१७३

श्रीनारायण उवाच-
शृणु लक्ष्मि हिमाद्रौ तु तयोर्विहरतोस्तदा ।
कामस्मृत्या कामदेवः प्रविष्टस्तत्र सन्निधौ ॥१ ॥ तस्मिन्प्रविष्टे शम्भौ च सत्यां च कामना शुभा ।
समभवत्तदा शम्भोर्भावं विज्ञाय सर्वथा ॥२ ॥ वसन्तः स्वस्य कर्तव्यं समारेभे हरान्तिके।
मन्दसुगन्धशैत्याढ्यो ववौ च मलयो मरुत् ॥३ ॥ वृक्षाश्च पुष्पिताः सर्वे लताश्च पुष्पितास्तदा ।
विरेजिरे पलाशाश्च किंशुकैः रक्तकोमलैः ॥४ ॥ कमलानि विचित्राणि सरःस्वपि विरेजिरे ।
पद्मपुष्पाढ्यपवनो ववौ तत्र हरान्तिके ॥५ ॥ नागकेशरपुष्पाणि स्वर्णवर्णसुगन्धिभिः ।
मनोज्ञान्यभवँस्तत्र शङ्करस्य महात्मनः ॥६ ॥ सुगन्धगन्धसम्पृक्ता नागवल्ली च मारुतम् ।
सती शङ्करनिकटे प्रैरयन्मोहकारकम् ॥७ ॥ कोकिलाश्च तदानीं सुस्वरं जगुर्मनोहरम् ।
आम्राः प्रफुल्लिताः पत्रमञ्जरीभिर्बभुस्तदा ॥८ ॥ जलानि निर्मलान्यभिरेजुश्च फुल्लकाशकाः ।
ज्योतिश्चक्राणि संरेजुर्वासन्तिकप्रभादिभिः ॥९ ॥ कौमुद्या सह रक्ताश्च विभावर्योऽभवन् प्रियाः ।
शाद्वलाः सुप्रदेशाश्चाऽभवन् कामसुखप्रदाः ॥1.173.१ ०॥ नदीषु च निकुञ्जेषु कन्दरीषु स्थलीषु च ।
रेमे सत्या समं शम्भुर्विरेजे शम्भुना सती ॥११ ॥ रमयामास देवेशं विविधाभिस्तु केलिभिः ।
हरस्तु पुष्पमालाभिः प्रियां शृङ्गारयत्यपि ॥१ २॥ कबरीकरणैरङ्के स्वापनैश्चूम्बनैस्तथा ।
सन्तोषयति चालापैर्हास्यवीक्षणमर्दनैः ॥१२ ॥ तद्वक्त्रशश्यधराऽमृतपानमत्ततां गता ।
नानाविधासनसेतुमादिदेश प्रियै तदा ॥१४॥ सत्या वक्त्रसुगन्धेन सौन्दर्येण च नर्मणा ।
प्रेम्णा रत्या सुबद्धोऽयं शङ्करः सन्तुतोष ह ॥१५ ॥ इत्येवं हिमवच्छृङ्गे रमयित्वा सतीं शिवः ।
कैलासमगमत् स्वस्य निवासे शान्तिमावहत् ॥१६ ॥ तापकालो व्यतीतश्च यदा मेघागमोऽभवत् ।
सती प्राह तदा शम्भुं शृणु मे वचनं प्रिय ॥१७॥ घनागमोऽयं समयो मेघा वर्षन्ति सर्वदा ।
प्रवान्ति वाता हृद्यं कम्पयन्त्यतिवेगिनः ॥१८ ॥ स्थल्यः सर्वत्र सङ्क्लिन्नाः कर्दमाढ्या अनाश्रया ।
वृक्षा वल्ल्यः प्रभिन्नाश्च समार्द्रा जलसम्भृताः ॥१९॥ मेघानां गर्जना विद्युद्विलासाः प्रभवन्ति च ।
मेघच्छन्नौ न दृश्येते सूर्याचन्द्रमसौ दिवि ॥1.173.२०॥ वाताहता महावृक्षाः पतन्ति त्रासदा भुवि ।
व्याघ्राः सिंहा महाक्रूरा विषवन्तश्च देहिनः ॥२१ ॥ भ्रमन्ति निर्जनेऽरण्ये शीतोष्णाऽनिलवह्नयः ।
एते चान्ये दुःखदाश्च विघ्ना भवन्ति सर्वदा ॥२२॥ तस्मात् क्वचिन्निवासार्थं गृहं कार्यं त्वयाऽधुना ।
यत्रच्छाया सुखशय्या पानभोजनवैभवाः ॥२३ ॥ रक्षितुं च भवेयुर्वै शक्याः सामयिकाः सदा ।
यदि विरामलाभाय सौधं नास्ति जनस्य तु ॥२४॥ तदा को दारवहने लाभोऽस्ति वनवासिनः ।
चक्रवाककपोताद्या पक्षिणोऽपि निराश्रयाः ॥२५॥ प्राप्ते काले प्रकुर्वन्ति गृहाणि वृक्षकोटरे ।
पिपीलिकामूषकाद्याः कुर्वन्ति भूगृहाण्यपि ॥२६ ॥ तस्माद्गार्हस्थ्यधर्मस्याङ्गभूताऽपत्यरक्षणम् ।
गृहे वै स्यान्निराबाधं सर्वर्तुसुखदे दृढे ॥२७॥ अन्यासां मद्भगिनीनां भवनानि महान्ति वै ।
दिव्यान्यसङ्ख्यस्मृद्धीनि वर्तन्ते नास्ति मे गृहम् ॥२८॥ प्रथमे गृहशून्यत्वं दुःखं संसारसागरे ।
द्वितीयं धान्यहीनत्वं तृतीयं धनशून्यता ॥२९ ॥ चतुर्थं निरपत्यत्वं मालिन्यं पञ्चमं मतम् ।
षष्ठं रोगकृतमैत्र्यं सप्तमं चाऽगवादिकम् ॥1.173.३ ०॥ अष्टमं च गृहे क्लेशः सिंहवृषभभोगिनाम् ।
एतद्दुःखाष्टकं मेऽस्ति किं गार्हस्थ्येन योगिनः ॥३१ ॥ योगी स्यान्न भवेद्भोगी भोगी स्यात् किन्तु योगिता ।
तस्माद्योगफलं दुःखाष्टकनाशे प्रयुज्यताम् ॥३२।
पश्याऽरण्ये च दावाग्निर्बहुधा जायतेऽत्र वै ।
प्ररोहन्ति च सस्यानि निबीडानि निवासने ॥३३ ॥ श्यामला राजता रक्ता विशदास्तृणजातयः ।
आसनस्थलभूमौ वै प्ररोहन्ति प्रकर्दमाः ॥३४॥ असमश्रीश्च कुटिला स्थली सेव्याऽतिदुःखदाः ।
निद्रायां रतियोगे वा मध्यरात्रौ भयङ्कराः ॥३५ ॥ शब्दाः श्रूयन्त उग्राश्च कार्यध्वंसेऽतिदुःखदाः ।
मध्याह्ने तूल्बणस्तापो वर्षाधाराश्च दुःखदाः ॥३६ ॥ पश्य मे पादयोस्तीक्ष्णकण्टकानां च शाश्वती ।
कुटिका सङ्गता तत्र कण्टकाः सन्ति कीदृशाः ॥३७॥ शरीरे पश्य मे मेघकरकाणां च दुर्नयम् ।
पतित्वा छादयन्त्येव शरीरं शैत्यदुःखदम् ॥३ ८॥ एतस्मिन् विषमे काले नीडं काकाश्चकोरकाः ।
कुर्वन्ति त्वां विना गेहान् कथं शान्तिमवाप्स्यसि ॥३९॥ महतीवाऽद्य मे भीतिर्मेघोत्था जायते हृदि ।
ततो यतस्व सौधार्थं मा चिरं वचनान्मम ॥1.173.४०॥ भार्या रक्ष्या वने स्थेयं रतिः स्वाद्या न भोजनम् ।
एतत्सर्वं विनाशाय नो सुखाय प्रजायते ॥४ १ ॥ कैलासे वा हिमाद्रौ वा गङ्गातीरेऽथवा क्षितौ ।
यत्र क्वापि वासयोग्यं भवनं कुरु शङ्कर ॥४२॥ प्राघूणिकाः समागत्य शान्ता भवेयुराश्रमे ।
धनधान्यस्मृद्धिमति यथापेक्षं तथा कुरु ॥४३ ॥ श्रुत्वा सतीव्याहृतं च मत्वा मनसि सार्थकम् ।
शम्भुः प्राह तदा देव्यै रञ्जयन्मानसं मुहुः ॥४४॥ वद देवी यत्र मेघा गच्छन्त्येव नहि क्वचित् ।
तत्र सौधं कारयेयं यदि ते रोचते शिवे ॥४५ ॥ मेघा नितम्बपर्यन्तं सञ्चरन्ति महीधरे ।
मेरौ वा तादृशे शृङ्गे कुर्वे ते यदि रोचते ॥४६॥ कैलासस्य तथा देवि नितम्बे प्रायशो घनाः ।
वर्षास्वपि प्रचरन्ति कुर्वे ते तत्र रोचते ॥४७॥ अरुणाचलशृङ्गै च नितम्बे प्रायशो घनाः ।
सञ्चरन्ति न गच्छन्ति तत ऊर्ध्वं कदाचन ॥४८ ॥ सौराष्ट्रे रैवते शैले स्वर्गशृङ्गे सुतैजसे ।
यत्र मेघा नितम्बस्था न गच्छन्त्युपरीति वा ॥४९ ॥ हिमालये शिवशृङ्गे मेघा गच्छन्ति नैव यत् ।
यत्रास्ति चन्द्रजं शैत्यं कुर्वे सौधं तु रोचते ॥1.173.५ ० ॥ इत्येतेषु गिरीन्द्रेषु त्वया दृष्टेषु प्राग्भवे ।
मनोरुचिर्भवेद्यत्र तमाचक्ष्व द्रुतं हि मे ॥५ १ ॥ यत्र हैमे प्रोच्चशृङ्गे सिद्धपत्न्यो वसन्ति वै ।
तत्र ते यदि वाञ्छास्ति कुर्वे तत्र महालयम् ॥५२ ॥ स्वर्णशृङ्गे यत्र देव्यो निवसन्ति सकौतुकाः ।
तत्र ते यदि वाञ्च्छा स्यात् कुर्वे सौधं सुवर्णजम् ॥५ ३ ॥ आरुणे मणिकुट्टे वा लोकालोकेऽथ रैवते ।
नागकन्या गिरिकन्याः किन्नर्यः फणिकन्यकाः ॥५४॥ गान्धर्व्यश्चाऽप्सरसो विद्याध्र्यः प्रवसन्ति च ।
यत्र तत्र रुचिस्तेऽस्ति कुर्वे स्वर्गोपमं गृहम् ॥६१ ॥ सर्वास्ताः सततं सेवां करिष्यन्ति तव प्रिये ।
अनुमोदैः सहयानैः सहक्रीडादिभिः सदा ॥५६ ॥ रूपं तवेदमतुलं वदनं चारु वीक्ष्य ताः ।
तव दास्यो भविष्यन्ति हेलयित्वा निजं वपुः ॥५ ७ ॥ यद्वा हिमालये मेना बहुरूपगुणान्विता ।
तत्र ते सा मनोमोदं करिष्यत्यतिसेवया ॥५८ ॥ गिरीणां कन्यका हैमे शिक्षार्थं यान्ति नित्यदा ।
तत्र वै शिखरं रम्यं शिवाख्यं यदि रोचते ॥५९ ॥ विचित्रैः कोकिलालापमोदैः कुजगणावृतम् ।
सदा वसन्तप्रभवं वस्तुमिच्छसि किं प्रिये ॥1.173.६० ॥ नानाजलसरोयुक्तं सरोजाऽसङ्ख्यताकुलम् ।
कल्पवृक्षाऽमृतवल्लीकामधेनुसमन्वितम् ॥६१ ॥ प्रशान्तश्वापदगणं यतिसाधुसुसेवितम् ।
स्फाटिकस्वर्गहीरकराजतैरुपशोभितम् ॥६ २ ॥ मानसतालहंसाऽश्वव्योमहस्तिनिषेवितम् ।
हिरण्मयै रत्नजालैः पङ्कजैर्मुकुलैः सुमैः ॥६३ ॥ नीलोत्पलादिभिः पुष्पैर्मञ्जुलैः सुनिषेवितम् ।
कुङ्कुमैः सर्वगन्धैश्च लसद्गन्धजलैस्तथा ॥६ ४॥ शाद्वलैस्तरुणैस्तुङ्गैर्वंशवृक्षैः सुशोभितम् ।
नृत्यद्भिर्वृद्धमयूरैर्गुञ्जद्भिर्भ्रमरादिभिः ॥६५ ॥ सारसैः कोकिलाभिश्च मधुराऽऽराविभिर्युतम् ।
गायनैः सततं तेषां शब्दायमानमन्वहम् ॥६६ ॥ सहेलीभिः सदायुक्तं कामोद्दीपनकारकम् ।
नूत्ननूत्नसखीयुक्त वस्तुमिच्छसि किं प्रिये ॥६७ ॥ यद्वा मेरोः सुशिखरे सारभूते महाशुभे ।
संविहर्तुं सखीयुक्ता साऽप्सरोगणमण्डिता ॥६८
समिच्छसि तत्र रन्तुं कुर्वे भवनमुत्तमम् ।
नित्यं शची करिष्यति तव सेवां सहायताम् ॥६९ ॥ जलेशस्य कुबेरस्येशानस्य च यमस्य च ।
अग्नेर्नैर्ऋतदेवस्य मारुतस्य परस्य वा ॥1.173.७० ॥ पुरीभिः शोभिते शृङ्गे मेरोरुच्चसुरालये ।
शचीरम्भामेनकादिरम्भोरुगणसेविते ॥७१ ॥ त्वमिच्छसि सविहर्तुं कुर्वे तत्र महालयम् ।
अथवा मम कैलासे पर्वतेन्द्रे सदाश्रये ॥७ २ ॥ स्थानमिच्छसि कुबेरनगरीसन्निधौ शुभम् ।
गङ्गाजलकणैरार्द्रं पूर्णचन्द्रसमोज्ज्वलम् ॥७ ३ ॥ दरीषु सानुषु द्रोण्यां ब्रह्मकन्याऽभिशोभितम् ।
नानामृगकृताऽऽवासं पद्माकरशतावृतम् ॥७४॥ मेरोरपि विशेषेण सद्वस्तुगुणमण्डितम् ।
आवयोः सानुकूलं च रचये तादृशं तदा ॥७५ ॥ यत्राऽस्त्यधिकवासेच्छा समाचक्ष्व द्रुतं मम ।
गृह स्वर्णमणिरत्नसम्पत्पूर्णं करोमि वै ॥७६ ॥ सत्युवाच तदा शम्भुं हिमाद्रौ वसितुं सदा ।
समीहे नचिरात् तत्र कुरु संवासमिष्टदम् ॥७७॥ श्रुत्वा शम्भुः सतीं नीत्वा तुङ्गं शृङ्ग ययौ सदा ।
सिद्धाङ्गनागणयुक्तं सरसीवनराजितम् ॥७८ ॥ विचित्रैः कुसुमैर्व्याप्तं नैकधारत्नकर्बुरम् ।
पक्षिभिर्यदगम्यं वै स्फटिकाऽभ्रमयं च यत् ॥७९॥ विचित्रपुष्पततिभिः शाद्वलैर्द्रभिरन्वितम् ।
प्रफुल्लतरुशाखाग्र गुञ्जद्भ्रमरघोषितम् ॥1.173.८० ॥ पङ्केरुहैः प्रफुल्लैश्च नीलोत्पलचयैर्युतम ।
स्वर्गीयसारसहंसशुकमेनाभिसेवितम् ॥८ १ ॥ तुरङ्गवदनैः सिद्धैरप्सरोभिश्च सेवितम् ॥ विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम् ॥८ २ ॥ पुरन्ध्रीभिः पार्वतीभिः कन्याभिरभिसङ्गतम् ।
विणाविपञ्चीतन्त्रिकामृदङ्गपटहस्वनः ॥८ ३ ॥ नृत्यद्भिरप्सरोभिश्च कृतकौतुकशोभितम् ।
देविकाभिदीर्घिकाभिर्गन्धिभिः सुसमावृतम् ॥८४।
प्रफुल्लपुष्पवल्लीनां सुकुञ्जैरुपशोभितम् ।
हिमालयपुराऽभ्यर्णे कुबेरपुरसन्निधौ ॥८५॥ रम्यं विशालशिखरं स्वर्गतुल्यमनोहरम् ।
शिवशृङ्गं हरो गत्वा दाक्षायण्या समं मुदा ॥८ ६ ॥ चिरं रेमे कृतसौधः कृतकैलासनामके ।
सप्राकारे महाशाले कैलासनगरे नवे ॥८७॥ विश्वकर्माणमाहूय कारयामास सत्पुरम् ।
कैलासनामकं यत्र भवनानि चकासिरे ॥८८ ॥ स्वर्णरत्नमणिनद्धभित्तिमन्ति दृढानि च ।
शय्यास्थानानि रम्याणि स्नानस्थानानि सन्ति च ॥८९ ॥ शीतोष्णजलकुण्डाश्च वाप्यो मिष्टोदकास्तथा ।
महानसानि रम्याणि वह्निशालास्तथा शुभाः ॥1.173.९० ॥ भक्ष्यभोज्यादिसामग्रीरक्षास्थानानि सन्ति च ।
शृङ्गारकार्यसुस्थल्यो हास्यविनोदमण्डपाः ॥९१ ॥ हावभावविलासार्थं गुप्तहर्म्याणि सन्ति च ।
प्राघूणिकनिवासार्थं गृहाणि सुमहान्ति च ॥९२ ॥ निद्राविराममञ्चाढ्यशय्यागृहाणि सन्ति च ।
प्रेङ्खादोलादिसंराजद्वितर्दीभूमिकोत्तमाः ॥९३ ॥ ग्लहद्यूतादिरङ्गानि समाजरङ्गमण्डपाः ।
चतुष्क्यश्चोदकुम्भ्यश्चाऽट्टालिकाः सन्ति सर्वशः ॥९४॥ उद्यानाश्च गृहोद्याना गृहयानानि वैद्युताः ।
प्रदीपाः श्रावयन्त्राणि दृश्ययन्त्राणि सन्ति च ॥९५ ॥ वस्त्राणि लक्षशो नैकजातीयानि कृतानि वै ।
पात्राणि स्वार्णरौप्याणि विभूषा रात्नपौरटाः ॥९६ ॥ वेशास्तथोपवेशाश्च कपाटगुप्तसङ्ग्रहाः ।
वायुव्यजनयन्त्राणि कामसङ्गीतशालिकाः ॥९७ ॥ मनोरञ्जनमार्गाश्च बहुदृश्याऽऽपणास्तथा ।
कोटिलक्षाऽयुतगणनिवासाः सद्गृहोत्तमाः ॥९८॥ वाटिकाश्च विहाराश्च राजधान्यः शुभाः कृताः ।
यत्राऽमृतरसा दिव्याः सन्ति ब्रह्मरसास्तथा ॥९९ ॥ कामोत्तेजकपानाद्याः सद्रसाः सन्ति यत्र वै ।
नवयौवनपुष्ट्यापादकवल्ल्योषधिस्थलम् ॥1.173.१०० ॥ कामधेनुनिवासाश्च रसशालास्तथा शुभाः ।
वृषभसिंहगरुडगजाश्व वाहनानि च ॥१०१ ॥ कृतानि कारितानि वै कन्याशिक्षागृहाणि च ।
एतादृशो नवस्तत्र कैलासो नगरोत्तमः ॥१०२ ॥ कारितं शम्भुना विश्वकर्मद्वारा महोत्तमः ।
यस्याग्रे लोकपालानां सोधाः क्षुद्रास्तदाऽभवन् ॥१०३ ॥ दक्षगृहाच्छतगुणस्मृद्धियुक्तां पुरीं निजाम् ।
विलोक्य वीक्ष्य संलोक्य सती जहर्ष सा मुहुः ॥१ ०४॥ यद्यच्च कल्प्यते वस्तु तत्तत् तत्रोपतिष्ठते ।
न न्यूनं वर्तते किञ्चित् ब्रह्मविष्णुसुरादितः ॥१ ०५॥ राजाधिराजसल्लक्ष्म्या सेव्यते सतीशङ्करौ ।
राजेते राजराजेशसम्पत्त्या छत्रचामरैः ॥१०६ ॥ विमानवरमारुह्य क्वचिद्यातः स्थलान्तरम् ।
मेर्वादावन्तरीक्षे च स्वर्गादौ संविहृत्य च ॥१०७॥ गत्वा गत्वा पुनर्नूत्ने कैलासैऽभ्येत्य रेमतुः ।
सतीशौ चैवमानन्दं गार्हस्थ्यमनुचक्रतुः ॥१०८ ॥ एवं श्रीशङ्करसुखं सत्यपश्यत्स्म सर्वदा ।
श्रीशम्भुरपि सर्वत्र समद्राक्षीत्। सतीसुखम् ॥१० ९॥ एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।
वर्धयामासतुः सतीशिवौ भावाऽम्बुसेचनैः ॥1.173.११० ॥ सती तत्रैकदा शम्भुं पप्रच्छ विस्मितानना ।
वैराग्यवृत्तिमापन्ना सन्तुष्टा सुखभोगतः ॥१११ ॥ देवदेव महादेव कृपां कुरु ममोपरि ।
त्वं परब्रह्मतादात्म्यभावाऽऽपन्नोऽगुणः परः ॥११२॥ धन्याऽहं ते प्रिया जाता जातस्त्वं मे पतिः प्रभुः ।
ज्ञातुमिच्छामि देवेश तत्त्वं येन भवं तरेत् ॥११३ ॥ यत्कृत्वा विषयी जीवोऽवश्यं व्रजेत्परं पदम् ।
आकर्ण्य तत् शिवोऽवोचत् सतीज्ञानार्थमत्र यत् ॥१ १४॥ शृणु प्रिये प्रवक्ष्यामि तत्त्वं मुक्तो भवेद् यतः ।
परतत्त्वं विजानीहि हरिं नारायणं सदा ॥१ १५॥ दुर्लभं तस्य विज्ञानं तज्ज्ञाता विरलः प्रिये ।
नारायणस्य दासोऽहं ब्रह्मणः परमात्मनः ॥११६ ॥ नारायणस्य भक्तिश्च भुक्तिमुक्तिफलप्रदा ।
स्मर्यसे प्राग्भवे देवि नरनारायणाश्रमे ॥११ ७॥ गत्वाऽर्हं वैष्णवो जातस्ततस्त्वं वैष्णवी कृता ।
गोलोकाद्वैष्णवश्चाहं पुनर्भावी च वैष्णवः ॥११८ ॥ त्वया भाव्यं च वैष्णव्या ब्रह्मभक्त्या मम गृहे ।
ब्रह्मधाम्नि स्थितस्याऽस्य नारायणस्य सर्वथा ॥११९ ॥ स्मृतिर्विज्ञानमेवाराधनोपास्तिश्च सर्वदा ।
मननं चाथ भक्तिश्च प्रेमसेवेति चैकता ॥1.173.१२ ० ॥ तया वै प्राप्यते नारायणो नान्येन केनचित् ।
सुलभा तत्प्रसादात्मा नवधाऽत्र प्रकीर्तिता ॥१२१ ॥ श्रवणं कीर्तनं चैव स्मरणं सेवनं सदा ।
दास्यं तथाऽर्चनं देवि वन्दनं श्रीहरेस्तथा ॥१२२ ॥ सख्यमात्मनिवेदित्वं नवाङ्गानि च तानि वै ।
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्हरेः ॥१२३ ॥ तदर्थपानं स्थैर्येण यत्तच्छ्रवणमुच्यते ।
श्रुत्वा तदर्थमननं कर्तव्यं फलदं हि तत् ॥१ २४॥ हृदये श्रीहरेर्जन्मकर्माणि चिन्तयन्मुहुः ।
प्रीत्योच्चोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥१२५॥ व्यापकं श्रीहरिं ज्ञात्वा स वै सर्वत्र सर्वदा ।
स्मर्यते येन मनसा स्मरणं तदुदाहृतम् ॥१२६ ॥ सर्वथा जाग्रति स्वप्ने वस्तुभिः स्वस्य सुप्रियैः ।
परिचर्या तु या तस्य सेवनं तदुदाहृतम् ॥१२७ ॥ सदाऽनुकूलभावेन हृदयामृतभोगतः ।
हरेः प्रियं यथा वृत्त्यं तद्वै दास्यमुदाहृतम् ॥१२८ ॥ सदा स्मृद्ध्यानुकूल्येन विधिना परमात्मने ।
अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥१२९ ॥ नामोच्चारणध्यानाभ्यां मनसा वचसा तथा ।
यदष्टाङ्गेन भूस्पर्शा दण्डवत् वन्दनं हि तत् ॥1.173.१३० ॥ मङ्गलाऽमङ्गलं यद्यत् करोति श्रीहरिर्हि मे ।
सर्वं तन्मङ्गलायेति विश्वासः सख्यमुच्यते ॥१३१ ॥ कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् ।
निर्वाहाय स्वशून्यत्वं हरावात्मनिवेदिता ॥१३२ ॥ नवाङ्गानि हरेर्भक्तेर्भुक्तिमुक्तिप्रदानि च ।
मम प्रियाणि चातीव विज्ञानोत्पादकानि च ॥१३३ ॥ उपाङ्गानि च तद्भक्तेर्बहूनि सन्ति मे प्रिये ।
तुलसीसेवनादीनि मन्दिरमार्जनानि च ॥१ ३४॥ देवालयप्ररक्षादि समूह्यानि विचारतः ।
इति साङ्गोपागभक्तिर्हरेः सर्वोत्तमा प्रिये ॥१३५ ॥ ज्ञानवैराग्यजननी मुक्तिदासी विराजते ।
त्रैलोक्ये भक्तिसदृशः पन्था नास्ति सुखावहः ॥१३६ ॥ भक्तिमतो जनस्य श्रीहरिश्चास्ति सहायकृत् ।
भक्तितत्त्वं परतत्त्वप्रापकं तत्त्वमेव तत् ॥१ ३७॥ सा च भक्तिः पुनर्द्वेधा सगुणा निर्गुणा तथा ।
फलेच्छया कृता सर्वा सगुणा परिकथ्यते ॥१३८ ॥ फलेच्छारहिता सैव निर्गुणा भक्तिरुच्यते ।
सा च भक्तिः पुनर्द्वेधा वैधी स्वाभाविकी तथा ॥१३९ ॥ प्रसह्य विधिना कार्या वैधी सा त्वाज्ञया कृता ।
स्वभावेनैव कार्या या स्वाभाविकी तु सा मता ॥1.173.१४० ॥ सा च भक्तिः पुनद्वैधा परा चाऽथाऽपरा तथा ।
परा साध्यहरिरूपाऽपरा साधनरूपिणी ॥१४१ ॥ नैष्ठिक्यनैष्ठिकी द्वेधा षड्विधा नैष्ठिकी मता ।
विश्वासो वरणं न्यासः कार्पण्यं च स्थिरा मतिः ॥१४२॥ आनुकूल्यसहकृतप्रातिकूल्यविवर्जनम् ।
षड्विधा नैष्ठिकी भक्तिरनैष्ठिक्येकधा मता ॥१४३ ॥ स्वार्थमात्रकृता भक्तिरनैष्ठिकी प्रकीर्तिता ।
विहिताऽविहिता साऽथ द्वेधाऽऽज्ञा विहिता मता ॥१४४॥ अनाज्ञा चाऽविहितोक्ता पुनर्मध्योत्तमाऽवमा ।
त्रेधा तत्र तरतमैर्भावैर्भवत्यनेकधा ॥१४५॥ हरेर्नामजपसाम्यं नान्ये भवति कुत्रचित् ।
हरिरित्यर्थकं ब्रह्म व्याहरँश्च हरिं स्मरन् ॥१४६
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।
भक्त्या तुष्यति लोकश्च भक्त्या तुष्यति वै हरिः ॥१४७॥ शृणु देवि मया पूर्वे कल्पे नारायणोपरि ।
युगषष्टिसहस्राणि तपस्तप्तं सुदुश्चरम् ॥१४८॥ तदा नारायणः साक्षादभून्मे दृष्टिगोचरः ।
अतीव कमनीयाङ्गः किशोरः श्यामसुन्दरः ॥१४९ ॥ रूपानुरूपावयवः सुप्रसन्नमनोहरः ।
दृष्ट्वा हरिं तादृशं मे नेत्रे तृप्तिं न वै गते ॥1.173.१५० ॥ पश्यन्निमेषरहितोऽभवं तृप्तो न वै चिरम् ।
तदा मां भगवान्प्राह किं शम्भो नैव तृप्यसि ॥१५१ ॥ गच्छाम्यहं स्वकं धाम वरं वृणु यथेप्सितम् ।
तव भक्त्या च तपसा प्रसन्नोऽस्मि च मा चिरम् ॥१ ५२॥ तदा मयाऽर्थितं नारायणात् शृणु प्रिये मम ।
तवोपभोग्यं यत्स्यात्तन्न मे भोग्यं भवेत्तु प्राक् ॥१५ ३ ॥ तव प्रसादसर्वस्वं मम भोग्यं मतं प्रभो ।
तव दास्यं सदा मे स्यादात्मनिवेदिताऽपि च ॥१५ ४॥ अन्यापि विविधा भक्तिस्तवैव मेऽस्तु मोक्षदा ।
मस्तके मे जटा नित्या तपस्याबोधिकाऽस्तु वै ॥१५५ ॥ शरीरे मे चिताभस्म वैराग्यबोधिकाऽस्तु वै ।
समता चन्दने पङ्के लोष्ठे रत्ने मणीश्वरे ॥१५६॥ सदास्तु मुकुटाद्या न भूषा धार्या मया प्रभो ।
तत्र सर्पा मया धार्या गरुडद्वेषिणो हरे ॥१५७॥ वाहनं तु वृषो गोलोकात् कृष्णार्पित एव मे ।
पारिजातादिकं पुष्पं सुगन्धि चन्दनादिकम् ॥१५८ ॥ तव योग्यं भवेत्तत्र मे भागः क्वापि मा भवेत् ।
धत्तूरेऽस्तु सदा प्रीतिर्बिल्वपत्रानुधारणे ॥१५९ ॥ गन्धहीनेषु पुष्पेषु प्रीतिर्मेऽस्तु विरागतः ।
वस्त्रवेशे माऽस्तु रागोऽस्तु गजव्याघ्रचर्मणोः ॥1.173.१६० ॥ दित्यतल्पे दिव्यभोगे माऽस्तु प्रीतिः कदाचन ।
श्मशानेऽस्तु सदा वासो जनतायां न मे क्वचित् ॥१६१ ॥ श्मशाने विघ्नशून्ये मे ध्यानं तव सदा भवेत् ।
ज्ञानं ते श्रीहरे नित्यं गुणत्रयविनाशकम् ॥१६२ ॥ त्रिशूलरूपं मे स्याच्च वैराग्यं भस्मरूपकम् ।
धर्मो मे वृषरूपः स्याद्भक्तिर्मे योगिता त्वयि ॥१६३ ॥ कण्ठहारश्च ते भक्तिविरोधिशिरसां कृतः ।
भूषामालाश्च तेऽयोग्यरुद्राक्ष फलकल्पिताः ॥१ ६४॥ माऽस्तु वृन्दादिवृक्षाणां भोग्यं ते माऽस्तु मत्कृते ।
लक्ष्मीर्देवी मम माऽस्तु किन्त्वलक्ष्मीर्ममाऽस्तु वै ॥१६५ ॥ मिष्टं पेयं हरेर्यत्स्यात् तन्मे माऽस्तु कदाचन ।
ममाऽस्तु विषधत्तूरगञ्जाभङ्गादिकं सदा ॥१६६ ॥ इत्येवं तु मया सर्वं तपःकाले प्रपार्थितम् ।
हरिणा च प्रदत्तं तद्वरदानं शुभाय मे ॥१ ६७॥ प्रभक्तानां प्रशिक्षार्थं दासभक्त्यभिव्यञ्जकम् ।
असुराणां विमोहार्थं रक्षितं तु तदाज्ञया ॥१६८ ॥ तस्मात् सति! त्वया दास्ये हरेर्वृत्त्यं न चाऽन्यथा ।
शृणु चान्यां कथां श्रेष्ठां हरेः प्रसादगर्भिताम् ॥१६९ ॥ सनत्कुमारो वैकुण्ठमेकदा तु जगाम ह ।
ददर्श भुक्तवन्तं च हरिं नारायणं मुनिः ॥1.173.१७० ॥ तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तिपूर्वकम् ।
अवशेषं ददौ तस्मै सन्तुष्टो भक्तवत्सलः ॥१७१ ॥ तत्रैव किञ्चित्तेनैव भुक्तं शेषं च यद्धृतम् ।
तद्वै ररक्ष बन्धूनां भक्षणार्थं च दुर्लभम् ॥१७२॥ तस्मादपि च किञ्चिच्च सिद्धाश्रमस्थिताय मे ।
दत्तवान् स मुनिस्तच्च भुक्तं सर्वं मयाऽऽदरात् ॥१७३ ॥ भुक्त्वाऽहं दुर्लभं हरेः प्रसादं नृत्यमाचरम् ।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽभवं मुदा ॥१७४ ॥ श्रीहरेर्गुणगानं च तालमानेन सुस्वरम् ।
रागभेदैकतानेन भक्त्या चाऽकरवं तदा ॥१७५॥ पपात डमरुर्हस्ताच्छृङ्गं च व्याघ्रचर्म च ।
स्वयं निपत्य पश्चाच्च रुदन्मूर्छां गतोऽप्यहम् ॥१७६ ॥ अतीव कमनीयं श्रीहरेः रूपं मनोहरम् ।
हृदये मूर्छितस्तत्र ध्यायामि तावदेव ह ॥१७७ ॥ तदन्तरे च दुर्गा त्वं मुदाऽऽजगाम भामिनी ।
अहमुत्थाय मूर्छातो यावत्तिष्ठामि भामिनि! ॥१७८ ॥ तावन्मूर्छाकरं तत्र कारणं पृष्टमेव मे ।
मया तुभ्यं तु कथितं प्रसादलाभ एव यत् ॥१७९ ॥ ज्ञात्वा त्वं कुपिता देवि! प्रोक्तवती च मां तदा ।
त्वं पोष्टा जगतां पाता ममैव च विशेषतः ॥1.173.१८० ॥ वक्ता चतुर्णां वेदानां दाता च सर्वसम्पदाम् ।
त्वं चेत्करोषि दुर्नीतिं को धर्मं रक्षयिष्यति ॥१८१ ॥ सदा ते परिपाल्याऽहं पोष्या भक्ता च किङ्करी ।
वञ्चिता कर्मदोषेण हरेः प्रसादभक्षणे ॥१८२ ॥ किञ्चिच्छुद्धं हिरण्येन किञ्चिच्छुद्धं च वायुना ।
किञ्चित्प्रक्षालनेनैव सर्वं विष्णोर्निवेदनात् ॥१८३ ॥ विष्णोर्निवेदिताऽन्नेन यष्टव्याः सर्वदेवताः ।
पितरोऽतिथयश्चैवमिति वेदेषु निश्चितम् ॥१८४॥ अनिवेद्यमभक्ष्यं च नैवेद्यं भक्ष्यमेव हि ।
एवमश्नाति यो भक्त्या पार्षदप्रवरो भवेत् ॥१८५॥ अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम् ।
विष्णोर्निवेदितान्नस्य कलां नाऽर्हति षोडशीम् ॥१८६ ॥ हन्त्यकालिकमृत्युं तदमृतं मूढरञ्जनम् ।
नैवेद्यं च हरेरेव हरितुल्यं करोत्यहो ॥१८७ ॥ यदृच्छया तन्नैवेद्यं यो भुङ्क्ते साधुसङ्गतः ।
षष्टिवर्षसहस्राणां प्राप्नोति तपसः फलम् ॥१८८ ॥ यो निवेद्य हरिं भुङ्क्ते भक्त्या भक्तश्च नित्यशः ।
स पङ्क्तिपावनो बोध्यः स हरेस्तेजसा समः ॥१८९ ॥ नाऽहं वेदविधात्र्यस्मि किमहं वक्तुमीश्वरी ।
सुचिरं तु तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ॥1.173.१९० ॥ त्वया विष्णोः प्रसादेन वञ्चिताऽहं कथं प्रभो! ।
इत्यभिधाय दुर्गा त्वं रोदनं कृतवत्यसि ॥१९१ ॥ ततोऽहं त्वां परप्रेम्णा कृत्वा वक्षसि सादरम् ।
करेण चक्षुषोर्नीरं सम्मृज्याऽबोधयं मुहुः ॥१९२ ॥ परितुष्टा तदा त्वं मां भर्तारमुक्तवत्यसि ।
कलेवरं च त्यक्ष्यामि नैवेद्येन विना हरेः ॥१९३ ॥ बिभर्मि देहं सततं तव सौभाग्यवर्धनम् ।
कथं वहामि सौभाग्यरहितं तु कलेवरम् ॥१ ९४॥ अपूर्वं हरिनैवेद्यं जन्ममृत्युजराहरम् ।
मह्यं दत्तं न वै यस्मात्पश्य देहं त्यजाम्यहम् ॥१९५ ॥ इत्युक्त्वा त्वं महादेवि देहं त्यक्तुं समुद्यता ।
तदा मया स्तुता त्वं वै महादेवि! स्थिरा भव ॥१९६ ॥ ममाऽपराधमखिलं क्षन्तुमर्हसि सुन्दरि! ।
मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि ॥१९७ ॥ इच्छैव श्रीहरेः साक्षान्नाऽहं दातुमपि क्षमः ।
श्रुत्वैवं श्रीहरेरिच्छां दुर्गा तुष्टा बभूव सा ॥१९८ ॥ ततो जगाम तूर्णं स्वर्णदीं स्नानार्थमित्यथ ।
स्नात्वा सम्पूज्य भक्त्या च कृत्वा पक्वान्नमित्यथ ॥१९९ ॥ नैवेद्ये मेऽर्पितवती तदा नारायणोऽप्यहम् ।
गत्वा सर्वमहं भुक्त्वा तस्यै दत्वाऽभिवाञ्छितम् ॥1.173.२०० ॥ आजगाम च वैकुण्ठं लक्ष्मि! प्रसादमेव तम् ।
भर्त्रे दत्वा च शेषं यद् दुर्गा भुक्तवती च तत् ॥२०१ ॥ एवं शिवाशिवौ भक्तौ प्राग्भवीयौ हि वैष्णवौ ।
वर्तेते सर्वदा मग्नौ यन्मूर्तौ योगिनौ परौ ॥२०२॥ न संवसामि गोलोके वैकुण्ठे तव वक्षसि ।
सदा शिवस्य हृदये निबद्धो भक्तिपाशतः ॥२०३ ॥ स्वरसिद्धं सुतानेन पञ्चवक्त्रेण शङ्करः ।
शश्वद्गायति मद्गाथां तेनाऽहं तद्धृदि स्थितः ॥२०४ ॥ मम भक्तिं च दास्यं च मुक्तिं च सर्वसम्पदः ।
मय्येवायं सर्वसिद्धीः समर्पयति शङ्करः ॥२ ०५ ॥ पञ्चवक्त्रे मन्नाम यो हि गायत्यहर्निशम् ।
मद्रूपं ध्यायति शश्वन्न भक्तः शङ्करात्परः ॥२०६ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीशिवयोर्हिमाचले विहारः गृहनिर्माणार्थं सतीप्रार्थनागृहयोग्यपर्वतादिनामानि, हिमालये कैलासपुरीनिर्माणं, सतीकृतसंसारतरणप्रश्रः शिवोक्तहरिनवधाभक्तिः शिवकृतपूर्वकल्पीयतपसा हरिदर्शनं, हरिभोग्यं शिवस्याऽभोग्य-
मितिधत्तूरभस्मादिधारणं, पार्वत्योक्तहरिनैवेद्यमहिमेत्यादिनिरूपणनामा त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३ ॥