श्रीनारायाण उवाच-
शृणु लक्ष्मि सुतास्नेहात् स्वयं दक्षप्रजापतिः ।
सुतासम्भावनार्थं वै समायाच्छङ्करगृहम् ॥१ ॥
समायान्तं महादेवो दक्षं दृष्ट्वा यथोचिताम् ।
दक्षाय प्रददौ पूजां सत्कारं च यथोचितम् ॥२ ॥
दक्षस्तु मानवान् शम्भुर्मानहीनो मुनीश्वरः ।
द्वयोस्तु मीलने दक्ष इयेषाधिकसत्कृतम् ॥३ ॥
शम्भुना मुनितुल्यं वै सम्मानं तस्य सङ्कृतम् ।
किन्तु चोत्थायाऽभियानं तत्र नाचरितं तदा ॥४ ॥
तत्र हेतुर्महानासीच्छृणु लक्ष्मि! हितावहम् ।
तपसा चाथ धर्मेण योगेन श्रेष्ठतां गतः ॥५ ॥
स्वापेक्षयाऽपकृष्टस्याऽऽगमे नोत्थानमाचरेत् ।
श्रेष्ठे समुत्थितेऽल्पस्य सर्वपुण्यक्षयो भवेत् ॥६ ॥
विचार्येत्थं हरस्तत्र दक्षं प्रति न चोत्थितः ।
किन्तु दक्षस्तमोभावं प्राप्य चुकोप चान्तरे ॥७ ॥
बालोऽयं शङ्कर इति मत्वा नोवाच किञ्चन ।
एवमेव प्रकुपितो गृहं जगाम मौनतः ॥८ ॥
अथ सतीं गृहं प्राप्तां दक्षः प्राह सुदुर्मनाः ।
अन्ये जामातरः श्रेष्ठा भर्तुस्तव पिनाकिनः ॥९ ॥
सर्वे ह्युत्थाय सम्मानं कुर्वन्ति मम चादरात् ।
शम्भुरुत्थाय सम्मानं न करोति सुते मम ॥1.174.१० ॥
अव्यावहारिकः शम्भुर्बालिशः प्रतिभाति मे ।
अस्तु शोकं न वै कुर्वे बाले का नाम धर्षणा ॥११ ॥
इत्युक्त्वा स्वीयपुत्र्याः सः सम्मानं विदधे बहु ।
सती सत्कारमादाय कैलासे स्वगृहं गता ॥१२ ॥
प्रोक्तवती शम्भवे तत्तदा वै शम्भुना प्रिया ।
बोधिता स्पष्टरूपेण मा नश्येद् दक्षसुकृतम् ॥१३ ॥
सती ज्ञात्वा च तद्धार्दं किञ्चिन्नोवाच तत्र वै ।
पितुर्लाभाय शर्वेण कृते तत्सुखदं मतम् ॥१ ४॥
अथापि शम्भुना शप्तं दक्षो ह्याङ्गिरसो द्विजः ।
सम्मानं चेच्छति मत्तोऽधिकं चाऽघटितं बहु ॥१५ ॥
तस्मात्स क्षत्रियां योनिं यातु प्राचैतसां गृहे ।
प्राचेतसः क्षत्रियः स भवतु यत्र नेषणा ॥१६ ॥
सम्मानस्याऽधिका मत्सदृशाद्भवेत् कदाचन ।
इति शम्भोः क्षुद्रशापोऽभवद् दक्षप्रजापतेः ॥१७ ॥
नारदस्यापि शापोऽभूत् पुनर्जन्मग्रहे यतः ।
दक्षो द्वितीयं जन्मेदं प्राचेतसां गृहेऽलभत् ॥१८ ॥
तथापि पूर्वसंस्कारो वर्तते दक्षमानसे ।
प्राग्भवीयजनकोऽहं सत्या अस्मीति मानयन् ॥१९ ॥
वर्तते सर्वथा मानी संस्कारो नैव नश्यति ।
जन्मान्तरे च कः कस्य श्वशुरो जननी पिता ॥1.174.२ ० ॥
शम्भुनैव गणयते भवेऽत्र श्वशुरं निजम् ।
लोकपालं गणयति क्षत्रियं बहुमानिनम् ॥२१ ॥
अथापि सत्याः शम्भोश्च जातिस्मरस्तु वर्तते ।
दक्षः पूर्वः एवाऽयं सतापिता पुनर्भवः ॥२२ ॥
तथापि चात्र किं मेऽस्ति गतं पूर्वभवेऽखिलम् ।
इति मत्वा न वै शम्भुर्मनुते श्वशुरं निजम् ॥२३ ॥
अथैकदा पुनस्तादृक् प्रसङ्गः समभूत् प्रिये ।
शम्भुः स्वयं स्वकैलासे नगरायाऽविचारयत् ॥२४ ॥
विश्वकर्माणमाहूय पुरो रम्यं सुस्मृद्धिमत् ।
स्वीयसुरभिशालायां कारयामास सुन्दरम् ॥२५ ॥
भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ।
तत्र छत्रं महादिव्यं सर्वथाऽद्भुतमुत्तमम् ॥२६ ॥
तद्वास्तुकरणार्थं वै चकार सुमहोत्सवम् ।
शक्रादीनाजुहावाऽशु समस्तान् देवतागणान् ॥२७ ॥
सिद्धगन्धर्वनागादीनुपदेष्टृँश्च कृत्स्नशः ।
देवान्मुनीनागमाँश्च विधिं शिष्यैः ऋषीनपि ॥२८ ॥
देवीः सर्वा अप्सरोभिर्नानावस्तुभिरन्विताः ।
देवानां च तथर्षीणां सिद्धानां फणिनामपि ॥२९ ॥
आनयन्मङ्गलहस्ताः कन्याः षोडश षोडश ।
वीणामृदङ्गप्रमुखवाद्यान्नानाविधाँस्तथा ॥1.174.३० ॥
उत्सवं कारयामास वादयित्वा सुगायनैः ।
राज्याभिषेकयोग्यानि द्रव्याणि सकलौषधैः ॥३१ ॥
प्रत्यक्षतीर्थपाथोभिः पञ्चकुभाँश्च पूरितान् ।
तथाऽन्याः संविधा दिव्या आनयत् स्वगणैस्तदा ॥३२ ॥
ब्रह्मघोषं महारावं चक्रुस्तत्र तु भूसुराः ।
हरो हरिं सन्मुहूर्ते नूत्ने सिहासने वरे ॥३३ ॥
उपावेश्य बहुप्रीत्या भूषयामास सर्वशः ।
आबद्ध्य रम्यमुकुटं कृतकौतुकमङ्गलम् ॥३४ ॥
विष्णुं तुष्टाव तं शम्भुः स्वतन्त्रं भक्तवत्सलम् ।
अन्यं सर्वं समाजं च नमस्कृत्य हरः स्थितः ॥३५ ॥
दक्षोऽत्र मानवानायात् प्रजापतिभिरन्वितः ।
शम्भुना सत्कृताः सर्वे दक्षोऽपि सह सत्कृतः ॥३६ ॥
भोजनाच्छादनपानमानयानविहारकैः ।
सत्कृताः सर्वथा सर्वे दक्षश्चैच्छद्विशेषतः ॥३ ७॥
सम्मानं तु निजं तत्र श्वाशुर्यस्याऽभियोगतः ।
दक्षः शम्भोर्गृहमध्ये जगाम स्वसुताननम् ॥३८ ॥
द्रष्टुं प्रष्टुं सुखं शान्तिं तदा शम्भुस्तु नोत्थितः ।
दक्षस्तदाऽऽन्तरेऽतीव मानी चुकोप वै पुनः ॥३ ९॥
सतीमापृच्छ्य कुशलं सुखं चाऽनामयं तथा ।
दक्षो जगाम हर्म्यं स्वं चान्येऽपि स्वगृहान् गताः ॥1.174.४० ॥
प्रत्यक्षं तदिदं चाऽभूदवमानं प्रजापतेः ।
अनाहूतेऽपरिचिते ह्यनागमनमुत्तमम् ॥४ १ ॥
एवं मनसि सन्धार्य तदापि दक्ष आत्मनि ।
अवमानं ररक्षैव बहिर्नैवाऽप्रकाशयत् ॥४२ ॥
अथ कालान्तरे नैमिषारण्ये च तपोधनाः ।
दीर्घसत्रं प्रकुर्वन्तो भृग्वाद्यास्तु महर्षयः ॥४३॥
आसन्नेकत्रितास्तत्र समाजग्मुर्हरादयः ।
आगताँस्ते च ददृशुर्मुनयो दीर्घसत्रिणः ॥४४॥
उत्तस्थुर्युगपत्सर्वे सहर्षाश्च समुत्सुकाः ।
दत्वाऽर्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः ॥४५ ॥
पश्यन्ति स्म हरं विष्णुं ब्रह्माणं पुलहादिकान् ।
मनवश्चागतास्तत्र तथा दक्षोऽपि चागतः ॥४६॥
यदृच्छया समापन्नः पूजितश्च महर्षिभिः ।
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुराऽसुरैः ॥४७॥
अभिपूजित एवासौ निषसाद सभान्तरे ।
रुद्रेण न कृता तस्याऽभ्युत्थाननतिसत्क्रियाः ॥४८॥
विशेषतः स्वस्य मानं न जातं रुद्रसत्कृतम् ।
चुकोप रुद्रं त्वरितं तदा दक्षः प्रजापतिः ॥४९॥
उवाच परुषं वाक्यं रुद्रमुद्दिश्य तत्र वै ।
एते नमन्ति सर्वे मां विप्राः सुराऽसुरादिकाः ॥1.174.५० ॥
अभ्युत्थानादिना सर्वे मानयन्ति भृशं च माम् ।
कथं दुर्जनवच्चायं नैवोत्तिष्ठति भूतपः ॥५ १ ॥
श्मशानवासी निस्त्रपः प्रेतपिशाचसंयुतः ।
अनुत्तमो मत्तसखा करोति न नतिं च मे ॥५२॥
जात्या च कर्मभिर्हीनः पाखण्डी दुर्जनप्रियः ।
पापशीलश्चोद्धतश्च निन्दकोऽशुचिरेव च ॥५ ३ ॥
त्याज्योऽयं सर्वदा सद्भिर्बहिष्कार्यश्च सर्वथा ।
यदा यदा गृहं तस्य गतोऽहं मूर्खराडयम् ॥५४॥
नैवोत्तिष्ठति सामीप्ये मेऽवमानं करोति वै ।
तस्मादयं यज्ञबाह्यो भवत्वद्यदिनात्सदा ॥५५॥
रुद्रस्याऽनुचरां ये च तेऽपि वेद्बहिष्कृताः ।
पाखण्डवादसंयुक्ताः शिष्टाचारविवर्जिताः । ५६॥
कपालिनः पानरताः कालानना भवन्त्विति ।
नन्दी निशम्य तद्वाक्यं दक्षं प्रति रुषान्वितः ॥५७॥
शशाप दक्षं तत्पक्षान् ब्राह्मणाँश्चान्यवर्णिनः ।
वेदवादरता यूयं नान्यदस्तीतिवादिनः ॥५८॥
कामात्मानः स्वर्गपराः क्रोधलोभसमन्विताः ।
वैदिकविधिना विप्रा भवन्तु शूद्रयाजकाः ॥५९॥
दरिद्रिणो भवन्त्वत्र प्रतिग्रहरतास्तथा ।
असत्पथगताः सर्वे भवन्तु ब्रह्मराक्षसाः ॥1.174.६० ॥
शम्भुः शान्तस्तदा प्राह नन्दिनं स्वस्य सेवकम् ।
कोपं नाऽर्हसि वै कर्तुं ब्राह्मणान्प्रति सर्वदा ॥६१ ॥
कोऽयं कस्त्वं क्व चाऽहं वै कस्माच्छप्तास्त्वया द्विजाः ।
प्रपञ्चरचनां त्यक्त्वा प्रबुद्धो भव सेवक ॥६२॥
शातिं च प्रापिताः सर्वे ब्रह्मविष्णुसुरादिभिः ।
दक्षो गतो गृहं स्वस्य स्वाऽवमानं स्मरन् मुहुः ॥६३ ॥
ततः काले महान् यज्ञः समारब्धश्च तेन वै ।
दक्षेण दीक्षितेनातिविस्तारस्तत्र चर्षयः ॥६४॥
आहूताश्च वशिष्ठाद्यास्तपस्विनः समाययुः ।
कश्यपोऽत्रिर्वामदेवो ह्यगस्त्यश्च भृगुस्तथा ॥६५॥
पराशरो दधीचश्च व्यासश्च गौतमः सितः ।
गर्गः पैलो भरद्वाजो भार्गवः ककुपः कृतिः ॥६६॥
तथाऽन्ये ऋषयो देवा लोकपाला दिशाधिपाः ।
गन्धर्वाः किन्नरा विद्याधराश्चाप्सरसां गणाः ॥६७॥
सत्यलोकान्समानीतः सावित्रीसंयुतस्त्वजः ।
वैकुण्ठाच्च ततो विष्णुर्लक्ष्मीरमादिसंयुतः ॥६८॥
इन्द्रस्तत्र समानीतश्चेन्द्राण्या सह स्वर्गतः ।
तथा चन्द्रोऽपि रोहिण्या वारुण्या वरुणस्तथा ॥६९॥
कुबेरः पुष्पकारूढो मारुतो मृगवाहनः ।
पावको बस्तयानश्च नैर्ऋतः प्रेतवाहनः ॥1.174.७०॥
दाराः पुत्राश्च शिष्याश्च पार्षदा मन्त्रिणस्तथा ।
परिवारास्तथा वेदास्तेषां तेषां समागताः ॥७१ ॥
एवमन्ये समायाता दक्षयज्ञे कृतादराः ।
सत्कृतास्तेन दक्षेण सर्वे ते बहुवस्तुभिः ॥७२॥
भवनानि महार्हाणि सुप्रभाणि महान्ति च ।
त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥७३॥
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च ते स्थिताः ।
सम्मानिता अराजँस्ते सकला विष्णुना मया ॥७४॥
अथाऽसिक्नी सतीमाता पूर्वदक्षविवाहिता ।
दक्षं जातं पुनर्ज्ञात्वा तत्राऽऽगत्याऽवसत् सदा ॥७५॥
सा चाऽसिक्नी तत्र शम्भुं यदर्थमतपत्सती ।
न ददर्श समायातं तदा प्राह प्रजापतिम् ॥७६॥
दक्षं नत्वाऽवदत्प्रह्वीकृताऽन्तःकरणा नता ।
कथं सती तथा शम्भुर्दृश्येते नात्र तूत्सवे ॥७७॥
दक्षः प्राह तदाऽसिक्नीं तयोर्नास्ति प्रयोजनम् ।
सती तु सर्वदा स्निग्धा पित्रोर्मानाभिलाषिणी ॥७८ ॥
शठः शर्वो न वै स्निग्धो मेऽवमानप्रकारकः ।
अतीव गर्वितो जातः सतीं मे प्राप्य कन्यकाम् ॥७९ ॥
कस्यचिन्नाऽप्यसौ प्रायो न कश्चिदस्य वा प्रियः ।
किंवंश्यस्त्वेष किङ्गोत्रः किन्देशीयः किमात्मकः ॥1.174.८ ० ॥
किंवृत्तिः किंसमाचारो विषादी वृषवाहनः ।
न प्रायशस्तपस्व्येष क्व तपः क्वाऽस्त्रधारणम् ॥८ १ ॥
न गृहस्थेषु गण्योऽसौ श्मशाने तिष्ठते सदा ।
नाऽयं तु ब्रह्मचारी स्याद् यतः सत्या विवाहितः ॥८ २॥
वानप्रास्थ्यं न चैवास्मिन्नैश्वर्यमदमोहिते ।
न जाने ब्राह्मणो नास्ति वेदश्चैनं न वेत्ति यत् ॥८ ३ ॥
न जाने क्षत्रियो नास्ति प्रायः शस्त्रास्त्रसङ्ग्रहात् ।
क्षतात्त्राणं नास्ति चास्मिन्सर्वेषां प्रलयप्रिये ॥८४॥
निर्धनोऽरण्यरतिमान वैश्योऽपि नैव भाति मे ।
कथं शूद्रे समावेशो नागयज्ञोपवीतिनः ॥८५ ॥
एवं वर्णाश्रमातीतः को भवेनैव बुध्यते ।
सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ॥८६॥
प्रायशः पुरुषो नाऽसौ यतोऽर्धप्रमदामयः ।
नापि वै केवलानारी यतोऽसौ श्मश्रुलाननः ॥८७॥
नापि नपुंसको वास्ति लिङ्गं त्वस्य प्रपूज्यते ।
न चापि बालरूपोयं बहुवर्षोद्भवो यतः ॥८८॥
मन्वते तं मरीच्याद्या वृद्धं नाऽयं युवा यतः ।
वृद्धोऽपि कथमास्थेयो जरामृत्युविवर्जितः ॥८ ९ ॥
संहारयति सर्वान्वै तथाप्येष न पातकी ।
पुण्यलेशः कथं चात्र ब्रह्ममस्तकनाशके ॥1.174.९० ॥
मुण्डहारधरे क्वाऽस्य शुचित्वं वै दिगम्बरे ।
नाऽयं च धनवान्नैवाऽपत्यवान्न कुटुम्बवान् ॥९१ ॥
नाऽस्य माता नाऽस्य गोत्रं न वंशो नापि देहवान् ।
श्मशाने वर्तते नित्यं श्वादो नैवोपलक्ष्यते ॥९२ ॥
किं बहूक्तेन मे देवि ज्ञायते नाऽस्य चेष्टितम् ।
अहो धार्ष्ट्यं मां प्रत्येव जटिलस्याऽवमानकृत् ॥९३ ॥
यदासनान्नोत्थितोऽयं दृष्ट्वा मां श्वशुरं गुरुम् ।
एतादृशा भवन्त्येव मातापितृविवर्जिताः ॥९४॥
निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरङ्कुशाः ।
यथेष्टाचरणाः स्वाभिमानिनो यन्तृवर्जिताः ॥९५॥
अकिञ्चना अपि स्तब्धा भवन्तीश्वरमानिनः ।
जामाता जम्बुकतुल्यः श्वशुरे मृगपायते ॥९६॥
असिक्नि तव जामाता मम मस्तकनाशकः ।
यतोऽवमन्ता मे जातस्तस्मान्नाऽऽकारितो मया ॥९७॥
तस्याहं गर्वसर्वस्वं हरिष्यामि न संशयः ।
यथाऽवमानितश्चाऽहमवमंस्ये तथैव तम् ॥९८ ॥
तस्मात्त्वया न स्मर्तव्यो मा यज्ञे फलभाग्भवेत् ।
इति दक्षेणाऽग्र्यपत्नी बोधिता मौनमास्थिता ॥९९ ॥
विनिःश्वासं तदा मुक्त्वा दीर्घं सुतां विनाऽशपत् ।
नोत्सवे स्वसुतापुत्रजामात्राद्यास्यदर्शनम् ॥1.174.१०० ॥
प्रज्वलतूत्सवस्तादृक् कुसवः स तु कथ्यते ।
यत्राऽसुसमपुत्र्यादिदर्शनं नोपलभ्यते ॥१०१ ॥
इत्यसिक्न्या मनोदग्धो यज्ञारम्भस्तु भस्मितः ।
राज्यमातुः शापदग्धोऽवश्यं दग्धो भविष्यति ॥१०२ ॥
दक्षश्चागत्य मां विष्णुं यज्ञपूरुषमित्यपि ।
महाक्रतूपद्रष्टारं चक्रेऽर्पितस्वमस्तकः ॥१०३ ॥
प्राह देवानृषीन् विप्रान्प्रजापाँश्च मनूँस्तथा ।
अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः ॥१ ०४॥
भवत यज्ञसम्भारानानयत त्वरान्विताः ।
शृणु लक्ष्मि! वर्तमाने तीर्थे कनखले मखे ॥१० ५॥
तस्यर्त्विजोऽभवन्सर्वे ऋषयो ब्रह्मवादिनः ।
भृग्वाद्याश्च त्रिकालज्ञा वेदमूर्तय एव ते ॥१०६ ॥
अधिष्ठातात्वहं विष्णुः सह सर्वमरुद्गणैः ।
ब्रह्मा तत्राऽभवद्ब्रह्मा त्रयीविधिनिदर्शकः ॥१ ०७॥
तथैव सर्वे दिक्पाला द्वारपालाश्च रक्षकाः ।
सायुधाः सपरीवाराः कुतूहलकराः सदा ॥१०८ ॥
उपतस्थे स्वयं यज्ञो मूर्तिमाँस्तस्य चाऽध्वरे ।
वेदधराः स्वयं महामुनयश्चाऽभवन्मखे ॥१०९ ॥
अग्निः स्वयं निजं रूपं चक्रे सहस्रधा तदा ।
हविषां ग्रहणायाऽऽशु तत्र यज्ञमहोत्सवे ॥1.174.११० ॥
अष्टाशीतिसहस्राणि जुह्वति स्म च ऋत्विजः ।
उद्गातारश्चतुःषष्टिसहस्राणि सुरर्षयः ॥१११ ॥
अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः ।
सप्तर्षयः सामगार्थाः कुर्वन्ति स्म पृथक्पृथक् ॥११२ ॥
सिद्धगन्धर्वविद्याध्राऽऽदित्ययज्ञगणान्बहून् ।
समस्तान्नागसर्पांश्च वव्रे दक्षो महाध्वरे ॥११३ ॥
द्विजर्षिसुरराजर्षिवसुनिधिगणा नृपाः ।
मित्रसचिवसैन्याढ्या वृता मखोपवेत्त्रकाः ॥११४ ॥
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमङ्गलः ।
भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥११५ ॥
तत्र यज्ञे वृतं सर्वं न वृतो हर एकलः ।
कपालीति विनिश्चित्य तस्य यज्ञार्हता नहि ॥११६ ॥
अवमन्तेति कृत्वैव यज्ञे भागोऽपि मास्त्विति ।
कपालिभार्येति सती पूर्वजा स्वसुताऽपि च ॥११ ७॥
नाऽऽहूता यज्ञविषये दक्षेणाऽगुणदर्शिना ।
एवं प्रवर्तमाने वै दक्षयज्ञे महोत्सवे ॥११८ ॥
स्वकार्यलग्नास्तत्राऽऽसन् सर्वे तेऽध्वरसम्मताः ।
एतस्मिन्नुत्सवे तत्र न दृष्ट्वा शङ्करं सतीम् ॥११९ ॥
प्रोद्विग्नमानसः शैवो दधीचो वाक्यमब्रवीत् ।
दक्षप्रजापते दक्ष साक्षाद् धातृस्वरूपधृक् ॥1.174.१२० ॥
न त्वयि दृश्यते तेजः सामर्थ्यं वा क्रतुकृते ।
यादृशः क्रतुरारब्धो न वै पारयितुं क्षमः ॥१२१ ॥
क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः ।
कर्तव्यश्च तदा यज्ञो यदि सम्पत्तिरीदृशी ॥१२२ ॥
साक्षादग्निः स्वयं मूर्तिमान् कुण्डेऽत्र विराजते ।
इन्द्रादयस्तथा देवाः साक्षात्सन्ति समागताः ॥१२३ ॥
मन्त्राः सर्वेऽपि साक्षाच्च वर्तन्ते यज्ञकर्मसु ।
यज्ञश्च भगवान् साक्षान्मूर्तश्चात्र विराजते ॥१ २४॥
बृहस्पतिः स्वयं चाऽत्राऽऽचार्यस्थाने सुशोभते ।
ब्रह्मा साक्षाद्ब्रह्मस्थाने कर्मकाण्डी भृगुः स्वयम् ॥१२५ ॥
अयं पूषा भगश्चायं साक्षाद्देवीसरस्वती ।
शारदा च तथा साक्षात् लक्ष्मीर्नारायणः स्वयम् ॥१२६ ॥
दिक्पाला लोकपालाश्च साक्षाद्रक्षाकृतः स्वयम् ।
जामाता त्वेष ते धर्मः पत्नीभिः समुपस्थितः ॥१२७ ॥
त्वं च पत्न्या समं दीक्षां प्राप्तोऽसि यजने स्वयम् ।
सप्तविंशतिपत्निभिः सह तै कार्यकृच्छशी ॥१२८ ॥
मारीचः कश्यपश्चायं राजसूयस्य कारकः ।
तव यज्ञे समायातो दत्तत्रैलोक्यदक्षिणः ॥१२९ ॥
तस्य पत्न्यस्तव सुतास्त्रयोदश समागताः ।
अन्या अपि सुपुत्र्यस्ते जामातारश्च सगताः ॥1.174.१३० ॥
कामधेनव आज्यादिहवींषि तेऽर्पयन्ति वै ।
कल्पवृक्षाः स्वयं चात्र समित्कुशान्वहन्ति च ॥१३१ ॥
काष्ठपात्राणि यानानि मण्डपादीनि यानि च ।
अपेक्ष्यन्ते तानि वृक्षैरर्प्यन्ते स्वयमागतैः ॥१३२ ॥
अभ्यागतर्त्विजां भूषा विश्वकर्मा करोति च ।
वासांसि वसवश्चाष्टौ ददत्यत्र मखे तव ॥१३३॥
स्वयं लक्ष्मीः सुवासिनीरलङ्करोति ते मखे ।
सर्वं सुखकरं दक्ष तव यज्ञेऽत्र दृश्यते ॥१ ३४॥
जीवहीनो यथा देहः क्वापि नैव तु शोभते ।
भूषितोऽपि तथा यज्ञः शम्भुं विना न शोभते ॥१ ३५॥
एतद् दुःखकरं चात्र श्मशानमिव भूमिका ।
शम्भुं बिना तव यज्ञश्चिताभूरिव लक्ष्यते ॥१ ३६॥
सर्वे देवर्षिप्रमुखा मद्वाक्यं शृणुतात्र वै ।
कस्मान्न विद्यते शम्भुरस्मिन् यज्ञमहोत्सवे ॥१ ३७॥
यदधीनानि सर्वाणि मङ्गलानि भवन्ति च ।
सोऽसौ प्राणः क्रतोश्चात्र दृश्यते न कथं हरः ॥१३८॥
अमङ्गलान्यपि येन मङ्गलान्यधिवर्तिना ।
भवन्ति स कथं नात्र चायातः शङ्करः शिवः ॥१ ३९॥
तस्माद्दक्षेण कर्तव्यमाह्वानं परमेशितुः ।
अथवा ब्रह्मणा वा च विष्णुना ऋषिभिः सह ॥1.174.१४० ॥
द्विजैः सिंहैर्लोकपालैरिन्द्रादिभिः सहाऽधुना ।
सर्वैर्भवद्भिर्गन्तव्यं गिरौ यत्रास्ति शङ्करः ॥१४१ ॥
दाक्षायण्यासमं शम्भुमानयध्वं शुभं भवेत् ।
शङ्कराऽऽनयने यज्ञोऽवभृथपूर्तिको भवेत् ॥१४२॥
भविष्यत्यन्यथा विघ्नं सत्यं भावि ब्रवीम्यहम् ।
मया निवेदितव्यं यत् तदत्रैव निवेदितम् ॥१४३ ॥
श्रुत्वैतद्वै दधीच्युक्तं भृशं जज्वाल यज्ञकृत् ।
दक्षः रोषपरीतात्मा प्रोवाच कलहान्वितम् ॥१४४॥
ब्राह्मणोऽसि दधीचे त्वं यच्छ मौनं बहिर्व्रज ।
यज्ञदीक्षास्थितस्तेऽहं वैशसं कर्तुमक्षमः ॥१४५॥
पृष्टः केन समाहूतो यदत्राऽऽगत्य कत्थसे ।
मूलं विष्णुर्देवतानां यत्र धर्माः सनातनाः ॥१४६ ॥
सर्वमङ्गलमाङ्गल्यः समानीतो मयाऽत्र सः ।
यत्र वेदास्तथा यज्ञाः कर्माणि विविधानि च ॥१४७॥
स्वयं वै यज्ञपुरुषः किमूनं यज्ञकर्मणि ।
सर्वकर्मप्रतिष्ठोऽयं विष्णुर्मे वर्तते मखे ॥१४८॥
यत्र त्रिलोकनाथोऽयं शतक्रतुः समागतः ।
त्रयस्त्रिंशत्प्रकोटीनाममराणां पतिर्मखे ॥१४९ ॥
सत्यलोकात्समायातो ब्रह्मा सावित्रिकायुतः ।
वेदोपनिषदैः सर्वैरागमैर्ब्राह्मणैः सह ॥1.174.१५ ०॥
धर्मराट् सह पत्नीभिः पुत्रपौत्रैः समागतः ।
तथा यूयं च ऋषयो धर्माऽधर्मविदोऽपरे ॥१५१ ॥
कुबेरो धनदाता च पत्नीभिः सह पावकः ।
बृहस्पतिः स्वयं यज्ञाचार्यत्वेन व्यवस्थितः ॥१५२ ॥
एते यज्ञोचिताः शान्ताः पावना प्रमहर्षयः ।
मम यज्ञे कर्मकरास्तं श्मशानं ब्रवीष्यहो ॥१५३ ॥
श्मशानं तु सदा यत्र -भूतप्रेतपिशाचकाः ।
गणा वसन्ति तत्रैव शङ्करस्य गृहे भवेत् ॥१५४ ॥
यत्र कर्मकराः सर्वे मूर्धन्याश्च समागताः ।
किमत्राऽस्माकमूनं यद्रुद्रेणापि प्रयोजनम् ॥१५५ ॥
यत्रार्त्विज्यं भजन्तेऽमी वशिष्ठाद्या महर्षय ।
तं त्वं चोपमिमीषेऽत्र चिताभूम्या शुभाश्रयम् ॥१५६ ॥
कन्या दत्ता मया तस्मै ब्रह्मणा नोदितेन वै ।
हरोऽकुलीनो विप्रो न मातापितृविवर्जितः ॥१५७ ॥
भूतप्रेतपिशाचेशो मानी स्तब्धोऽशुचिः सदा ।
कर्मण्यस्मिन्न योग्योऽसौ यस्मान्नानीतवानहम् ॥१५८ ॥
तस्मान्नेदृक्पुनर्वाच्यं यज्ञविघ्नकरं त्वया ।
यज्ञा विना हरिं कार्या मास्तु स यज्ञभागभुक् ॥१५९ ॥
निशम्येति दधीचिर्वै पुनः प्राह नयान्वितम् ।
सर्वमङ्गलमाङ्गल्यो हरिर्भवति सर्वथा ॥1.174.१६० ॥
तथापि शङ्करो वेदे विष्णुर्नारायणो मतः ।
दुर्वासाः शङ्करस्यांशस्तद्धस्ते वै शतक्रतुः ॥१६१ ॥
पतितः प्राप निःश्रीकभावं क्षणेन यत्पुनः ।
भर्गं चाराध्य जलधौ प्रापत्स्वाममरावतीम् ॥१६२ ॥
धर्मोऽत्र क्रतुरक्षार्थं स्थितोऽस्ति वर्ततां सदा ।
किन्तु श्वेतेन मुनिना शिवभक्तेन धर्मराट् ॥१६३ ॥
जितो मृत्युसमेतः सः किं बलं वेद्मि सर्वथा ।
धनदस्त्र्यम्बकसखः स्थास्यति न विना शिवम् ॥१ ६४॥
अग्निस्तस्य ललाटस्थं नेत्रं भवति सर्वदा ।
यदा तु चन्द्रमास्तारामधर्षीत् त्र्यम्बकस्तदा ॥१६५ ॥
गुर्वाराधित एवाऽभूत् देवाचार्यस्य रक्षकः ।
एते सर्वेऽपि जानन्ति शिवं यदा शिवं सुखम् ॥१६६ ॥
यदागाम्यशिवं भावि तदा रुद्रोऽस्त्ययं शिवः ।
यदि मे ब्राह्मणस्यैकं धार्यते वचनं हृदि ॥१ ६७॥
शम्भुमाहूय यज्ञोऽयं प्रवर्ततां महामखः ।
विना तेन क्रतुश्चायं कृतोऽपि न कृतो भवेत् ॥१६८ ॥
सति शम्भौ फलिष्यन्ति युष्माकं वै मनोरथाः ।
अर्थहीना यथा वाणी धर्महीना यथा तनुः ॥१६९ ॥
पतिहीना यथा नारी पुत्रहीना यथा गृहाः ।
गङ्गाहीना यथा देशाः श्रुतिहीना यथा द्विजाः ॥1.174.१७० ॥
दानहीना यथा सम्पत् तिलहीनं च तर्पणम् ।
मन्त्रहीनं यथा राज्यं सुखं पत्नीं विना यथा ॥१७१ ॥
दर्भहीना यथा सन्ध्या होमो हविर्विना यथा ।
निष्फलानि समुक्तानि यज्ञो हरं विना तथा ॥१७२॥
एवं दधीचिनाऽऽख्यातं दक्षो जग्राह नैव तत् ।
प्रोवाच च भृशं क्रुद्धः का चिन्ता तव मे क्रतोः ॥१७३ ॥
क्रतुकर्माणि सिद्ध्यन्ति यथार्थकरणादिह ।
अयथार्थकृते नैव सिद्ध्येत् कर्मापि चेशितुः ॥१७४॥
दधीचिश्च तदा प्राह यथार्थकरणादपि ।
ईश्वरप्रातिकूल्याच्च सिद्धिमपि विनश्यति ॥१७५॥
अमङ्गलो मङ्गलो वा क्रतुं यदाऽऽगमिष्यति ।
तदा क्रतुः कृतकृत्यो भविष्यत्यन्यथा क्षयः ॥१७६॥
एवं ब्रूवति चुक्रुधे दधीचौ दक्ष ऐरयत् ।
ब्राह्मणापसदं निष्कासयितुं किङ्करान् स्वकान् ॥१७७॥
’ दधीचिर्वीक्ष्य वै प्राह दक्षं गर्वाऽतिमोहितम् ।
किं मां दूरयसे मूढ दूरं भवतु वै भवान् ॥१७८॥
एभिः समं मङ्गलेभ्यो हीनो भवतु सर्वदा ।
अस्थले क्रोधजो वह्निस्तव मूर्ध्नि पतिष्यति ॥१७९॥
इत्युक्त्वा निर्ययौ यज्ञस्थलाद्दधीचिरर्थवित् ।
निर्ययुश्च्यवनोऽगस्त्यो दुर्वासा ऋचीकस्तथा ॥1.174.१८०॥
उद्दालक उपमन्युरुत्तङ्को गर्गगौतमौ ।
माण्डव्यो वामदेवश्च गालवश्चेतरे तथा ॥१८ १॥
अन्येऽपि च त्रिकालज्ञाः शैवा यज्ञाद्विनिर्ययुः ।
तदा दक्षः शिवद्रोही हसन् सर्वान् समब्रवीत् ॥१८२॥
गता वै कण्टकाः सर्वे जातं मे सम्मतं बहू ।
एते खला वेदबाह्यास्त्याज्या वै यज्ञकर्मणि ॥१८३॥
वैदिकाश्च सुरा विप्रा ब्रह्मविष्णुपुरोगमाः ।
यज्ञं मे सफलं पूर्णं सर्वे कुर्वन्तु मा चिरम् ॥१८४॥
गतेषु शिवपक्षेषु प्रावर्तत महामखः ।
ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुणदक्षिणाम् ॥१८५॥
भूयसीर्दक्षिणाः प्रादादन्येभ्यश्चाधिकं धनम् ।
सर्वे जामातरस्तेन तोषिता भूरिशो धनैः ॥१८६॥
कन्याश्चालङ्कृताः सर्वा महाविभवदापनैः ।
ऋषिपत्न्योऽपि बहुशो देवपत्न्योऽप्यनेकशः ॥१८७॥
तथा पुरांऽगना देशांऽगनाश्चापि प्रपूजिताः ।
एवमेव प्रवर्तिते यज्ञे दक्षस्तु नित्यशः ॥१८८॥
भोजयति तर्पयति चार्पयति धनादिकम् ।
अग्निर्मन्दाग्नितां तेन प्राप्तवान् प्रत्यहं शनैः ॥१८९॥
स्वाहाकारैः स्वधाकारैर्वषट्कारैः सुरादयः ।
तृप्ता नित्यं प्रजायन्ते सदन्नभोजनादिभिः ॥1.174.१९०॥
रचिता गिरयस्तत्र पक्वान्नानां स्थले स्थले ।
घृतकुल्या मधुकुल्या दुग्धकुल्याः सहस्रशः ॥१९ १॥
गुडानां शर्कराणां च फलानां राशयः कृताः ।
दुकूलानां च रत्नानां भोग्यानां शिखराणि च ॥१९२॥
कृतानि यज्ञवाटश्च स्वर्णरूप्यमयः कृतः ।
ध्वनिर्मङ्गलगीतानां व्यानशे सर्वतोमुखम् ॥१९३॥
जहृषे चाप्सरोवृन्दैर्गन्धर्वैर्मुमुदेतराम् ।
विद्याधरैर्ननन्दे च वसुधा ववृधे भृशम् ॥१९४॥
प्रत्यहं प्राणिनस्तत्र तृप्यन्ति स्वेष्टवस्तुभिः ।
एवं प्रवर्तते यज्ञो नारदस्तु क्रतुस्थलात् ॥१९५॥
उत्तिष्ठन्सर्वतः पश्यन सिञ्चन्सुकलहाङ्कुरम् ।
सर्वमनःसु सङ्कुर्वन् संशयं रुद्रमीलने ॥१९६॥
उदडीयत गगने ययौ कैलासपर्वतम् ।
तदा सङ्कल्पा भीरूणां पलायनकृतौऽभवन् ॥१९७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दक्षस्य शम्भुगृहे त्रिवारगमनं, पुनःपुनरवमानम्, नैमिषारण्ये भृग्वादीनां परस्परशापदानं, दक्षकृतशम्भुनिन्दा, कनखले दक्षयज्ञे देवादीनामागमनं, शम्भोरनागमने दधीचस्य दक्षाय शापादिकमित्यादिनिरूपणनामा चतुःसप्तत्यधिकशततमोऽध्यायः ॥१७४॥