धूलिकामये ।
का तत्र मेऽतिगणना योगिनीकोटिसङ्कुले ॥१ १८॥ अमङ्गलान्यपि यान्ति माङ्गल्यं यत्पदाश्रयात् ।
का तत्र गणना चाऽस्त्यमङ्गलार्थविचारिणाम् ॥११ ९॥ दारिद्र्यरेखया व्याप्तो यत्सेवाभिः समाढ्यकः ।
का तत्र गणना चास्ति निष्परिग्रहप्रकृतेः ॥1.187.१२०॥ यस्याऽर्हणेन त्रैलोक्यराज्यस्मृद्धिः फलं भवेत् ।
कुतस्तस्य समीहा स्यान्निरीहस्य महात्मनः ॥१२१ ॥ शिवेति नामजपनात् पूता भवन्ति चेतनाः ।
किमस्याऽशिवभस्मादि करिष्यति सुरार्थितम् ॥१ २२।
शिवनिन्दां यः करोति तत्त्वमज्ञाय कर्मकृत् ।
आजन्म सञ्चितं पुण्यं भस्मीभवति तस्य वै ॥१२३ ॥ यथा तथा भवेद्रुद्रः पाषाणः किं न वा भवेत् ।
ममाऽभीष्टतमो रुद्रः करोमि तत्कृतं तपः ॥१२४ ॥ गच्छ चास्मत्स्थलाच्छीघ्रं मा कुरु शिवनिन्दनम् ।
श्रुत्वैतद् ब्राह्मणः किञ्चित् प्रतिवक्तुं समिच्छति ॥१ २५।
पार्वती प्राह विजयां वारयैनं विनिन्दकम् ।
वक्तुर्यथा तथा श्रोतुः पापं द्रोहस्य जायते ॥१२६॥ श्रोतव्यो नैव चास्माभिर्द्रोहो देवस्य सर्वथा ।
नाऽयं गच्छति दुष्टोऽतः स्थानात् निन्दां करिष्यति ॥१ २७॥ हित्वैतत्स्थलमद्यैव यास्यामोऽन्यत्र मा चिरम् ।
अथ सम्भाषणं न स्यादनेन निन्दकेन वै ॥१२८ ॥ इत्युक्त्वा पार्वती यावदुत्थायाऽन्यस्थलं प्रति ।
गन्तुं पादक्रमं धत्ते तावद्भिक्षुः शिवोऽभवत् ॥१ २९॥ सुरूपः सुन्दरः सौम्यो युवा षोडशहायनः ।
पुष्टः पिशङ्गस्वर्णाभसुजटो भालचन्द्रकः ॥1.187.१३० ॥ सत्रिशूलः सवासुकिः कृत्तिवासोऽतिमोहनः ।
कोटिकन्दर्पलावण्यस्तेजोपरिधिविग्रहः ॥१३१ ॥ एतादृशं निजं रूपं सतीप्रतीतिकारणम् ।
सत्या पूर्वं सेवितं यदनुभूतं भवान्तरे ॥१३२ ॥ पार्वत्यै दर्शयित्वा तामुवाचाऽधोमुखां शिवः ।
मा याह्यन्यत्र कल्याणि पश्य मे रूपमैश्वरम् ॥१३३ ॥ शिखरं त्वावयोश्चैतद् गौरीशङ्करनामकम् ।
यच्चेह रुद्रमीहन्त्या मृन्मयश्चेश्वरः कृतः ॥१ ३४॥ गौरीभद्रेश्वरश्चेति लोके ख्यातिं गमिष्यति ।
त्वं न त्यजसि मां देवि न च त्याज्या मया पुनः ॥१३५ ॥ प्रसन्नोऽस्मि वरं ब्रूहि नाऽदेयं विद्यते तव ।
अद्याऽऽरभ्य धनं तेऽस्मि क्रीतोऽस्मि तपसा त्वया ॥१३ ६॥ अथ पक्षी मता मेऽसि सङ्कोचं त्यज सुन्दरि! ।
मया परीक्षिता चाति क्षमस्व तापसि प्रिये ॥१ ३७॥ न त्वादृशी दृढा नारी दृष्टा निःस्वार्थतापसी ।
तवात्मास्मि तवाधीनः स्वकामः पूर्यतां प्रिये ॥१३८ ॥ एहि प्रिये सकाशं मे तिष्ठ मेंऽके क्षणं ततः ।
यास्यावस्ते पितुः सौधं विवाहविधिलब्धये ॥१३ ९॥ इत्यादृता सती शीघ्रं हराङ्के निषसाद सा ।
पत्यर्पिता प्रमुदिता तपःकष्टं जहौ सती ॥1.187.१४०॥ फले लब्धे श्रमः पूर्वो नश्यत्यतिपुरातनः ।
प्रत्युवाच महासाध्वी हराङ्कसुखसागरा ॥१४१ ॥ अतीव सुखिता चातिप्रीत्युत्फुल्लानना शिवा ।
सुखातिपुलकिताङ्गा नवाऽऽनन्दपरिप्लुता ॥१४२॥ त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा ।
गार्हस्थ्यदुःखमाप्तेन किं वैराग्यं धृतं त्वया ॥१४३॥ दक्षयज्ञविनाशं वा विचार्य च सतीहठम् ।
गार्हस्थ्यं दुःखदं मत्वा किं वैराग्यं धृतं त्वया ॥१४४॥ नारीग्रहे नार्यधीनं नरस्य याति जीवनम् ।
पराधीनामितिज्ञात्वा किं वैराग्यं धृतं त्वया ॥१४५॥ नारीयोगाद् ब्रह्मयोगः खण्डितो जायते यतेः ।
तेनाऽमोक्ष इति मत्वा किं वैराग्यं धृतं त्वया ॥१४६॥ नार्याऽपत्यादिविस्तारो जायते गृहमेधिनः ।
कष्टं तत्पोषणं मत्वा किं वैराग्यं धृतं त्वया ॥१४७॥ पत्नीयोगेन सम्बन्धो लौकिको वर्धते सदा ।
झञ्झावातं च तं ज्ञात्वा किं वैराग्यं धृतं त्वया ॥१४८॥ ध्यानकाले प्रशान्तौ च निद्रायां चात्मचिन्तने ।
नारी विघ्नमिति ज्ञात्वा न स्मृताऽहं त्वया नु किम् ॥१४९॥ न जाने ब्रह्मरूपस्य लक्षकालः क्षणायते ।
जानामि स्वार्थचित्तायाः क्षणकालो युगायते ॥1.187.१५०॥ कथं कालो मया नीतः पञ्चवर्षसहस्रकः ।
विना पतिं प्रियं प्राणमित्युक्त्वाऽश्रूण्यपातयत् ॥१५ १॥ प्राह शान्तिं पुनर्लब्ध्वा स त्वं साऽहं सती पुरा ।
मेनापुत्री भवाम्यद्य पतिर्भव वचः कुरु ॥१५२॥ श्रुत्वा शम्भुः क्षणं म्लानो भूत्वाऽभूद् विगतज्वरः ।
सत्याः शिरः कराभ्यां सम्प्रमृत्याऽऽश्लिष्य चाऽऽननम् ॥१५३॥ चुचुम्ब स्मरणार्थं तद्दुःखविस्मरणाय च ।
प्राह देवीं प्रिये गच्छ स्वमेव भवनं पितुः ॥१५४॥ तवार्थाय प्रहेष्यामि महर्षीन् हिमवद्गृहे ।
ओमित्याज्ञां समादाय प्राह प्रान्ते च पार्वती ॥१५५॥ भिक्षुर्भूत्वा समायाहि मां याचस्व हिमालयात् ।
पितुर्मे सफलं सर्वं कुरुष्वेव गृहाश्रमम् ॥१५६॥ ऋषिप्रोक्तं पिता मे तु सत्वरं संविधास्यति ।
दक्षकन्या यदा देव त्वया विवाहिता तदा ॥१५७॥ विधौ व्यु्त्क्रमदोषेण ग्रहदोषेण भस्मिता ।
तस्मात् यथोक्तविधिना विवाहं कर्तुमर्हसि ॥१५८ ॥ बहुविध्युत्सवपूर्वं विवाहं कुरु शङ्कर! ।
सर्वरीतिर्विवाहस्य कर्तव्या परिपूर्णतः ॥१५९ ॥ चतुर्दशभुवनस्था जनवाहा भवन्तु वै ।
जानातु हिमवान् सम्यक् जानन्तु भुवनेश्वराः ॥1.187.१६० ॥ चराऽचरं प्रजानातु पार्वत्याऽपि कृतं तपः ।
यादृशः प्रापणे यत्नो भाव्यस्तादृङ्महोत्सवः ॥१६१ ॥ सृष्टौ सृष्ट्यन्तरे गाथां प्रगायेयुर्जना यथा ।
पार्वत्या तपसा लब्धोऽनालब्धो यो महर्षिभिः ॥१ ६२॥ पार्वत्या तु हठात् क्रीतो न क्रीतो वेदवादिभिः ।
साक्षाल्लब्धः स पार्वत्या न लब्धो यस्तु साधुभिः ॥१६३ ॥ पार्वत्या स्वाङ्गणे लब्धो न लब्धस्तीर्थयायिभिः ।
प्रेम्णा लब्धः स पार्वत्या न लब्धो योगिभिश्च यः ॥१ ६४॥ पार्वत्या विधिना लब्धः न लब्धो याज्ञिकैरपि ।
पार्वत्या पर्वते लब्धो न लब्धः स्वर्गसाधनैः ॥१ ६९॥ पार्वत्या वक्षसि प्राप्तो न प्राप्तो हृत्समाधिभिः ।
पार्वत्या स क्षणाल्लब्धो न लब्धो वेधसा युगात् ॥१ ६६॥ पार्वत्या स पुनर्लब्धोऽप्यपुनर्भवलक्षणः ।
इति गास्यन्ति धवलं यशो मोक्षप्रदं शिवम् ॥१ ६७॥ इति यास्यन्ति परमं साधनं चापि मोक्षदम् ।
विवाहस्य विधिर्लोके प्रवर्त्स्यते यथाऽऽवयोः ॥१६८ ॥ श्रुत्वा प्रियायाः प्रियकृत् समुवाच प्रतिप्रियम् ।
गच्छ देवि सुमाङ्गल्यं द्राक् विधेहि यथोचितम् ॥१६९ ॥ अहं स्वयं न वै पूर्वं गच्छामि भिक्षुको यथा ।
महागुणैर्गरिष्ठोऽपि महात्मा यदि भिक्षुकः ॥1.187.१७० ॥ देहीति वचनात् सद्यः पुरुषो याति लाघवम् ।
ततस्त्वां भिक्षुको भूत्वा न याचेय कथञ्चन ॥१७१ ॥ किन्तु सप्तर्षयः प्रेष्या मया पूर्वं त्वदर्थकम् ।
वाक्दाननिर्णयं कुर्युस्ततो यास्यामि ते गृहम् ॥१७२॥ तव तपःप्रभावेण याचिष्ये त्वां पितुस्तव ।
इत्युक्त्वा पार्वतीमुखाऽऽश्लेषं विधाय शङ्करः ॥१७३ ॥ विजयायै जयायै च करौ दत्वा तु मस्तके ।
तत्कृता प्रणतिं लब्ध्वा प्रागेवाऽदृश्यतां गतः ॥१ ७४॥ कैलासं प्रययौ वृत्तं नन्द्यादिभ्यः स ऊचिवान् ।
भैरवाद्या गणाः श्रुत्वा चक्रुस्तत्र महोत्सवम् ॥१ ७५॥ कृत्वा समाप्तिं तपसोऽभिवन्द्य वनचेतनान् ।
ससखी पार्वती हृष्टा जगाम भवनं पितुः ॥१७६ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सप्तर्षिभिः पार्वत्याः प्राणग्लहतपः शङ्कराय निवेदितम्, वृद्धजटिलविप्रवेषेण शङ्करस्य पार्वतीं प्रत्यागमनम्, शम्भोरगुणविगुणादिवर्णनम्,पार्वत्याः शम्भोः सर्वसद्गुणपरताग्राह्यत्वम् ,शम्भुना स्वस्वरूपेण दर्शनम्, परस्परं सुखवार्तालापः, विवाहार्थं निर्णयवचनं, तपःसमाप्तिश्चेत्यादिनिरूपणनामा सप्ताशीत्यधिकशततमोऽध्यायः ॥१८७॥