१२२

श्रीनारायण उवाच-
शृणु प्रिये! ततः शम्भुः प्राह स्वस्य प्रियां सतीम् ।
राधिकाकृष्णप्रासादे रत्नसिंहासनं वरम् ॥१ ॥ धनुः शतप्रमाणं च परितो वर्तुलाकृति ।
उच्चावचैः स्वर्णघटैः शोभितं शिखरादिषु ॥२ ॥ दिव्यभक्तापुत्तलिकाप्रेमदासीप्रभूषितम् ।
कोट्यर्कद्युतिसंव्याप्तं तदूर्ध्वं सप्ततालवत् ॥३ ॥ .अद्भुतं सर्वतेजस्विपदार्थाधिकसुन्दरम् ।
तेजस्तेजोऽम्बरं तेजोराशिस्तेजःखनिप्रथम् ॥४ ॥ दिव्यं सिंहासनं तद्वै यथेष्टं व्योम्नि गच्छति ।
सिंहपादं वल्लिचित्राण्यनन्तगोपगोपिकाः ॥५ ॥ गावो वत्सा वत्सतर्यस्तथा भक्ता प्रियास्तथा ।
सिंहासने च सोपाने स्तम्भे द्वारि च तोरणे ॥६ ॥ वादका नर्तकाश्चैव गायकाः पार्श्वभागके ।
पुत्तलिकास्वरूपास्ते क्लृप्ताः सर्वे विभान्ति वै ॥७ ॥ मयूराः सारसा हंसाश्चातकाः शुकमेनकाः ।
शुभाः पुत्तलिकाश्चैता यथास्थानं व्यवस्थिताः ॥८ ॥ दिव्ये सिंहासने तेजोराशौ कृष्णो विराजते ।
वरो वरेण्यो वरदो वरदानां च कारणम् ॥९ ॥ सर्वमङ्गलदः साक्षान्मङ्गलानां सुमङ्गलम् ।
निर्लेपश्च निरीहश्च ढिव्यैश्वर्यगुणाश्रयः ॥1.122.१० ॥ सनातनश्च साकारः कलाविभूतिधारकः ।
सर्वाधारः सर्वरूपः सर्वबीजो ह्यतीन्द्रियः ॥११ ॥ जडचेतनदेहश्च स्वतन्त्रदिव्यमूर्तिकः ।
सर्वसाक्षी सर्वदर्शी सच्चिदानन्द ईश्वरः ॥१२ ॥ सर्वेशोऽनादिनिधनो विधाता जनकः पिता ।
एकैकरोमविवरे ब्रह्माण्डमेकमेककम् ॥१ ३॥ यस्यैव महतो विष्णोः स कृष्णः षोडशांशजः ।
यं वै ध्यायन्ति योगज्ञाः सेवन्ते दासतां गताः ॥१४॥ किशोरः सुन्दरतरः कान्तानां कमनीयकः ।
नवीनजलदश्यामः पीताम्बरधरो वरः ॥१५॥ द्विभुजो मुरलीहस्तः सस्मितः सुमनोहरः ।
मयूरपिच्छचूडश्च मालतीमालमण्डितः ॥१६॥ चन्दनागुरुकस्तूरीकुङ्कुमद्रवचर्चितः ।
अमूल्यरत्नसाराणां सारभूषणभूषितः ॥१७॥ अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलः ।
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचन्द्रकः ॥१८॥ पक्वबिम्बसमानेन ह्यधरौष्ठेन राजितः ।
पक्वदाडिमबीजाभदन्तपङ्क्तिमनोहरः ॥१ ९॥ सुस्मितपरमाह्लादः त्रैलोक्यचित्तमोहनः ।
गण्डस्थलकपोलाभ्यां ज्वलन्मकरकुण्डलः ॥1.122.२० ॥ सद्रत्ननूपुराभ्यां च चरणाम्भोजराजितः ।
वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितः ॥२१ ॥ मणिस्वर्णादिदिव्याभूषणवर्यैर्विभूषितः ।
विनोदमुरलीयुक्तबिम्बाधरमनोहरः ॥२२॥ प्रसन्नताप्रपूर्णश्च भक्तानुग्रहकारकः ।
सद्रत्नगुटिकायुक्तकवचोरःस्थलोज्ज्वलः ॥२३॥ कौस्तुभासक्तसद्रत्नप्रदीप्ततेजसोज्ज्वलः ।
श्रीकृष्णः स परब्रह्म किशोरो दीव्यति प्रभुः ॥२४॥ तस्य वामे तु चार्वङ्गी सखी तिष्ठति राधिका ।
पश्यन्तं सस्मितं कान्तं पश्यन्ती वक्रचक्षुषा ॥२५॥ मुक्तापङ्क्तिपरोत्कर्षदन्तपङ्क्तिविराजिता ।
ईषद्धास्यप्रसन्नास्या शरत्पङ्कजलोचना ॥२६॥ शरत्पार्वणचन्द्रातिरेकभाऽऽस्यमनोरमा ।
बन्धुजीवप्रमाधिक्याधरौष्ठरुचिरानना ॥२७॥ रणन्मञ्जीरयुग्मेन पादाम्बुजविराजिता ।
मणीन्द्राणां प्रभामोषनरराजिविराजिता ॥२८॥ कुङ्कुमाभासमाच्छाद्य पदाधोरागभूषिता ।
अमूल्यरत्नसाराणां रशनाश्रोणिभूषिता ॥२९॥ हुताशनविशुद्धांशुकाऽमूल्यज्वलितोज्ज्वला
महामणीन्द्रसाराणां किङ्किणीमध्यसंयुता ॥1.122.३० ॥ सद्रत्नहारकेयूरकरककण्णभूषिता ।
रत्नेन्द्रसाररचितकपोलोज्ज्वलकुण्डला ॥३ १॥ कर्णोपरि मणीन्द्राणां कर्णभूषणभूषिता ।
खगेन्द्रचञ्चुनासाग्रगजेन्द्रमौक्तिकान्विता ॥३२॥ मालतीमालया वक्रकबरीभारशोभिता ।
मालया कौस्तुभेन्द्राणां वक्षःस्थलसुशोभिता ॥३३॥ पारिजातप्रसूनानां मालाज्वालोज्ज्वलाम्बरा ।
रत्नाङ्गुलीयनिकरैः कराङ्गुलिविभूषिता ॥३४॥ प्रतप्तस्वर्णवर्णाभा कनकोज्ज्वलविग्रहा ।
नितम्बश्रोणिललिता पीनस्तनसुशोभिता ॥३५॥ सौन्दर्यभूषिता सर्वैर्भूषणैश्चापि भूषिता ।
पद्मपत्रदीर्घनेत्रा प्रेमभारसुमन्थरा ॥३६॥ कृष्णकामनिधानासा सर्वयौवनसागरा ।
सर्वरूपपराकाष्ठा धवला रक्तसूज्ज्वला ॥३७॥ प्रेमप्रवाहप्रसरत्कृष्णचित्तमनोहरा ।
कृष्णस्पर्शं विना नैव क्षणमात्रं कृतस्थितिः ॥३८॥ कान्तं कृष्णं विना नैव कान्ता तिष्ठति केवला ।
इत्येव शोभया युक्तौ राधाकृष्णौ प्रतिष्ठतः ॥३९॥ दिव्ये सिंहासने तत्र राजाधिराजशोभया ।
किं वै न्यूनं भगवतो भगवत्याः समागमे ॥1.122.४०॥ पूर्णस्य ब्रह्मणः पूर्णब्रह्मण्याः का न्वपूर्णता ।
गोलोके तिष्ठतां यद्वै क्षणं याति सुखावहम् ॥४१ ॥ तन्मात्रे तु क्षितौ यान्ति सप्तमन्वन्तराणि वै ।
तादृशे सर्वदादीर्घानन्दभूमौ तु तत्र वै ॥४२॥ गावः सुरभयः कामधेनवो नीलगोवृषाः ।
चतुर्दन्ता हस्तिनश्च श्वेताः स्वर्णादिभूषणाः ॥४२ ॥ प्रमदवर्षिणः षष्ठिहायना व्योमगामिनः ।
श्यामकर्णाश्च तुरगाः सपक्षा व्योमसञ्चराः ॥४४॥ मयूरगरुडहंसाश्च शुकसारसमेनकाः ।
विविधाः पक्षिणस्तत्र वृक्षावल्ल्यश्च भूरिशः ॥४९॥ डङ्कानिशानाः शिबिकागुप्तकातावदानकाः ।
मानववाहाः शतशो निजेच्छावाहनानि च ॥४६॥ विविधाः स्मृतयस्तत्र वाय्वप्तेजांसि सेवकाः ।
ऋतवश्च रसगन्धशब्दरूपादिसेवकाः ॥४७॥ उपतिष्ठन्ति गोलोके यथेष्टं भोगलब्धये ।
दिव्या रथा व्योमगाश्च दिव्यास्तादृग्विभूतयः ॥४८ ॥ किं वै दिव्यस्य कृष्णस्याऽदिव्यं वै सम्भवेत्तदा ।
कृष्णो दिव्यो महाराजो दिव्या राज्ञी च राधिका ॥४९ ॥ विरजा द्रवदिव्या वै पार्षदा गोपगोपिकाः ।
प्रासादा वस्तुमूर्धन्याः सर्वे दिव्या वसन्ति हि ॥1.122.५० ॥ श्रीकृष्णस्य रथस्तत्र राजत दिव्यविग्रहः ।
मणिरत्नेन्द्रसारेण हीरकेण विभूषितः ॥५ १ ॥ श्वेतचामरलक्षेण शोभितो दर्पणाऽयुतैः ।
सूक्ष्मकाषायवस्त्रेण वह्निशुद्धेन भूषितः ॥५२॥ सद्रत्नकलशानां च सहस्रेण सुशोभितः ।
पारिजातप्रसूनानां मालासङ्घैर्विराजितः ॥५३ ॥ पार्षदप्रवरैर्युक्तः शातकुम्भमयः शुभः ।
तेजस्तेजःस्वरूपश्च शतसूर्यसमप्रभः ॥५४॥ कृष्णः क्वचिद्रथे तत्र नारायणश्चतुर्भुजः ।
भूत्वा तिष्ठति लोकाद्वै लोकान्तरं प्रगच्छति ॥५५ ॥ तदा स पुरुषः श्यामः सुन्दरः कमनीयकः ।
शङ्खचक्रगदापद्मधरः पीताम्बराम्बरः ॥५६॥ किरीटी कुण्डली दिव्यवनमालाविभूषितः ।
चन्दनागरुकस्तूरीकुङ्कुमद्रवचर्चितः ॥५७॥ चतुर्भुजः स्मेरवक्त्रो भक्तानुग्रहकातरः ।
मणिरत्नेन्द्रसाराणां सारभूषणभूषितः ॥५८ ॥ महालक्ष्म्या महादेव्या सर्वदा कृतसेवनः ।
भवत्यैश्वर्यधृक्सर्वदेवदेवीप्रवन्दितः ॥५९ ॥ तद्वामे च रथे रम्ये शुक्लवर्णा प्रतिष्ठति ।
रत्नालङ्कारशोभाढ्या शोभिता पीतवाससा ॥1.122.६० ॥ शरत्पार्वणचन्द्रास्या शरत्पकजलोचना ।
पक्वबिम्बाधरौष्ठी च स्मेरानना च कामदा ॥६१॥ वेणुवीणाग्रन्थहस्ता भक्तानुग्रहकातरा ।
विद्याधिष्ठातृदेवी च ज्ञानरूपा सरस्वती ॥६२॥ दक्षिणे तु सुपार्श्वे वै शतचन्द्रसमप्रभा ।
प्रतप्तस्वर्णवर्णाभा सस्मिता सुमनोहरा ॥६३॥ सद्रत्नकुडलाभ्यां च सुकपोलविराजिता ।
अमूल्यरत्नखचिताऽमूल्यवस्त्रेण भूषिता ॥६४॥ अमूल्यरत्नकेयूरकरकङ्कणशोभिता ।
सद्रत्नसारमञ्जीरकलशब्दसमन्विता ॥६५॥ मणीन्द्रकिङ्किणीगुञ्जन्मध्यकटिसमन्विता ।
पारिजातादिपुष्पाणां हारैर्वक्षस्थलोज्ज्वला ॥६६ ॥ प्रफुल्लमालतीमालाप्रोतकबरिकायुता ।
शरच्चन्द्रातितेजस्विमुखमण्डलशोभिता ॥६७॥ कस्तूरीबिन्दुसम्मध्यसिन्दूरतिलकान्विता ।
सुचारुकज्जलश्लिष्टशरत्पङ्कजलोचना ॥६८॥ सहस्रदलशोभाढ्यमहत्कमलहस्तगा ।
नारायणं हरिं कृष्णं पश्यन्ती वक्रचक्षुषा ॥६९॥ तिष्ठन्तो रथमध्येऽपि विहरन्ति त्रयोऽपि ते ।
अन्योऽपि सुरथस्तस्य निर्मितो विश्वकर्मणा ॥1.122.७० ॥ पञ्चाशद्योजनोर्ध्वश्च चतुर्योजनविस्तरः ।
स्वर्णसारविकारश्च नानारत्नपरिच्छदः ॥७ १ ॥ मणीन्द्रसारसंयुक्तो वह्निशुद्धांशुकान्वितः ।
श्वेतचामरसंयुक्तो भूषितो दर्पणान्वितः ॥७२॥ सद्रत्नसारकलशो मालाहारविराजितः ।
सहस्रचक्रसंयुक्तो मनोयायी मनोहरः ॥७३॥ ग्रीष्ममध्याह्नमार्तण्डतुल्यतेजाः सुदर्शनः ।
मुक्तामाणिक्यवज्रादिहीरकैश्च समुज्ज्वलः ॥७४॥ चित्रपुत्तलिकापुष्पसरःकाननचित्रितः ।
रतियोग्यवधूयुक्तः शोभते रतिमन्दिरैः ॥७५॥ तत्र श्रीकृष्णसेवार्थं महामायाऽपि तिष्ठति ।
स्वर्णसारातिसत्कान्तिरत्नालङ्कारभूषिता ॥७६॥ महातेजोऽधिककान्ता प्रभावारिधिसदृशी ।
सहस्रभुजसंयुक्ता नानाऽऽयुधादिधारिणी ॥७७॥ ईषद्धास्यप्रसन्नास्या कृष्णकेलिकृते स्थिता ।
गण्डस्थलकपोलस्थस्वर्णरत्नसुकुण्डला ॥७८॥ रत्नेन्द्रसाररचितक्वणन्मञ्जीरमञ्जुला ।
सन्मणिनद्धसौवर्णरशनाकटिशोभिता ॥७९॥ रत्नाक्तस्वर्णकटककेयूरशृङ्खलान्विता ।
मन्दारकल्पप्रसूनमालाराजिविराजिता ॥1.122.८०॥ नितम्बकठिनश्रोणीकर्कशस्तनभङ्गुरा ।
शरत्पार्वणचन्द्रास्या तेजःपरिधिसूज्ज्वला ॥८ १॥ सत्कज्जलरक्तरेखान्वितपङ्कजलोचना ।
चान्दनकैसरद्रव्यकृतपत्रललाटिका ॥८२॥ मुक्तादाडिमकुन्दाभशुभ्रदन्तविराजिता ।
विभिन्नपुष्पकबरीयुक्तधम्मिलमन्थरा ॥८३॥ शुकगरुडचञ्च्वाभनासानिम्नत्वशोभिता ।
सामुद्रफेनसैंहादिमौक्तिकधृतमालिका ॥८४॥ उज्ज्वलाम्बरकञ्चुकीस्वर्णतारसुचन्द्रका ।
कृतोर्ध्वतिलका देव्यस्तथान्याः सन्ति सेवने ॥८५॥ रुक्मिणी सत्यभामा च तथा जाम्बवती प्रिया ।
कालिन्दी मित्रविन्दा च सत्यभामा तथाऽपरा ॥८६॥ भद्रा च लक्ष्मणा चेति महिष्यस्तत्र सन्ति वै ।
शतं षोडशसाहस्रं पत्नीनां मण्डलं महत् ॥८७॥ कृष्णसेवां प्रकुर्वद्वै राजते कृष्णसन्निधौ ।
अन्यासामपि नान्तोस्ति सर्वं कृष्णवशं जगत् ॥८८॥ एकविंशत्यब्जगोप्यः कृष्णस्यैव भवन्ति वै ।
अन्याश्चापि न सङ्ख्याताः सर्वं तद्दास्यवद्यतः ॥८९॥ त्रयस्त्रिंशद्वयस्याश्च ह्यष्टपट्टाङ्गनास्तथा ।
राधा चेति प्रमुख्या वै भवन्ति गोकुले प्रियाः ॥1.122.९०॥ वसुदेवो देवकी च नन्दो यशोवती तथा ।
उद्धवः सात्यकिर्गर्गोऽक्रूरश्चान्ये च सात्वताः ॥९ १ ॥ गोकुले तु प्रहारे- तत्तत्प्राकारभूमिषु ।
सोद्यानेषु महादिव्यप्रासादेषु वसन्ति वै ॥९२॥ कृष्णसमानसम्भोगा न किञ्चिन्न्यूनमस्ति हि ।
कृष्णाश्रितसखीनां तु भ्रमणार्थं महान्रथः ॥९३॥ चतुर्योजनविस्तीर्णं ऊर्ध्वे च पञ्चयोजनः ।
शुद्धस्फटिकसङ्काशो रत्नसारविनिर्मितः ॥९४॥ अम्लानपारिजातानां मालाजालविराजितः ।
मणीनां कौस्तुभानां च भूषणेन विभूषितः ॥९५॥ अमूल्यरत्नकलशो हीरहारविराजितः ।
मनोहरैः परिष्वक्तः सहस्रकोटिमन्दिरैः ॥९६॥ सहस्रद्वयचक्रश्च सहस्रद्वयघोटकः ।
सूक्ष्मवस्त्राच्छादितश्च गोपीकोटिभिरावृतः ॥९७॥ किमन्यद्वर्णये तस्य कृष्णस्य श्रीहरेः प्रभोः ।
महानसानि रम्याणि भोज्यागाराणि यानि च ॥९८॥ स्नानागाराणि शृमगारभूषागाराणि यानि च ।
केल्यागाराणि मित्राणां सभागाराणि वै तथा ॥९९॥ नृत्यागाराणि च समाजोत्सवागारकाण्यपि ।
क्रीडागाराणि च विहाररत्यागारकाणि च ॥1.122.१००॥ शय्यागाराणि सुचन्द्रशालाः सहस्रभूमयः ।
यानि यान्येव सन्त्यत्र नान्यधामसु तानि वै ॥१०१ ॥ स्वयं श्रीहरिणा कृष्णरूपेण सुखदेन वै ।
सुखदानाय भक्तानां नारीणां तु विशेषतः ॥१ ०२॥ धृतं रूपं राजसं चामोघवीर्यं बलं हि तत् ।
तत्र किं नाम वक्तव्यं न्यूनं स्वल्पं च वा नहि ॥१० ३॥ परिपूर्णस्य सर्वत्र का नामाऽपूर्णतया भवेत् ।
इति ते कथितं देवि! किञ्चिद्गोलोकमण्डलम् ॥१ ०४॥ सर्वथा नैव वक्तुं वै चेष्टे कृष्णोऽपि तत् स्वयम् ।
य इमं कृष्णगोलोकं श्रोष्यति वा पठिष्यति ॥१ ०५॥ सुदुर्लभां दृढां भक्तिं श्रीकृष्णे स हि लप्स्यते ।
अणिमादिकसिद्धिं च सालोक्यादिचतुष्टयम् ॥१०६॥ इहैव कृष्णतुल्यत्वं वाक्सिद्धिं च यशो महत् ।
पुत्रं विद्यां कवित्वं च निश्चलां कमलां तथा ॥१ ०७॥ पत्नीं पतिव्रतां साध्वीं सुशीलां सुस्थिरां प्रजाम् ।
कीर्तिं च चिरकालीनां त्वन्ते कृष्णान्तिके गतिम् ॥१ ०८॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रत्नसिंहासनश्रीकृष्णराधिकातत्स्मृद्धिरथचतुर्भुजरूपसरस्वतीमहामायारूपमहालक्ष्मीराधाशत-
सहस्राष्टपट्टाङ्गनातत्सौधादिनिरूपणनामा द्वाविंशत्यधिकशततमोऽध्याय ॥१२२॥