१३७

श्रीनारायण उवाच-
नारायणः स्वयं लक्ष्मीपतिः लक्ष्मि! सुलक्ष्मकृत् ।
देवानां हितकार्याय सर्वार्पणं करोति वै ॥१ ॥ सुता तूत्तानपादस्य कल्याणीनामकन्यका ।
हिरण्यकशिपोः पत्नी सुषुवे चतुरः सुतान् ॥२ ॥ प्रह्लादश्चापि संह्लाद आह्लादो ह्लाद एव ते ।
प्रथमस्तत्र मद्भक्तो महातेजा बभूव ह ॥३॥ महापुरुषसेवायां त्यक्तान्यः सर्वथाऽभवत् ।
ब्रह्मण्यः शीलसम्पन्नः सत्यवर्तनमानसः ॥४ ॥ आत्मेव सर्वलोकानां हृदयङ्गम एव सः ।
महतां पादसेवायां किङ्कर इव वर्तते ॥५ ॥ दीनदुःखहरः सौम्यः पर्युपासितमाधवः ।
विद्याभक्तिप्रभुशक्तिस्मृद्ध एव तु जन्मतः ॥६ ॥ गुरुगोविप्रभक्तश्च व्यसनादिविवर्जितः ।
अनित्याऽशुचिदुःखानि जानन् तत्त्वानि दैहिके ॥७ ॥ नाऽभूदासक्त ईर्ष्यादिमायाकार्यविवर्जितः ।
न बालक्रीडनकेऽस्ति प्रसन्नो वै मनागपि ॥८ ॥ क्रीडा तस्य हरेर्मूर्तौ सुहृत् तस्य हरिः स्वयम् ।
अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ ॥९ ॥ सर्वावस्थासु कार्येषु - मनोवाक्कायकर्मभिः ।
नान्यं जानाति वै विष्णोर्नारायणात् सनातनात् ॥1.137.१० ॥ यस्मिन्महागुणाः सर्वे सात्त्वतानां सदा मताः ।
वासुदेवे हरौ कृष्णे तस्य नैसर्गिकी मतिः ॥१ १॥ जगत्प्रति सुषुप्तः स जागर्ति श्रीहरिं प्रति ।
स्वपन् श्वसन् समुत्तिष्ठन् चलन् पार्श्वं विवर्तयन् ॥१२।
प्लवमानः क्षुतौ पश्यन् रसन् जिघ्रन् वदन् स्पृशन्।
पिबन् क्षलन् प्रभुञ्जानो मिलन् किञ्चिद्विचारयन् ॥१३॥ नान्यवृत्तिर्हरौ वृत्तिं रक्षन् गृणन् हरे हरे ।
ध्यायति स्मरति प्रतिक्षणं चिन्तयते प्रभुम् ॥१४॥ क्वचिदश्रूणि वै प्रेम्णा विमुञ्चति हरिं स्मरन् ।
क्वचिद्धसति देवं स दिव्यं पश्यन् हृदि स्थितम् ॥१५॥ क्वचिदुद्गायति नामान्यतिप्रेम्णा हरेः स्वयम् ।
क्वचिन्नृत्यति प्रेमात्मा हरौ द्रवति च क्वचित् ॥१६॥ क्वचित्स्पृष्टो दिव्यमूर्त्या विलीनो जाड्यमेति सः ।
एवं ब्रह्मरसप्लुतो नारायणे सुवर्तते ॥१७॥ क्षुधा न तृषा तस्य न भूषा नाङ्गमार्जनम् ।
न वस्त्रादिसमीभावो नान्यच्चित्ते वसत्यदः ॥१८॥ नेत्रे हरिर्मुखे कृष्णो जिह्वायां हरिरेव च ।
बाह्ये चैवान्तरे कार्ये हरिर्यस्याश्रयोऽभवत् ॥१९॥ स काले चोपनीतः सन् गुरोर्गेहेऽवसत् सुधीः ।
गुरुः पुरोहितस्तस्य काव्यश्चासुरपूजितः ॥1.137.२० ॥ काव्यस्य तस्य शुक्रस्य सुतौ द्वौ शास्त्रपारगौ ।
आद्यः षण्डोऽपरोऽमर्कस्तौ राज्ञार्पितपुत्रकम् ॥२ १ ॥ पाठयामासतुः पाठ्यानर्थानासुरभावनान् ।
तथा च सामवेदादीन् ग्राह्यं गृह्णाति नाऽपरम् ॥२॥ दैव्योऽदैव्यो महाविद्या बह्व्यः सर्वाः प्रपाठिताः ।
गुरुप्रोक्तं हि तत्सर्वं शुश्रावानुपपाठ च ॥२३ ॥ यया मोक्षो भवेत् तां स सम्यक् गृह्णाति भावतः ।
असद्ग्रहाश्रयां चान्यां विद्यां त्यजति चान्तरात् ॥२४॥ अधीत्य सर्ववेदाँश्च शास्त्राणि विविधानि च ।
कस्मिँश्चिदथ काले च गुरुणा सह दैत्यजः ॥२५॥ पितुः समीपमागत्य ववन्दे पातयोः पतन् ।
तं परिष्वज्य बाहुभ्यां तनयं शुभमानसम् ॥२६॥ अङ्कमारोप्य पप्रच्छ हिरण्यकशिपुः पिता ।
प्रह्लाद! चिरकाले त्वं गुरोर्गेहे निवेशितः ॥२७॥ शिक्षितं गुरुणा श्रेष्ठं तन्ममाऽऽचक्ष्व साधु यत् ।
प्रह्रादस्तु नमस्कृत्य प्रहृष्टः सन् जगाद तत् ॥२८॥ *गृहजाल महायाम्यं परित्यज्याऽऽत्मवित् पुमान् ।

  • आत्ममालं हृच्छयनं परिष्वज्याऽऽत्मना यजेत् ॥२९॥ सर्वविद्यार्थसञ्चारी योऽस्ति श्रीपरमेश्वरः ।
    स वै सर्वगतः साधुरर्थोऽन्योऽर्थस्त्वपार्थकः *॥1.137.३ ०॥
  • श्रुत्वा पुत्रगिरो विष्णुभक्तिप्रवाहगर्भिताः ।
    दैत्यस्तु प्रहसन् प्राह गुरून् पुत्रप्रशासने ॥३ १॥ बालबुद्धिः स्वच्छवस्त्रसमा पार्श्वस्थरोपिणी ।
    विष्णुपक्षिकृतो भेदे बुद्धावस्य कथं गतः ॥३२॥ यथा न भिद्यते चाऽस्याऽपक्वा बुद्धिस्तथाऽर्थतः ।
    शासथैनं पूज्यपादाः पुनर्नैवं वदेदयम् ॥३ ३॥ तदा वै गुरवस्तं स्वं गृहमानीय सामभिः ।
    समपृच्छन्त केनायं विष्णुरर्थोऽधिशिक्षितः ॥३४॥ नाऽयमर्थो दैत्यपक्षसुखदस्तं परित्यज ।
    स्वतो वा परतस्तेऽयमर्थो विष्णुमयः कुतः ॥३५॥ प्रह्लादः प्राह सर्वात्मा नारायाणपरेश्वरः ।
    सर्वान्तरात्मा दिशति भज नारायणं सदा ॥३६॥ गुरुः प्राह त्वया प्रोक्तो नारायणः स ते पिता ।
    नान्यो नारायणः कश्चित्तं भजस्व सुखी भव ॥३७॥ शिष्यः प्राह गुरो सत्यं नारायणस्य भक्तितः ।
    नारायणसमा भक्ता भवन्त्येवं न मे पिता ॥३८॥ नरसमूहवासेन नारायणोऽपि मे पिता ।
    कालग्रासो न तु दिव्यो नारायणोऽक्षराधिपः ॥३९॥ तयोरस्ति महान् भेदः पतङ्गद्युपतङ्गयोः ।
    खद्योतं मम पितरं मृषा वेद्मि न भास्करम् ॥1.137.४०॥ आत्मप्रकाशकं सत्यं वेद्मि नारायणं गुरो ।
    तथापि पितरं मन्ये पितरमेव केवलम् ॥४१॥ नात्यधिकं नारायणद्वेषित्वान्माननं न मे ।
    गुरुः प्राह तथापि त्वं पितृशासनमावह ॥४२॥ पितुः पूजां परिचर्यां सेवामाज्ञां सदाऽऽवह ।
    शिक्षित इति प्रह्रादः सायं गृहमुपागतः ॥४३॥ पित्रा सम्परिष्वज्याङ्के स्नेहपूर्वं निषादितः ।
    साम्ना पृष्टश्च मे पुत्राऽद्य त्वयाऽधीतमत्र किम् ॥४४॥ वद श्रुत्वा सुखी स्यां ते विद्यामस्मत्कुलोचिताम् ।
    प्रह्लादः प्राह पितरं नत्वाऽधीतं ब्रवीमि तत् ॥४५॥ *भवान्नारायणो राज्यान्मृषा नैव यथार्थतः ।
  • लक्ष्मीनारायणः सत्यो वैकुण्ठवासिसेवितः ॥४६॥ तं भजामि भजत्वेनं भवानपि पितर्मम ।
    श्रवणं कीर्तनं विष्णो स्मरणं पादसेवनम् ।
    अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥४७॥ नवधाऽध्यापनं श्रेष्ठमन्यत् सर्वं विडम्बनम् ।
    नवधाऽध्ययनं कार्यं किमन्येन विडम्बिना ॥४८ ॥ श्रुत्वैतत्परमं भक्तिमयं दैत्यपतिस्तदा ।
    सरोषो गुरुमाहेत्थं किमेतच्छिक्षितं त्वया ॥४९॥ ममात्मजस्य दुर्बुद्धे हरिसंस्तवभृद्वचः ।
    किमर्थमुक्तवानस्मत्कुलाकार्यं सुरोचितम् ॥1.137.५० ॥ गुरुपुत्र किमेतद्वै विपक्षगतशिक्षणम् ।
    प्रच्छन्नोऽसि विष्णुपक्षपोषकश्छद्मवेशधृक् ॥५ १॥ कपटिनामसाधूनामपि कालो न दूरतः ।
    गुरुपुत्रस्य पुत्रस्य सह दण्डो भविष्यति ॥५२॥ गुरुपुत्रस्तदा प्राह नेदृगध्यापितं मया ।
    बुद्धिनैसर्गिकी त्वस्य मा कदर्थीकरोतु नः ॥५३॥ तथापि प्राह दैत्येन्द्रो नाऽधीतं तु गुरोस्त्वया ।
    कस्मादधीतमेतद्वै वद बाल यथोचितम् ॥५४॥ प्रह्लादः प्राह दैत्येन्द्र कृष्णदत्ता मतिर्मम ।
    कृष्णभक्तरजोलेशाभिषिक्ततनुमन्तरा ॥५५॥ साधुप्रसङ्गसत्सेवामृते न त्वीदृशी मतिः ।
    कृपया देवदेवस्य शिक्षितोऽस्मि हरेः प्रभोः ॥५६॥ नाऽन्यो गुरुर्मे वदति स एव प्रेरको हरिः ।
    श्रोता मन्ता तथा वक्ता द्रष्टा सर्वत्र वर्तते ॥५७॥ हरिरेवाऽक्षयः शास्ता बुद्धिदाताऽपि स प्रभुः ।
    तदा हिरण्यकशिपुः प्राह पुत्रं रुषान्वितः ॥५८॥ अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्मतः ।
    मामेवार्चय गोविन्दं त्यज शत्रुं तमच्युतम् ॥५९॥ अथवा शङ्करं देवं रुद्रं लोकगुरुं प्रभुम् ।
    अर्चयस्व सुराध्यक्षं सर्वैश्वर्यप्रदंशिवम् ॥1.137.६०॥ प्रह्लादः प्राह देवस्य मायामोहमिमे गताः ।
    राक्षसा अपि मन्यन्ते वयमेवेश्वरा इति ॥६१॥ शङ्करोऽपि स्वयं विष्णुभक्तोऽस्ति वैष्णवाग्र्यगः ।
    दैत्योऽयं किं न जानाति कथमेवं भ्रमङ्गतः ॥६२॥ पितर्नैतद्विजानासि मदगर्वधियाऽऽवृतम् ।
    नारायणः परब्रह्म तत्त्वं नारायणः परः ॥६३॥ नारायणः परो ध्याता ध्यानं नारायणः परम् ।
    गतिर्विश्वस्य जगतः शाश्वतः स प्रभुः परः ॥६४॥ धाता विधाता जगतो वासुदेवः सनातनः ।
    विश्वमेवेह पुरुषस्तद्विश्वमुपजीवति ॥६५॥ हिरण्मयशरीरः स पुण्डरीकनिभेक्षणः ।
    तेनैव सृष्टौ ब्रह्मेशौ वर्तेते तस्य शासने ॥६६॥ भीषाऽस्माद्वाति पवनो भीषोदेति दिवाकरः ।
    भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः ॥६७॥ आसीदेको हरिर्देवो दिव्यो नारायणः परः ।
    न ब्रह्मा न तथेशानो न च चन्द्रदिवाकरौ ॥६८॥ न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः ।
    विष्णोः परं पदं तस्य सदा पश्यन्ति सूरयः ॥६९॥ त्यक्त्वा तं श्रीहरिं कस्मात्पूजये पितरं शिवम् ।
    यमर्चयन्ति ब्रह्मेशशक्राद्या देवतागणाः ॥1.137.७० ॥ यं ध्यायन्ति महात्मानो योगिनः सनकादयः ।
    यस्य लक्ष्म्याः कटाक्षार्धदृष्ट्या हृष्टा दिवौकसः ॥७ १ ॥ ब्रह्मेन्द्ररुद्रवरुणयमसोमधनाधिपाः ।
    यन्नामजपनादेव मुक्तिर्भवति शाश्वती ॥७२॥ तं श्रीपतिं देवदेवमनन्तं पुरुषोत्तमम् ।
    श्रीवत्सकौस्तुभोरस्कं नित्यानन्दसुखप्रदम् ॥७३॥ रक्षकं पूजयिष्यामि लक्ष्मीनारायणं हरिम् ।
    प्राप्स्यामि सुसुखेनैव तद्विष्णोः परम पदम् ॥७४॥ चित्स्थं नारायणं देवमक्षरं परमं प्रभुम् ।
    विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ॥७५॥ नारायणं सदा ज्ञेयं विश्वात्मानं परायणम् ।
    नारायणं परञ्ज्योतिरूपं नारायणात्मकम् ॥७६॥ यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रृयतेऽपि वा ।
    अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणं स्थितम् ॥७७॥ ऋतं सत्यं परम्ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
    नारायणं चोर्ध्वशीलं वन्दे विश्वस्वरूपिणम् ॥७८॥ एवं पुत्रवचः श्रुत्वा हिरण्यकशिपुस्तदा ।
    क्रोधेन महताऽऽविष्टः कषायीभूतनेत्रकः ॥७९॥ भक्तं स्वपुत्रं स्वोत्सङ्गात् पर्यत्यजन्महीतले ।
    परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः ॥1.137.८० ॥ भीषणैः शस्त्रसङ्घातैः प्रह्लादं त्वपथस्थितम् ।
    ममाऽऽज्ञया घातयन्तु शत्रुपूजनतत्परम् ॥८ १ ॥ वध्यतामाश्वयं वध्यो हित्वा स्वान् सुहृदोऽधमः ।
    पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ॥८२॥ अङ्गं रुग्णं चाऽचिकित्साविषयं छेद्यमेव तत् ।
    परोऽपि हितनिवहः सेव्यस्तिक्तौषधादिवत् ॥८३॥ रक्षिता हरिरेवेति चोच्यते तेन वै बलात्।
    अद्यैव सफलं जन्म पश्येय हरिरक्षणम ॥८४॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हिरण्यकशिपोः प्रह्लादे पुत्रे विद्याधीते भगवद्विद्याऽभिव्यञ्जनाद्द्वेषप्रयुक्त मृत्य्वाज्ञादिकथन-
    नामा सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७ ॥