१४८

श्रीलक्ष्मीरुवाच-
पयोव्रतमवैधव्यव्रतं च कीदृशं कथम् ।
कर्तव्यं येन पुत्राऽऽप्तिः पत्युर्योगः सदा भवेत् ॥१ ॥ श्रीनारायण उवाच-
ब्रह्मणा प्रथमं प्रोक्तं कश्यपाय महात्मने ।
तेन पत्न्यै ततोऽदित्यभिधायै कथितं ततः ॥२ ॥ हिरण्याक्षादिपुत्रवत्यदितिः सम्बभूव ह ।
तद्व्रतं द्वादशाहं तु कार्यं केशवतोषकृत् ॥३ ॥ फाल्गुनस्य सिते पक्षे व्रतमेतत्प्रकीर्तितम् ।
प्रतिपद्दिनमारम्य यावच्छुक्लत्रयोदशी ॥४ ॥ ब्रह्मचर्यमधःस्वापः स्नानं त्रिषवणं चरेत् ।
सत्यं वदेत् त्यजेद्भोगानुच्चावचाँस्तु राजसान् ॥५ ॥ द्रोहं हिंसां त्यजेन्नित्यं कारयेत्पूजनं हरेः ।
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचनैः ॥६ ॥ षोडशोपचारकैश्च कथाभिर्भजनैस्तथा ।
शक्तितो ब्राह्मणान् पञ्च नित्यं वै भोजयेत् तथा ॥७ ॥ आरम्भे तु ह्यमावास्यादिने मध्याह्नतो गृहम् ।
संलिप्य गोषकृता च मृदा च शुद्धतां नयेत् ॥८ ॥ स्वयं प्रक्षाल्य वस्त्रादि नारी शुद्धिं समाचरेत् ।
सायङ्काले शुद्धमृदाऽऽलिप्य स्नायाद् व्रतङ्करी ॥९ ॥ मृत्तिकामानयेत् क्षेत्राज्जलस्रोतस एव वा ।
उदाहरेन्मृदादाने मन्त्रं स्वभाषया वधूः ॥1.148.१ ०॥ त्वं देवि! श्रीवराहेण पृथ्वीरूपा समुद्धृता ।
उद्धरामि नमस्तुभ्यं पाप्मानं मे विनाशय ॥१ १॥ इत्युच्चार्य समुन्नेया मृत्तिकाऽथ ततो गृहे ।
स्नात्वा सम्पूजयेद् विष्णुं नारायणं निशादिमे ॥१२॥ निशारम्भे षोडशोपचारैः सम्पूजयेद्धरिम् ।
सङ्कल्पयेच्च श्वोदिनात् करिष्येहं पयोव्रतम् ॥१३॥ पुत्रस्य प्राप्तये तन्मे पूर्णं ते कृपया भवेत् ।
द्वादशाहे व्रते तत्र ब्रह्मचर्यादिकान् यमान् ॥१४॥ पालयिष्ये भोजयिष्ये द्व्यवरान् ब्राह्मणान् सदा ।
द्वादशाहं तव पूजां करिष्ये षोडशर्द्धिभिः ॥१६॥ अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ।
पत्यौ वा श्रीहरिं नित्यं पूजयेद् भक्तिभावतः ॥१६॥ भाषया च स्तुतिं कुर्यादर्थसन्दर्भितां शुभाम् ।
नमो भगवते तुभ्यं परपुंसे नमोनमः ॥१७॥ सर्वान्तःकृतवासाय वासुदेवाय साक्षिणे ।
नमोऽव्यक्ताय सूक्ष्माय व्यक्तपुंसे नमोनमः ॥१८॥ चतुर्विशतितत्त्वाय विकृतिहेतवे नमः ।
नमो द्विमूर्ध्ने त्रिपदे चतुःशृङ्गाय सूत्रिणे ॥१९॥ सप्तहस्ताय क्रतवे वेटत्रयात्मने नमः ।
महादेवाय रुद्राय वृषभाय नमो नमः ॥1.148.२०॥ यावद्विद्याऽधिष्ठिताय प्राणिनां पतये नमः ।
नमो हिरण्यकोशाय जगत्प्राणात्मने नमः ॥२१॥ योगसिद्ध्यैश्वर्यवते योगकर्त्रे च ते नमः ।
नमः सर्वादिदेवाय नमस्ते चात्मवर्तिने ॥२२॥ नमस्ते हरिकृष्णाय नरनारायणर्षये ।
नमः इन्दीवरश्यामवपुषे श्रीमते नमः ॥२३ ॥ नमस्ते केशवाऽनन्त! पीतवस्त्रवते नमः ।
वरदाता वरेण्यश्च त्वं जनाभीष्टदः प्रभुः ॥२४॥ उपासिता मोक्षदा वै तव पादादिरेणवः ।
देवास्त्वामनुवर्तन्ते स्थिता श्रीस्तव पादयोः ॥२५॥ स्पृहयामि कृपाऽऽमोदं भगवन्मे प्रसीदताम् ।
इति संस्तूय तं कृष्णमावाहयेज्जगद्गुरुम् ॥२६॥ पाद्यमर्घ्यमाचमनमासनं दापयेद्धरिम् ।
सुतैलार्कादि सम्मृद्यं ततः पञ्चामृतं दिशेत् ॥२७॥ पयोदधिघृतमधुशर्करास्नानमर्पयेत् ।
शुद्धोदकजलस्नानमभिषेकं च कारयेत् ॥२८॥ वस्त्रेण मार्जनं कृत्वा शुभवस्त्राणि चार्पयेत् ।
यज्ञसूत्रं कौस्तुभं च तैलसारार्कमर्चयेत् ॥२९॥ कुङ्कुमाबीरगुलालाक्षतैर्देवं समर्चयेत् ।
चन्दनकुसुमधूपदीपनैवेद्यमर्पयेत् ॥1.148.३० ॥ भूषाहेतिमुकुटादि तिलकादि च धारयेत् ।
जलमारार्त्रिकं दद्यान्मुखे ताम्बूलकं तथा ॥३ १॥ फलं दद्याज्जलं दद्यात् कुर्यान्नमः सदण्डवत् ।
प्रदक्षिणं दक्षिणां च दद्यादर्थ्यं निवेदयेत् ॥३२॥ द्वादशाहं तव पूजां करिष्ये देहि पुत्रकम् ।
ऊं नमो भगवते वासुदेवायेति सञ्जपेत् ॥३३।
अष्टोत्तरशतं जप्त्वा दुग्धपाकोऽन्यदेव वा ।
घृतशर्करसम्पूर्णं जुहुयाज्जपविद्यया ॥३४॥ निवेदितं दुग्धपाकं मिष्टान्नमन्यदेव वा ।
स्वल्पं स्वल्पं तु भक्तेभ्यो दद्यात्प्रसादभावतः ॥३४६॥ स्वयं भुञ्जीत पुत्रार्थं स्तुवीत स्तुतिभिः प्रभुम् ।
तज्जलं शिरसि धृत्वा ततो देवं विसर्जयेत् ॥३६॥ द्वयवरान् ब्राह्मणाँस्तत्र भोजयेत्पायसेन च ।
भुञ्जीत तैरनुज्ञातो व्रती व्रतकरी च वै ॥३७॥ निशारम्भे प्रसंसाध्य स्वप्यादथ भुवि व्रती ।
स्वप्याद् रात्रौ ब्रह्मचारी श्वोभूते प्रथमे दिने ॥२८॥ ब्राह्मे मुहूर्ते विधिवत् स्नात्वा चोक्तविधानतः ।
स्नपयित्वा च विधिवन्नित्यं प्रातः प्रपूजयेत्॥२९॥ देवं नारायणं कृष्णं यावद्व्रतसमापनम् ।
एकभक्तं प्रभुञ्जीत दुग्धपाकं न चेतरत् ॥1.148.४० ॥ दिवसं क्षपयेद् भक्त्या रात्रिं जपेन निद्रया ।
नित्यं सञ्जुहुयादग्नौ ब्राह्मणाँश्चापि भोजयेत् ॥४१ ॥ एवं प्रतिदिनं कुर्याद् द्वादशाहं पयोव्रती ।
पयोभक्षव्रतमिदं चरेद्धर्यर्चनान्वितः ॥४२॥ हरेराराधनं होमं पूजनं साधुभोजनम् ।
प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी ॥४३॥ कृष्णपरायणः कुर्यात् पतिः पत्नी ह्युभावपि ।
त्रयोदश्यां प्रभाते वै श्रीहरेः स्नपनादिकम् ॥४४॥ कारयेद् विधिना सर्वं ब्राह्मणैर्विधिकोविदैः ।
महापूजां प्रकुर्वीत वित्तशाठ्यं न चाचरेत् ॥४५॥ श्रपयित्वा चरुं दुग्धपाकस्याऽग्नौ हवार्थिनि ।
तेन शृतेन च वह्निमुखं कृष्णं यजेत सः ॥४६॥ नारायणाय नैवेद्यं दद्यात् सुबहुतुष्टिदम् ।
आचार्यं श्रोत्रियं ज्ञानसम्पन्नं तोषयेद् बहु ॥४७॥ धेन्वाभरणवस्त्राद्यैः ऋत्विजश्चापि तोषयेत् ।
भोजयेत्ताँश्च बहुभिर्मिष्टान्नैः दक्षिणादिभिः ॥४८॥ अन्यान् विप्राँस्तथा साधून् साध्वींश्च भोजयेन्मुदा ।
विप्राचार्यगुरुसाधुसाध्वीभ्यश्च यथार्हतः ॥४९॥ दद्याच्च दक्षिणां श्रेष्ठां तथान्यान् समुपागतान् ।
अभ्यागतानतिथींश्चाऽऽश्वपाकान् प्रीणयेदपि ॥1.148.५० ॥ अन्नजलादिदानेन दीनान्धकृपणादिकान् ।
तेषां तृप्तो भवेद्विष्णोस्तृप्तिश्चेति विचारयन् ॥५१ ॥ गोश्वपिपीलिकादींश्च दत्त्वा भुञ्जीत बन्धुभिः ।
नामप्रकीर्तनैः कृष्णकथाभिः स्तवनैर्जपैः ॥५२॥ दिनं शेषं क्षपयेद् यत्पुरुषाराधनं परम् ।
पयोव्रतमिदं प्रोक्तं मया ते समुदाहृतम् ॥५३॥ दुग्धपाके तण्डुला वा निवारा वा मताः शुभाः ।
शाकाहारो न कर्तव्यः श्यामलः शाकजो भवेत् ॥५४॥ दुग्धपाकश्च भोक्तव्यस्तेनाऽपत्यं बलोज्ज्वलम् ।
व्रतपूर्णाहुतौ पश्चाद् युग्मासु रात्रिषु स्वयम् ॥५५॥ पत्नी तु संविशेत् तेन जायेत शक्तिमान्सुतः ।
अयुग्मासु विशेत् पत्नीं कन्या जायेत सिद्धिदा ॥५६ ॥ तपःसारमिदं लक्ष्मि! व्रतं पुत्रप्रदं शुभम् ।
पत्या पत्न्या ह्युभाभ्यां च कर्तव्यं तत्फलप्रदम् ॥५७॥ नान्यथा फलदं वै स्यात् सन्दिग्धफलवत्तु तत् ।
अवैधव्यव्रतं चापि कथयामि शृणु प्रिये! ॥५८ ॥ रैवतस्य गिरेः पुत्री रैवती रैवताचले ।
दामोदरात् पश्चिमायां दिशि तिष्ठति नित्यदा ॥५९॥ तत्र वै रैवतीकुण्डो वर्तते पापनाशकः ।
अवैधव्यं च नारीणां तथा सन्तानकारणम् ॥1.148.६० ॥ सौभाग्यं सर्वनारीणां सम्पादयति तज्जलम् ।
तत्र स्नात्वा भवेन्नारी बहुपुत्रधनान्विता ॥६१ ॥ न वैधव्यं भवेत् तस्याः सौभाग्यमतुले भवेत् ।
स्नात्वा फलानि देयानि कुङ्कुमं च सकज्जलम् ॥६२॥ गौरीसूत्रं प्रदातव्यं ताम्बूलं पुष्पमित्यपि ।
पीतं वस्त्रं प्रदातव्यं कञ्चुकं यष्टिका तथा ॥६३॥ फलानि वंशपात्रेषु भृत्वा मिष्टान्नमित्यपि ।
स्त्रीणां तु साध्वीनां सतीनां च सदक्षिणम् ॥६४॥ प्रातः स्नात्वा प्रदातव्यं रैवतीदर्शनं ततः ।
पूजनं च षोडशोपचारैः कर्तव्यमेव च ॥६५॥ स्तुतिं पुत्रार्थमेवाऽवैधव्यार्थमपि च क्रियात् ।
सदा कृपावति देवि रैवति मे कृपां कुरु ॥६६ ॥ अवैधव्यं सदा मेऽस्तु पुत्रपौत्रवती तथा ।
धनधान्यवती च स्यां देहि मे वाञ्छितं शुभे ॥६७ ॥ इति स्तुत्वा नमस्कृत्य दामोदरस्य दर्शनम् ।
कृत्वा कार्तिक शुक्ले वै पञ्चदशदिनावधिम् ॥६८ ॥ गन्तव्यं स्वगृहे नित्यं भोज्यं दुग्धान्नमित्यपि ।
मिष्टान्नं व्यञ्जनं चापि घृतपक्वादिकं तथा ॥६९ ॥ सहवासश्च पतिना कार्यो न तु निषिध्यते ।
नोपवासस्तथा कार्यो नान्या पूजाऽप्यपेक्षते ॥1.148.७० ॥ व्रती कुण्डस्नपनं रैवतीस्तुतिदर्शने ।
उक्तफलादिदानं च दामोदरस्य दर्शनम् ॥७ १ ॥ पञ्चदशदिनप्रातःकृतं सौभाग्यवर्धकम् ।
इति तुभ्यमवैधव्यकरंव्रतं तु दर्शितम् ॥७२ ॥ अथाऽन्यत् त्वं महालक्ष्मि! किं मत्तः श्रोतुमिच्छसि ।
लक्ष्मीः प्राह कृपासिन्धो तीर्थानि रैवते गिरौ ॥७३ ॥ तत्पार्श्वे च यदन्यानि वसन्ति तानि मे वद ।
कियत्सामर्थ्यवन्त्येव श्रोतुमिच्छामि केशव ॥७४ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुत्रप्राप्तिदं पयोव्रतम् अवैधव्यव्रतं चेति निरूपणनामाऽष्टचत्वारिंशदधिकशततमोऽध्यायः ॥१४८ ॥