१५५

श्रीनारायण उवाच-
शृणु लक्ष्मि! महालक्ष्मीः परवैकुण्ठवासिनी ।
यथा नारायणेनैव सहाऽऽजगाम रैवते ॥१ ॥ बलिर्यदा हरिणा वै बद्धस्तदाऽत्र रैवते ।
मण्डपे तु बलेः पत्नी सस्मार परमेश्वरीम् ॥२ ॥ महालक्ष्मीं तदा स्तोत्रैर्बलेर्बन्धनिवृत्तये ।
महावैकुण्ठधामस्थो प्रह्वीभावेन हृद्गताम् ॥३ ॥ सन्ध्यावली प्राञ्जलिस्तां नत्वा हृदि जगाद च ।
*नमो मात्रे महालक्ष्म्यै त्राहि भक्तं च मे पतिम् ॥४ ॥

  • नमः प्रकृतिसञ्ज्ञायै मूलायै ते नमोनमः ।
    संहर्त्र्यै ब्रह्ममात्रे ते कुक्षिसृष्ट्यै नमोनमः ॥५ ॥ वामना वापि दीर्घाश्च नारायणास्तु ते मुखे ।
    महाकालादयश्चापि सन्ति ग्रासाश्च ते नमः ॥६ ॥ सङ्कर्षणास्तथा रुद्रा यमाश्चैव तवाऽऽनने ।
    दंष्ट्रैकचर्वणाः सर्वे महामात्रे नमोनमः ॥७ ॥ वासुदेवस्तथा भूमा नारायणाश्च पूरुषाः ।
    त्वत्पल्लताताडितास्ते महाशक्त्यै नमोनमः ॥८ ॥ त्वत्तो लक्ष्मीः समुत्पन्ना महाविष्णुस्त्वदङ्कजः ।
    ब्रह्माण्डानि च ते रोम्णि रक्ष लक्ष्म्यै नमोनमः ॥९ ॥ महाग्नयस्तु ते गुप्ते त्वत्स्वेदे वाडवाऽनलाः ।
    भगवन्तश्च ते गर्भे चण्डलक्ष्म्यै नमोऽवतु ॥1.155.१०॥ जृम्भे ते प्रलयाः सन्ति चण्डे कालः प्रकम्पते ।
    चूर्णायन्ते महाण्डानि पृष्ठम्नीडे नमोऽस्तु ते ॥१ १॥ रक्ष रक्ष महामाये पतिं मे परमेश्वरि ।
    चण्डी तण्डी महामुण्डी घमण्डी डिण्डिकादिकाः ॥१२॥ कालीकरालीप्रज्वालीलिहालीरक्तिलादिकाः ।
    शक्तयस्ते रक्तलेशः पाहि कान्तं द्रुतं कुरु ॥१३ ॥ पाहि शीघ्रं चान्यथा त्वां गलं निकृत्य पूजये ।
    यद्यहं विधवा स्यां चेत् पूर्वं त्वं विधवा भव ॥१४॥ यद्यहं राज्यशून्यां स्यां त्वं वैकुण्ठं विना भव ।
    यद्यवमानितो राजा स्यात्पतिस्तेऽप्यमानितः ॥१५॥ मद्यज्ञे चेद् भवेत् विघ्नं तव यज्ञे तथाऽस्तु वै ।
    वदत्येवं चण्डवेगा द्रवृण्वन्त्यपि सभासदः ॥१६॥ मा मेत्येवं तदा देवा निवारयन्ति तां स्त्रियम् ।
    तावत् तत्रागता पत्नी महालक्ष्मीर्महाप्रभोः ॥१७॥ सान्त्वयित्वा च तां राज्ञीं पतिता खर्वपादयोः ।
    मा मैवं देव चात्यन्तं मा भक्तस्य हर प्रभो ॥१८॥ वामनश्च तदा प्राह नैनं वै मारयाम्यहम् ।
    राज्यभ्रष्टं च नैवाऽहं करोम्येनं सुसेवकम् ॥१९॥ सन्ध्यावली सदेवाऽस्तु सुसौभाग्यवती प्रिये ।
    दैत्योऽयं दैत्यराज्यं वै करोतु सुतले प्रिये ॥1.155.२०॥ वैकुण्ठं यद्यहं त्यक्ष्ये निवत्स्ये तद्बलेर्गृहे ।
    त्वया सह महालक्ष्मि राज्ञी सेवां करोतु मे ॥२ १॥ देवराज्यं तु देवेभ्यो दैत्यराज्यं तु तद्बलौ ।
    दत्त्वा निधाय गन्तव्यं सन्ध्यावल्याः शुभं भवेत्॥२२॥ तदा तु दैत्यवर्यैः सा महालक्ष्मीः प्रपूजिता ।
    देवैश्च पूजिता माता सर्वसौभाग्यरक्षिका ॥२३॥ वामनेन समं साऽपि रैवतेऽभ्यर्थिता च तैः ।
    सदोषिता महालक्ष्मीः सर्वसौभाग्यहेतवे ॥२४॥ रैवतात्पश्चिमे तत्रोच्छ्राये नित्य व्यवस्थिता ।
    महामाया महालक्ष्मीः प्राणरक्षणकारिणी ॥२५॥ वन्दिता पूजिता पुष्पकुङ्कुमाक्षतचन्दनैः ।
    सिन्दूरश्रीफलवस्त्रशाटीतैलसुगन्धिभिः ॥२६॥ तथा सौभाग्यद्रव्यैश्च भोजनैर्विविधैः शुभैः ।
    आभरणकटकोर्मिशृंरवलात्रोटिकादिभिः ॥२७॥ पेयैर्नानाविधैश्चैव कञ्चुकीशाटिकादिभिः ।
    मङ्गलसूत्रकर्णादिभूषणादिभिरादरात् ॥२८॥ प्रसन्ना सा महालक्ष्मीर्दीपोत्सवदिने सदा ।
    असौभाग्यममाङ्गल्यमनर्थं चेति हस्ति सा ॥२९॥ ददाति कुशलं राज्यं कान्तं पुत्रं धनं तथा ।
    पूजनार्थं महालक्ष्म्या मूर्तिः कार्या चतुर्भुजा ॥1.155.३०॥ पौरटी सुस्वरूपा च रम्या षोडशहायना ।
    पद्मामृतघटकरा पूजापात्रकरा तथा ॥३ १॥ अभयदानहस्ता च दक्षयोर्वामयोः क्रमात् ।
    षोडशोपपरिचारवस्तुभिः पूजयेत् तु ताम् ॥३२॥ नैवेद्यं फलताम्बूलं दत्त्वा नीराजयेत् ततः ।
    भोजनानि विविधानि दातव्यानि च दक्षिणाः ॥३३॥ दानानि रत्नहीरकमणिस्वर्णमयानि च ।
    वस्त्राणां च दुकूलानां कम्बलानां गवां तथा ॥३४॥ तस्याऽक्षयं भवेत्पुण्यं महालक्ष्मीप्रतापतः ।
    अन्ते वैकुण्ठवासः स्याद् भुक्त्वा भोगाननेकशः ॥३५॥ कन्यका द्वादशवर्षपूर्वा लक्ष्मीस्वरूपिकाः ।
    पूजनीया यथालक्ष्मीर्वस्त्रान्नधनदापनैः ॥३६॥ भोजनीयास्तथा भूषालङ्कारद्रव्यशोभिताः ।
    विविधैर्मिष्टपक्वान्नपायसान्नादिसद्रसैः ॥३७॥ भोजनीयास्तथा साध्व्यो विरक्ताः साङ्ख्ययोगगाः ।
    पूजनीयाश्च दातव्य विविधं दानमिष्टकृत् ॥३८॥ सति वै विभवे तत्र सापत्यसधवाः स्त्रियः ।
    विधवाश्चापि दीनाश्च शरण्याश्च निराश्रिताः ॥३९॥ भोजनीयाः पूजनीया दापनीयाश्च दक्षिणाः ।
    सम्माननीयाः सततं यत्तृप्तौ श्रीश्च तृप्यति ॥1.155.४० ॥ महालक्ष्म्यां प्रसन्नायां सर्वा स्मृद्धिर्विवर्धते ।
    न्यूनं किञ्चिद्भवेन्नैव यद्यत्त्वपेक्षते मिलेत् ॥४१ ॥ अलक्ष्मीं द्रावयत्येषा गृहात् सर्वां प्रपूजिता ।
    शृणु लक्ष्मि! कथां तेऽत्र समुद्रमथने तु या ॥४२॥ जाता तां कथयाम्यद्य प्रसङ्गात्सुखदायिनीम् ।
    दुर्वाससा प्रदत्तां तु पारिजातसुमालिकाम् ॥४३॥ इन्द्रश्चिक्षेप करिणो मूर्ध्नि गजेन पत्तले ।
    कच्चरितां तु तां दृष्ट्वा शशाप द्युपतिं ऋषिः ॥४४॥ मालाऽवमानकर्तुस्ते लक्ष्मीर्नष्टा भवत्विति ।
    अन्तर्दधे क्षणाल्लक्ष्मीः पेतुः रत्नानि वारिधौ ॥४५॥ तदुद्धाराय दुग्धाऽब्धिर्मथितो देवदानवैः ।
    मन्दराद्रिस्तदा पृष्ठे कूर्मात्महरिणा धृतः ॥४६॥ मन्थनादुदभूत् प्रमवै कालकूटं महाविषम् ।
    तत्सर्वं पीतवानीशो ममन्थुः पुनरेव तम् ॥४७॥ तस्मिन् प्रमथ्यमाने तु मया देवैश्च पद्मजे ।
    ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससाऽऽवृता ॥४८॥ अलक्ष्मीः सा भगिनी ते ज्येष्ठा देहेऽप्यसुन्दरी ।
    किरातीसदृशी रूपे धीवरीसदृशी मुखे ॥४९॥ कृकलाससमा कर्णे नालिकाभा तथा नसि ।
    महिषीसदृशी नेत्रे राक्षसीव तु मस्तके ॥1.155.५०॥ खग्राससदृशी भाले मषीतुल्या तु गण्डयोः ।
    शूलाग्रसदृशी दन्ते उष्ट्रीनिभा तु चोष्ठयोः ॥५ १ ॥ हस्तिनीसदृशी कण्ठे गर्दभीसदृशी स्वरे ।
    वर्बुरद्रुनिभा हस्तं वल्मीकाभा स्तनद्वये ॥५२॥ कुसूलतुल्याऽप्युदरे शिलातुल्या तु पृष्ठके ।
    तैलियन्त्रसमा कट्यां खर्जूरद्रुनिभा पदे ॥५३॥ जलौकाभा चाङ्गुलीषु कृर्मपृष्ठनिभा नखे ।
    दर्दुरीभा तु जिह्वायां स्वभावे तु शुनीसमा ॥५४॥ दरिद्राभा प्रसादे च हास्ये कङ्गालसदृशी ।
    चर्मकारीनिभा वस्त्रे चण्डालाभा निवासने ॥५५॥ रिक्तजलनिखाताभा जम्भणे म्रोडने खनिः ।
    भाण्डीनिभा सहवासे विवाहे क्षारभूनिभा ॥५६ ॥ संवादे रणभूसाम्या वैमनस्ये समृद्धिभा ।
    दृष्ट्वैनां तत्रसुस्तत्र देवदानवमानवाः ॥५७॥ विचारं चक्रिरे केयं सर्वाऽमङ्गलभूषणा ।
    कालरात्रिर्महामारिः किंवा प्रलयक्षुत् त्वियम् ॥५८॥ हस्ते मालां शङ्खलानां गृहीत्वा पतिमिच्छति ।
    गच्छतीतस्ततस्तावत्पतिं मृगयितुं यदा ॥५९॥ दृष्ट्वा सुराऽसुराः सर्वे दूरं धावन्ति नेच्छुकाः ।
    नेयं नेतो याहि मा मामन्यं गच्छेतिवादिनः ॥1.155.६०॥ यदा कैश्चित् स्वीकृता न वरमाला निरीहया ।
    निराशा प्राह मे वासो दीयतां क्वापि यत्र नु ॥६१॥ उत्पन्नाऽहं निरर्थाऽहं किं कर्तव्यं मयेति च ।
    तामब्रुवँस्तदा देवीं सुराऽसुरगणा द्रुतम् ॥६२॥ येषां गृहान्तरे नित्यं कलहः सम्प्रवर्तते ।
    तत्ते स्थानं प्रयच्छामो वस तत्राऽशुभान्विता ॥६३॥ यस्य गेहेऽभिचारार्थं कपालाऽस्थिप्रपूजनम् ।
    परुषं भाषणं यत्र मन्त्रतन्त्राभिमारणम् ॥६४॥ अनृतं साहसं द्यूतं पानं च मृगया मदः ।
    मातापित्रोरसेवा च गुरोश्चैवाऽवमाननम् ॥६५॥ स्त्रीबालानां च निःश्वासाः क्लेशः कुटुम्बिबान्धवे ।
    व्यभिचारश्च यत्रास्ति पङ्क्तिभेदोऽस्ति यत्र च ॥६ ६ ॥ तेषां वेश्मनि सन्तिष्ठ दुःखदारिद्र्यदायिनी ।
    गवादिस्ववशप्राणिनिःश्वासा यत्र सन्ति वै ॥६७॥ आश्रितानां पालनं च यत्र नीत्या न जायते ॥ श्वश्रूश्वशुरयोश्चैव पतिपत्न्योश्च पुत्रयोः ॥६८॥ पुत्रपित्रोश्च भ्रात्रोश्च मातृपुत्र्योः परस्परम् ।
    स्वस्रोर्यत्र वैमनस्यं तत्र सन्तिष्ठ हानिदे ॥६९॥ कुटुम्बिजनवर्गेषु चौर्येण व्ययशीलता ।
    स्वस्वस्वत्त्वप्रवृत्तिश्च गृहे यत्र कुटुम्बिनि ॥1.155.७० ॥ स्वगृहमपि पारक्यं स्वजनो मनुते तु यत् ।
    आलस्यं कार्यकरणे चान्याधारा च जीविका ॥७१ ॥ वृद्धानां वचनं यत्र मान्यं भवति नैव च ।
    स्नानं देवस्य पूजादि जपो यत्र न विद्यते ॥७२॥ उत्सवा मानुषा दैवा वार्षिका यत्र सन्ति न ।
    लोभोऽधर्मव्ययो यत्र तत्र तिष्ठ सुखी भव ॥७३ ॥ प्राणिनां हिंसनं यत्र सतां यत्र च निन्दनम् ।
    धर्मद्रोहश्च नास्तिक्यं वस तत्र कलिप्रिये ॥७४॥ यत्र नाऽतिथिसत्कारो यत्र शुद्धिर्न विद्यते ।
    मालिन्यं वर्तते यत्र तथा यत्र निरुद्यमः ॥७५॥ यत्र क्षणे क्षणे क्रोधो यत्र विषयतृष्णिका ।
    यत्र जैह्व्यं तथौपस्थ्यं व्यसनं सीमवर्जितम् ॥७६॥ दासदासीकर्मचारिपीडनं न्यायतो बहिः ।
    पशुपक्षिगोमहिषीगजाश्वादिप्रपीडनम् ॥७७॥ गृहजनेष्वविश्वासस्तत्र वासो विधीयताम् ।
    यत्र श्राद्धं न भवति न च पिण्डप्रदानकम् ॥७८॥ स्वाहास्वधावषट्कारक्रिया यत्र न विद्यते ।
    भूतयज्ञो ब्रह्मयज्ञो देवयज्ञो न यत्र वै ॥७९॥ दाराऽपत्यगृहस्वाम्यमात्यभृत्येषु चाऽनृतम् ।
    लुचाभक्ष्यं भवेद्यत्र यत्र द्रोहः परस्य च ॥1.155.८० ॥ रक्ष्यस्याऽरक्षणं यत्र पोष्यस्याऽपोषणं तथा ।
    दण्ड्यस्याऽदण्डनं यत्र तत्र वासो विधीयताम् ॥८ १ ॥ देवद्विजगवां वृत्तिहारकाणां गृहे सदा ।
    अनाथकृपणाऽन्धानां दुःखकृतो गृहे वस ॥८२॥ साधुसाध्वीयतियोगिविरक्तद्रोहकृद्गृहे ।
    दानधर्मनिषेधस्य कर्तॄणां च गृहे वस ॥८३॥ देहचौर्यमनश्चौर्यहृच्चौर्यस्य गृहे वस ।
    अन्यायोपार्जयितुश्च कृटतुलाधरस्य च ॥८४॥ कृटसाक्ष्यकृतो गेहे सदा वासो विधीयताम् ।
    विदुषामवमानयितुर्गृहे वस सर्वदा ॥८५॥ चतुर्दशसु लोकेषु यत्राऽन्यायोऽविवेकिता ।
    पूज्यपूजाव्यतिक्रमस्तत्र वासो विधीयताम् ॥८६॥ पण्ये कपटसम्मिश्रे व्यापारे कपटान्विते ।
    आचारे कपटाऽऽदिष्टे सदा वासो विधीयताम् ॥८७॥ यत्र राजा धर्मपक्षी प्रजा साहसभक्षिणी ।
    राष्ट्रं हृदयभक्षि स्यात् तत्र वासः सदा तव ॥८८॥ यत्र कन्याविक्रयस्य जीर्यते ह्युदरे धनम् ।
    नारीविक्रयवृत्तिश्च तत्र वासः सदा तव ॥८९॥ शीलव्रतं न यत्रास्ति हृदयं नैव निर्मलम् ।
    पदक्रमोऽपि कापट्यात् शाठ्ये वासः सदा तव ॥1.155.९०॥ रागद्वेषप्रयुक्तो वै दिवसो यस्य गच्छति ।
    अधर्मस्य च यत्रास्ति वंशस्तत्र सदा वस ॥९१ ॥ कृतघ्नस्य वञ्चकस्य पाशकस्याऽऽततायिनः ।
    अग्निदस्य गरदस्य हन्तुरन्यायतस्तथा ॥९२॥ विधर्मस्थस्य सदने ध्रुववासो विधीयताम् ।
    परगुप्तप्रकाशकगृहे वासः दुष्टगृहे तथा ॥९३॥ अन्नवस्त्रभुवां दानाऽकर्तुर्गृहे सदा वस ।
    पिशूनस्य भेदकस्य क्लेशकृतो गृहे वस ॥९४॥ राज्ये राष्ट्रे तथाऽरण्ये वाटिकासु वनेषु च ।
    उद्याने च कृषिक्षेत्रे पर्वते च स्थले जले ॥९५॥ वृक्षे सस्ये तथा बीजे रत्ने स्वर्णे रसे रणे ।
    सङ्ग्रामे चोत्सवे दैवे मानुषे वा स्थले जले ॥९६॥ तीर्थे भोज्ये व्यवहारे क्रये च विक्रये तथा ।
    विद्यायां च कलायां च शिल्पे ऋतौ च वर्षणे ॥९७॥ यत्राऽधिपः शठो धूर्तः कितवश्चौर उल्बणः ।
    दुष्टोऽन्यायी महापापी तत्र तत्र सदा वस ॥९८॥ किं बहुना त्वदुक्तेन यत्र हिंसाऽनृते तथा ।
    स्तेयव्यवायगृध्नाश्चाऽशुद्धिस्तृष्णा विनिन्दनम् ॥९९॥ तत्र वासः सदा तेऽस्तु लक्ष्म्या वासो न यत्र च ।
    इत्युक्त्वा तां ददुः देवा उद्दालकाय चर्षये ॥1.155.१०० ॥ विसर्जयामास पत्या सहाऽलक्ष्मीं ततः पुनः ।
    ते सर्वे मन्थनं चक्रुः क्षीराब्धेः सुसमाहिताः ॥१०१ ॥ ततश्च वारुणी देवी समुत्पन्ना शुभानना ।
    अनन्तो नागराजोऽथ तां जग्राह सुलोचनाम् ॥१०२॥ ततश्च गारुडी देवी समुत्पन्ना सुलक्षणा ।
    वैनतेयस्य भार्याऽभूत् सर्वलक्षणशोभिता ॥१ ०३॥ ततोऽप्सरोगणा दिव्या गन्धर्वाश्च महौजसः ।
    जज्ञिरे रूपसम्पन्ना मधुगायनतत्पराः ॥१ ०४॥ ऐरावतस्ततो जज्ञे तथैवोच्चैः श्रवाहयः ।
    धन्वन्तरिः पारिजातः सुरभिः सर्वकामधुक् ॥१ ०५॥ एतान् सर्वान् सहस्राक्षो जग्राह सर्वमानितः ।
    ततः प्रभातसमये द्वादश्यामुदिते रवौ ॥१० ६॥ उत्पन्ना श्रीर्महालक्ष्मीर्मथ्यमाने महोदधौ ।
    ततश्चन्द्रस्ततो जाता तुलसी या हरिप्रिया ॥१०७॥ तुलस्या सह मा लक्ष्मीर्वरयामास केशवम् ।
    ततः प्रोवाच भगवान् सर्वाश्चैव महामुनीन् ॥१ ०८॥ एकादशी महापुण्या सर्वोपद्रवनाशिनी ।
    तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ॥१० ९॥ अद्यप्रभृति ये लोका एकादशीमुपोष्य च ।
    द्वादश्यामुदिते भानौ श्रद्धया परया युताः ॥1.155.११० ॥ ये पूजयन्ति मां भक्त्या तुलस्या च श्रिया सह ।
    सर्वे ते बन्धनिर्मुक्ताः प्राप्नुवन्ति पदं मम ॥११ १॥ नार्चयन्ति च ये वै मां द्वादश्यां पुरुषोत्तमम् ।
    तान्पापान्विषयैर्बद्ध्वा मम माया दुरत्यया ॥१ १२॥ क्षिपत्यजस्रं संसारे नास्तिकान्मत्पराङ्मुखान् ।
    समुद्रात्सा यदा लक्ष्मीर्द्वादश्यां समजायत ॥११२ ॥ तदाप्रभृति ऋषयो देवा ब्रह्मपुरोगमाः ।
    सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः ॥१ १४॥ विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः ।
    एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम् ॥१ १५॥ द्वादश्यामर्चयामासुर्लक्ष्मीनारायणं तु माम् ।
    द्वादशीवासरस्तेऽस्ति ममापि वासरो हि सः ॥१ १६॥ हरिवासर इत्युक्तो लक्ष्मीवासर इत्यपि ।
    दम्पत्योस्तु सदैवैक्यात् किमन्यछ्रोतुमिच्छसि ॥१ १७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रैवताचले महालक्ष्म्यागमनं तस्याः पूजनदानादि, समुद्रमथने
    ऽलक्ष्म्या उत्पत्तिस्तत्स्वरूपं तन्निवासस्थानानि, ततो लक्ष्मीतुलसीप्रादुर्भावे द्वादशीमहिमेत्यादिनिरूपणनामा पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥१५५॥