१७०

श्रीलक्ष्मीरुवाच-
ननु विभावरी केयं या सती दक्षपुत्रिका ।
जाता ब्रह्मात्मिका देवी संशयं छिन्धि मे हरे ॥१ ॥

श्रीनारायण उवाच-
शृणु लक्ष्मि सती विभावरी रात्रिर्यथाऽभवत् ।
गोलोके धाम्नि भगवान् श्रीमान् कृष्णो विराजते ॥२ ॥ परब्रह्मस्वरूपः स गोलोकाधिपतिः प्रभुः ।
महामाया च या मूला प्रकृतिर्ब्रह्मवामगा ॥३ ॥ कृष्णवामे स्थिता क्वापि लीनरूपा विराजते ।
नैकाकी रमते कृष्णः स तदैच्छद् द्वितीयकम् ॥४ ॥ तदा कृष्णस्य वामाङ्गादाविरास सुकन्यका ।
धावित्वाऽऽनीय कुसुमं राजचम्पकवृक्षजम् ॥५ ॥ कृष्णस्य चरणे न्यस्य स्वयं रासे दधार च ।
तेन राधा तदा प्रोक्ता कार्यसिद्धिकरी तु सा ॥६ ॥ कान्तं कृष्णं सह नीत्वा वृक्षकुञ्जे विवेश सा ।
रत्यानन्दं ददात्यस्मै सोऽपि रतिप्रमूर्छनाम् ॥७ ॥ अवाप चापि च निद्रां सुप्रवृत्ते महासुखे ।
राधा प्राह तदा कृष्णं किं न कृष्णः प्रचेष्टसे ॥८ ॥ कृष्णः प्राह प्रिये निद्रा समायाता क्षणं श्रमात् ।
राधा क्रुद्धा तदा निद्रोपरि निद्रापि बालिका ॥९ ॥ भूत्वा पार्श्वे स्थिता नम्रा कृष्णनेत्रे विहाय वै ।
दृष्ट्वा प्राह तदा राधा रे निद्रे रतिखण्डिके ॥1.170.१० ॥ माऽस्तु गोलोकवासस्ते गच्छ वैराजपूरुषे ।
सर्वानन्दनाशयित्री तामसी रुद्रसङ्गता ॥११ ॥ भव तामसभावा त्वं देवी संहारिणी सदा ।
अभावप्रत्ययाधारा वृत्तिर्निद्रा विनाशिनी ॥१२॥ घोरा ह्यासुरनाशाय पर्याप्ता भव सर्वदा ।
दैत्यसैन्येषु नित्यं त्वं सन्नद्धा भव तामसी ॥१३॥ सृष्टौ सर्वत्र जीवानामिन्द्रियेषु विरामिका ।
भव स्थितिं कृतवती रुद्राणी रुद्रसङ्गता ॥१४॥ रानार्थस्य हि भानस्य अन्त्री रात्रिर्भविष्यसि ।
भानं च विगतं यस्माद्विभावरी भविष्यसि ॥१५॥ वैराजपुत्रीं त्वां ब्रह्म स्वयं सृष्टौ ग्रहीष्यति ।
स च विभावरीं देवीं दक्षाय पुत्रिकात्मिकाम् ॥१६॥ दास्यति प्रवरां कन्यां दक्षः सतीं तु शम्भवे ।
सा काली चण्डिका देवी ह्यसुरान् नाशयिष्यति ॥१७॥ सा त्वं काली तथा रात्रिर्विभावरी च निद्रिका ।
रुद्रसहचरी भूत्वा विहरिष्यसि तामसी ॥१८॥ इत्यादेशाद्धरेः कामाद्भाविकार्यवशात्तथा ।
विभावरी सती रात्रिर्दक्षकन्या बभूव सा ॥१ ९॥ श्रीलक्ष्मीरुवाच-
ननु शम्भुर्यदोत्पन्नो वैराजात्पुरुषात्तदा ।
सहैव शाम्भवी शक्तिः प्रोत्पन्ना श्रूयते तु या ॥1.170.२० ॥ तस्याः शिवाया अस्याश्च रात्र्या भेदोऽस्ति वा न वा ।
शिवा तु सर्वदा पत्नी रात्रिर्जायाऽपराऽस्ति किम् ॥२१॥ श्रीनारायण उवाच-
योग्यं पृष्टं त्वया देवि गहनं मम चेष्टितम् ।
नान्यैस्तु ज्ञायते चैतत्कदा किङ्किमभूदिति ॥२२॥ शृणु पूर्वं यथावृत्तं ज्ञातव्यं भवतीति यत् ।
कथयामि कथाशेषं शिवस्याऽनादिभावनम् ॥२३॥ नारायणः सर्वपतिः सर्वकारणकारणम् ।
अक्षरे च परे धाम्नि राजते मुक्तसेवितः ॥२४॥ यथेच्छति यदा सृष्टिं तदा तां सृज्जति ध्रुवम् ।
तदा तेन कृतं कीदृक् प्रसङ्गात्कथयामि ते ॥२५॥ परब्रह्मण एवाङ्गाद् राधा यदोपजायत ।
तदर्थं धाम गोलोकं कृष्णं रूपं चकार च ॥२६॥ सा च कृष्णस्य पत्न्यासीत्प्राणेभ्योऽपि गरीयसी ।
देवी षोडशवर्षीया प्रोद्भिन्ननवयौवना ॥२७॥ वह्निशुद्धांशुकाधाना कोमलाङ्गी समुज्ज्वला ।
पुष्टनितम्बभारार्ता सुन्दरी सुमनोहरा ॥२८॥ रक्तमृदुसुन्दरौष्ठा पीनश्रोणिपयोधरा ।
मुक्तापङ्क्तिसमचञ्चद्दन्तपक्तिमनोहरा ॥२९॥ कोटिपार्वणचन्द्रातिरिक्ततेजोभरानना ।
पद्मपत्रायतनेत्रा केशवेशादिमण्डिता ॥1.170.३०॥ तिलपुष्पशुकचञ्चुसमनासाऽतिसुन्दरा ।
स्वर्णवर्णसमगण्डयुग्मकान्तिबहूज्ज्वला ॥३ १ ॥ धृतस्वर्णमणिरत्नभूषाकर्णसुशोभना ।
चन्दनाऽगुरुकस्तूरीसिन्दूरकुङ्कुमादिभिः ॥३२॥ कपालयोः कृतपत्रा पुष्पग्रथितधम्मिला ।
कृतसृतिससिन्दूररेखाकबरीमस्तका ॥३३॥ स्थलपद्मदलकान्तिलसच्चरणसचला ।
हंसहस्तिगतिद्योतद्वक्षःपिण्डोभमन्थरा ॥३४॥ रत्नहारान्मणिहारान् वनमालां मनोहराम् ।
हारान् हीरकनिर्माणान् रत्नकेयूरकङ्कणम् ॥३५॥ सद्रत्नसारनिर्माणवलयान् रत्नवङ्गदाः ।
स्वर्णकिङ्किणिकागुञ्जद्रशनां दधती सती ॥३६॥ अमूल्यरत्ननिर्माणक्वणन्मञ्जीररञ्जिता ।
नानाप्रकाररत्नाढ्यपद्मकं परिबिभ्रती ॥३७॥ अलक्तस्पृशकरपत्तलनखौष्ठमञ्जुला ।
उवास सस्मिता भर्तुः रत्नसिंहासनाऽर्धके ॥३८॥ अथाऽस्या लोमकूपेभ्यः सद्यो गोपाङ्गनागणः ।
वेशरूपाकृतिभिस्तत्समः सुस्थिरयौवनः ॥३९॥ लक्षकोटिप्रमातश्च गोलोके गोपिकागणः ।
प्राविर्बभूव वै शश्वत्कृष्णदासीसमाह्वयः ॥1.170.४० ॥ कृष्णस्य लोमकूपेभ्यः सद्यो गोपगणोऽप्यथ ।
आविर्बभूव वै शश्वद्रूपवेशादिभिः समः ॥४१॥ त्रिंशत्कोटिप्रमातश्च कृष्णदासगणः स हि ।
कृष्णस्य लोमकूपेभ्यः सद्यश्चाविर्बभूव च ॥४२॥ बहुवर्णो गोगणश्च शश्वत्सुस्थिरयौवनः ।
सुरभ्यश्च बलीवर्दा वत्सतर्यश्च वत्सकाः ॥४३॥ शोभना मङ्गलकरा ह्यासन् प्रादुस्तदा शुभाः ।
तेषामेकं बलीवर्दं कोटिसिंहसमं बले ॥४४॥ शम्भुवाहनलाभार्थं कृष्णोऽरक्षन्मनोहरम् ।
कृष्णाङ्घ्रिनखरन्ध्रेभ्यो हंसपक्तिः सुपाण्डुरा ॥४५॥ आविर्बभूव शश्वत्स्त्रीपुंलक्ष्मातिसुन्दरा ।
तेषामेकं राजहंसं वेधोवाहनलब्धये ॥४६॥ कृष्णोऽरक्षत्सुधवलं महाबलपराक्रमम् ।
कृष्णस्य वामकर्णस्य विवरात्सुमनोहरः ॥४७॥ गणः श्वेततुरङ्गाणामाविर्बभूव नित्यकः ।
तेषां श्वेततमं त्वेकं धर्मवाहनलब्धये ॥४८॥ कृष्णोऽरक्षद्ददौ चान्यान्सुरेभ्यो भगवान् स्वयम् ।
कृष्णस्य दक्षकर्णस्य विवराच्छोभनाकृतिः ॥४९॥ प्राविर्भूता सिहपङ्क्तिर्महाबलपराक्रमा ।
तेषामेकं ददौ कृष्णो विभावर्यै महाबलम् ॥1.170.५० ॥ भोग्यं यद्यत् तदाऽपेक्ष्य कृतं कृष्णेन योगिना ।
तथा सर्वगतं दिव्यं चकार रथपञ्चकम् ॥५१ ॥ विविधरत्नखचितं मनोयायि महत्तरम् ।
लक्षयोजनायतं च शतयोजनमूर्ध्वगम् ॥५२॥ लक्षचक्रं वायुरंहो लक्षक्रीडागृहान्वितम् ।
भोग्यशृङ्गारतल्पादिविहारोद्यानराजितम् ॥५३॥ रत्नप्रदीपलक्षाणां प्रकाशाश्च गृहे गृहे ।
दिव्यतोरणकलशध्वजचित्रादिबृंहितम् ॥५४॥ रत्नदर्पणचामरछत्रमुक्तागवाक्षकम् ।
मणीन्द्रमुक्तामाणिक्यहीरहारसुशोभितम् ॥५५॥ नीलरक्तपिशङ्गपाण्डुरपङ्कजशोभनम् ।
एकस्तेषु प्रदत्तो वैकुण्ठवासिस्वरूपिणे ॥५६॥ अपरोऽव्याकृतवासिभूम्नेऽर्पितः स्वरूपिणे ।
तृतीयस्तु महाविष्णुस्वरूपाय स्वरूपिणे ॥५७॥ चतुर्थो राधिकायै च पञ्चमः स्वाय रक्षितः ।
आविर्बभूवुः कृष्णस्य गुह्यदेशात्तु गुह्यकाः ॥५८॥ कुबेरो गुह्यकेशश्च सुन्दरी गुह्यकी तथा ।
अथ कृष्णस्य मुखतो ह्याविर्भूताश्च पार्षदाः ॥५९॥ पीतवस्त्रा वनमालाधराः श्यामाश्चतुर्भुजाः ।
शङ्खचक्रगदापद्मकिरीटरत्नकुण्डलाः ॥1.170.६० ॥ नारायणाय वैकुण्ठे ददौ चतुर्भुजान् बहून् ।
द्विभुजाः श्यामला कृष्णसदृशाः पार्षदाः कृताः ॥६ १ ॥ वैष्णवा दास्यदासाश्च कृताः कृष्णपरायणाः ।
रक्षिताः स्वीयसेवायां ध्यायन्तश्चरणाम्बुजम् ॥६२॥ आविर्बभूव कृष्णस्य वामनेत्रात् त्रिशूलधृक् ।
श्वेतवर्णस्तामसश्च त्रिनेत्रो भालचन्द्रकः ॥६३॥ व्याघ्रचर्मधरो हस्ते डमरुं धारयन् जटी ।
स ईशानो महाभागो दिक्पालानामधीश्वरः ॥६४॥ तथा त्रिशूलपट्टीशधराश्च चन्द्रशेखराः ।
त्रिनेत्राश्च महाकाया गणाश्चान्ये बभूविरे ॥६५॥ सुरास्त्रिकोटिसङ्ख्याताः कृष्णमूर्तेः प्रतिस्थलात् ।
प्रादुर्बभूवुः सर्वे ते यथास्थानमवस्थिताः ॥६६॥ रतिर्मूर्तिश्च सावित्री मनोरमा सरस्वती ।
महालक्ष्मीः सती लक्ष्मीर्बभूवुर्हृदयाम्बुजात् ॥६७॥ नारायणाय प्रददौ महालक्ष्मीं सरस्वतीम् ।
सावित्रीं ब्रह्मणे प्रादात् मूर्तिं धर्माय सादरम् ॥६८॥ रतिं कामाय रूपाढ्यां कुबेराय मनोरमाम् ।
लक्ष्मीं च विष्णवे प्रादात् सतीं शिवाय चार्पयत्॥६९ ॥ शिवः प्राह तदा योगी प्रणतः कृष्णमच्युतम् ।
अधुनाऽहं न गृह्णामि प्रकृतिं प्राकृतो यथा ॥1.170.७०॥ योगज्ञानब्रह्मचर्यदास्यभक्तिविरोधिनीम् ।
मुक्तीच्छाबन्धकर्त्री च सकामां कामवर्धिनीम् ॥७१ ॥ तपस्यानाशिनीं चित्तसन्तोषभक्षिकां क्षुधाम् ।
भवकाराग्रहे घोरे दृढनिगडरूपिणीम् ॥७२॥ शश्वद्विबुद्धिजननीं सद्बुद्धिच्छेदकारिणीम् ।
सदा भोगार्थसारां च विषयेच्छाविवर्धिनीम् ॥७३॥ मलमूत्रमयीं वल्लीं देहतरुप्रबन्धनाम् ।
रतिकार्याऽधिककाक्षेपिणीं स्वार्थतन्मयीम् ॥७४॥ स्वातन्त्र्यनाशिनीं शोकमोहस्थानमयीं दृढाम् ।
धारणाध्यानगुप्ताङ्गां ब्रह्मध्यानविरोधिनीम् ॥७५॥ नेच्छामि गृहिणीं नाथ वरं देहि मदीप्सितम् ।
त्वद्भक्तौ दासभावे च प्रेम संवर्धतेऽनिशम् ॥७६॥ त्वन्नामजपने पादसेवनेऽर्चनकर्मणि ।
श्रवणे कीर्तने स्तोत्रे स्मरणे मित्रभावने ॥७७॥ सर्वदा जाग्रति स्वप्ने त्वय्येव प्रभ्रमाम्यहम् ।
तृप्तिर्जायेत नैव त्वद्ध्याने योगे तपस्सु च ॥७८॥ तवाऽऽवाहनासनाचामनाभिस्नानसेवने ।
गन्धपुष्पधूपवस्त्रदीपचन्दनचर्चने ॥७९॥ नैवेद्यजलताम्बूलाऽऽरार्त्रिकस्तुतिवन्दने ।
नमस्कारप्रदक्षिणाऽलङ्कृतिसत्फलार्पणे ॥1.170.८० ॥ समर्पणे चात्मनश्च नित्यप्रसादभोजने ।
तृप्तिर्यथा न जायेत तथा देहि दयानिधे ॥८ १ ॥ सार्ष्टिसालोक्यसारूप्यसामीप्यसाम्यलीनताः ।
तव भक्तिसुखांशस्य कलां नार्हन्ति षोडशीम् ॥८२॥ अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च सर्वकामावसायिता ॥८३॥ सार्वज्ञ्यं दूरदर्शित्वं दूरसंश्रवणं तथा ।
परकायप्रवेशश्च वाक्सिद्धिः कल्पवल्लिता ॥८४॥ जनिनाशमहाशक्तिः तथाऽमरत्वमित्यपि ।
सिद्धयः षोडश भक्तेः कलां नार्हन्ति षोडशीम् ॥८५॥ योगास्तपांसि दानानि व्रतान्यनशनानि च ।
यशः कीर्तिर्वचःसत्यं धर्मस्तीर्थं सुरार्चनम् ॥८६॥ देवार्चादर्शनं सर्वभूमिमण्डलप्रक्रमम् ।
सर्वस्वर्गसुखाऽऽभोगः सर्वाऽब्धिस्नानमित्यपि ॥८७॥ अवभृथानि सर्वाणि ब्रह्मविष्णुमहेशता ।
वैराजता चापि ततोऽन्यविधाः स्मृद्धयश्च याः ॥८८॥ तव भक्तिकलांशस्य कलां नाऽर्हन्ति षोडशीम् ।
तस्माद् भक्तिं विना चान्यन्नैव प्रार्थ्यं मया विभो ॥८९॥ न सती न शठी मे चापेक्ष्यते प्रकृती ह्युभे ।
विरक्तौ यादृशं सौख्यं सानुरागे न तादृशम् ॥1.170.९० ॥ श्रुत्वैवं शाङ्करं वाक्यं भगवान्प्राह सस्मितम् ।
यदीदानीं त्वया शम्भो नेष्यते प्रकृतिः सती ॥९ १॥ सा वसतु मम नेत्रे योगनिद्रामयी शिवा ।
यदाऽऽवश्यकता ते स्यात्तदा दास्ये विभावरीम् ॥९२॥ तावत्कालं मम सेवां नेत्रयोः सङ्करिष्यति ।
इत्यभिधाय भगवान् जग्राह नेत्रयोः शिवाम् ॥९३॥ शम्भुं च दास्यसेवायामरक्षद्वैष्णवं सुतम् ।
प्राह कृष्णस्तदा शम्भुं मत्सेवां कुरु सर्वथा ॥९४॥ यावत् तेऽवश्यकार्यं च सृष्टौ नैवोपतिष्ठते ।
तपस्विसिद्धयोगिज्ञसुरवैष्णवपूजितः ॥९५॥ वसाऽत्राऽमरभावं च लभ मृत्युञ्जयो भव ।
वेदशास्त्रादिसार्वश्यसिद्धिं प्राप्नुहि मद्वरात् ॥९६॥ असङ्ख्यब्रह्मणां नाशं लीलयाऽत्रैव पश्य वै ।
ज्ञानेन तेजसा शक्त्या वयसा यशसा श्रिया ॥९७॥ पराक्रमेण तपसा महसा मत्समो भव ।
मम प्राणादधिकस्त्वं प्रेयान् भक्तोत्तमः शिव ॥९८॥ ममोक्तं वचनं सार्थं काले कर्तुं त्वमर्हसि ।
तव वाक्यं पालयामि पुत्र त्वं मद्गृहे वस ॥९९॥ मद्वाक्यं च स्ववाक्यं च पालनीयं करिष्यसि ।
काले गृहीत्वा प्रकृतिं शृङ्गारं च करिष्यसि ॥1.170.१० ०॥ न केवलं तपस्वी त्वं चेश्वरो मत्समो महान् ।
काले गृही तथा काले तपस्वी भव वाञ्छया ॥१०१ ॥ दुःखं तु दारसंयोगे यत् त्वया कथितं शृणु ।
कुस्त्री ददाति दुःखं च स्वामिने न पतिव्रता ॥१ ०२॥ महत्कुलप्रसूता या सत्कुला कुलमानिनी ।
करोति सुखिनं कान्तं सेवयाऽऽत्मार्पणाह्वया ॥१०३ ॥ पतिर्बन्धुः पतिर्भर्ता पतिः परमदैवतम् ।
पतिरेव परम्ब्रह्म पतिः स्वं कुलयोषिताम् ॥१ ०४॥ पतितोऽपतितो वापि कृपणश्चेश्वरो दृढः ।
शिथिलो वापि सर्वस्वं पतिर्वै कुलयोषिताम् ॥१ ०५॥ असत्कुलप्रसूता या पित्रोर्दुःशीलमिश्रिता ।
ध्रुवं सा परभोग्या स्यात् पतिनिन्दा परा सदा ॥१ ०६॥ पतिः कृष्णः पतिर्विष्णुः पतिः शम्भुः सदा मम ।
पतिदेवे सर्वदेवा दृश्यन्ते कुलयोषिताम् ॥१ ०७॥ एतादृशी तु ते साध्वी शिवाऽस्ति महती सती ।
भविता सा शिवा शैवी प्रकृतिर्वैष्णवी शिव! ॥१ ०८॥ गोलोके वस देवेश यावत्सृष्टौ न ते कृतिः ।
मत्समाधौ सदा मग्नो मम सेवापरश्च वा ॥१ ०९॥ इत्यभिधाय कृष्णस्तं स्वसेवायामरक्षयत् ।
गोलोकस्यैकदिवसे वैराजानां सहस्रकम् ॥1.170.११ ०॥ नश्यति तत्र का सङ्ख्या क्षुद्रब्रह्माण्डवेधसाम् ।
यदा वैराजदेहाच्च ब्रह्मा विष्णुर्भविष्यतः ॥१११ ॥ तदा तेजःप्रवाहे वै भविष्यति सदाशिवः ।
तेजो लिङ्गं शिवो मूर्तिर्लोके ख्यातिं गमिष्यति ॥११ २॥ शिवपार्श्वगता साध्वी शिवा सह भविष्यति ।
ततः कालान्तरे दक्षपुत्री सती भविष्यति ॥११ ३॥ भगवांश्च ततः प्राह शिवां नेत्राधिवासिनीम् ।
अधुना तिष्ठ वत्से त्वं गोलोके मम नेत्रयोः ॥१ १४॥ काले भजिष्यसि शम्भुं विराट्पुत्रं शिवायनम् ।
तेजःसु सर्वदेवानामाविर्भूय ततः पुनः ॥१ १५॥ संहृत्य दैत्यान्सर्वांश्च भविता विन्ध्यवासिनी ।
भविता दक्षकन्या च सुशीला शम्भुगेहिनी ॥१ १६॥ ततः शरीरं सन्त्यज्य यज्ञे भर्तुस्तु निन्दया ।
मेनायां शैलभार्यायां भविता पार्वतीति च ॥१ १७॥ बहुकार्यकरी क्रूरा चण्डिका त्वं भविष्यसि ।
बहुनाम्नी बहुरूपा तामसी त्वं भविष्यसि ॥१ १८॥ पञ्चायतनदेवेषु शिवा शिवश्च तत्सुतः ।
मुख्याः सर्वेषु विश्वेषु भविष्यन्त्येव मद्वरात् ॥१ १९॥ ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता ।
भवती भविता तत्र भिन्ननामादिधारिणी ॥1.170.१२०॥ भविष्यन्ति महान्तश्च तत्र ते परिचारकाः ।
धर्मार्थकाममोक्षाणां सिद्धार्थफललिप्सवः ॥१ २१॥ ये त्वां तत्र भजिष्यन्ते पृथ्व्यां पुण्ये सुतीर्थके ।
तेषां यशश्च कीर्तिश्चैश्वर्यं वर्धिष्यते बहु ॥१२२॥ इत्याशीर्भिः शिवां शर्वं तोषयामास माधवः ।
शर्वं ररक्ष सेवायां शिवां ररक्ष नेत्रयोः ॥१ २२॥ नेत्रस्थत्वाच्छिवा जाता निद्रा सुखकरी सदा ।
निद्रा विभावरी रात्रिश्चैकैव नाऽपरा तु सा ॥१२४॥ सा कृष्णहृदयाज्जाता शिवा नेत्रद्वये स्थिता ।
राधिकावचनात् निद्रा गता वैराजनेत्रयोः ॥१२५॥ सार्धं च शम्भुना तत्र शिवा नित्याऽभिव्यञ्जिता ।
सैव नारायणस्येन्द्रियेषु दुग्धाब्धिके स्थिता ॥१२६॥ सैव सर्वाऽग्र्यदेवानामिन्द्रियव्रातसंस्थिता ।
सैव शेषशयानश्रीनारायाणेन्द्रियादितः ॥१२७॥ शिवा शक्तिर्योगनिद्रा रात्रिर्विभावरी सती ।
कात्यायनी कौशिकी चण्डिका काली च पार्वती ॥१२८॥ क्रमयोगाद्यथापेक्षं यथाकार्यं प्रकाशिता ।
इति ते कथितं लक्ष्मि! सतीरूपं सदात्मकम् ॥१ २९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीचरित्रे गोलोके राधारतौ कृष्णनेत्रनिद्रायै शापः, श्रीकृष्णाङ्गेभ्यो राधागोपगोपीगोगणहंसश्वेततुरगसिंह- रथपञ्चकशिवशिवामहालक्ष्मीसरस्वतीरतिमूर्तिसावित्र्याद्याविर्भावः, सत्याः शिवार्पणे शिववैराग्यं, कृष्णनेत्रस्थशिवाया वैराजपुत्रीत्वं ततो देवेन्द्रियजकात्यायनीत्वं दक्षपुत्रीसतीत्वं हिमालयपुत्रीपार्वतीत्वं चेत्यादिनिरूपणनामा सप्तत्यधिकशततमोऽ
ध्यायः ॥१७०॥