१६५

श्रीनारायण उवाच-
श्रूयतां कथयिष्यामि भूयोऽस्याः सम्भवं प्रिये ।
शुम्भनिशुम्भप्रभृतिध्वंसाय त्वादितः शृणु ॥१ ॥ वैराजात् कमले जातो ब्रह्मा सृष्टिं विना स्थितः ।
सृष्ट्यर्थं किं विधेयं च मयाऽत्र कमलेन्वितः ॥२ ॥ तावत्तस्याऽभवत्पूर्वभवीयस्मरणं तदा ।
बीजं विना न तूत्पत्तिस्तस्माद् बीजं जुहोम्यहम् ॥३ ॥ स्वशरीरस्थितं शुक्रं जुहावाऽग्नौ प्रजापतिः ।
ब्रह्मणो जुह्वतुः शुक्रमग्नौ पूर्वं प्रजेप्सया ॥४ ॥ ऋषयो जज्ञिरे वह्नावष्टौ तान्नामतः शृणु ।
भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ॥५ ॥ अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः ।
ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः ॥६ ॥ हुते चाऽग्नौ सकृच्छुक्रे ज्वालां भित्त्वा तु सङ्गतः ।
भृगुस्त्वं चेति तन्नाम चकार स प्रजापतिः ॥७ ॥ शिवेनाऽभ्यर्थितः पुत्रेच्छया दत्तश्च वेधसा ।
वरणाद् वारुणः शैवश्चाग्नेयो ब्रह्मणो भृगुः ॥८ ॥ द्वितीयं च निजं शुक्रमङ्गारेष्वजुहोत्प्रभुः ।
अङ्गारेष्वङ्गिरोंऽगानि संहतानि ततोंऽगिराः ॥९ ॥ आग्नेयो ह्यङ्गिरा नाम्ना द्वितीयो ब्रह्मणः सुतः ।
षट्कृत्वा तु पुनः शुक्रे हते षडभवन् सुताः ॥1.165.१० ॥ मरीचिभ्यः समुत्पन्नो मरीचिस्तु तृतीयकः ।
होमे क्रतौ यतो जज्ञे ऋतुः सोऽयं चतुर्थकः ॥१ १॥ अेन तु विष्णुना त्रातः पुत्रत्वेऽत्रिस्तु पञ्चमः ।
पुभिः केशैर्लसितो यो देहे पुलस्त्य इत्ययम् ॥१२॥ केशैर्लम्बैः समुद्भूतः पुलहः सप्तमो मतः ।
वसुरग्निस्तदुत्पन्नो वशी वसिष्ठ उच्यते ॥१ ३॥ ब्रह्मणः प्रथमे ह्येते पुत्राः सबीजमानवाः ।
सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः ॥१४॥ तेष्वथर्वविज्ञात्रङ्गिरसः पुत्रा दशाऽभवन् ।
सुरूपायां च ते नाम्ना ह्याधार्युरायुरित्यपि ॥१५॥ दनुर्दक्षो दमः प्राणो हविष्यान् हविष्णुस्तथा ।
ऋतः सत्यश्च तत्राऽयं दक्षो बोध्यः सतीपिता ॥१६॥ दक्षो मैथुनभावेन सिसृक्षुर्विविधाः प्रजाः ।
असिक्नीमावहद्भार्यां वीरणाख्यप्रजापतेः ॥१७॥ सुतां तस्यां समुत्पन्नाश्चतुर्विंशतिपुत्रिकाः ।
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ॥१८॥ श्रद्धा लक्ष्मीर्वृतिस्तुष्टि पुष्टिर्मेधा तथा क्रिया ।
बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥१९॥ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिः सती च सम्भूतिः स्मृति प्रीतिः क्षमा तथा ॥1.165.२० ॥ सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥२१॥ पुलस्त्यः पुलहश्चैव क्रतुरत्रिर्वशिष्ठकः ।
वह्निश्च पितरश्चैते दक्षजामातरः क्रमात् ॥२२॥ पूर्वशापवशाच्चैव ब्रह्माऽऽज्ञाप्रबलादपि ।
तारकादिविनाशार्थपुत्रोत्पत्तिसकारणात् ॥२३॥ भाविनो नियतत्वाच्च सती दक्षगृहेऽभवत् ।
शृणु देव्याः पूर्वशापः कथं जात इति प्रिये! ॥२४॥ महिषासुरनाशाय सर्वदेवैस्तु निर्मिता ।
कात्यायनी महामाया विनाश्याऽऽसुरपुङ्गवम् ॥२५॥ पुनरदृश्यतां प्राप्ता देवेषु विलयङ्गता ।
यदा तदा त्रिशूलाग्रे रुद्रेण रक्षिता तु सा ॥२६॥ सती नाम्ना त्रिशूलाग्रे सदा रुद्रेण रक्षिता ।
जन्मान्तरसहस्रेषु शिवान्नहि वियुज्यते ॥२७॥ तया यदा माहिषाख्यो ह्यसुरो विनिपातितः ।
तदा पतिव्रता तस्य पत्नी कुण्ढीति विश्रुता ॥२८॥ विलप्य च मुहुर्देव्यै शशापाऽऽर्तिहृदा यथा ।
यथाऽपत्यादिरहिता पतिनाशात्सुदुःखिता ॥२९॥ प्रज्वलामि चिताग्नौ च तथा त्वं चापि दुःखिता ।
तव भर्तुर्मरणाच्च तथाऽनपत्यदुःखिता ॥1.165.३ ०॥ प्रज्वलिष्यसि कालाग्नौ जडा च दुःखिनी भव ।
इति शापस्तदा देव्यै महिष्या विहितस्ततः ॥३ १ ॥ कात्यायनी सती देवी म्लानास्या ह्यभवत् क्षणम् ।
ब्रह्मादयस्तदा दृष्ट्वा देवीं प्राहुः शुभानने ॥३२॥ मा खिदस्ते पतिर्नैव मरिष्यति कदाचन ।
वयं देवाः शुभाशीर्भिर्वर्धयिष्यामहे हरम् ॥३ ३ ॥ किन्तु मृत्युसमं दुःखं तव पत्युर्भविष्यति ।
महतां मानहानिस्तु मृत्युरेव मतो बुधैः ॥३४॥ कामदेवनिमित्तेन भाविपूजाबलेन च ।
लिङ्गोत्पत्तिनिमित्तेन कामोत्पत्तौ च शङ्करे ॥३५॥ ऋषिपत्नीसमाजे वै यदा शम्भुर्विवस्त्रकः ।
यास्यति लिङ्गमुत्थाप्य चेष्टां कुर्वंश्च कामगाम् ॥३६॥ तदा तु ब्राह्मणास्तत्र मन्त्रज्ञा ऋषयोऽमलाः ।
दृष्ट्वा तं कामिनं नग्नं प्रोत्थलिङ्गं हरं तु ते ॥३७॥ दर्भशलाकया मन्त्रद्वारा लिङ्गं तु मूलतः ।
पातयिष्यन्त्यवमानं करिष्यन्ति मुहुर्मुहुः ॥३८॥ पुंस्त्वनाशो लिङ्गनाशः पुंसो नाशः प्रकीर्त्यते ।
इत्येतन्मृत्युतुल्यं वै दुःखं यास्यति शङ्करः ॥३९॥ ततो लिङ्गं त्वयि स्थाले स्थापयिष्यन्ति भूसुराः ।
पूजयिष्यन्ति तद्वाणं लोके ख्यातिं गमिष्यति ॥1.165.४० ॥ ज्योतिर्लिङ्गमितिप्रख्यं भविष्यति ततो हरः ।
कर्तितं लिङ्गमादाय सन्धिं स्थाने करिष्यन्ति ॥४१ ॥ पुनः सलिङ्गः पुरुषस्तव योग्यो भविष्यति ।
इति निमित्तमेवैतज्जातं शोकं च मा कुरु ॥४२॥ परब्रह्मस्वरूपेऽत्र शोकस्थानं कुतो भवेत् ।
शृणु देव्यपरं चापि दक्षो यज्ञं करिष्यति ॥४३ ॥ शङ्करस्य तत्र यज्ञे स्थानं नैव करिष्यति ।
इत्येषा मानहानिश्च दक्षाच्छम्भोर्भविष्यति ॥४४॥ तन्निमित्तं तदा ते च वह्नौ प्रज्वलनं भवेत् ।
अनपत्या दुःखिता च शापादिफलसम्मुखी ॥४५॥ दग्धा त्वं च जडा काली शैलपुत्री भविष्यसि ।
शङ्करेण विवाहस्ते पुनस्तत्र भविष्यति ॥४६॥ इति मा कुरु शोकं त्वं भावि भवति नाऽन्यथा ।
ततो दक्षगृहं गच्छ दक्षस्य दुहिता भव ॥४७॥ तारकासुरमुख्यास्तु दानवा वै महाबलाः ।
जनिष्यन्ते च तेषां तु वरदानानुरूपतः ॥४८॥ पुत्रस्योत्पादनार्थं त्वं दक्षस्य दुहिता भव ।
तत्र रुद्रेण पुत्रस्ते कार्तिकेयो भविष्यति ॥४९॥ तद्द्वाराऽसुरनाशोऽपि भविष्यतीति तत्कृते ।
गच्छ दक्षगृहे देवि दक्षस्य दुहिता भव ॥1.165.५० ॥ एवं नियोगमासाद्य प्रादुरासीत्प्रजापतेः ।
नियोगाद् ब्रह्मणो देवी जाता पुत्री प्रजापतेः ॥५१ ॥ नियोगाद् ब्रह्मणो दक्षो ददौ रुद्राय तां सतीम् ।
दाक्षीं रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥५२॥ दैत्यार्दितानां देवानां तेजोराशिसमुद्भवा ।
देवी संहृत्य दैत्यौघान् दक्षकन्या बभूव ह ॥५३ ॥ साऽत्र नाम्ना सती देवी स्वामिनो निन्दया ततः ।
देहं सन्त्यज्य योगेन पार्वती सम्भविष्यति ॥५४॥ शृणु लक्ष्मि! दक्षगृहे पुत्रा जाताः सहस्रशः ।
सर्वे ते भ्रातरः सत्यास्तपोभिर्धौतकिल्बिषाः ॥५५॥ नियुतमेकसहस्रं च नारदस्योपदेशतः ।
गता ब्रह्मपदं धामाऽपुनरावृत्तिलक्षणम् ॥५६॥ हर्यश्वेषु विमुक्तेषु तदन्ये शबलाश्वकाः ।
पञ्चसहस्रं पञ्चशतं पुत्रा जाताश्च तेऽपि वै ॥५७॥ नारदस्योपदेशेन गता मुक्तिपदं ध्रुवम् ।
पित्रा तु योजिताः सृष्टौ नारदेन प्रव्राजिताः ॥५८॥ अतो दक्षः सुकोपः सन् शशाप नारदं तदा ।
नाशमेहि गर्भवासं वस त्वं ब्राह्म नारद ॥५९॥ ततोऽभिसन्धिं चक्रे वै दक्षस्तु कश्यपेन हि ।
नारदो मम कन्यायां तव पुत्रो भवेदिति ॥1.165.६० ॥ शशाप तं नारदोऽपि दक्षं चाङ्गिरसं तदा ।
यथाऽहं ब्रह्मणः पुत्रः शापात्ते काश्यपो यदा ॥६ १ ॥ भवेयं च तदा त्वं मानुषो राजा भवाऽऽदितः ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥६२॥ दक्ष! त्वं मारिषां पत्नीं वृक्षकन्यां गृहीष्यसि ।
तस्यां दुहितरः षष्टिः श्रद्धाप्रभृतयस्तव ॥६३ ॥ भविष्यन्ति दश तासां धर्माय वितरिष्यसि ।
सप्तविंशतिं शशिने कश्यपाय त्रयोदश ॥६४॥ चतस्रः पररूपाय तार्क्ष्याय वितरिष्यसि ।
भग्वङ्गिरःकृशाश्वेभ्यो द्वे द्वे च वितरिष्यसि ॥६५ ॥ इति शापानुसारेण काले प्राप्ते प्रजापतिः ।
दक्षः स्वस्य सुताः प्रादात् कश्यपाय त्रयोदश ॥६६॥ तस्मात् स नारदो जज्ञे पुनः शापबलादृषिः ।
इति ब्राह्मो नारदोऽपि काश्यपोऽजायताऽत्र वै ॥६७॥ एवमाङ्गिरसो दक्षः प्राचेतसो ह्यजायत ।
तस्य गृहे महामाया जन्म जग्राह यावता ॥६८ ॥ तावता समयेनापि मध्ये दैत्यौ महाबलौ ।
निशुम्भशुम्भौ लोकानां दुःखदौ सम्बभूवतुः ॥६९॥ कश्यपस्य दनुर्नाम्ना भार्या या दक्षपुत्रिका ।
तस्यां पुत्रत्रयं जातं महाबलपराक्रमम् ॥1.165.७० ॥ ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः ।
तृतीयो नमुचिर्नाम देवदुःखकरः सदा ॥७ १ ॥ नमुचिं दुःखदं हन्तुमिन्द्रो वज्रमुपाददे ।
भयात् तावन्नमुचिस्तु प्रविवेश रथं रवेः ॥७२ ॥ बहिर्नाऽऽयाति सूर्यस्य रथाद्वै ताडितोऽपि सः ।
सूर्येण च मुहुः क्षिप्तस्ताडितः पादलत्तया ॥७३ ॥ बहिस्तथापि नाऽऽयात् स इन्द्रवज्रभयात्तदा ।
तं शरणागतं मत्वा सूर्यो ररक्ष वासवात् ॥७४॥ ततः स समयं चक्रे रविणा वासवेन च ।
नाऽहं स्थास्यामि वै पृथ्व्यां स्वर्गे नैव कदाचन ॥७५॥ पाताले तु निवत्स्यामि मुच्यतां जीवदानतः ।
ततो मुक्तः सुरेन्द्रेण ततो वव्रे वरं यथा ॥७६॥ अवध्यत्वं वरं देहि शस्त्रैरस्त्रैः सुरेश्वर ।
इन्द्रस्तथास्त्विति प्राह वरमादाय दानवः ॥७७ ॥ स्वस्याऽवध्यत्वमाज्ञाय शस्त्रैरस्त्रैः स दानवः ।
भास्करस्य रथं त्यक्त्वा समुद्रं प्राविशद्द्रुतम् ॥७८ ॥ स निमज्जन्नपि वार्धौ सामुद्रफेनमुत्तमम् ।
अपश्यद् दानवपतिस्तं प्रगृह्य स्थितो जले ॥७९ ॥ मुखनासादिकर्णादीन् समापूर्य स्थितो जले ।
तस्मिन् शक्रोऽसृजद् वज्रमन्तर्हितमथाऽपि तम् ॥1.165.८ ० ॥ फेनात्मवज्रप्रहतः स पपात ममार च ।
फेनात्मवज्रसंरुद्धनासाऽऽस्यः स ममार वै ॥८ १ ॥ ततोऽस्य भ्रातरौ वीरौ क्रुद्धौ शुम्भनिशुम्भकौ ।
उद्योगं तु परं कृत्वा देवनाशार्थमागतौ ॥८ २ ॥ देवा अपि च युद्धार्थं निर्ययुरिन्द्रमाश्रिताः ।
युद्धं सुतुमुलं जातं जितास्त्वाक्रम्य देवताः ॥८३ ॥ अग्रेसराश्च दैत्याभ्यां जिताः सबलवाहनाः ।
शक्रस्य त्वाहृतो हस्तीयाम्यश्च माहिषो हृतः ॥८४॥ जलेशस्य मणिच्छत्रे हृते हृता गदा हरेः ।
निधयः शङ्खपद्माद्याः कुबेरस्य हृता बलात् ॥८५॥ कृताः त्रिलोका वशगाः स्वाराज्यं वशीकृतम् ।
दिशाम्पाला लोकपालाः प्रायशश्च वशीकृताः ॥८६॥ भुवं चागत्य राजानः प्रायशश्च वशीकृताः ।
तत्र रेवातटे राज्यं कुर्वन्तं प्राप्य तावुभौ ॥८७ ॥ प्राहतुः रक्तबीजाख्यं को भवानिति सोऽब्रवीत् ।
महिषस्य सचिवोऽहं दैत्योऽस्मि रक्तबीजकः ॥८८ ॥ करोमि राज्यं प्रच्छन्नं देव्या भीतिवशादिह ।
सचिवौ द्वौ महिषस्य चण्डमुण्डौ तु नामतः ॥८ ९ ॥ वर्तेते सलिले मग्नौ भयाद्देव्या महाभुजौ ।
इत्यस्माकं स्थितिस्तूक्ता ज्ञातव्या भवतोरपि ॥1.165.९० ॥ इति पृष्ठौ च तौ शुम्भनिशुम्भावूचतुश्च तम् ।
अहं शुम्भ इति ज्येष्ठो निशुम्भोऽयं कनिष्ठकः ॥९१ ॥ दनोः पुत्रौ काश्यपौ स्वो जितवन्तौ सुरादिकान् ।
अन्यानपि महापालान् जितवन्तौ भुवङ्गतान् ॥९२ ॥ इत्थं तयोस्तु वदतोर्नर्मदायास्तटे तदा ।
जलावासाद्विनिष्क्रान्तौ चण्डमुण्डौ च दानवौ ॥९३ ॥ परस्परं सहायास्ते मिलिताः पञ्च दानवाः ।
महिषस्य नमुचेश्च वैरनिर्यातनाय ते ॥९४॥ मन्त्रणां कृतवन्तस्ते सत्याः पराजयाय वै ।
वयं विवाहयिष्यामो रत्नभूतां सतीं तु ताम् ॥९५॥ इत्यामन्त्र्य सतीं मार्गयितुं विन्ध्याचलं ययुः ।
अदृश्या दृश्यते सा न ततो याता हिमालयम् ॥९६ ॥ तत्र स्नानाय गच्छन्तीं दृष्ट्वा तु पार्वतीं सतीम् ।
प्राहुर्वरय चास्मान् वै पार्वती प्राह ताँस्तदा ॥९७॥ अहं विन्ध्याचली देवी तीर्थार्थमिह चागता ।
मैवं वाच्यं तु सत्तीर्थे गच्छन्त्वितो यथागताः ॥९८ ॥ विन्ध्याद्रौ मे निवासोऽस्ति तत्र वाच्यं हृदि स्थितम् ।
तीर्थे कृत्वा गमिष्यामि यूयं गच्छत तत्र वै ॥९९ ॥ इति दैत्याँश्च शुम्भादीन् प्रेषयित्वा च पार्वती ।
स्नानार्थं देवगङ्गायां यावदग्रे प्रगच्छति ॥1.165.१०० ॥ तावत् तत्र समागत्य सङ्गत्य च सुरेश्वराः ।
प्रथमतोऽस्तुवन् देवीं स्वदुःख्रविनिवृत्तये ॥१०१ ॥ त्वयाऽस्माकं वरो दत्तो ह्यापत्काले स्मृता सती ।
दुःखं वै नाशयिष्यामि ह्यापत्काल उपस्थितः ॥१०२ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वेधसा स्ववीर्यहोमेनाऽष्टमहर्षिसमुत्पत्तिः, आङ्गिरसदक्षगृहे देव्याः सतीजन्मकारणम्, प्राचेतसदक्षोद्भवनकारणम्, ब्राह्म-नारदस्य काश्यपनारदोद्भवनकारणम्, दक्षस्य पुत्राः पुत्र्यः, शुम्भनिशुम्भादिदनुपुत्रोत्पत्तिः, देवानां पराजयः, देवीप्रार्थना चेत्यादिनिरूपणनामा पञ्चषष्ट्यधिकशततमोऽध्यायः ॥१ ६५ ॥