श्रीनारायण उवाच-
अथ वैराजपुरुषात् नाभौ पद्मेऽभवत् त्वजः ।
विष्णुश्च हृदयाज्जातस्तदा वै विष्णुपद्मजौ ॥१॥
महामहं महाँश्चाहमितिश्रैष्ठ्यविवादिनौ ।
तयोर्मध्ये महत्तेजःकिरणं समभूत्तदा ॥२॥
तत्र देवस्तृतीयो वै शम्भुः प्रादुर्बभूव ह ।
गोलोकात्प्रेषितश्चास्याऽण्डस्य देवाधिवृत्तये ॥३॥
श्रीकृष्णेन स्वयं चात्र प्रेषितः शङ्करो मुदा ।
वैष्णवो भक्तवर्यश्च समुत्पन्नो हरीच्छया ॥४॥
हरेस्तदैव किरणं मूर्तेर्वेराजनेत्रयोः ।
समागत्य बभूवातिस्थिरं तस्य प्रभावतः ॥५॥
ललाटात्स समुत्पन्नः किरणाढ्यो महेश्वरः ।
किरणं दिव्यबाणं वैं ब्रह्मणश्चिह्नमेव तत्॥६ ॥
महेशस्तत्र वैराजात्मजो जातः सुतामसः ।
शिवा च तस्य देहे वै वामभागेऽप्रकाशिता ॥७॥
कृष्णाज्ञया समायाता शिवो वेत्ति न तां तदा ।
शिवो जानाति चैकं स्वं देवं तत्र शिवां विना ॥८॥
किन्त्वदृश्या शिवा शम्भोर्वामे शक्तिस्वरूपिणी ।
आसीद् या कृष्णनेत्रस्था सैवाऽऽसीच्छिवनेत्रयोः ॥९॥
ब्रह्मणा प्रेरिता रात्रिः सा सम्बभूव दाक्षिणी ।
सतीतिनाम सञ्चक्रे तस्या दक्षस्तदाज्ञया ॥1.171.१० ॥
अथ तां च सुतां माता सुसंस्कृत्य यथोचितम् ।
शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥१ १॥
पालिता साऽथ वीरिण्याऽसिक्न्या दक्षेण ववृधे ।
तस्यां सुसद्गुणाः सर्वे विविशुः शैशवेऽपि वै ॥१२॥
सखीमध्यगता क्रीडाचरणेऽपि स्वभावतः ।
लिलेख शम्भुदेवस्य प्रतिमां वै क्वचित्क्वचित् ॥१३ ॥
बाल्योचितेषु गीतेषु जगौ रुद्रं हरं मुहुः ।
हरे त्वेवं भक्तिमती सस्मार स्मरनाशकम् ॥१४॥
तस्यां पित्रोः सुकरुणा ववृधेऽतीव नित्यदा ।
बालाऽपि गुणवृद्धा सा तोषयामास जन्मदौ ॥१५ ॥
एकदा नारदो ब्रह्मा जग्मतुर्दक्षमन्दिरम् ।
दृष्टा ताभ्यां दक्षपार्श्वे त्वासीना सा सती शुभा ॥१६ ॥
पित्रा नमस्कृतौ चोभौ सत्या चापि नमस्कृतौ ।
प्रणामान्ते सतीं वीक्ष्य दक्षदत्तशुभासने ॥१७॥
स्थितावातिथ्यविधिना सत्कृतावूचतुर्मुदा ।
ब्रह्मा प्राह मुनिं पश्य नारदेवं महेश्वरी ॥१८॥
कस्य भार्या सुयोग्या स्याद् रेखाः पश्याऽथ मां वद ।
नारदस्तत्र देवेशीं नत्वा प्राह सुकन्यके ॥१ ९॥
एहि पश्यामि ते हस्तरेखाः का भवसीति यत् ।
विहस्य कन्यया हस्ततले सन्दर्शिते तदा ॥1.171.२० ॥
धनुर्मीनस्तथा केतुः स्वस्तिकश्च त्रिशूलकम् ।
प्रदीपः कमलं बाणोंऽकुशः शङ्खश्च चक्रकम् ॥२१ ॥
परशुः सायकः शक्तिः षड्वामे षट् च दक्षिणे ।
क्रमाद्धस्ते नारदेन दृष्टान्येतानि रेखया ॥०२२॥
ललाटेऽक्षि तृतीयं च कला चन्द्रस्य वक्रगा ।
हृद्ये शिवमूर्तिश्च स्वर्णरेखामयी शुभा ॥२३॥
नाभेरूर्ध्वं चर्मचिह्नमधश्च करवालकम् ।
धनुर्बाणेन युक्तं च पदोः सिंहो वृषस्तथा ॥२४॥
शिखरं वल्लिका नागदलं सिंहासनं तथा ।
ऊर्ध्वे रेखे सर्पफणा दृष्टान्येतानि रेखया ॥२५ ॥
कथितं ब्रह्मणे चापि दक्षाय नारदेन तु ।
नेयं वै मानवी पुत्री नापि दैवी न चाऽपरा ॥२६॥
जगन्माता गुरूणां च गुर्वी परा तु वैष्णवी ।
कृष्णाङ्गना च वा नारायणवामा परेश्वरी ॥२७॥
ब्रह्माङ्गना च वा विष्णोरङ्गना परमेश्वरी ।
शिवाङ्गना भवेद्यद्वा नान्या स्याज्जगदम्बिका ॥२८॥
मन्येऽस्या हृदि शर्वोऽस्ति नेत्रचन्द्रौ ललाटके ।
करे त्रिशूलरेखाऽस्ति चरणे वृषभो हरिः ॥२९॥
अतः शिवस्य रत्नं स्यान्नान्यस्य कस्यचिद् ध्रुवम् ।
सलज्जाऽधोमुखी श्रुत्वा भूत्वा विहस्य सत्वरम् ॥1.171.३० ॥
गृहान्तरे जगामाथ मात्रे न्यवेदयच्च तत् ।
असिक्न्या च गृहात्तत्र बहिरागत्य तौ तदा ॥३ १ ॥
नमस्कृतौ जलभोज्यफलाद्यैश्च प्रपूजितौ ।
दक्षेण वन्दितौ वृद्धौ सती तावद्गृहात्पुनः ॥३२॥
भर्गचित्रं स्वलिखितं नीत्वा बहिरुपागता ।
सहासा दर्शितवती ओमित्यर्थं महर्षये ॥३३॥
ननाम नारदं सा च ब्रह्माणं प्रणनाम सा ।
ब्रह्मा प्राह तदानीं मस्तके दत्वा कराञ्जलिम् ॥३४॥
यस्त्वां कामयते यं त्वं तथा कामयसे सति! ।
तमाप्नुहि पतिं देवं सर्वज्ञं जगदी श्वरम् ॥३५॥
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।
जायां स ते पतिर्भूयादनन्यसदृशः शुभे ॥३६॥
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः ।
विसृष्टौ तेन संयातौ स्वस्थानं तौ समुद्रजे ॥३७॥
दक्षोऽभवत् तदा प्रीतो मन्यमानः स्वधन्यताम् ।
सती च वर्धमानाऽऽप किञ्चिद्यौवनभावनाम् ॥३८॥
दक्षश्च चिन्तयामास सतीयोग्यं वरं शिवम् ।
बाल्यं व्यतीतं पुत्र्या मे कौमार्यं विगतं तथा ॥३९॥
प्रोद्भिन्नान्तर्वयोयुक्तामुद्वाहाऽर्हसुकन्यकाम् ।
तपोभिः स्वर्णरूपाढ्यां दास्ये भर्गाय सर्वथा ॥1.171.४०॥
सती स्वयं तथा भर्गं प्राप्तुमैच्छत् हृदन्तरे ।
पितुश्च निर्णयं ज्ञात्वा मातरं प्राह सा सती ॥४१॥
शङ्करस्य कृते मातस्तपोव्रतादि दर्शय ।
तवाऽज्ञया व्रतं कुर्वे शिवसन्तोषणाय वै ॥४२॥
मातुराज्ञां तु सा लब्ध्वा शिवं प्राप्तुं दृढव्रता ।
गृहे त्वाराधयामास व्रतैश्च विविधैः सती ॥४३ ॥
ईषशुक्लाऽष्टमीनन्दातिथावानर्च शङ्करम् ।
गुडौदनैः सलवणैः षोडशाद्युपचारकैः ॥४४॥
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।
षोडशाद्युपचारैश्च पुपूज शङ्करं सती ॥४५॥
मार्गशीर्षेऽसिताष्टम्यां सतिलैः स यवौदने ।
षोडशाद्युपचारैश्च पुपूज शङ्करं सती ॥४६॥
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।
प्रातः सा कृशरान्नेन पुपूज शङ्करं सती ॥४७॥
माघे तु पूर्णमास्यां सा कृत्वा जागरणं निशि ।
आर्द्रवस्त्रा नदीतीरेऽकरोच्छङ्करपूजनम् ॥४८॥
फाल्गुने शिवरात्र्यां च व्रतं जागरणं निशि ।
शैलूषैः षोडशार्थैश्च साऽऽनर्च तं दिवानिशम् ॥४९॥
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैः शिवम् ।
षोडशाद्युपचारैश्च दिवा रात्रावपूजयत् ॥1.171.५०॥
राधशुक्लतृतीयायां तिलाहारयवौदनैः ।
नवैश्च षोडशाथैंश्चाऽपूजयच्छङ्करं सती ॥५ १ ॥
ज्येष्ठस्य पूर्णिमारात्रौ निराहारा च शङ्करम् ।
वसनैर्बृहतीपुष्पैरपूजयद्व्रते सती ॥२॥
आषाढस्य चतुर्दश्यां शुक्लायां कृष्ण वाससा ।
बृहतीकुसुमैः शम्भुमपूजयद्व्रते सती ॥५ ३ ॥
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् ।
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥५४॥
भाद्रे कृष्णत्रयोदश्यां बहुपुष्पफलैः सती ।
पूजयित्वा चतुर्दश्यां चकार जलभोजनम् ॥५५॥
नानाविधपत्रपुष्पफलैस्तत्कालजैः सती ।
चक्रे सुनियताऽऽहाराऽधिकमासे शिवव्रतम् ॥५६॥
नित्यं च सर्वमासेषु शिवपूजापरायणा ।
दृढव्रताऽभवददेवं नान्यत् सस्मार तं विना ॥५७॥
इत्थं नन्दाव्रतं कृत्स्नं समाप्य तापसी सती ।
दध्यौ शिवं व्यवस्थासु योगिनीव कृतादरा ॥५८ ॥
कृशाकृशाङ्गी तपसा तेजोमूर्तिः सुरूपिणी ।
जाता शिवमयी सौम्या शिवांऽकाऽर्हणतां गता ॥५९ ॥
जन्मजयन्त्यां सत्याश्च द्वादशाब्दे महोत्सवे ।
दक्षेणाऽऽकारिता देवा मनवोऽन्ये महर्षयः ॥1.171.६० ॥
तदा तु सर्वतो देवा मुनयश्चाखिलाः प्रिये ।
अहं ब्रह्मा च दिक्पाला लोकपालाः सुरादयः ॥६१ ॥
आशीर्वादान् प्रदातुं च जग्मुर्दक्षगृहे तदा ।
सत्कृताश्च महत्यां वै सभायां सर्वदेवताः ॥६२ ॥
आशीर्वादान् ददुः सत्यै प्रणनाम सती च तान् ।
पूर्वं दृष्टा सती पुष्टा तपसाऽर्धापि नास्ति यत् ॥६ ३ ॥
दृष्ट्वा सतीतपस्तादृक् ज्ञात्वा शिवार्थमेव तत् ।
प्रसन्नाः सर्वदेवाद्याश्चक्रुर्देव्यै नतिं मुहुः ॥६४॥
प्राहुः सति! तपश्चातिकष्टप्रदं तु मा कुरु ।
अवश्यं ते पतिः शर्वो महादेवो भविष्यति ॥६५॥
आशीर्वादान्प्रयुज्यैवं गृहीत्वाऽर्हणमित्यथ ।
प्रशशंसुस्तपस्तस्याः सिद्धावस्थां गतां सतीम् ॥६६ ॥
दक्षोक्तिं च सतीच्छां च सम्प्राप्य मुनयः सुराः ।
पूजां प्राप्य सतीं नत्वा जग्मुः कैलासभूभृतम् ॥६७॥
सावित्रीहितो ब्रह्मा लक्ष्मीनारायणस्तथा ।
रमया सहितो विष्णुर्देवीभिः सहिताः सुराः ॥६८॥
सप्तर्षयः स्वपत्नीभिः सहिता मनवस्तथा ।
जग्मुः कैलासशिखरं यत्र देवो महेश्वरः ॥६९॥
गत्वा शम्भुं प्रणम्यैव दृष्ट्वा शान्तं च योगिनम् ।
तुष्टुवुर्विविधैः स्तोत्रैर्बद्धाञ्जलिपुटा मुदा ॥1.171.७० ॥
नमोऽक्षरस्वरूपाय कृष्णनेत्रात्मने नमः ।
नमः सदाशिवाख्याय तेजःपूजाय ते नमः ॥७ १॥
वैराजपुत्ररूपाय ब्रह्मचर्याय ते नमः ।
नमो ब्रह्मस्वरूपाय सदा शान्ताय ते नमः ॥७२॥
निर्गुणाय गुणाढ्याय वैष्णवाय नमोनमः ।
अव्यक्तरात्रिदेहाय निर्विकाराय ते नमः ॥७३॥
महेशाय परेशाय शिवाऽधिपतये नमः ।
क्वचिच्छान्तिकृते कादाचित्कसंहारिणे नमः ॥७४॥
नमः शेषाय सङ्कर्षणस्वरूपाय ते नमः ।
नमो वैराग्यवासाय सतीरागाय ते नमः ॥७५॥
न यस्य देवा ऋषयः सिद्धाः साध्व्यश्च साधवः ।
विदुः पदं स्वरूपं च तस्मै शिवाय ते नमः ॥७६॥
पदं दिदृक्षवो यस्य यतन्ते योगिनः सदा ।
तस्मै नमः परेशाय योगस्थाय नमोनमः ॥७७॥
अनन्तसिद्धियुक्ताय गिरां दूराय ते नमः ।
नम आत्मप्रकाशाय निर्वाणस्थाय ते नमः ॥७८॥
ज्ञानिने ते नमश्चास्तु निष्क्रियायाऽऽत्मवेदिने ।
तपसा द्राक् प्रसन्नाय सर्वदात्रे च ते नमः ॥७९॥
त्रिनेत्राय सचन्द्राय सर्वाध्यक्षाय ते नमः ।
शरणायातप्रार्थ्यार्थलाभदाय च ते नमः ॥1.171.८ ०॥
ऐश्वर्याणां प्रदात्रे ते मोक्षदाय च ते नमः ।
भक्तेष्टपूरकायाऽम्नायोदधये च ते नमः ॥८ १ ॥
स्वप्रकाशाय नित्याय प्रत्यक्द्रष्ट्रे च ते नमः ।
सकामा वाथ निष्कामा भक्तास्ते शरणागताः ॥८२॥
अप्राप्य सिद्धिं यस्मान्न निवर्तन्ते च ते नमः ।
काचित्कन्या त्वदर्थं वै करोति तप उत्कटम् ॥८३ ॥
त्वं कथं चाऽकरुणोऽसि प्रसन्नो भव ते नमः ।
लोककार्यप्रवाहार्थं विचारं कुरु शङ्कर ॥८४॥
अध्यात्मयोगगम्य त्वां प्रणमामः स्तुमो वयम् ।
न त्वं देवोऽसुरो मर्त्यो न तिर्यङ्न् द्विजः पशुः ॥८५॥
न स्त्री न षण्ढो न पुमान् योऽसि सोऽसि च ते नमः ।
विश्वलयकृते विश्वधारिणे प्रणता वयम् ॥८६ ॥
साङ्ख्या ज्ञानेन पश्यन्ति समाधौ योगिनश्च यम् ।
भक्ताः कृपया पश्यन्ति त्रयीमयं च ते नमः ॥८७॥
नमो भक्तोद्धारकर्त्रे नमस्ते गूढवर्चसे ।
नमः प्रत्यक्षदेवाय चाऽपरोक्षानुभूतये ॥८८॥
कालरात्रिविलासाय दक्षपुत्र्यार्थिताय च ।
प्रवृत्ताय नमस्तुभ्यं निवृत्ताय च ते नमः ॥८९ ॥
भक्तेच्छापूरक! स्वामिन् पूरयेच्छां च वेधसः ।
तूष्णीमासन्नितिस्तुत्वा श्रुत्वा शम्भुर्जहास वै ॥1.171.९० ॥
दृष्ट्वा देवमुनींश्चान्यान् सस्त्रीकाँश्च यथोचितम् ।
स्वागतं चातिथेयं च कृत्वा पप्रच्छ कारणम् ॥९१ ॥
हे विष्णो हे विधे देवा हे मुनिप्रवरर्षयः ।
निजागमनहेतुं वै कथयध्वं यथार्थतः ॥९२॥
सस्त्रीका आगताः सर्वे किं कार्यं विद्यते मम ।
इति पृष्टास्तदा ब्रह्मा विष्णुना परिनोदितः ॥९३ ॥
प्राह शम्भुं मिष्टवाण्या देव तेऽविदितं नहि ।
तथापि लोकधर्मत्वात्कथनीयं शृणु प्रभो ॥९४॥
विशेषतः सहार्थार्था वयं सुरनरादयः ।
असुरा वहुधा सृष्टौ जायन्ते च मुहुर्मुहुः ॥९५॥
तत्र केचिन्मम वध्या हरेर्वध्याश्च केचन ।
अतिक्रूरास्तव वध्या देवीवध्यास्तथाऽपरे ॥९६ ॥
अन्ये त्वद्वीर्यपुत्रस्य वध्याश्चापि भवन्ति वै ।
अनाशयित्वा तान्दुष्टान् जगत्स्वास्थ्यं न निर्भयम् ॥९७॥
त्वयि रागद्वेषशून्ये योगमार्गे स्थिते सति ।
दयामात्रस्वभावे ते नष्टा न स्युः कदाचन ॥९८॥
तपः प्रकुर्वतां तेषां वरैः पुष्टिर्यदि ध्रुवा ।
तदा तु सात्विको सृष्टिः कथं सुस्था भविष्यति ॥९९ ॥
अतश्च भविता युक्तमयुक्तेषूच्छ्रितेषु वै ।
सृष्टिस्थित्यन्तकर्पाणि कार्याण्यस्माभिरेव ह ॥1.171.१०० ॥
वयं त्वेकस्वरूपा हि भिन्नाः कार्यस्य भेदतः ।
कार्यभेदो न सिद्धश्चेद् रूपभेदोऽप्रयोजनः ॥१०१ ॥
अहं विष्णुश्च सस्त्रीकौ सुजातौ कार्यहेतुतः ।
तथा त्वमपि सस्त्रीको भव विश्वहिताय वै ॥१० २॥
परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ।
स्त्रियं विवाह्य लोकस्य कुरु कार्यं महत्तमम् ॥१०३ ॥
यथा पद्मालया विष्णोः सावित्री च यथा मम ।
तथा सहचरीं शम्भो कान्तां गृह्णीष्व कामिनीम् ॥१ ०४॥
शम्भुर्विहस्य ब्रह्माणं विष्णुं च प्राह तात्त्विकम् ।
हे ब्रह्मन् हे हरे मे स्थो युवां प्रियतरौ सदा ॥१ ०५॥
युवयोर्दर्शनादद्याऽऽनन्दो मे जायतेऽधिकः ।
भवद्भ्यां तु मदर्थं यन्निश्चितं व्यावहारिकम् ॥१० ६॥
युक्तमेव भवेत् किन्तु मे हृदि रोचते नहि ।
तपस्विनो विरक्तस्य योगमार्गाऽतिगस्य च ॥१ ०७॥
ज्ञानिनः कामशून्यस्य स्वात्मारामस्य सर्वथा ।
निवृत्तस्याऽऽत्मद्रष्टुश्च कामिन्या किं प्रयोजनम् ॥१०८ ॥
आत्मनो योगलग्नस्य ममाऽऽनन्दः सदाऽस्ति वै ।
नान्यसंसर्गसम्प्राप्ताऽऽनन्दशेषी भवाम्यहम् ॥१ ०९॥
विवाहो बन्धनं रौद्रं द्वयोरेव परस्परम् ।
योगिनस्तत्किमर्थं वै निराशस्य बलान्नयेत् ॥1.171.११० ॥
तस्मात्पत्न्या रुचिर्मे नो सत्यं वः प्रवदाम्यहम् ।
विष्णुः प्राह तदा श्रुत्वा शम्भुं श्रीकृष्णदर्शितम् ॥११ १॥
गोलोके यत्प्रतिज्ञातं सृष्टौ कार्यं यदा भवेत् ।
यदावश्यकता ते स्यात्तदा दास्ये विभावरीम् ॥१ १२॥
काले गृहीत्वा प्रकृतिं शृङ्गारं च करिष्यसि ।
काले गृही तथा काले तपस्वी भव वाञ्च्छया ॥११ ३॥
विधुरो मङ्गलायाऽत्र कल्प्यते नहि कुत्रचित् ।
विधुरस्य सस्त्रीकेषु वासोऽपि भयदो भवेत् ॥१ १४॥
समो भूत्वा समेष्वेव मान्यो भवति नाऽसमः ।
समेषु विषमो नश्येत् नश्येयुर्विषमात्समाः ॥१ १५॥
सृष्टिशासनकर्तॄणां गृहस्थानां समानता ।
सदा चापेक्ष्यते तस्मात् सपत्नीको भवाऽधुना ॥११ ६॥
नहि वै विधुरो भ्राता स्त्रीषु विश्वासभूमिकः ।
नहि यज्ञादिपैत्र्यादिकार्ये योग्यो विना स्त्रीयम् ॥१ १७॥
अमङ्गलः सदा नारीशून्यो भवति कर्मठः ।
अकर्मठस्तथा नारीयुक्तश्चाऽमङ्गलो भवेत् ॥१ १८॥
सूष्टिकार्याधिकृतस्त्वं शम्भो माऽमङ्गलो वस ।
सदा सुमङ्गलो भूत्वा तिष्ठाऽस्मत्सु विचार्य च ॥११ ९॥
संस्मृत्य कृष्णवचनं सदारो भव शङ्कर ।
श्रुत्वैवं वचनं विष्णोः स्मृत्वा कृष्णोक्तिमित्यथ ॥1.171.१२० ॥
नित्यसिद्धशिवाप्राप्तिं धर्मं विचार्य शङ्करः ।
प्राह विष्णो करिष्यामि भवदुक्तं सदा हितम् ॥१२१ ॥
मत्वा वचो गरिष्ठं वो नियोगं श्रीहरेस्तथा ।
करिष्यामि विवाहं वै कृष्णवश्योऽस्म्यहं सदा ॥१२२॥
परन्तु यादृशीं कान्तां ग्रहीष्यामि शृणुश्व ताम् ।
या मे तेजो ग्रहीतुं धारयितुं सुदृढा भवेत् ॥१ २३॥
अहं योगी यथा ज्ञानी सापि मत्सदृशी भवेत् ।
रणे योगे च विज्ञाने गुणैश्वर्ये रतौ समा ॥१२४॥
एवं न चेद्विनोद्वाहं स्थातव्यं सुखतः सदा ।
तस्माज्जायां प्रादिश त्वं मत्समा वर्तते यदि ॥१२५॥
तत्राप्येकः पणो मे स्यात् तया भाव्यं तथा मयि ।
अविश्वासो मदुक्ते चेत् मया त्यक्ता भविष्यति ॥१२६॥
इति शम्भोर्वचः श्रुत्वा विष्णुर्ब्रह्मा विहस्य तम् ।
प्राहतुर्यादृशी प्रेष्ठा तेऽस्त्यस्माभिः सुमार्गिता ॥१२७॥
गोलोके कृष्णहृदयात् या शिवा नेत्रयोः स्थिता ।
वैराजनेत्रयोः स्थित्वा देवेन्द्रियेषु तैजसी ॥१२८॥
स्थिता या शेषशायिश्रीहरेरिन्द्रियम ण्डले ।
रात्रिर्विभावरी शम्भो या शिवा वामगा च ते ॥१२९॥
अपृथक्सिद्धसम्बद्धा सा सती दक्षपुत्रिका ।
त्वादृशी सा भवेद् भार्याऽधिकतेजोबलान्विता ॥1.171.१३ ०॥
सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।
त्वां पतिं प्राप्तुकामा सा दक्षगेहेऽस्ति कन्यका ॥१३१ ॥
दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।
तां विवाहय सुप्रीत्या वरं दत्त्वा यथेष्टदम् ॥१३२॥
अत्रागतानां देवानां सङ्कल्पं परिपूरय ।
मङ्गलं परमं भूयात् पश्यामश्च तदुत्सवम् ॥१३३॥
श्रुत्वा तु शङ्करः प्राह ओमिति स्वीकृतं मया ।
यामि तपःफलं दातुं भवन्तो यान्तु भो सुराः ॥१३४।
पुनर्वो दर्शनं भाव्यं विवाहोत्सवकर्मणि ।
इत्याज्ञप्ताः सत्कृताश्च ब्रह्मविष्णुसुरादयः ॥१३५॥
दत्वाऽऽशीर्वादवचनं ‘सफलोऽस्तु मनोरथः’ ।
जग्मुः स्वं स्वं निकेतं ते सस्त्रीकाश्चातिहर्षिताः ॥१ ३६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शम्भोर्वैराजललाटादुत्पत्तिः, शिवाया दक्षगृहे प्राकट्योत्तरं ब्रह्मनारदागमः, नारदकथितचिह्नरेखाभिः शिवपत्नी-
त्वनिश्चयेन सत्या वार्षिकतपोव्रतकरणम्, द्वादशे वार्षिकसतीजन्मजयन्त्या उत्सवे ब्रह्मविष्णुसुराणां सस्त्रीकानामागमनं, सतीतपः प्रेक्ष्य ब्रह्मादीनां कैलासगमनं, सतीपाणिग्रहणवरदानार्थं शङ्करायोपदेश इत्यादिनिरूपणनामैकसप्तत्यधिकशततमोऽध्यायः ॥१७१ ॥