१२५

श्रीनारायण उवाच-
शङ्करः पार्वतीं प्राह महावैकुण्ठवर्णनम् ।
त्रिपाद्विभूतेरक्षरब्रह्मस्था धामसृष्टयः ॥१ ॥ शुद्धाः शान्ताः सुसन्तश्च ब्रह्मानन्दसुखात्मिकाः ।
नित्याश्च निर्विकाराश्च हेयभागविवर्जिताः ॥२ ॥ हिरण्मया असङ्ख्याताः कोट्यब्जसूर्यकान्तयः ।
नारायणपदाम्भोजभक्तिसद्रसपूरिताः ॥३ ॥ सामादिस्तुतिकर्तारो यत्र सन्ति हि सात्त्वताः ।
तद्वदिदं महावैकुण्ठाख्यं धाम परं पदम् ॥४ ॥ निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ।
नारायणचरणयोः रसभोगसुवर्धिताः ॥५ ॥ महात्मानो महाभागा वैष्णवा निवसन्ति हि ।
दास्यो वैष्णवमूर्धन्या हरेः सेवारताः सदा ॥६ ॥ तद्विष्णोः परमं धाम वैकुण्ठं तद्धरेः पदम् ।
नानाजनपदाकीर्णं सच्चिद्ब्रह्मसुखप्रदम् ॥७ ॥ पद्मरागैदिन्द्रनीलैर्बहुरत्नैः सुशोभितम् ।
कोटिवैश्वानरप्रख्यं सर्वविद्यामयं महत् ॥८ ॥ आमोदकरमन्दारवृक्षैर्बहुभिरावृतम् ।
नानामणिमयैर्दिव्यैविमानैः कोटिभिर्युतम् ॥९ ॥ स लोको विपुलः पुण्यः शुद्ध आत्ममयः शुभः ।
युगपत्कोटिसाहस्रसूर्यभासाप्रभासितः ॥1.125.१० ॥ नित्योऽयं वैष्णवो लोकः प्रधानान्ते न लीयते ।
मया ब्रह्मादिदेवैश्च न द्रष्टुमपि शक्यते ॥१ १॥ कल्पचिन्तामणिवृक्षाऽमृतवल्ल्यादिपूरितः ।
मिष्टाम्बुदिव्यसोपानदीर्घिकालसितः शुभः ॥१२॥ स्वर्णवर्णैः सदाऽम्लानैः समरूपैस्तु पङ्कजैः ।
रमन्ते कन्यकास्तत्र विमानैर्विहरन्ति च ॥१३॥ ज्वलदग्निसमैः कान्तैर्भूषणैः कोटिभिर्युताः ।
निरन्तरं मुक्तपक्षिसङ्घैः सामभिरीडितः ॥१४॥ नृत्यस्य मण्डपस्तत्र सुगन्धद्रव्यशोभितः ।
ऊनषोडशवर्षैश्च दिव्यनारीनरैर्वृतः ॥१५॥ सर्वलक्षणशोभाढ्यैर्दिव्यशोभिविभूषणैः ।
सर्वत्र लसितः सम्यक् त्वानन्देन प्रपूरितः ॥१६॥ नृत्यं भवति नित्यं वै तत्र तारस्वरादिभिः ।
आनन्द जायते तेन मुहुर्वैकुण्ठवासिनाम् ॥१७॥ एवं रम्यप्रदेशेषु मुदितैः पतिभिः सह ।
नारायणं त्वर्चयन्ति प्रमदाः सात्त्वतप्रियाः ॥१८॥ नारायणकृपालब्धं सुखमश्नन्ति सर्वदा ।
गायन्ति भगवल्लीलां चरितानि शुभानि च ॥१९॥ पद्मेक्षणाः कमलवत्कोमलाङ्ग्यश्च योषितः ।
दिव्यस्रग्वसनोपेताः पद्मया सदृशाः शुभाः ॥1.125.२०॥ शङ्खचक्रगदापद्मधरैर्भूषणभूषितैः ।
स्रग्विभिः पीतवसनैः पतिभिः सह संस्थिताः ॥२१ ॥ सेवन्ते श्रीहरिं नारायणं दिव्यं भजन्ति तम् ।
अन्योन्यरममाणानां हरेर्भक्तेः सुखो रसः ॥२२॥ सर्वदा वर्धत एव द्रवनिष्ठो भवत्यपि ।
इत्येवं वसतिव्याप्तं व्यूहाभ्यन्तरमण्डलम् ॥२३॥ मण्डलाभ्यन्तरे तत्र प्राकारो विद्यते महान् ।
चतुर्द्वारसमायुक्तस्तुङ्गगोपुरसंयुतः ॥२४॥ विमानानि च सौधानि सन्ति दुर्गेऽपि तत्र च ।
चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ ॥२५॥ वारुण्यां जय विजयौ सौम्ये धाता विधातृकः ।
कुमुद्ः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥२६ ॥ शङ्कुकर्णः सर्वनिद्रः सुमुखः सुप्रतिष्ठितः ।
अष्टौ प्राकारपतयो गौणद्वारेषु सन्ति हि ॥२७॥ प्राकाराभ्यन्तरे तत्र प्राकारभवनानि वै ।
कोटिवैश्वानरतुल्योज्ज्वलानि रत्नवन्ति च ॥२८॥ आरूढयौवनदिव्यनारीनरयुतानि वै ।
वर्तुलप्राकारलग्नस्थितिमन्ति भवन्ति हि ॥२९॥ प्राकारो वर्तुलाकारो दशलक्षसुयोजनः ।
साप्तभौमो महाव्योम्नि वर्तुलो वर्ततेऽभितः ॥1.125.३० ॥ गोपुरेषु द्वादशसु राजमार्गाः सुलम्बनाः ।
प्राकाराभ्यन्तरे तत्र राजसौधं प्रयान्ति वै ॥३ १॥ दुर्गे त्वनु राजसौधमभितो नगरी शुभा ।
दिव्या ह्ययोध्या सुभगा नारायणविनिर्मिता ॥३२॥ अनन्तमणिभास्करगृहपङ्क्तिभिरावृता ।
प्रोद्भिन्नयौवनैः रम्यैर्दिव्यनारीनरैर्युता ॥३३॥ दिव्यनदनदीयुक्ता प्रेमजलसुनिर्झरा ।
दिव्यभोज्यपानवस्त्रा सङ्कल्पोद्भवसाधना ॥३४॥ असङ्ख्यदिव्यसौधादिवैष्णवगृहशोभिता ।
महाभागवतसात्त्वतात्मनिवेदिसंश्रिता ॥३५॥ नरा नारायणाकाराश्चतुर्हस्ताः सुवैष्णवाः ।
नार्यो लक्ष्मीसमाकारा मालाकौस्तुभभासुराः ॥३६॥ चन्दनागुरुकर्पूरकुङ्कुमाऽऽमोदसंयुताः ।
नानापुष्पोद्यानयानवाहनगृहसंश्रिताः ॥३७॥ मध्ये मध्ये कल्पवृक्षोद्यानानि सन्ति भूरिशः ।
चत्वराश्चन्द्रशालाश्च विश्रान्तिशालिमण्डपाः ॥३८॥ दिव्याः सहस्रभौमाश्च सन्ति नारायणेच्छया ।
कल्पद्रुमतले स्थित्वा छायायां कमलाननाः ॥३९॥ दिव्यसुगन्धशोभाग्र्यनानापुष्पपरिच्छदाः ।
शुभास्तरणसंवृत्तश्लक्ष्णपर्यङ्कसंस्थिताः ॥1.125.४०॥ सुधांशुकोटिसङ्काशा दिव्याभरणभूषिताः ।
सुवर्णसुभ्रूयुगलश्लक्ष्णनासाञ्चिताननाः ॥४१ ॥ रमन्ते वैष्णवास्तत्र सच्चिदानन्दविग्रहाः।
वैष्णव्यः सर्वदा नारायणं सेवन्त आदरात् ॥४२॥ अयोध्यायां तु दिव्यायां मन्दिराणि त्वनेकशः ।
नारायणीनां देवीनां वैष्णवीनां भवन्ति वै ॥४३॥ अथाऽप्यन्तःपुराण्येव सप्राकाराणि सन्ति हि ।
सोद्यानानि समस्तेष्टसाधनान्वितकानि वै ॥४४॥ अष्टदिक्ष्वष्टसौधाः सप्राकाराः सन्ति चोन्नताः ।
अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितः स्थिताः ॥४५॥ रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ।
सुदक्षिणा सुशीला च रत्यनङ्गप्रदास्तु ताः ॥४६॥ शङ्खचक्रगदापद्मखड्गशार्ङ्गादिहेतयः ।
सर्वा नूत्ननवरूपा प्राप्तयौवनपूरिताः ॥४७॥ वर्तुले स्वस्वसौधेषु नारायणेन सङ्गताः ।
तप्तकाञ्चनसङ्काशाः सर्वाभरणभूषिताः ॥४८॥ सुस्निग्धनीलकुटिलाऽलकराजिविराजिताः ।
मन्दारपारिजातादिदिव्यपुष्पविराजिताः ॥४९॥ रत्नाऽवतंसशोभाढ्याश्चिकुरान्तालिसन्निभाः ।
केयूरांऽगदहाराद्यैर्भूषणैरुपशोभिताः ॥1.125.५० ॥ पीनस्तन्यो वैष्णव्यस्ता नारायण्यो निरन्तरम् ।
क्रीडन्ति स्माऽमोघवीर्यवारिधिहरिणा सह ॥५ १॥ स वै नारायणः स्वामी सर्वदासीमनोहरः ।
क्रीडत्यन्तःपुरेष्वत्र तासां यावदनङ्गदः ॥५२॥ ईश्वरीभिः स देवेशो रतिं विन्दति नैकधाम् ।
सुधाङ्क्षुकोटिसङ्काशो दिव्याभरणभूषितः ॥५३॥ सुवर्णसुभ्रूयुगलश्लक्ष्णनासाञ्चिताननः ।
स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः ॥५४॥ नीलकुञ्जितकेशाढ्यो रक्ताब्जदललोचनः ।
मन्दारकेतकीजातीकबरीकृतकेशवान् ॥५५॥ स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपङ्कजः ।
अनर्घ्यमौक्तिकाभासदन्तावलिविराजितः ॥५६॥ हरिचन्दनलिप्ताङ्गः कस्तूरीतिलकाङ्कितः ।
उन्नतांसभुजैर्दिव्यैश्चतुर्भिरुपशोभितः ॥५७॥ जपाकुसुमसङ्काशकरपल्लवशोभितः ।
स्फुरत्केयूरकटकैरङ्गुलीयैश्च शोभितः ॥५८॥ श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा ।
मुक्तामयसुशोभाढ्यदिव्यस्तग्भिरलङ्कृतः ॥५९॥ बालार्कसदृशज्योत्स्नापीतवस्त्रेण वेष्टितः ।
माणिक्यनूपुरोपेतपदपद्मविराजितः ॥1.125.६ ० ॥ अकलङ्कितचन्द्राभनखपङ्क्तिविराजितः ।
रक्तोत्पलनिभश्लक्ष्णशुभामऽघ्रियुगपङ्कजः ॥६१ ॥ पाञ्चजन्यरथाङ्गाभ्यां बाहुयुग्मे विराजितः ।
तप्तजाम्बूनदश्लक्ष्णशुभाङ्घ्रिद्वयपङ्कजः ॥६२॥ ताभिः क्रीडति देवेशो नारायणः सनातनः ।
बहुरूपधरः श्रीमान्नैकश्रीभिः सुसेवितः ॥६३॥ प्रतिश्रि राजते राजाधिराजोऽन्तःपुरेषु सः ।
आसां नारायणमहालक्ष्मीतुल्याः समृद्धयः ॥६४॥ न न्यूना अण्वपि सन्ति नारायण्यो यतश्च ताः ।
नारायणैकपतिका नारायणैकसंश्रयाः ॥६५॥ नारायणैकसत्प्राणा नारायणात्मिका हि ताः ।
नारायणसमैश्वर्या नारायणपरायणाः ॥६६ ॥ नारायणे सदा मग्ना नारायणार्थकृत्स्वकाः ।
भजन्ति स्नेहसन्नर्महास्यविलासखेलनैः ॥६७॥ प्रेमानन्दपरिकेलिस्वाङ्गमर्दनभावनैः ।
एतासां तु रमादीनामष्टानां वर्तुलान्तरे ॥६८॥ उद्यानस्तु महान् दिव्यश्चन्द्रशीतलभूरुहाम् ।
सुखवृक्षा मिष्टवृक्षास्तथैवाऽऽनन्दवल्लयः ॥६९॥ मणिहीरकसोपानाऽवतारकुण्डसुस्थलाः ।
अमृतनिर्झरणाढ्याश्चित्रपुष्पाः प्रदेशकाः ॥1.125.७० ॥ मौक्तिकवालुकाः स्वर्णभूमयो दुग्धवार्धयः ।
मृद्वास्तरणसुस्थानाः सुदिव्यवनराजयः ॥७१ ॥ स्वल्पानि तु विमानानि सन्ति सृतिवरास्तथा ।
जलफुत्कारयन्त्राणि दोलावृक्षाश्च शोभनाः ॥७२ ॥ कुञ्जा वल्लीप्रकृतिकाऽऽवरणाः सन्ति भूरिशः ।
शय्यास्थानानि रम्याणि विश्रान्तिप्रस्थलानि च ॥७३ ॥ रतिस्थानान्यनेकानि प्रच्छन्नस्थानभूमिकाः ।
नारायणेच्छया तद्वै जायतेऽपेक्ष्यते यथा ॥७४॥ अदृश्यत्वं च दृश्यत्वं प्रकाशत्वं ततोऽन्यथा ।
यथापेक्षं तदा तत्तदिच्छया परिवर्तते ॥७५॥ तादृशवर्तुलोद्यानमध्ये नारायणस्य वै ।
प्रासादः शतशिखरो वर्तते सुमहोज्ज्वलः ॥७६ ॥ शतसद्भूमिकश्चैव दिव्यरत्नमयो महान् ।
शतयोजनविस्तारो वरतोरणशोभितः ॥७७॥ विमानैर्गृहसङ्काशैर्गृहैश्च बहुभिर्युतः ।
मणिमाणिक्यसद्रत्नस्फटिकोप्तसुभित्तिकः ॥७८॥ दिव्यसोपानसंराजद्गवाक्षाक्षिसुशोभितः ।
घुम्मटैर्विविधैर्युक्तः पताकाध्वजदर्शनः ॥७९॥ बहुभिः स्वर्णकलशैर्नैकचन्द्रप्रभोज्ज्वलः ।
दिव्यदासीगणैः स्त्रीभिः सर्वतः समलङ्कृतः ॥1.125.८ ० ॥ अन्तःपुरं महालक्ष्म्या नारायणस्य सर्वथा ।
प्रासादोऽयं भवत्येव मुख्याऽन्तःपुरमेव वै ॥८ १ ॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महावैकुण्ठे व्यूहाभ्यन्तरप्राकारतद्वसतितदभ्यन्तराऽ-
योध्यावसतिरमाद्यष्टदासीप्रासादतदभ्यन्तरोद्यानतन्मध्यमहालक्ष्मीप्रासादतदुपकरणादिवर्णननामा पञ्चविंशत्यधिकशततमोऽध्यायः ॥१२५ ॥