श्रीनारायण उवाच-
ततो लक्ष्मि! महादेवि! शङ्करस्तां सतीं प्रियाम् ।
जलावरणप्रान्तस्थं द्वितीयं प्राह धाम यत् ॥१ ॥
वैकुण्ठाख्यं तु विष्णोर्वैराजपुत्रस्य धाम तत् ।
कोटिवैश्वानरप्रख्यं सर्ववस्तुसमन्वितम् ॥२ ॥
सुगन्धिकल्पवृक्षैश्च बहुभिः समशोभितम् ।
सद्रत्नमणिमाणिक्यविमानैः कोटिभिर्युतम् ॥३ ॥
महावैकुण्ठसदृशं पञ्चाब्जयोजनावृतम् ।
देवगङ्गा महादिव्या वर्तुला वर्ततेऽनु तत् ॥४ ॥
सर्वशोभावती दिव्यदुग्धसलिलभासुरा ।
स्वर्णमणिरत्नशुक्तिमाणिक्यहीरकैः कृता ॥५ ॥
अवतारास्तटाश्चैव शोभन्ते वनराजिभिः ।
नैकैश्वर्ययुता मुक्ता ईश्वरास्तत्र संस्थिताः ॥६ ॥
गरुडहंससारसशुकमेनाविहङ्गमाः ।
दैवाः पतत्रिणस्तत्र सुस्वरा कोकिलादयः ॥७ ॥
सुरूपाश्चातकबर्हिसारससारिकादयः ।
स्वर्णमृगमहादिव्यकेसरिकरिणस्तथा ॥८ ॥
शबलाश्व महावेगा आकाशगामिनो मताः ।
वाहनानि विचित्राणि वनान्युपवनाचि च ॥९ ॥
सरीसृपाः सुरूपाढ्या दिव्या ईश्वरकोटयः ।
वसन्ति रोहिता मत्स्याः स्वर्णमत्स्यादयश्च ते ॥1.127.१० ॥
कमठमकरमत्स्यावतारवंशजाश्च वै ।
स्वर्णरूपा मणिपृष्ठाः कामरूपधरा हि ते ॥११ ॥
जीवलोके चेशलोकेष्वावरणेषु चारिणः ।
भवन्ति श्रहिरेर्नारायणबलात्प्रमाभिनः ॥१ २॥
नदीमनु वर्तुलं तां तदभ्यन्तरमास्थितम् ।
वनं देवजयारामाभिधानं त्वब्जयोजनम् ॥१ २॥
तत्राम्रैः पनसैर्जम्बूश्रीफलैर्नागरङ्गकैः ।
बदरीकदलीपुष्पीद्राक्षखर्जूरसेतुरैः ॥१४॥
एलापूगीलवङ्गैश्च विविधामृतसद्द्रुमैः ।
कुन्दाशोकस्थलपद्मजातीकमलचम्पकैः ॥१५ ॥
केतकैर्बकुलैश्चान्यैः सुगन्धिपुष्पिवल्लिभिः ।
शालसर्जतरुतालकदम्बदेवदारुभिः ॥१६॥
पिप्पलोदुम्बरवृन्दाखदिरकिंशुकादिभिः ।
बहुजातितृणवृक्षवल्लीकमलसस्यकैः ॥१७॥
संशोभितं वनं देवजयोद्यानाभिधं महत् ।
तत्र विहारभवनस्नानरमणभूमयः ॥१८॥
स्वास्थ्यनिवाससौधानि क्षेत्राणि विविधानि च ।
वैकुष्ठवासिनां रम्योद्यानानि फलवन्ति च ॥१९॥
वर्तन्ते सुभगान्येव दिव्यानीश्वरचेतनाः ।
वनस्याऽभ्यन्तरे तत्र राजमार्गो महान् मतः ॥1.127.२० ॥
सङ्गच्छति देववतीं वैष्णवीं नगरीं प्रति ।
तैजसे सुस्तरे तत्र वर्तुले वैष्णवा हरेः ॥२१ ॥
नमन्ति च नरा नार्यो षोडशाब्दाः सुयौवनाः ।
वनं तु वर्तुलाकारं प्रदेशोऽपि च वर्तुलः ॥२२॥
कोटियोजनविस्तारो यत्र देशास्तु वैष्णवाः ।
वैष्णवानां नगराणि बहूनि विविधानि च ॥२३॥
वैष्णवानां वसतयः सर्वस्मृद्धिमया हि ताः ।
यानवाहनशकटविमानगरुडादिभिः ॥२४॥
व्योम्नि गच्छन्ति ते सर्वे वैष्णवाः प्रमदाजनाः ।
वसत्यभ्यन्तरे तत्र प्राकारः सप्तभूमिकः ॥२५॥
लक्षयोजनविस्तारश्चतुर्द्वाराष्टगोपुरः ।
वैष्णवपार्षदैः श्रेष्ठैर्वैष्णवाभिरधिष्ठितः ॥२६॥
चण्डादिद्वारपालाद्यैः कुमुदाद्यैः सुरक्षितः ।
नानामणिमयैर्दिव्यैर्गृहपङ्क्तिभिराजितः ॥२७॥
तदभ्यन्तरभागे तु नाम्ना देववती पुरी ।
वितता पञ्चपञ्चाशत्साहस्रयोजनाऽभितः ॥२८॥
वर्तुला तं च भवति प्राकारमनुसंस्थिता ।
शतयोजनसून्नतप्रासादकोटिभिर्वृता ॥२९॥
आरूढयौवनैर्दिव्यैः पुम्भिः स्त्रीभिश्च शोभिता ।
नरा नार्यः समरूपाः श्रीविष्णोः प्रतिरूपकाः ॥1.127.३०॥
दिव्यस्रग्वस्त्रसद्भूषाश्चन्दनोत्तरचर्चिताः ।
स्नानभोजनशयनविहारकेलिभूमयः ॥३ १ ॥
मनोरञ्जननाट्यानि गीतवादित्रशालिकाः ।
स्नाननर्मसुकन्दुकक्रीडाप्रदेशभूमिकाः ॥३ २ ॥
आरामोद्यानविश्रान्तिद्यूतशालाप्रदेशकाः ।
गजाश्वगोवृषवैनतेयहंससुपञ्जराः ॥३३ ॥
प्रदेशाः श्रमनोदाय सन्ति तत्र सहस्रशः ।
कन्याशालास्तथा रम्या भक्तिशालास्तथाऽपराः ॥३४ ॥
पक्वान्नशाला विविधाः सुप्तिशालाश्च शोभनाः ।
शृङ्गारशाला ग्मणीरामाणि मन्दिराणि च ॥३५ ॥
भवन्ति विविधाः सर्वा राजमार्गोपमार्गका ।
सवृक्षचित्रशोभाढ्याः सत्कलशध्वजान्विताः ॥३६ ॥
भवन्ति सौम्यभवनसङ्घभागाः पृथक्पृथक् ।
स्त्रियश्च पुरुषाश्चात्र सर्वलक्षणशोभिताः ॥३७ ॥
मोदन्ते तत्र देवेशि! भक्त्याह्लादमनोरमैः ।
लक्ष्मोनारायणमन्त्रजापका वैष्णवास्तु ते ॥३८ ॥
वैकुण्ठपदमाविश्य मोदन्ते मनसेप्सितम् ।
गत्वास्मिन्न निवर्तन्ते विष्णुना सह संस्थिताः ॥३९ ॥
लये प्राकृतिके ते तु यान्ति ब्रह्म सविष्णुकाः ।
अविच्छिन्ना गतिस्तेषां विष्णुना सङ्गतिः शुभा ॥1.127.४० ॥
विष्णुसमप्रसौख्यं च भुञ्जते तेऽपि सात्त्वताः ।
चतुर्भुजा नरा नार्यो न न्यूना विष्णुपद्मयोः ॥४ १ ॥
यत्र यत्र हरेर्लोकास्तत्र गच्छन्ति ये जनाः ।
गत्वा पुनर्न चायान्ति संसारे यान्ति धाम तत् ॥४२ ॥
यथा भरतशत्रुघ्नलक्ष्मणाः शेषशारदाः ।
विष्णुलोकगताः सर्वे दिव्या भवन्ति सर्वथा ॥४ ३ ॥
ते यद्यायान्ति संसारे स्वेष्टलोकाद् यथेच्छया ।
न तु कर्मकृता तेषां गतिर्वा बन्धनं न वै ॥४४॥
यथाऽऽगतास्तथा यान्ति तत्पदं शाश्वतं परम् ।
न कर्मबन्धनं जन्म वैष्णवानां तु विद्यते ॥४५ ॥
विष्णोरनुचरत्वं वै मोक्षस्तत्र हि गण्यते ।
विष्णोर्दास्यं सदैवेति बन्धनं नान्यदस्ति हि ॥४६ ॥
सर्वबन्धननिर्मुक्ता हरेर्दासा महाबलाः ।
भक्त्या त्वनन्यया देवं भजन्ति करुणाम्बुधिम् ॥४७ ॥
सः सर्वज्ञानगुणवान् रक्षत्येव स्वकान् जनान् ।
श्रीमन्नारायणं मन्त्रं जप्त्वा सुखमयं परम् ॥४८ ॥
प्राप्नुवन्ति परं लोकं वैष्णवं सर्वकामदम् ।
देववत्याश्च पुर्याश्चाऽभ्यन्तरे वर्तुलेऽत्र वै ॥४९ ॥
प्रासादौ वैष्णवः सौधः शतशृङ्गैः सुशोभितः ।
महद्विमानरूपोऽयमन्तरीक्षे हि लभ्यते ॥1.127.५० ॥
तत्र मणिमयस्तम्भाः सहस्रसूर्यरश्मयः ।
दिव्यरत्नमया भित्तिप्रकाण्डा दिव्यभूमयः ॥५१॥
स्वर्णहीरकमण्याद्यैः कृतशृङ्गादिशोभिताः ।
प्रदेशाश्चन्द्रशालाश्च विभान्ति ब्रह्मधामवत् ॥५२॥
सर्वविभूतिसम्पन्नाः सर्वरूपरसान्विताः ।
ऊनषोडशवर्षाश्च नरा नार्या वसन्ति च ॥५३॥
सर्वे ते वैष्णवास्तस्य हरेः प्रवरपार्षदाः ।
सर्वाश्च सुभगा दिव्या पार्षदान्यो हरेः प्रियाः ॥५४॥
खानपानार्चनभोग्यस्पृश्यादिदिव्यऋद्धिभिः ।
न न्यूना भूमिका काचित्कामसंसिद्धभूतयः ॥५५॥
तत्र प्रासादमध्ये तु दिव्यं सिंहासनं शुभम् ।
पुष्पविमानवद्भाति तस्य पीठं हिरण्मयम् ॥५६॥
आधाराद्यशक्त्यधिष्ठिताऽष्टपत्राब्जमण्डले ।
नानावर्णसुरङ्गाढ्ये रत्नसिंहसाने वरे ॥५७॥
दिव्यो नारायणः श्रीमान् संस्थितो भगवान् हरिः ।
प्रातरुद्यत्सूर्यलक्षकोटितुल्यसरत्प्रभः ॥५८॥
रूपानुरूपावयवः कोटिकामप्रसुन्दरः ।
मणिस्वर्णविभूषाढ्यो हारवस्त्रादिभूषितः ॥५९॥
पूजितः प्रेमभक्ताभिः कामस्त्रीभिश्च सेवितः ।
वन्दितो वैष्णवैः सर्वैः राजते पुरुषः परः ॥1.127.६०॥
तस्य दक्षिणपार्श्वे च जगन्माता हिरण्मयी ।
सर्वलक्षणसम्पन्ना दिव्या द्वादशवार्षिकी ॥६ १॥
मालाभूषासुवस्त्रादिमाङ्गल्यद्रव्यचर्चिता ।
पद्मव्यजनचामरयुक्तहस्तानिशोभना ॥६२॥
सुधापानं वसुपात्रं मातुलुङ्गं धृतं करैः ।
राजते सर्वदा नारायणी सेवां करोति च ॥६३॥
वामतः पृथिवी देवी कान्ता कमललोचना ।
भूषाम्बरसुगन्धादिशृङ्गारादिविभूषिता ॥६४॥
सन्धृते चोर्ध्वकरयोः रम्ये रक्तोत्पले शुभे ।
अन्ययोः करयोर्धान्यपात्रे माङ्गल्यदे धृते ॥६५॥
एवं पृथ्व्या च लक्ष्म्या च पार्श्वयोः सेवितो हरिः ।
राजते तत्र देवेशो विमलादिकृतार्चनः ॥६६॥
विमला सुमतिः श्यामा सुशीला कुशला तथा ।
दीपावली जयन्ती च रमा भागीरथी तथा ॥६७॥
सुखा च कनका विद्युल्लता चन्द्रकला तथा ।
लक्षशः प्रमदास्तस्य सर्वलक्षणशोभिताः ॥६८॥
सेवन्ते स्म हरिं कान्तं तासां मध्ये स्थितं पतिम् ।
शङ्खचक्रगदापद्महारकेयूरकौस्तुभैः ॥६९॥
नूपुराङ्गदकटकमुकुटाङ्गुलिभूषणैः।
कुण्डलशृङ्खलामालाविभूतिभिर्विराजितः ॥1.127.७०॥
तत्रत्यैस्त्रिदशैर्नित्यैः सेवितः परमेश्वरः ।
आस्ते वैकुण्ठनगरे वैराजे नित्यभोगवान् ॥७ १॥
इत्येव पार्वति! तेऽयं लोको वैकुण्ठसञ्ज्ञकः ।
द्वितीयो दर्शितश्चाथ वक्ष्यामि तृतीयं शृणु ॥७२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जलावरणोपरि द्वितीयवैकुण्ठवर्णने देवगङ्गादेवजयोद्यानराज-
मार्गतद्वैभवप्राकारदेववतीनगरीवैष्णवप्रासादविभूतिवैष्णवभक्तदासदासीरत्नसिंहासन नारायणतत्प्रियादिनिरूपणनामा सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७ ॥