१६४

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततस्तेषां युद्धारम्भो बभूव ह ।
सन्नद्धाः सैनिकाः सर्वे समुत्पेतुरुदायुधाः ॥१ ॥ महिषश्च तदा देवीं ददर्शाऽग्निसमोज्ज्वलाम् ।
हेतुसूर्यचमत्कारां धनुर्ज्यास्वनकारिणीम् ॥२ ॥ क्षोभिताऽशेषसैन्यां तां किरीटोल्लिखिताऽम्बराम् ।
दिशो भुजसहस्रेण परितो व्याप्य संस्थिताम् ॥३ ॥ मुमोह बहुधा दैत्यो विजेतुं कृतनिर्णयः ।
युद्धं प्रववृते घोरं दिविषदां सुरद्विषाम् ॥४ ॥ शस्त्रास्त्रेर्बहुधा मुक्तैर्व्याप्तं जातं दिगन्तरम् ।
महिषासुरसेनानीश्चिक्षुरो युयुधेऽमरैः ॥५ ॥ रथानामयुतैः षड्भिरुदग्रो युयुधेऽमरैः ।
अयुध्यताऽयुतानां च सहस्रेण महाहनुः ॥६ ॥ असिलोमा च युयुधे पञ्चाशन्नियुतैस्तदा ।
बाष्कलो युयुधे तत्राऽयुतानां षट्शतैस्तदा ॥७ ॥ गजवाजिरथाऽसङ्ख्यसाधनैर्व्योमचारिभिः ।
बिडालो युयुधे तत्राऽयुतानामयुतैः रथैः ॥८ ॥ अन्येऽपि तत्र दैतेया दानवाश्चाऽयुताऽयुतैः ।
हयैर्नागैः रथैर्यानैः शस्त्रास्त्रैः पत्तिभिस्तथा ॥९ ॥ युयुधुः संयुगे देवैर्देव्या सह च तेऽसुराः ।
तोमरैर्भिन्दिपालैश्च मुशलैरसिभिस्तथा ॥1.164.१ ०॥ गदाभिः शक्तिभिः खड्गैः परशुभिश्च पट्टिशैः ।
युयुधे दानवा देवा यथाबुद्धिबलोदयम् ॥११ ॥ देवीं देवाँस्तदा हन्तुं चिक्षिपुर्दानवा मुहुः ।
शस्त्राणि तानि चिच्छेद लीलया सा निजायुधैः ॥१ २॥ क्षिप्रहस्ता च सा शस्त्राण्यस्त्राण्यसुरसैन्यके ।
मुमोच चण्डिका शीघ्रं जघानाऽऽसुरसैन्यकम् ॥१३ ॥ विप्रकीर्णं समस्तं च दैत्यदानवमण्डलम् ।
चिच्छेद प्रायशो देवी सस्यानीव तु कर्षुकः ॥१४॥ अथाऽन्ये दानवाः सञ्जीवन्या वै विद्यया तदा ।
छिन्ना अप्युत्थिता भूत्वा तया युयुधिरे सह ॥१५॥ देवास्तान्नाशयामासुर्बाणौघैः शस्त्रवृष्टिभिः ।
देवी धनुः समाकृष्याऽहनद्वै दानवं बलम् ॥१६ ॥ बाणौघैर्दिव्यतीक्ष्णास्त्रैश्चिच्छेद बहुधा बलम् ।
काँश्चित्तु गदया तीक्ष्णाऽसिना काँश्चित्तु तोमरैः ॥१७॥ पाशेन काँश्चित्तत्रैव शक्त्यर्ष्टिपरिघैस्तथा ।
चक्रेण काँश्चिद् देवी तान् निजघान महेश्वरी ॥१८॥ काँश्चित्तु कुलिशैः काँश्चिन्मुशलेन जघान सा ।
युध्यमाना रणे देवी निःश्वासान् मुमुचे बहून् ॥१ ९॥ ते सर्वे तु तदा देवीश्वासोत्पन्नाः गणेश्वराः ।
युयुधिरेऽस्त्रशस्त्रैश्च निजघ्नुर्दैत्यदानवान् ॥1.164.२० ॥ मुमुदिरे च पटहानवादयँश्च गोमुखान् ।
शङ्खान्मृदङ्गान् भेरीश्चाऽवादयँस्ते रणाङ्गणे ॥२ १ ॥ तदा च केसरी क्रुद्धो विधुन्वन् केसरान् मुहुः ।
महाकालकरालः सन् निषूदयति दानवान् ॥२२॥ खङ्गैः केचित् त्रिशूलैश्च द्वेधा भिन्ना हि दानवाः ।
बाणैः परश्वधैः केचिच्छेरते भिन्नवक्षसः ॥२३ ॥ विपोथिताश्च गदया पतिता भुवि शेरते ।
मुशलैश्च हताः केचिद् रुधिरं वेमुरासुराः ॥२४॥ सैनिकाः कोटिशस्तत्र बाणैः प्राणांश्च तत्यजुः ।
चक्रैश्छिन्नभुजाश्छिन्नकन्धराः पतिताः परे ॥२५ ॥ केचिद्विदारिता मध्ये खड्गैर्भागेन शेरते ।
विदारिता अर्धभागाः स्वपन्ति भुवि चापरे ॥२६॥ विभक्ताः कटिभिश्चान्ये द्वेधा भूमौ पतन्ति हि ।
केचिदेकाक्षिभुजपात्कबन्धाश्च द्विधाकृताः ॥२७॥ कबन्धा पतितास्तत्रोत्थायोत्थाय पुनः पुनः ।
युयुधुर्ननृतुश्चान्ये खड्गाऽसिशक्तिपाणयः ॥२८ ॥ पेतुश्चान्ये मदोन्मत्ताश्चेलुश्च तत्यजुः रणम् ।
दुर्गां तां कालरात्रिं च मन्यमाना विदुद्रुवुः ॥२९ ॥ अगम्या साऽभवत् पृथ्वी पातितै रणगामिभिः ।
विसुस्रुवुर्महानद्यः शोणिताऽद्भिस्तदन्तरे ॥1.164.३० ॥ एवं क्षयो महान् जातो ह्यसुराणां तदा भुवि ।
गजवाजिखरोष्ट्राणां महिषाणां रणाङ्गणे ॥३१ ॥ हतं सैन्यं स्वकं दृष्ट्वा सेनानीश्चिक्षुरस्तदा ।
कार्मुकं दृढमाकृष्य ववर्ष शरजालकम् ॥३२ ॥ तस्य शराँस्तदा देवी चिच्छेद स्वशरैर्मुहुः ।
सौवर्णपुङ्खानपरान् शरान् जग्राह षोडश ॥३३ ॥ जघान तुरगान् बाणैश्चतुर्भिश्चतुराँस्तथा ।
हत्वा सारथिमेकेन ध्वजमेकेन चिच्छिदे ॥३ ४॥ चिच्छेदैकेन चापं च रथं बभञ्ज मुद्गरैः ।
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥३५ ॥ अभ्यधावत खड्गं च चर्म प्रादाय वेगतः ।
शरैश्चतुर्भिश्चिच्छेद खड्गं चर्म महेश्वरी ॥३६ ॥ ततो जग्राह शूलं च प्राद्रवत्पुनरम्बिकाम् ।
चिक्षेप च ततस्तत्तु भद्रकाल्यां स दैत्यराट् ॥३७ ॥ खड्गं चाऽन्यं समादाय जघान शाङ्करीभुजे ।
बभञ्ज खड्गो द्वेधाऽभूत् शूलं तु शतधाऽभिनत् ॥३८ ॥ देव्या शूलं प्रहितं स्वं वक्षसि विददार तम् ।
पादौ करौ च शीर्षं च सा चिच्छेद वरासिना ॥३९ ॥ एवं सेनापतिश्चिक्षुरोऽपतत् षड्विभागतः ।
सेनान्यं नष्टमालोक्य नमरः सैन्यमूर्धगः ॥1.164.४० ॥ समागम्य च वेगेन देव्यां शक्तिं मुमोच ह ।
हुङ्काराऽभिहतां शक्तिं भस्मसादकरोद्धि सा ॥४१ ॥ दैत्यस्त्रिशूलमासाद्य सिंहाय प्राहिणोद्रणे ।
देवी क्षुरप्रधारैश्च बाणैस्तदपि चाऽच्छिनत् ॥४२ ॥ ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितम् ।
नमरं जगृहे कण्ठे दंष्ट्राभिस्तीक्ष्णधारिभिः ॥४३ ॥ गतासुं कुञ्जरस्कन्धात् क्षिप्त्वा देव्यैः निवेदितः ।
गृहीत्वा नमरं सव्यपाणिनाऽऽभ्राम्य मस्तके ॥४४॥ अवादयत्पटहवत् साऽट्टहासं ततोऽकरोत् ।
हास्यात् समुद्गता नाना भूता विकृतविग्रहाः ॥४५ ॥ व्याघ्रास्याश्च वृकास्याश्च हयास्या महिषाननाः ।
वराहास्याः कुक्कुटास्या आख्वास्या अव्यजामुखाः ॥४६ ॥ नानावक्त्राऽक्षिचरणा नानाऽऽयुधसमन्विताः ।
गायन्त्यन्ये हसन्त्यन्ये क्रीडन्त्यन्ये तु मिश्रिताः ॥४७॥ वादयन्त्यपरे तत्र स्तुवन्त्यन्ये महेश्वरीम् ।
शातयामास भूतैः सा शेषं यद्दानवं बलम् ॥४८ ॥ समाद्रवत वेगेन तदोग्रास्यो महासुरः ।
बाष्कलश्चोद्धतश्चैव बिडालनयनोऽपरः ॥४९ ॥ दुर्धरो दुर्मुखश्चैव युयुधिरेऽतिवेगतः ।
देव्या रणे ह्युदग्रस्तु शिलावृक्षादिभिर्हतः ॥1.164.५ ० ॥ दन्तमुष्टिप्रहारैश्च बाष्कलोऽपि निपातितः ।
गदापातैस्तदा देवी चूर्णयामास चोद्धतम् ॥५ १ ॥ बिडालं भिन्दिपालेन तथा बाणैश्च दुर्धरम् ।
दुर्मुखं गदया सञ्चूर्णयामास करालकम् ॥५२ ॥ ताम्रं तथाऽन्धकं चोग्रवीर्यं महाहनुं तथा ।
त्रिनेत्रा त्रिशूलधारैस्तान् जघान परेश्वरी ॥५३ ॥ एवं क्षये गते सैन्ये महिषो दैत्यराट् तदा ।
माहिषं रूपमास्थाय त्रासयामास तान् गणान् ॥५४॥ काँश्चित् तुण्डप्रहारेण क्षुरक्षेपैस्तथाऽपरान् ।
काँश्चिल्लाङ्गुलघातैश्च काँश्चिच्छृङ्गविदारणैः ॥५५॥ काँश्चिद्वेगेन नादेन भ्रमणेन तथाऽपरान् ।
नेत्राग्निभिश्च फुत्कारैर्निपात्य प्रमथान् बहून् ॥५६॥ अभ्यधावत् प्रहन्तुं सोऽसुरः सिंहं तु तत्क्षणे ।
कोपाद्बलान्महावीर्यः क्षुरक्षुण्णमहीतलः ॥५७॥ शृङ्गाभ्यां पर्वतानुच्चाँश्चिक्षेप च ननाद च ।
वेगभ्रमणघातेन पृथ्वी तत्र व्यशीर्यत ॥५८ ॥ समुद्रो लाङ्गूलघातादुद्वेलोऽप्लावयज्जगत् ।
शृङ्गपुच्छविफाणैश्च मेघाश्छिन्ना ययुर्लयम् ॥५९ ॥ श्वासैर्हतास्तु गिरयो निपेतुर्व्योममार्गतः ।
ब्रह्माण्डनाशसन्देहं तदा ह्यजनयद् बली ॥1.164.६० ॥ इत्येवं बलसर्वस्वं दर्शितं तेन शत्रुणा ।
तदा देवी तस्य कायं पाशेन प्रबबन्ध वै ॥६१ ॥ तदा तत्याज रूपं तन्माहिषं च क्षणात्पुनः ।
सिंहोऽभवत्तदा देवी यावच्छिनत्ति मस्तकम् ॥६२॥ तावत् स पुरुषो भूत्वा खड्गपाणिरदृश्यत ।
यावद्देवी शरैस्तं संविव्याध तावदेव सः ॥६३ ॥ खड्गचर्मधरः शैलसदृशो ह्यभवद्गजः ।
शुण्ढादण्डेन सिंहं तं चकर्ष च जगर्ज च ॥६४ ॥ निरकृन्तत तच्छुण्ढां खङ्गेनैव महेश्वरी ।
माहिषं रूपमास्थाय स दैत्यश्चण्डिकां प्रति ॥६५॥ चिक्षेप पर्वतान् स्वीयशृङ्गाभ्यामथ चण्डिका।
चूर्णयामास गदया परिघैस्तोमरैस्तदा ॥६६॥ मधुपानं पपौ क्रुद्धा बभूवाऽरुणलोचना ।
बलौजोमदगर्विष्टा प्रोवाच महिषासुरम् ॥६७॥ गर्ज गर्ज क्षणं दैत्य मधु यावत् पिबामि च ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥६८॥ गर्ज गर्ज क्षणं भीस्स्थ शकृत् यावन्न मुञ्चसि ।
मया त्वयि हतेऽत्रैव मरिष्यन्त्याशु दानवाः ॥६९॥ एवमुक्त्वा शूलमस्य व्यसृजद्धृदि वेगतः ।
शूलं बभञ्ज दैत्यस्य वक्षोऽस्थिघट्टनाबलात् ॥1.164.७०॥ अथ चिक्षेप शक्तिं सा कुण्ठिताऽग्राऽपतद् भुवि ।
अथ चक्रं प्रहितं तत् कुण्ठधारं तदाऽपतत् ॥७१॥ अथ क्षिप्ता गदा सापि द्वेधा भिन्नाऽपतद् भुवि ।
अथ पाशस्तथा दण्डः क्षिप्तौ भिन्नौ च तावुभौ ॥७२॥ वज्रं गले हतं तत्र क्षुद्रत्वमगमत् तदा ।
अथ क्रुद्धा महादेवी समुत्प्लुत्य महासुरम् ॥७३ ॥ समारूढा पृष्ठभागे दैत्योऽपि पुप्लुवे तदा।
सापि ममर्द पद्भ्यां तं चकार बलवर्जितम् ॥६१४॥ कण्ठं बिभेद शूलेन निर्जगामाऽसिधृक् पुमान् ।
स एवाऽसुरवर्योऽभूत् माहिषात्मा महासुरः ॥७५॥ निष्क्रान्तमात्रं हृद्ये पत्तलेन प्रहत्य च ।
कोपात् कचेषु सङ्गृह्य शिरश्चिच्छेद चाऽसिना ॥७६॥ ततो हाहाकृतं दैत्यबलं शेषितमित्यपि ।
ननाश प्रमथैः प्रायः पातालं प्रविवेश तत् ॥७७॥ देवाः प्रहर्षं जग्मुश्च तुष्टुवुस्तां तु चण्डिकाम् ।
गन्धर्वाश्च जगुः कीर्तिं ननृतुश्चाप्सरोगणाः ॥७८॥ वादित्राणि ह्यवाद्यन्त विजयध्वनयोऽभवन् ।
देवा ऊचुर्महादेवि! महिमान्तो न तेऽस्ति वै ॥७९॥ स ऐक्षत बहु स्यां सा चेच्छा त्वं पारमेश्वरी ।
सुन्दरता हरेमूर्तौ भवती सा प्रकीर्तिता ॥1.164.८ ०॥ आराधना तथा भक्तिर्मुक्तिः सा त्वं परेश्वरी ।
नारायणी महालक्ष्मीर्ब्रह्माणी त्वं महेश्वरी ॥८ १ ॥ त्रिगुणात्मा महामाया प्रकृतिस्त्वं कृतीश्वरी
त्वं रमा त्वं च वैराज्ञी लक्ष्मीः श्रीः सुकृतिगृहे ॥८२॥ त्वमलक्ष्मीः पुण्यहीनगृहे बुद्धिर्हृदम्बरे ।
त्वं श्रद्धा त्वं ह्रीश्च भीश्च त्वं स्वाहा क्रतुकर्मणि ॥८ ॥ त्वं स्वधा पितृदोषाय विद्या परममुक्तये ।
त्वं वाणी त्वं च गायत्री सावित्री त्वं त्रयीमयी ॥८४॥ वृत्तिर्मेधा च दुर्गा च गङ्गा चाऽभ्युदयप्रदा ।
सर्वेन्द्रियेषु शक्तिस्त्वं तस्यै चाऽस्यै नमोनमः ॥८५ ॥ पाह्यस्मान् सर्वदा मातः शस्त्रास्त्रैः सर्वदिक्षु च ।
जह्यसुरान सदा देवि! देवविघ्नकरान् सदा ॥८ ६ ॥ स्तुत्वैवं दिव्यकुसुमैरर्चिता गन्धलेपनैः ।
धूपदीपनिवेद्यादिभूषांऽशुकादिपूजिता ॥८७॥ प्रसन्ना प्राह देवाँश्च व्रियतां चाभिवाञ्च्छितम् ।
देवाः प्राहुः संस्मृता त्वं हिंसयस्व महापदः ॥८८ ॥ धनवित्तर्धिविभवपुत्रदारादिसम्पदाम् ।
वृद्धयेऽस्मत्प्रसन्ना त्वं भव वारिभवानने ॥८ ९ ॥ तथेत्युक्त्वा सुरान् सर्वानाश्वास्य च मुहुर्मुहुः ।
प्रभविष्याम्यमरार्थं चोक्त्वा विवेश तान्सुरान् ॥1.164.९० ॥ इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने महिषासुरसैन्यदेवसैन्ययोर्युद्धं देव्याऽऽसुरसैन्यविनाशन महिषासुरविनाशनं देवकृतस्तुत्यादि चेतिनिरूपणनामा चतुःषष्ट्यधिकशततमोऽध्यायः ॥१६४॥