१४२

श्रीनारायण उवाच-
वामनं श्रीहरेः रूपं यन्निमित्तमभूत् प्रिये! ।
तत्सर्वं सुस्फुटं तेऽहं कथयामि यथातथम् ॥१ ॥ सौराष्ट्रे पश्चिमे प्रान्ते रैवताद्रिर्महान्गिरिः ।
यत्र देवगणाऽऽवासाः सिद्धा वसन्ति लक्षशः ॥२ ॥ योगिन्यश्चापि तीर्थानि निवसन्ति निरन्तरम् ।
प्रह्लादस्याऽभवत् पुत्रो विरोचन इतीरतः ॥३ ॥ तस्य पुत्रो महाबाहुर्बली राजाऽभवद्बली ।
तेन यज्ञाः कृताः श्रेष्ठा बहवो भिन्नभूमिषु ॥४ ॥ एको यज्ञः कृतस्तत्र रैवताद्रितलस्थले ।
यत्रागत्य स्वयं देवो वामनोऽभ्यर्थयद्बलिम् ॥५ ॥ तत्कथां परमां दिव्यां पावनीं मोक्षदायिनीम् ।
कथयामि महालक्ष्मि! तृप्तिर्नास्ति कथामृते ॥६ ॥ यत्र दामोदरं तीर्थं नारायणह्रदस्तथा ।
किमन्यैर्बहुभिस्तीर्थैस्तयोः स्नात्वा प्रमुच्यते ॥७ ॥ सिंहारण्यस्योत्तरे वै व्याघ्रारण्यमये स्थले ।
सोमनाथस्य सान्निध्ये ह्युदयान्तो गिरिर्महान् ॥८ ॥ यः कृतस्मर इत्युक्तो वाडवानलभस्मितः ।
तस्यैव पार्श्वभागे तु रेवताख्यो गिरिः स्मृतः ।
श्रीहरेः कौस्तुभमणेः खण्डोऽयं स्थूलतां गतः ॥९ ॥ रैवताख्यो मनुस्तत्र तदध्यात्मतया स्थितः ।
सोऽयं वै रैवतगिरिर्दिव्यः कृष्णहृदि स्थितः ।
महतो हस्तिनः कण्ठे स्वर्णघण्टाद्वयं यथा ॥1.142.१० ॥ पूर्णिमायास्तथा सायं चालम्बेते शशी रविः ।
स्वर्गं यावत् तदुच्छ्रायोऽन्तरीक्षं कटिसंश्रितम् ॥११ ॥ दत्तात्रेयादयः सिद्धा वसन्ति शिखरेऽस्य वै ।
शिखराणां कुक्षिभागे वसन्ति सर्वदेवताः ॥१२॥ पर्वतस्य कटिभागेऽर्हन्नाथगौतमादयः ।
वसन्ति भगवन्तो वै मुनयः साधुयोगिनः ॥१३॥ पर्वतस्योरुभागे तु गान्धर्वाः किन्नरास्तथा ।
विद्याधरास्तथा सौम्याः किम्पुरुषा वसन्ति हि ॥१४॥ पर्वतस्य जानुभागे योगिन्यः शङ्करप्रियाः ।
देव्यश्च कृत्तिकाश्चैवाऽऽभीराण्यः साध्विकास्तथा ॥१५॥ जङ्घाभागे पर्वतस्य कामधेनुकुलानि वै ।
देवाश्च देवकरिणः श्वेताश्चतुःसुदन्तकाः ॥१६॥ सिंहा व्याघ्रास्तथा दैवा नरसिंहकुटुम्बिनः ।
वसन्ति व्योमगतयो दिव्याः सूर्यसमप्रभाः ॥१७॥ पादस्थाने रैवतस्य गोप्यः कृष्णप्रियाः शुभाः ।
दिव्यास्तथापि मानुषरूपेण विचरन्ति हि ॥१८॥ मुचुकुन्दस्य महती गुहा पातालसञ्चरा ।
राधाया मन्दिरं रम्यं स्वर्णरक्षानदीगतम् ॥१ ९॥ रुक्माङ्गदादिराज्ञां वै राजधानी च वर्तते ।
पत्नीव्रताख्यविप्रस्य चमत्कारा भवन्ति च ॥1.142.२०॥ यत्रारण्यानि चूतानां क्षीरिकाणां वनानि च ।
कर्मदानां टिम्बुरूणां जाम्बूनां प्रवणानि च ॥२१ ॥ सीताफलानां सौवर्णकदलीनां वनानि च ।
इक्षूणां शर्कराकन्दमूलानां प्रस्थलानि च ॥२२॥ बोरियाख्यमहास्थल्यां देव्यः स्नान्ति वसन्ति च ।
नारायणहृदस्थल्यां योगिन्यो विचरन्ति च ॥२३ ॥ देव्यस्तु काष्ठवाहिन्योऽरण्ये तीर्थे भ्रमन्ति च ।
पारिजातप्रसूनानां कुन्दानां कल्पशाखिनाम् ।
वनान्यत्र भवन्त्येव सुगन्धशतयोजनम् ॥२४॥ परितः पवनो नीत्वा करोति सुरभिस्थलीः ।
अग्नेरुष्णाः प्रकुण्डाश्च क्वचिच्छैत्यजलाशयाः ॥२५ ॥ सरितः स्वर्णरूप्याभा निर्मलोदकसञ्चराः ।
सरसा ओषधिमिश्ररसवत्यो वहन्ति च ॥२६ ॥ यज्जलानि जनाः पीत्वा देवा देव्यो भवन्ति च ।
पार्थिवा अपि नृनार्यो तज्जलौषधिभोगिकाः ॥२७॥ षोडशाब्दाः सदा हृष्टपुष्टाः कामातिगोज्ज्वलाः ।
चन्द्रमुख्यो विलसन्ति स्वर्गभ्रमणकारिकाः ॥२८ ॥ नवरङ्गपनसादिफलानां नाल्पता क्वचित् ।
खर्जूराणां श्रीफलानां नारीकेलाऽमृतात्मनाम् ॥२९॥ आमलकत्रिफलानां सङ्घात्सङ्घा भवन्ति वै ।
गुन्द्रकाणामिङ्गुदीनां शिम्बिपत्रफलत्वचाम् ॥1.142.३० ॥ वृक्षाणां वंशमालानां बिल्वतिन्दुकशाखिनाम् ।
उदुम्बरवटसर्जतिलकानां वनानि च ॥३१ ॥ तुलसीनां वनान्यत्र देवदारुप्रशाखिनाम् ।
द्राक्षाणां नागवल्लीनां तिक्तानां वल्लयस्तथा ॥३२ ॥ मालतीमल्लिकाश्वेताजीवन्तीस्वर्णवल्लयः ।
फलपुष्पपत्रसम्पद्विलसन्त्योऽत्र भान्ति वै ॥३३ ॥ स्थले स्थल्यां निर्इारणा जलानां प्रवहन्ति च ।
स्वर्णकारास्ताम्रकाराः कायाकल्पकरास्तथा ॥३४॥ क्षुत्तृट्विनाशिकाश्चापि वल्ल्यो वृक्षा भवन्ति च ।
कुण्डा दिव्यास्तत्र सन्ति स्नानेनाऽदृश्यता भवेत् ॥३५॥ स्वर्णजलास्तथा कुण्डा लौहं स्वर्णं भवेज्जलात् ।
पत्रतृणानि वै सन्ति छिन्नो देहः सुसीव्यते ॥३६ ॥ रक्तं घट्टं भवत्येव सञ्जीवनी च वर्तते ।
जलकुण्डास्तथा सन्ति स्नात्वा नारी नरो भवेत् ॥३७॥ नरो वा जायते नारी ततस्तु पर्वते गतिः ।
नान्यथा इति सामर्थ्यं रैवताद्रौ समीक्ष्यते ॥३८ ॥ क्वचित्कुण्डे कृतस्नानात् पक्षौ भवत उड्डने ।
पुनः स्नानान्मानवत्वं यथावस्थं भवेन्ननु ॥३ ९॥ यद्द्रोण्यां योनिदानेन नार्यो भवन्ति देवताः ।
नरा लिङ्गप्रदानेन जायन्ते सिद्धयोनयः ॥1.142.४० ॥ क्वचिदोषधयोगेन जनः सिंहवपुर्भवेत् ।
मार्गयित्वा हरिणादीन् पुनश्च मानवो भवेत् ॥४१॥ कामरूपजलाः कुण्डाः स्वल्पकाः सन्ति पर्वते ।
यथेच्छति तथारूपं जायते स्नातुरत्र वै ।
तत्रत्यास्तु प्रजाः सर्वा स्वर्गान्न्यूनं न भुञ्जते ॥४२॥ वनानि विविधान्येव कामपूरणकानि हि ।
सर्वदा फलवन्त्येव पत्रपुष्पादिमन्ति च ।
मेघास्तत्र सदा मध्ये श्रोण्यां वसन्ति वृष्टिदाः ॥४३ ॥ विद्युतश्च सदा रात्रौ शनैस्तेजो ददत्यमुम् ।
ताराः स्थिराः क्वचित्तत्र वसन्ति श्रमनोदने ॥४४॥ राजत्यः स्वर्णखन्यश्च विविधधातुमिश्रिताः ।
खन्यो हीरकमाणिक्यस्फाटिकरत्नविद्रुमाः ॥४५॥ रसायनानि दिव्यानि पातालमूलवन्ति च ।
विद्यन्तेऽत्र रैवताद्रौ लभ्यन्ते पुण्यशालिभिः ॥४६॥ अप्सरसः स्वर्गवत्योऽत्राऽऽगत्य स्नान्ति यान्ति च ।
यात्रालवो लक्षकोटिसुरमानवसज्जनाः ।
नरा नार्यो महाप्रादक्षिण्यमूर्जे भ्रमन्ति हि ॥४७॥ गणाश्च गणिकाश्चैव शुद्ध्यन्ति तनुदानतः ।
परीसरोवरं तत्र परीणां स्नानकारणात् ।
इन्द्रसरोवरं तद्वद् देवीनां स्नानकारणात् ॥४८॥ रोहसरोवरं तत्र देवाऽऽप्लवनकारणात् ।
दातृसरोवरं द्रोण्यां दातॄणां स्नानकारणात् ।
वीरसरोवरं द्रोण्यां पितॄणां स्नानकारणात् ॥४९॥ सतीसरोवरं श्रेष्ठं सतीनां स्नानकारणात् ।
भवेश्वरतडागं च सर्वौषधिरसायनम् ।
भवन्त्येवं तत्र शैले दिव्यानि च सरांसि च ॥1.142.५० ॥ परितस्तत्र सरितो निःसरन्त्यक्षयैर्जलैः ।
रैवताद्रौ स्थिताः सर्वे पश्यन्ति मेदिनीं दिशम् ।
समुद्रान्पर्वतान्देशान् ग्रामान् लोकान् प्रदेशकान् ॥५१ ॥ सदेहेन यदा वाञ्च्छा स्वर्गं गन्तुं भवेत् तदा ।
रैवताद्रेः शिखरे वै गत्वा स्नानेन सिद्धताम् ॥५२॥ प्राप्य यायात् ततो नैव पतेद् यदि न वासना ।
गौमुख्यां स्नानमात्राच्च कमण्डलुजलाप्लवात् ।
दत्तात्रेयजलबिन्दुपानात् सिद्धा भवन्ति हि ॥५३॥ ग्रहास्तच्छिखरे श्रान्तिं लब्ध्वा यान्ति दिशान्तरम् ।
दिवोजुषां विमानानि तत्र विश्रम्य यान्ति च ॥५४॥ ब्राह्मं चैशं वैष्णवं च मोक्षीयं चैश्वरं तथा ।
याम्यं स्वर्ग्यं च पन्थानं तच्छृङ्गाद् यान्ति वै जनाः ॥५५॥ भीरवजपनामानं स्थलमासाद्य मानवः ।
पतत्यरण्ये तस्यैव तत्र स्वर्गं भवत्यपि ॥५६॥ न स्वर्गान्न्यूनता तत्र किञ्चिन्मात्रमपि ध्रुवम् ।
तत्र तीर्थानि देवानामनेकानि भवन्ति वै ॥५७॥ रैवताद्रिं प्रदक्षिणं कर्तुमायान्ति देवताः ।
ऋषयो मुनयः स्वर्ग्याः पितरो योगिनस्तथा ॥५८॥ सिद्धा विद्याधराश्चैव चारणा देवयोनयः ।
साधुरूपेषु देवाश्च सिद्धाः क्राम्यन्ति तं परि ॥५९॥ साध्वीरूपेषु देव्यश्च परिक्राम्यन्ति तं गिरिम् ।
श्रीकृष्णः श्रीरामचन्द्रो दत्तात्रेयश्च नृहरिः ॥1.142.६० ॥ कपिलो वामनो हंसः ऋषभो नारदस्तथा ।
पर्शुरामश्च वै व्यासः कुमारो बुद्ध इत्यपि ॥६१ ॥ सनन्दनादयः सर्वे व्यूहा ब्रह्मादयस्तथा ।
कार्तिक्यां तु प्रबोधिन्यां पूर्णिमायां च यावता ॥६२॥ सवे देवाश्च तीर्थानि पूर्यः क्षेत्राणि धाम च ।
पर्वताः सरितः सर्वे सागरा भूमयस्तथा ॥६३॥ आयान्ति च वसन्त्यत्र रैवताद्रौ स्थले स्थले ।
पत्रे पत्रे वसन्त्येते देवाः कर्तुं प्रदक्षिणम् ॥६४॥ रैवताद्रेस्तदानीं वै कृतं येन प्रदक्षिणम् ।
कृतं तेन पृथिव्यां वै सविधानप्रदक्षिणम् ॥६५॥ रैवताद्रिपरिक्रामयितारो मानवास्तदा ।
मनुष्या नहि द्रष्टव्या द्रष्टव्या देवकोटयः ॥६६॥ तेषां पादरजोलाभे मुच्यन्ते जन्मकोटयः ।
बालाः कुमाराः स्थविरा नरा नार्योपि ये तदा ॥६७॥ रैवतं परिक्रामन्ति पावनास्ते हरिश्रिताः ।
साधुः साध्वी च सन्यासी सन्यासिनी विरागिणी ॥६८॥ वैष्णवी शाङ्करी देवी वैष्णवः शाङ्करोऽथवा ।
गाणपत्याश्च वा मोक्षमार्गगास्ते तु देवताः ॥६९॥ तेभ्यो वै भोजनं दानं वस्त्रं वाऽन्यत् स्वकं भवेत्॥ तद्दातव्यं समस्तं वै सेवायां स्वर्गदं भवेत् ॥1.142.७० ॥ यस्याग्रे यद्भवेद्वस्तु तद्देयं तत्र सर्वथा ।
सन्तः साध्व्यस्तोषणीयाः कायवाङ्मानसैरपि ॥७१॥ सर्वस्वार्पणकर्त्रे वै नारायणहरिः स्वयम् ।
स्वीयं सर्वं ददात्येव भक्ताय ब्रह्मरूपिणे ॥७२॥ दामोदरेऽतितीर्थे ये मृता वै यत्र तत्र हि ।
ते वसन्ति हरेर्गेहे न पतन्ति भवे क्वचित् ॥७३॥ स्वार्पणं प्रथमं दानं द्वितीयं तु धनार्पणम् ।
क्षेत्रादिकं तृतीयं च नैजार्पणं चतुर्थकम् ॥७४॥ एतत्सर्वं गिरेस्तस्य परिक्रमणजं फलम् ।
लभ्यते तत्र पापानि ज्वलन्ति नोद्भवन्ति वै ॥७५॥ यत्किञ्चिद्वा परोपकाराख्यं स्वार्थं परार्थकम् ।
दैह्यं चैन्द्रियिकं हार्दं कृतं पुण्यं च मोक्षकृत् ॥७६॥ जयेद् ब्रह्मात्मभावस्तु देहभावः पराजयेत् ।
असंशयो विमुच्येत संशयात्मा विनश्यति ॥७७॥ तन्ममापि महालक्ष्मि! स्थानं रैवतपर्वकम् ।
अतीव रोचते तत्र दामोदरो वसाम्यहम् ॥७८॥ रुक्मदुर्गे मन्दिरेऽहं त्रिविक्रमो वसामि वै ।
मध्येनगरं नृसिंहरूपेणापि वसाम्यहम् ॥७९॥ स्थले वृक्षे सुमे पत्रे मूले रजसि पर्वते ।
सरित्सु भूतले वाप्यां तडागे च वने जले ॥1.142.८०॥ तत्रत्ये कमले पद्मे कुमुदे स्थलपद्मके ।
पाषाणे भूविवरे च वल्मीके तरुगुल्मके ॥८ १॥ यत्र क्वापि रैवतोस्ति तत्सर्वत्र वसाम्यहम् ।
अहं वै रैवतगिरिः रैवतोऽहं न भिन्नता ॥८२॥ मम भूषा मम तनुः रैवतः पावनः परः ।
सौराष्ट्रवासिनां नैव यमाः पश्यन्ति वै गृहम् ॥८३॥ आनर्तेन तपः कृत्वा गोलोकात् क्षत्रियेण वै ।
कृष्णात्प्राप्याऽत्र च मणेर्भागो बै स्थापितोऽस्ति सः ॥८४॥ सौराष्ट्र इतिविख्यातस्तत्रत्यानां कुतोभयम् ।
तदस्मिन्पर्वते दिव्ये गतानां तु कुतो भयम् ॥८५॥ यत्र वै धातवो रक्ताः श्वेता नीलाः सितास्तथा ।
पाषाणा कुञ्जराकाराः सन्त्यन्ये स्वर्णराजताः ॥८६॥ चणकाकृतयश्चान्या बालुका गोक्षुरायताः ।
दिव्याश्च तरवो वल्ल्यो गुल्माः सन्तानपादपाः ॥८७॥ सर्वं तेजोमयं स्वर्णं मूलं पुष्पं फलं दलम् ।
नहि पश्यति पापात्मा मुक्तः पापेन पश्यति ॥८८॥ सेव्यते स गिरिर्नित्यं धात्वादिखनिमार्गणैः ।
वर्णाश्चाश्रमिणस्तत्र भ्रमन्ति च वसन्ति च ॥८९॥ पक्षिणस्तत्र बहवः सारसा व्योमवासिनः ।
कोकिलाश्चातका मेना हंसा मयूरकास्तथा ॥1.142.९०॥ गरुडा गृध्रजातीयाः कपोता दीर्घदर्शिनः ।
चक्रवाकाः कृकवाकुः तित्तिरा दिव्यजातयः ॥९१॥ सर्वे शुभाक्षरभाषाः शिवाः शिवकराः सदा । १
मृगाश्च वानरेन्द्राश्च व्याघ्राः सिंहास्तथैव च ॥९२॥ भल्लुकाश्च गजाश्चैव दैवाश्वाः सात्त्वतास्तथा ।
तस्य तीर्थप्रभावेण दुष्टं नैवाऽऽचरन्ति ते ॥९३॥ कालेन निधनं चाप्ताः पशुपक्षिसरीसृपाः ।
सर्वे विमानमारूढा गच्छन्ति वैष्णवं पदम् ॥९४॥ वायुना पतितं यच्च पत्रपुष्पफलादिकम् ।
स्वर्णरक्षाजले तत्र सर्वं वै मुक्तिमेति यत् ॥९५॥ सुवर्णाख्या हरेः पत्नी प्रेमद्रवेण सर्वदा ।
दामोदरस्य सेवायां नदीरूपेण वर्तते ॥९६॥ नदी सुवर्णरक्षा सा स्वर्णवालुकया युता ।
चकास्ति स्वर्णमय्येव स्वर्णांश्चान्यान् करोति च ॥९७॥ तत्र स्नातुं नागराजो भित्वा भूमिं तु वासुकिः ।
तेन मार्गेण मूलेन विवरेणाऽऽगते ह्यभूत् ॥९८॥ स्वर्गादागत्य चेन्द्रोऽपि यष्ट्वा यज्ञेषु पुष्कलम् ।
पुण्यमादाय मुक्त्यर्थं गतः स्वर्गं निरामयम् ॥९९॥ कुर्वन्त्यनशनं चैकदिवसीयमथो जनाः ।
ते श्रीहरेः प्रतापेन चाप्नुयुर्धाम वै हरेः ॥1.142.१०० ॥ वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च सुकर्षणः ।
तथाऽन्ये त्वीश्वराः शतलक्षकोट्यो वसन्ति हि ॥१० १॥ प्रक्रीडन्ति प्रियास्तेषां नित्यं दामोदराग्रतः ।
सुचन्द्रवदना गौर्यः श्यामाश्च दृढमध्यमाः ॥१०२॥ नितम्बिन्यः सुकेश्यश्च सुनासायतलोचनाः ।
सुगुल्फाः सुभ्रुवस्तत्र सुकुक्ष्यः सुपयोधराः ॥१ ०३॥ शोभनास्याः सुजङ्घाश्च सुपादाङ्घ्र्युदरास्तथा ।
रैवताख्ये गिरौ तस्मिन् रमन्ते च हसन्ति च ॥१ ०४॥ तत्राऽस्ति रेवतीकुण्डस्तत्र स्नात्वा तु याऽङ्गना ।
दद्यात् स्वर्णादिदानानि पुत्रिणी सुभगा भवेत् ॥१०५॥ गीतिकानर्तनैर्दामोदराग्रे तु पुनः पुनः ।
देशभाषाविभाषिण्यो रामा जाग्रति कार्तिके ॥१ ०६॥ तास्तु भूत्वा रमा लक्ष्म्यो यान्ति श्रीहरिमन्दिरम् ।
पञ्चपाषाणकं रम्यं सुन्दरं हरिमन्दिरम् ॥१ ०७॥ कृत्वा वा शिखरं दैवं बहुरूपसमन्वितम् ।
सर्वान् कामानतिक्रम्य परम्ब्रह्माऽधिगच्छति ॥१ ०८॥ पञ्चवर्णं ध्वजं दद्याद् दामोदरगृहोपरि ।
तन्तुप्रमाणवर्षाणि दिव्यानि विष्णुलोकगः ॥१ ०९॥ दामोदरस्वरूपेण वामनोऽत्र विराजते ।
तस्य षड्गव्यूतिमात्रं क्षेत्रं वस्त्रापथं शुभम् ॥1.142.११ ०॥ गिरेरारोहणाद् यावत् पश्चिमे वामनस्थलीम् ।
साषट्गव्यूतिदीर्घा वस्त्रापथाऽऽन्तरभूमिका ॥११ १॥ गयो राजा हरेर्भक्तो ह्येकवारं समागतः ।
विष्णुयागं स कृतवान् प्रजाभिः सह वैष्णवः ॥१ १२॥ दत्वा दानान्यनेकानि हविर्हुत्वा हुताशने ।
विष्णुयागं चकारात्र रैवताचलसन्निधौ ॥११३ ॥ केचित् तदानी तद्यज्ञेऽपिबन् धूममधोमुखाः ।
शुष्कपत्राशनाश्चान्येऽपरे वै फलभोजनाः ॥१ १४॥ मूलानां भक्षकाश्चान्ये परे वाय्वशना द्विजाः ।
पञ्चाग्निसाधकाः केचित्केचिच्च सलिलासनाः ॥११५॥ केचिज्जपन्ति गायत्रीं दैवीमन्ये सरस्वतीम् ।
केचिज्जपन्ति सूक्तानि द्वादशार्णं जपन्ति च ॥११ ६॥ अष्टाक्षरं तथा केचित् कश्चिद्धरिरिति गृणन् ।
एकभक्तं तथा नक्तमयाचितमुपोषितम् ॥१ १७॥ एवमादीनि पुण्यानि कृत्वा दामोदराग्रतः ।
कृतकृत्याश्च ते जाता विष्णुयागे महामखे ॥११८ ॥ गयो राजा तु ऋष्याद्यैर्यावद्भिः सह राजते ।
विमानानां सहस्राणां सहस्राण्यागतानि च ॥११ ९॥ गन्धर्वाऽप्सरसस्तत्र सिद्धचारणकिन्नराः ।
विष्णोस्तु पार्षदैः साकं वैकुण्ठं नेतुमागताः ॥1.142.१२ ० ॥ समारूढा विमानेषु ऋष्यादयस्तदा प्रजाः ।
सर्वैर्जानिपदैः सार्धं स राजा भार्यया सह ॥१२१ ॥ गतो विमानमारूढो विष्णोर्लोकं निरामयम् ।
तत्र क्षेत्रे वामनस्तु बलिं भिक्षामयाचत ॥१ २२॥ तादृशं तत्परं क्षेत्रं न भूतं न भविष्यति ।
यत्र वासाद्भवेन्मुक्तिः कर्तव्यं नावशिष्यते ॥१२३ ॥ तत्र बहूनि तीर्थानि सन्ति तानि वदाम्यहम् ।
स्थानं बलवता पुंसा बलवद् भवतीत्यतः ॥१ २४॥ तीर्थानि तत्र चायान्ति स्वपावित्र्याय पद्मजे ।
तानि वै प्रथमं स्मृत्वा वक्ष्ये त्रिविक्रमं ततः ॥१२५ ॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रैवताचले दामोदराख्यवामनप्रतापदेवादिनिवासचमत्कारिकमाहात्म्यविभूतिकार्तिकपरिक्रमणदिव्यवसतिगयकृतयज्ञादिनिरूपणनामा द्विचत्वा-
रिंशदधिकशततमोऽध्यायः ॥१४२ ॥