१५१

श्रीनारायण उवाच-
ततः सारस्वतः प्राह राजानं भोजपुङ्गवम् ।
मिष्टान्नं भोजनं रम्यं पानमुच्चावचं शुभम् ॥१ ॥ पूजार्हाणि च पात्राणि पुष्पाण्युपस्कराणि च ।
वस्त्राणि दानयोग्यानि सुगन्धिचन्दनानि च ॥२ ॥ कमलानि विचित्राणि स्वर्णरूप्याद्यलङ्कृतीन् ।
स्कन्धे निधाय पद्भ्यां च यात्रां करोति यो जनः ॥३ ॥ अर्पयित्वा च हर्यग्रेऽक्षयपुण्यमवाप्नुयात् ।
गङ्गोदकं मधु घृतं कुङ्कुमाऽगुरुचन्दनम् ॥४ ॥ गुग्गुलं बिल्वपत्राणि धत्तूरकुसुमं तथा ।
पादचारी भजन् देवं स्कन्धे स्वयं निधाय च ॥५ ॥ भवनाथं तु यो गच्छेद् दृष्ट्वा निवेदयेत्तथा ।
स्वर्णनद्यां तथा स्नात्वा दामोदरं समर्चयेत् ॥६ ॥ सर्वबन्धविनिर्मुक्तः स वै कैलासमाप्नुयात् ।
गणो मुक्तो भवत्येव यावदाभूतसम्प्लवम् ॥७ ॥ कलत्रमित्रपुत्रैर्वा भ्रातृभिः सुजनैर्जनैः ।
सुहृत्सम्बन्धिभिश्चान्यैर्याति देवं स्मरँस्तु यः ॥८ ॥ स तन्मण्डलसहितः स्वर्गं यात्यादिवाकरम् ।
देवमूर्तिं शुभां कृत्वा रथस्थां सुप्रतिष्ठिताम् ॥९ ॥ चन्दनागुरुकर्पूरैरर्चितां कुङ्कुमेन च ।
पूजयन् विविधैः पुष्पैर्धूपदीपादिकैस्तथा ॥1.151.१० ॥ गीतनृत्यैः सवादित्रैर्हास्यैर्लास्यैरनेकधा ।
धरित्रीं काञ्चनं गां च जलान्नवसनानि च ॥११ ॥ तृणेन्धने प्रियां वाणीं यच्छन् याति तु रैवते ।
दामोदरे तथा भवेश्वरे गत्वाऽर्चयत्यथ ॥१२॥ स्वर्णवत्यां तडागे वा कुण्डे च रैवतीकृते ।
स्नाति जपति गोविन्दं ददात्यन्नानि भूरिशः ॥१ ३॥ तत्र यच्छति दानानि सर्वस्वानि च यो जनः ।
देवाङ्गनाकरग्राहे गृहीतो नन्दने वने ॥१४॥ गत्वा भुङ्क्ते शुभान् भोगान् यावदाचन्द्रतारकम् ।
तीर्थे विप्रवचः कृत्वा स्नात्वा सन्ध्याऽर्चनादिके ॥१५॥ दर्भांस्तिलान् हविष्यान्नं प्रयु्ञ्ज्याच्छ्रद्धया ततः ।
अगस्तं भृङ्गराजं च पुष्पं शतदलं शुभम् ॥१६॥ कर्पूरागुरुश्रीखण्डं कुङ्कुमं तुलसीदलम् ।
तीर्थे सङ्कल्पितं मर्त्यैस्तदनन्तं प्रजायते ॥१७॥ बिल्वप्रमाणपिण्डानि दद्याद्वै तीर्थभूमिषु ।
ताम्बूलफलनैवैद्यतिलदर्भोदकैस्तथा ॥१८॥ मासान्तरे शुक्लपक्षे क्षयाहे मातृ-पैतृके ।
गजच्छायां त्रयोदश्यां द्रव्ये प्राप्ते द्विजोत्तमे ॥१९॥ गृहे श्राद्धं प्रकुर्वीत पितृणामृणमुक्तये ।
गृहाच्छतगुणं नद्यां या नदी याति सागरम् ॥1.151.२० ॥ ततोऽनन्तगुणं देवमन्दिरे देवसन्निधौ ।
प्रभासे पुष्करे तीर्थे गयायां पिण्डतारके ॥२१ ॥ प्रयागे चाथ गोमत्यां भावे दामोदरे तथा ।
नर्मदायां तपत्यां च कुर्याच्छ्राद्धं त्रिविक्रमे ॥२२॥ स्वर्णरक्षाऽऽपगायाश्च नारायणह्रदे तथा ।
ओजस्वत्यां च भद्रायां तथा शत्रुजितातटे ॥२३ ॥ वामनस्थलकुण्डाग्रे कुर्याच्छ्राद्धं नरो यदि ।
सर्वपापविनिर्मुक्ताः पितरो यान्ति सद्गतिम् ॥२४॥ सन्तानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ।
दिव्यं विमानमारुह्य श्राद्धकृद्याति मोक्षणम् ॥२५॥ जातकर्मादियज्ञेषु विवाहे गृहकर्मणि ।
देवप्रतिष्ठाप्रारम्भे कूपवाप्यादिकर्मणि ॥२६॥ तृप्यन्ति देवताः सर्वा हृष्यन्ति पितरो नृणाम् ।
वृद्धिश्राद्धे कृते गेहे जायते सर्वमङ्गलम् ॥२७॥ कामः क्रोधश्च लोभश्च मोहो मद्यं मदादयः ।
मायामात्सर्यपैशुन्यमविवेकोऽविचारिता ॥२८॥ अहङ्कारो यदृच्छा च चापल्यं लौल्यमित्यपि ।
अन्यायसाधनाऽऽयासः प्रमादो द्रोहसाहसे ॥२९॥ आलस्यं दीर्घसूत्रत्वं परदारोपसेवनम् ।
एते दोषाः सदा त्याज्यास्तीर्थगामिनरादिना ॥1.151.३ ०॥ स स्याद्वै मण्डनं भूमेदेशस्य नगरस्य च ।
श्रीमान् विद्वान् कुलीनः स्यात् स तीर्थफलमश्नुते ॥३१ ॥ स्नानं सन्ध्या जपो होमः स्वाध्यायः पितृतर्पणम् ।
श्राद्धं देवस्य पूजा च त्यक्तदोषस्य जायते ॥३२॥ उत्थायोत्थाय स्नातव्यं पूज्यौ हरिहरौ तथा ।
सत्यं वाच्यं हितं कार्यं दानं देयं स्वशक्तितः ॥३३॥ परापवादभीरुत्वं परदारविवर्जनम् ।
तैर्थिकदोषाऽग्राहित्वं सेवनं च सतां मुदा ॥३४॥ पितृमातृगुरूणां च नाऽप्रियं मनसा वहेत् ।
औषधं शाकमर्थिभ्यो दातव्यं गृहमेधिना ॥३ ‘६ ॥ एकादशी पञ्चदशी चतुर्दश्यष्टमीषु च ।
अमायां च व्यतीपाते सङ्क्रान्तो ग्रहणेषु च ॥३६ ॥ वैधृतौ पितृमातॄणां क्षयाहे शुभवासरे ।
युगमन्वादिदिवसे गृहे कार्यो महोत्सवः ॥३७॥ तीर्थे वा गमनं कार्यं पुण्यं शतगुणं भवेत् ।
इन्द्रियाणां जयः कार्यो मद्यद्यूतविवर्जनम् ॥३८ ॥ स्नानं दानं जपो होमः सुरपूजा द्विजार्चनम् ।
साधुसाध्वीप्रपूजा च कर्तव्याऽक्षयपुण्यदा ॥३९ ॥ एकाऽपि गोः प्रदातव्या वस्त्रालङ्कारभूषिता ।
दोग्ध्री सवस्त्रा तरुणी सवत्सा सुद्विजाय च ॥1.151.४० ॥ साधवेऽन्नसुभोज्यानि साध्व्यै वस्त्राद्यलङ्कृतिः ।
देयान्यन्नानि वस्तूनि यथा स्याद्वै प्रसन्नता ॥४१ ॥ सप्तजन्मसु पापिष्ठ इह जन्मनि चाऽधमः ।
एकां ददाति यो धेनुं मुच्यते सर्वपातकैः ॥४ २ ॥ यदाऽसौ नीयते बद्धो यममार्गेण किङ्करैः ।
तदा धेनुः समागत्य स्वं पुत्रमिव रक्षति ॥४३ ॥ विजित्य हुङ्कृतेनैव तान् दूतान् दूरतः कृतान् ।
गौर्दातारं समादाय याति वै हरिमन्दिरम् ॥४४॥ वृषो धर्म इति प्रोक्तस्तीर्थे दानं वृषस्य च ।
कर्तव्यं रक्षयेद् धर्मो दातारं नयते दिवम् ॥४५ ॥ ग्रासमात्राऽपि भिक्षा सत्तीर्थे देया गृहस्थितैः ।
कुम्भपत्रादिसिद्धान्नछत्रोपानत्कमण्डलुम् ॥४६ ॥ अङ्गुलीयकवासांसि दत्वा याति नरो दिवि ।
पानं श्रान्ततृषार्ताय क्षुधार्तायाऽन्नमेव च ॥४७ ॥ नग्नाय वस्त्रं सन्देयं देव्यो नयन्ति तं दिवम् ।
भोजनं सततं देयं यथाशक्त्या घृतप्लुतम् ॥४८ ॥ शुत्पीडा महती लोके तस्यान्नं भेषजं मतम् ।
तेन सा शान्तिमायाति चान्नदानं तदुत्तमम् ॥४९ ॥ अन्नं वस्त्रं फलं तोयं तक्र शाकं घृतं मधु ।
पत्रं पुष्पं तथोपानत् कन्था यष्टिः कमण्डलुः ॥1.151.५ ० ॥ छत्रं पात्रं तथा विद्या पुस्तकं च सुरार्चनम् ।
कन्याकुशोपनीतानि बीजौषधिगृहाणि च ॥५१ ॥ रत्नं क्षेत्रं यज्ञपात्रं योगपट्टं च पादुके ।
कृष्णाजिनं बुद्धिदानं धर्मदेशकथानकम् ॥५२ ॥ तीर्थे गत्वा बहु देयं तेन श्रेयो महद्भवेत् ।
सर्वपापक्षयं कृत्वा दाता याति हरेः पदम् ॥५३ ॥ अश्वमेधादिभिर्यज्ञैर्गयायां पिण्डदानतः ।
यत्फलं स्यान्नृणां तत्स्याद् दृष्टे दामोदरे भुवि ॥५४॥ एकादश्यां कृतस्नानो देवपूजापरो भवेत् ।
पञ्चामृतेन संस्नाप्य स्नात्वा तीर्थोदकेन च ॥५५॥ कुङ्कुमागुरुश्रीखण्डकर्पूरोदकमिश्रितैः ।
पूजयित्वा ततः पुष्पैः शतपत्रैः सुगन्धिभिः ॥५६॥ मालतीकुसुमैः शुभ्रैर्बहुभिस्तुलसीदलैः ।
वस्त्रं यज्ञोपवीतं च धूपं चैव प्रधूपयेत् ॥५७॥ दीपं दद्याद् घृतेनैव तैलेनापि घृतं विना ।
नैवेद्यं विविधं दद्यात् फलं ताम्बूलमित्यपि ॥५८॥ प्रासादपूजां कुर्याच्च ध्वजदानादिना तथा ।
गां सवत्सां ततो दद्यात् संसारार्णवतारिणीम् ॥५९॥ ततः प्रदक्षिणं कृत्वा गीतवादित्रनिःस्वनैः ।
वेदपाठपुराणैश्च व्याख्यादिव्यकथानकैः ॥1.151.६०॥ देवाग्रे जागरं कुर्याद् दीपद्योतितभूमिषु ।
सप्तधान्यमयान् सप्त पर्वतान् दीपसंयुतान् ॥६१॥ फलताम्बूलपक्वान्नपूजितान् परिकल्पयेत् ।
विद्वद्भिः श्रोत्रियैः शान्तैर्ब्राह्मणैः साधुभिस्तथा ॥६२॥ साध्वीभिश्च गृहस्थैश्च श्रोतव्या वैष्णवी कथा ।
एवं जागरणं कार्यं रागद्वेषादिवर्जितैः ॥६३॥ कृत्वा जागरणं रात्रावुदिते सूर्यमण्डले ।
पूर्वां सन्ध्यां कृतस्नानः कृत्वा मध्याह्नमाचरेत् ॥६४॥ देवान् पितॄन् मनुष्याँश्च तर्पित्वा विधिपूर्वकम् ।
कृत्वा स्नानं पितॄणां च दानं दद्यात्तु शक्तितः ॥६५॥ देवं दामोदरं पुष्पधूपादिना प्रपूज्य च ।
रैवतीकुण्डसलिले स्नानं कुर्यात् ततः पुनः ॥६६ ॥ राधादेरीदर्शनं वै कुर्याच्च स्वर्णदीजले ।
तत आरोहणवाप्यां प्रगच्छेच्च हनूमतः ॥६७॥ दर्शनं च प्रकुर्याद्वै जलं पिबेत्। ततः पुनः ।
पर्वतारोहणं कुर्याद् यद्वाऽऽगच्छेत् पुरं प्रति ॥६८॥ त्रिएविक्रमरणच्छोडदर्शनं संविधाय च ।
विविधानि च दानानि भोजनादीनि सर्वथा ॥६९ ॥ दत्वा कृत्वा प्रगच्छेच्च स्वालयं तीर्थकारकः ।
इति ते तीर्थकरणं कथितं मोक्षदं परम् ॥1.151.७०॥ श्रुत्वैतद् भोजराजोऽपि जगाम रैवताचलम् ।
ददर्श मुख्यतीर्थानि मङ्गलानि विधाय च ॥७१ ॥ भवं दामोदरं स्वर्णरक्षां मृगाननास्थलीम् ।
अम्बां दत्तात्रेयरूपं नारायणह्रदं तथा ॥७२॥ रैवताचलमालोक्य गङ्गां गोमुखिकां तथा ।
त्रिविक्रमरणच्छोडमन्दिरं वामनस्थलीम् ॥७३॥ बलेर्मखस्थलीं भद्रां तथा कुङ्कुमवापिकाम् ।
ओजस्वतीं सोमनाथं सुवर्णद्वारिकां तथा ॥७४॥ तीर्थान्येवं विविधानि कृत्वा दत्वा महीं च गाः ।
सुवर्णरजतादीनि रत्नाभूषणकानि च ॥७५॥ वस्त्राण्यन्नानि विप्रेभ्यः साधुसाध्वीभ्य एव च ।
दीनान्धकृपणादिभ्यो दत्वा देयानि भूरिशः ॥७६॥ आजगाम स्ककं राज्यं कान्यकुब्जं नराधिपः ।
स्वराज्ञ्या सह यात्राया महोत्सवमकारयत् ॥७७॥ तावद् भोजस्य दृष्टिर्वै दिव्याऽभूत् पुण्ययोगतः ।
वैकुण्ठं चाथ कैलासं हरिं हरं सपार्षदम् ॥७८॥ ददर्श सुविमानं च दिव्य मोक्षकरं ततः ।
पार्षदैः स्थापितस्तत्र सस्त्रीको दिव्यविग्रहः ॥७९॥ ययौ वैकुण्ठमेवाऽयं मुक्तो भूत्वा हरेर्बलात् ।
इत्युक्तस्ते चमत्कारो रैवतस्य प्रिये रमे! ॥1.151.८०॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमं कृतयुगसन्ताने तीर्थविधिदानादिप्रदर्शननामैकपञ्चाशदधिक शततमोऽध्यायः ॥१५१ ॥