१५२

श्रीनारायण उवाच-
तीर्थे पाल्याँश्च नियमान् यमाँश्च वच्मि पद्मजे! ।
नियमानां यमानां च पालनं फलदं भवेत् ॥१ ॥ कामक्रोधविजेता यो लोभमोहादिवर्जितः ।
श्रद्धालुश्चाऽऽस्तिकः शुद्धः स तीर्थफलभाग्भवेत् ॥२ ॥ करपादोदरजिह्वामनःशिश्नानि यस्य हि ।
संयतानि भवेयुर्वै स तीर्थफलमश्नुते ॥३ ॥ सत्यवाक् सुव्रतः शान्तः सर्वेष्वात्मोपमदृशिः ।
तपोविद्याकृतशुद्धिः सतीर्थफलमश्नुते ॥४ ॥ तीर्थे ह्युपोषणं कार्यं क्षौरं श्राद्धं सपिण्डकम् ।
भोजनीयाः साधुसाध्व्यो दानं देयं तु भावतः ॥५ ॥ नारीणां पतिवत्नीनां क्षौरं नैव विधीयते ।
परीक्षा भोजनीयानां कर्तव्या नैव केनचित् ॥६ ॥ तत्रत्यदेवतानां च कर्तव्यं मुख्यमर्चनम् ।
भूषावासोद्रव्यपात्रफलनैवेद्यवस्तुभिः ॥७ ॥ अशक्तस्तु नमः कुर्यात् तथा सम्मार्जनादिकम् ।
साधुचरणशुश्रषां सेवां प्रसन्नताप्रदाम् ॥८ ॥ साधवः सेविता येन तनुमानसवस्तुभिः ।
महापूजाफलं तस्य सर्वं तीर्थफलं भवेत् ॥९ ॥ साधवस्तोषिता येन सर्वस्वार्पणसाधनैः ।
सर्वदानफलं तस्य साधुर्नारायणो यतः ॥1.152.१ ०॥ पुण्यतीर्थेषु यत्कार्यं क्रियते सानुसङ्गमे ।
सहस्रगुणितं चाऽप्यनन्तफलकरं भवेत् ॥१ १॥ कृतं तीर्थे स्वल्पमपि तीर्थबलाद्विवर्धते ।
पुण्यं विवर्धते नित्यं पापं तु लीयते सदा ॥१२॥ तीर्थ कृतानां जीवानां पापलेशो न विद्यते ।
तारयति जनान् यस्मात् तस्मात् तत्तीर्थमुच्यते ॥१३॥ यद्यत् करोति सत् तीर्थे सर्वं तत्पुण्यदं भवेत् ।
नियमेन च तीर्थे वै स्थातव्यं तनुधारिभिः ॥१४॥ मनःशुद्धिं तथा सेवां सतां कुर्याद्धि तीर्थकृत् ।
लुब्धस्य पिशुनस्याथ क्रूरस्य दाभिकस्य च ॥१५॥ मलिनस्य च चौरस्य नास्तिकस्य शठस्य च ।
निन्दकस्य तथा द्रोग्धुर्न स्यात् तीर्थफलं क्वचित् ॥१६॥ शारीरमलसन्त्यागे मनो न निर्मलं भवेत् ।
दोषदृष्टिपरित्यागे मनस्तु निर्मलं भवेत् ॥१७॥ रागद्वेषौ मलरूपौ तत्त्यागे निर्मलो भवेत् ।
नारीभिश्च नरैर्वापि तीर्थे वीक्ष्या तु दिव्यता ॥१८॥ दिव्यभावेन स्वस्याऽन्तर्दिव्यता वर्धतेऽन्वहम् ।
दिव्यान्तःकरणे धार्यो भगवान् तीर्थमण्डले ॥१ ९॥ स वै सन्तारयेद् भक्तं निर्मलं पुण्यभाजनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमनाग्रहः ॥1.152.२०॥ शौचं तपश्च सन्तोषः स्वाध्यायो भजनं हरेः ।
जपश्च पूजनं देवदर्शनं श्रवणं नतिः ॥२१॥ कर्तव्यानि विशेषेण पूर्णं तीर्थफलं भवेत् ।
क्रोधस्तीर्थे न कर्तव्यः पुण्यप्रज्वालको हि सः ॥२२।
तीर्थेऽन्यस्य न भोक्तव्यं पेयं नान्यस्य वै क्वचित् ।
प्रतिग्रहश्च न ग्राह्यस्तपस्तेजोहरो हि सः ॥२३॥ लड्डुकैर्मौक्तिकैः रम्यैः कसारैर्घृतपूरकैः ।
संयावपायसाऽपूपैः शष्कुलीखाजकादिभिः ॥२४॥ पर्पिकापिण्डकाद्यैश्च व्यञ्जनैर्द्विदलादिभिः ।
दधिदुग्धैश्च तक्रैश्च श्रीखण्डदौग्धसद्रसैः ॥२५॥ घृतशर्करसुपक्वैश्चान्यैर्भक्ष्यसुलेह्यकैः ।
तर्पणीयाः साधुविप्रसाध्व्यश्च दीनबालकाः ॥२६॥ पितरस्तेन तृप्ताः स्युस्तस्य पुण्यमनन्तकम् ।
भोक्तव्यं भोजनीयाश्च तीर्थस्य फलमिच्छता ॥२७॥ वन्ध्यं तीर्थं न वै कुर्यात् यदि सौख्यं समीहते ।
जडतीर्थात् चेतनं तु तीर्थं तीर्थोत्तमं मतम् ॥२८॥ सन्तः साध्व्यो योगिनश्च यतयो ब्रह्मचारिणः ।
ते सर्वे चेतनं तीर्थं तल्लाभे सुकृतं महत् ॥२९॥ चातुर्मास्ये विशेषेण तीर्थसेवा विधीयते ।
तपोनियमसत्काले फलं त्वनन्तकं भवेत् ॥1.152.३० ॥ अल्पायासान् बहुफलान् पुत्रलक्ष्मीप्रदायकान् ।
चातुर्मास्यव्रतश्रेष्ठान् कुर्वतः फलमक्षयम् ॥३ १॥ गां स्पृष्ट्वा ब्राह्मणं नत्वा सम्पूज्य साधुदैवतान् ।
तपस्विनं यतिं शान्तं श्रोत्रियं ब्रह्मचारिणम् ॥३२॥ मातापितरौ भगिनीं तत्पतिं दुहितुः पतिम् ।
भागिनेयं च दौहित्रं मित्रसम्बन्धिबान्धवान् ॥३३॥ साध्वीः सतीश्च कन्याश्च दीनान्धकृपणान् जनान् ।
बालान् वृद्धानातुराँश्च गाश्चाऽतिथीननाथकान् ॥३४॥ भिक्षुकान् क्षुधितान् श्रान्तान् पथिकान् तीर्थवासिनः ।
भोजयित्वा पातकैः सम्मुच्यन्ते गृहमेधिनः ॥३५॥ राजा गजाश्वनकुलसतीवृषमहीधराः ।
आदर्शक्षीरवृक्षान्नप्रदाः साधुजनास्तथा ॥३६॥ जलस्थलात्मतीर्थानि देवमन्दिरमूर्तयः ।
दृष्टमात्राः पुनन्त्येते चातुर्मास्यव्रतस्थिताः ॥३७॥ वेदधर्मकथां श्रुत्वा दृष्ट्वा मुक्तिपरान्नरान् ।
स्मृत्वा लक्ष्मीं हरिं शम्भुं शिवां गङ्गां च स्वर्णदीम् ॥३८॥ कृत्वा जागरणं विष्णोर्दत्वा दानं च शक्तितः ।
ताम्बूलं कुसुमं दीपं नैवेद्यं तुलसीदलम् ॥३९॥ गीतं नृत्यं च वाद्यं च विधाय सुरमन्दिरे ।
महोदयमवाप्नोति फलं स्वर्ग्यं च मोक्षदम् ॥1.152.४०॥ इन्द्रियाणां च मनस ऐकाग्र्यं तप उत्तमम् ।
तदैकाग्र्यं वासुदेवे कार्यं ध्यानादिना जनैः ॥४१ ॥ ऋषयो मुनयश्चातुर्मास्ये जैह्वं रसं द्रुतम् ।
जित्वा तपः प्रकुर्वन्ति तीर्थयात्राफलाप्तये ॥४२॥ फलाहारः पयःपानं चैकभुक्तमथापि वा ।
शाकत्यागोऽथवा शाकमात्राहारस्तिलादनम् ॥४३ ॥ दधिप्राशो घृतत्यागश्चैकान्नभोजनं तथा ।
माषमुद्गादिमात्रस्य भोजनं व्रतमेव वा ॥४४॥ भूशयनं जलस्नानं तैलाभ्यङ्गादिवर्जनम् ।
भजनं पूजनं मालाजपः श्रीहरिकीर्तनम् ॥४५॥ कथायाः श्रवणं नित्यमिष्टदेवस्य दर्शनम् ।
साधूनां सेवनं तीर्थे व्रतं पुण्यप्रदं बहु ॥४६॥ ब्राह्मणः साधवश्चार्च्या भोजनीयाश्च सद्रसैः ।
षोडशोपचारवर्यैर्नित्यं कृष्णार्हणं व्रतम् ॥४७॥ साधूनां पूजनं नित्यं यद्वा होमो व्रतं परम् ।
घृतैक्षवलवणादेर्वर्जनं च व्रत मतम् ॥४८ ॥ नित्यं भगवतेऽर्प्यैव पेयं खाद्यं च तद्व्रतम् ।
कृतेन कर्मणा येन साधवो भगवाँस्तथा ॥४९ ॥ प्रीयेरन् तद्व्रतं श्रेष्ठं कर्तव्यं मोक्षदं यतः ।
मातापित्रोर्गुरोः सेवा व्रतानां व्रतमुत्तमम् ॥1.152.५ ० ॥ पत्युः सेवा व्रतं पत्न्याः पत्नीतोषं पतिव्रतम् ।
शिष्यव्रतं गुरोः सेवा शिष्यतोषो गुरोर्व्रतम् ॥५ १ ॥ रैवते कार्तिकव्रतं कर्तव्यं तु विशेषतः ।
वटताले हरिहरक्षेत्रे च कपिलाश्रमे ॥५२ ॥ व्रतं मासोपवासाख्यमथवा चान्द्रकालिकम् ।
चान्द्रायणं व्रतं कार्य पूर्णिमातस्तपः शुभम् ॥५३ ॥ आश्वीनपूर्णिमायां वै कवला दश पञ्च च ।
कार्तिककृष्णप्रतिपद्दिने ग्रासाश्चतुर्दश ॥५४॥ एकैकस्य तिथिक्रमाद्ध्रासो वै कवलस्य च ।
अमायामुपवासः स्यात्प्रतिपद्येक एव च ॥५५॥ ग्रासद्वयं द्वितीयायामेवमापूर्णिमावधि ।
ग्रासवृद्धिर्यथातिथिवृद्धि कार्यं च तद्व्रतम् ॥५६ ॥ ग्रासश्चैकेन यत्नेन गलाधो याति तादृशः ।
न न्यूनो नाऽधिको वाऽपि व्रतार्थे सम्मतः सदा ॥५७॥ यद्वाऽन्यत् तीर्थकर्तॄणां तपोव्रतमुदीर्यते ।
उदयास्तावधि दिवा जलकृच्छ्रं जले स्थितिः ॥५८ ॥ दशम्यां गोमूत्रशकृद्घृतदुग्धदधिग्रहः ।
एकादश्यामुपवासो हरिकृच्छ्रव्रतं हि तत् ॥५ ९ ॥ सप्तमीतः क्रमाद्ग्राह्यं जलं क्षीरं दधिघृतम् ।
एकादश्यामुपवासः कृच्छ्रः पैतामहस्तु सः ॥1.152.६० ॥ षष्ठीतस्त्रिदिनं दुग्धपानं त्र्यहमुपोषणम् ।
माहेन्द्रकृच्छ्र इत्युक्तस्तीर्थे कार्यो विशेषतः ॥६ १ ॥ तृतीयातस्त्र्यहं भोज्यं निवारादि ततस्त्र्यहम् ।
यवादिकं त्र्यहमुपोषणं कृच्छ्रः स वैष्णवः ॥६ २॥ पञ्चदिनं पयःपानं पञ्चाहं दधिभोजनम् ।
एकादश्यामुपवासो भास्करकृच्छ्र उच्यते ॥६ ३ ॥ पञ्चमीतः क्रमात् भाजीं यवान् शाकं दधि क्षीरम् ।
घृतं जलमेकादश्याम् ऋषिकृच्छ्रः स उच्यते ॥६४॥ पलाशबिल्वदर्भाब्जोदुम्बरपर्णसुशृतम् ।
पयः पेयं प्रतिपदः षष्ठ्या कुर्यादुपोषणम् ॥६५॥ तदिदं व्रतमाग्नेयकृच्छ्राख्यं समुदीरितम् ।
सप्तमीतः पयोबिल्वाम्बुजमृणालभक्षणम् ॥६६ ॥ एकादश्यामुपवासो लक्ष्मीकृच्छ्र उदीरितः ।
एकादशदिनेष्वेव पर्णादः पर्णकृच्छ्रकृत् ॥६७॥ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहं भोज्यमयाचितम् ।
त्र्यहं चोपवसेत् कृच्छ्रः प्राजापत्य उदीरितः ॥६८ ॥ द्वादशाहोपवासैस्तु पाराककृच्छ्र उच्यते ।
फलमात्रग्रहणेन फलकृच्छ्रः प्रकीर्त्यते ॥६९ ॥ जलमात्रग्रहणेन जलकृच्छ्रः स उच्यते ।
दलमात्रग्रहणेन दलकृच्छ्रस्तथोच्यते ॥1.152.७ ० ॥ पुष्पमात्रग्रहणेन पुष्पकृच्छ्रः प्रकीर्त्यते ।
बीजमात्रग्रहणेन बीजकृच्छ्रः स भण्यते ॥७ १ ॥ तिलमात्रग्रहणेन चणकग्रहणेन च ।
भर्जिततण्डुलग्राहे तत्तत्कृच्छ्रः स उच्यते ॥७२॥ पक्वकृच्छ्रश्चामकृच्छ्रः सक्तुकृच्छ्रौदनव्रते ।
कार्तिके शुक्लपक्षे ते कृच्छ्राः कार्या विधानतः ॥७३ ॥ तत्तद्भगवतो भक्त्या सहिता एव सर्वथा ।
भुक्तिमुक्तिफलदास्तेऽन्यथा तु स्वर्गदा मताः ॥७४॥ कृच्छ्रमध्ये भवेन्मूर्छा गोक्षीरं पाययेत्तदा ।
जलं मूलं फलं दुग्धं पत्रं पुष्पं घृतं दधि ॥७५ ॥ तक्रं तैलं शर्करादि मुन्यन्नं शाकमब्धिजम् ।
कर्पूरं त्वङ्लवङ्गैलातिक्तमरीचमौषधम् ॥७६ ॥ मुखशुद्धिकरद्रव्यमार्द्रकं क्वाथमित्यपि ।
चतुर्विशतितत्त्वान्यव्रतघ्नानि भवन्ति हि ॥७७ ॥ अथवाऽयाचितं भैक्ष्यमपक्वाशनमेव वा ।
शाकत्यागः फलत्यागो रसत्यागोऽन्नसुत्यजिः ॥७८ ॥ क्षारत्यागो दौग्धवस्तुत्याग ऐक्षवसुत्यजिः ।
व्रतान्येतानि सूक्तानि भुक्तिमुक्तिकराणि वै ॥७ ९ ॥ तीर्थे कार्याणि चैतानि वर्षासु कार्तिकेऽथवा ।
अन्नदानं जलदानं वस्त्रदानं सहायकृत् ॥1.152.८ ० ॥ यानदानं भुवो दानं कन्यादानं गवार्पणम् ।
स्वर्णदानं तिलदानं दीपदानं गृहार्पणम् ॥८ १ ॥ एवं स्वापेक्षितं सर्वं दातव्यं पुनरिच्छता ।
रमादामोदरस्यापि पूजनं व्रतमुच्यते ॥८ २॥ केतकीजात्यगस्तीनां कुसुमैरम्बुजैरपि ।
कमलैस्तुलसीपत्रैर्लक्षेण पूजयेद्धरिम् ॥८ ३ ॥ पत्रे पत्रे च कुसुमेऽश्वमेधफलमाप्नुयात् ।
धात्रीफलरसाक्ताङ्गो धात्रीफलसुभोजनः ॥८४ ॥ धात्रीफलभूषिताङ्गो धात्रीछायासमाश्रितः ।
दामोदरं समभ्यर्च्य व्रजेन्नारायणं पदम् ॥८५॥ देयं आकाशदीपश्च देवालये निशामुखे ।
पक्वान्नानि प्रदेयानि देवाय धनिभिः सदा ॥८६ ॥ गृह्णीयात् कार्तिके दीक्षां महाभागवतीं जनः ।
हरेः पदार्पितां मालां तुलसीजां गले धरेत् ॥८७॥ सा व्यक्तिर्मुच्यते नूनं जन्मसंसारबन्धनात् ।
एकेनापि व्रतेनोर्जे चातुर्मास्यफलं लभेत् ॥८८॥ इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पालनीययमनियमदानकृच्छ्रव्रतादिनिरूपणनामा द्विपञ्चाशदधिकशततमोऽध्यायः ॥१५२॥