१८२

श्रीनारायण उवाच-
अथाल्पसमये कान्ते मेना मोहवशा प्रिये ।
उवाच हैमं शैलेन्द्रं प्रह्वीभूतमनोमयी ॥१ ॥ दरिद्राय न दातव्या दातव्या धनिने सुता ।
विवाहं कुरु कन्यायाः सुन्दरेण वरेण हि ॥२ ॥ प्राणप्रिया मम पुत्री कोमला भाग्यशालिनी ।
वर्धिता विविधैर्भोग्यैः सुखसम्पत्समृद्धिभिः ॥३ ॥ अतोऽस्याश्च विवाहोऽपि सर्वसम्पन्मये गृहे ।
वरेण सुलक्षणसत्कुलोद्भूतेन युज्यते ॥४ ॥ सद्वरं प्राप्य सुखिनी यथा स्यात्तत्तथा कुरु ।
श्रुत्वा मेनां तु शैलेन्द्रः प्राह शङ्कानिवृत्तये ॥५ ॥ भ्रमं त्यज प्रिये पत्नि दातव्या शङ्कराय वै ।
यद्यस्ति ते प्रतीतिर्वै तदा दास्येऽन्यथा नहि ॥६ ॥ यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ।
शिवोपरि तपः कुर्यात् तपसा साध्यते शिवः ॥७ ॥ प्रसन्नश्च हरो भूत्वा काल्याः पाणिं ग्रहीष्यति ।
सर्वं वै शङ्करे चास्ति सुखं द्रव्यं स्मृद्ध्यादिकम् ॥८ ॥ अमङ्गलानि सर्वाणि मङ्गलानि शिवे सदा ।
सर्वविधानि सौख्यानि वर्तन्ते च शिवे सदा ॥९ ॥ अखण्डवीर्यता शम्भौ स्वामिता सुरनाकिनाम् ।
पूज्यता लोकिनां शम्भौ हेतुता भूतदेहिनाम् ॥1.182.१० ॥ पृथ्वी जलं तथा तेजः पवनो गगनं तथा ।
सूर्यचन्द्रादयो यस्य तनवः सन्ति सर्वदा ॥१ १॥ शम्भोस्तस्य तनुष्वेव निहिताः सर्वस्मृद्धयः ।
शिवार्थं तपसे पुत्र्यै विनिर्दिश शुभं भवेत् ॥१ २॥ मेना श्रुत्वा तपः द्राक्च सुतां संलोक्य कोमलाम् ।
क्षणं तु विव्यथे सुतामुपदेष्टुं शशाक न ॥१ ३॥ अथ सा पार्वती ज्ञात्वा प्रोवाच जननीं तदा ।
मातः शृणु मया दृष्टः स्वप्नो ब्राह्ममुहूर्तके ॥१४॥ विप्रस्तपस्वी सुप्रीतः प्रोवाच विहितुं तपः ।
शङ्करस्येत्युपादिश्य कृत्वा भाले सुचन्द्रकम् ॥१५ ॥ करौ मन्मस्तके दत्वा धृत्वा मां वक्षसि स्वके ।
आशीः प्रयुज्य गतवान् सुरूपः शङ्करो यथा ॥१६ ॥ तस्मात्तपः करिष्येऽहं स्मृत्वा तं पुरुषं हृदि ।
श्रुत्वैतत्स्वप्नमेवार्थं कथयितुं जगाम सा ॥१७॥ गिरिं तावत् गिरीन्द्रोऽपि स्वकं स्वप्नमुवाच ह ।
शृणु मेनेऽद्य मे स्वप्ने तपस्वी जन आगतः ॥१ ८॥ नारदोक्तस्वरूपः सः पुरोपकण्ठमादरात् ।
तपः कर्तुं प्रवृत्तश्च तत्राऽहं नीतवान् सुताम् ॥१९ ॥ मया तु लक्षणैर्ज्ञातः शङ्करोऽयमिति ध्रुवम् ।
सेवायां पार्वतीं तस्योपादिश्याऽहं तपस्विनः ॥1.182.२०॥ प्रार्थितवाँश्च तं बालं नाङ्गीचकार वै यदा ।
मया वेदान्तविज्ञानैर्बहुधा वाद आदृतः ॥२१ ॥ यथाकथञ्चित् स ततो बालां जग्राह सेवने ।
सापि प्रेम्णा पार्वती तं सेवते लोकितं मया ॥२२॥ ततोऽस्ति समयः प्राप्तः समीपे फलदायकः ।
पार्वतीं तपसे मेने शिक्षयाऽचिरसिद्धये ॥२ ३ ॥ श्रुत्वा मेनाऽभवद् हृष्टा शिक्षयामास पार्वतीम् ।
सापि शम्भुं सदा ध्यात्वा तपसे संस्थिता सती ॥२४॥ फलानि भोजने देवी गृह्णात्येकसुभक्तके ।
योगिनीव त्रिषवणं स्नानं शङ्करपूजनम् ॥२५॥ मालिकायाः सहस्रं तु शम्भुनाम्नाऽनुवर्तनम् ।
नेत्रे सम्मील्य स्वस्तिकासने निषद्य चिन्तनम् ॥२६॥ प्रातः सायं शङ्करस्याऽऽरार्त्रिकरणमर्थना ।
स्तोत्रस्य रटणं पश्चात् किञ्चिज्जागरणं तथा ॥२७॥ स्वापः पृथ्व्यां तृणाढ्यायां तथा वल्कलधारणम् ।
मौनं चाऽदर्शनं पार्श्वे तपश्चैवं चकार सा ॥२८॥ शङ्करोऽपि स्वयं वेत्ति तपः करोति यत्सती ।
विचरन् विधुरश्चमत्काराँश्चक्रे ह्यलौकिकान् ॥२९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीतपः, सतीहिमालययोः स्वप्ने शम्भुना तापसवेषेण दत्तदर्शनमित्यादिनिरूपणनामा
द्व्यशीत्यधिकशततमोऽध्यायः ॥१८२॥