११९

श्रीनारायण उवाच-
शम्भुः प्राह पुनर्देवीं श्रीहरेर्मण्डपोपरि ।
प्रासादं शृणु कल्याणि! न भूतो न भविष्यति ॥१ ॥ लक्षयोजनविस्तारः सहस्रयोजनोच्छ्रयः ।
सहस्रस्तम्भपङ्क्त्येका सहस्रपङ्क्तयस्तथा ॥२ ॥ कम्मानिकाचतुष्कीवत्सर्वत्र प्रोत्थिताः शुभाः ।
मध्ये महान् घूम्मटश्च दिक्षु चत्वार एव च ॥३ ॥ चतुष्कोणेषु चत्वारि शिखराणि लसन्ति वै ।
शिखराणि सप्त तं वै घूम्मटं ध्रुवमेत्य च ॥४ ॥ त्रीणि दक्षे च वामेऽपि त्रीणि मध्ये महत्तमम् ।
यत्कोल्यां मण्डपस्तत्र यदधः सिंहमासनम् ॥५ ॥ सौधोपरि कोष्ठलोऽपि सहस्रयोजनोच्छ्रयः ।
कोष्ठलोपरि शिखरं सार्धसहस्रयोजनम् ॥६ ॥ तत्र स्थिता पद्मशिला पञ्चशतसुयोजनम् ।
तत्र स्थलीशिला चास्ते शतयोजनमुच्छ्रया ॥७ ॥ तदूर्ध्वं दिव्यसौवर्णकलशाः शतमेव च ।
तदुपर्येककलशी ततस्तद्गरिमो मतः ॥८ ॥ तै वै पञ्चशतोच्छ्राया ध्वजदण्डस्ततः परम् ।
सहस्रयोजनोच्छ्रायो वंशश्चापि तथोच्छ्रयः ॥९ ॥ ध्वजस्तत्राऽऽमूलपुच्छं पञ्चशतसुयोजनः ।
सप्तरङ्गो द्विपुच्छश्च कोटिसूर्यसमोज्ज्वलः ॥1.119.१ ०॥ त एत चेतना मुक्ताः सेवार्थरूपधारिणः ।
चिह्नदेहाः सदा मुक्तास्तथा तिष्ठन्ति सेवने ॥१ १॥ शिखरे साङ्ख्ययोगिन्यो योगिन्यो दिक्षु सन्ति वै ।
सिंहाश्चान्ये नरसिंहा ह्यवतारा भवन्ति वै ॥१२॥ गवाक्षास्तत्र शिखरे मुक्ताक्षाः संवसन्ति वै ।
पुत्तलिकास्तथा चान्या मुक्तान्यः संवसन्ति ताः ॥१ ३॥ ध्वजदण्डे पाटलिका साध्वी मुक्ता तु सा मता ।
घण्टिण्यस्ताश्च मुक्तान्यो दिव्याः श्रीहरिसेविकाः ॥१४॥ दीपस्तत्र महादीपो महामुक्तो न चापरः ।
महतोऽपि महीयान्वै दीपः सर्वोत्तमो हि सः ॥१५॥ अन्येष्वपि तु शृङ्गेषु सर्वे मुक्ता वसन्ति वै ।
सौधोपरि घुम्मटोऽपि सहस्रयोजनोच्छ्रयः ॥१६॥ दिव्योऽयं वै महासौधो व्योमगस्तैजसः स्वयम् ।
यथेष्टश्रीहरेः कामाद्गच्छत्येव समन्ततः ॥१७॥ तत्रर्षीणां विमानानि कामगानि भ्रमन्ति वै ।
प्रदक्षिणां मन्दिरस्य तानि कुर्वन्ति भक्तितः ॥१८॥ दिव्याः शीतोष्णजलदा वह्निकुण्डाश्च शाश्वताः ।
अनित्याः शीतगन्धाश्च प्रकाशा दुग्धरूपिणः ॥१९॥ प्रदीपाः सत्यसङ्कल्पा उपस्कराश्च कामजाः ।
वस्त्रभोजनभूषादिपानवाहाश्च कामजाः ॥1.119.२० ॥ गृहा गृहोपसम्पत्तिः सेवकाः सेविकास्तथा ।
दिव्या दिव्यवपुष्मन्तो मुक्ता मूर्तय एव ते ॥२१॥ महासौधे स्वकं रम्यं सिंहासनं तु मध्यगे ।
तत्पार्श्वे धर्मदेवस्य भक्तेश्च वसतिर्ध्रुवा ॥२॥ वामपार्श्वे तु मुक्तेश्च रतेश्च वसतिर्ध्रुवा ।
ज्ञानस्य धर्मपार्श्वे तु विरक्तेर्वसतिर्ध्रुवा ॥२३॥ मुक्तिपार्श्वे उपास्तेश्चाऽऽज्ञायाश्च वसतिर्ध्रुवा ।
आज्ञापार्श्वे मुमुक्षायाः प्रपत्तेर्वसतिर्ध्रुवा ॥२४॥ ज्ञानपार्श्वे कथायाश्च वार्ताया वसतिर्ध्रुवा ।
वार्तापार्श्वे दासताया दीक्षाया वसतिर्ध्रुवा ॥२५॥ इतिसप्तशिखराऽधोवासस्ते कीर्तितो मया ।
घुम्मटे वर्तुलं प्रदक्षिणायां गोत्रमण्डलम् ॥२६ ॥ सप्तकुटुम्बकौटुम्बितत्तद्वासा भवन्ति वै ।
वर्तुलगोपुरे विद्या परा तदाप्यते यया ॥२७॥ वर्तुलस्तु महान्स्वर्णदिव्यप्राकार उच्यते ।
परितस्तत्र राजन्ते सौधा अनादिमुक्तजाः ॥२८ ॥ नित्यं तेषां तु सौधास्ते विमानानीव चेतनाः ।
कामगाः कामचारास्ते सर्वस्मृद्धिप्रपूरिताः ॥२९॥ भोज्यपानविलेपार्घ्यसर्वरससुखाश्रयाः ।
तेजस्विनः सदा दिव्या मुक्ताः श्रीहरिरूपिणः ॥1.119.३० ॥ यथेष्टसर्वसामर्थ्या यथेष्टोत्पादभावनाः ।
तेषां नामानि वक्ष्ये त्वां शृणु पार्वति सुस्थिरा ॥३१ ॥ गुणातीतश्च गोपालो ब्रह्म मुक्तः शुकः शत ।
सुव्रतो निष्कुलो भूमा विधाता वासुदेवकः ॥३२॥ नित्योऽचिन्त्यश्च शान्तश्च कृष्णस्त्यागः कृपस्तथा ।
परहंसो विरागश्चिन्मयश्चाक्षर ईशनः ॥३ रे ॥ स्वप्रकाशश्च कैवल्यो विरक्तश्चेतनस्तथा ।
चिद्रूपश्व नरश्चैव श्रीचरणश्च पावनः ॥३४॥ धीरो महापूरुषश्च शिवश्चाधार एव च ।
चैतन्यो वैष्णवो विश्वात्मको निर्गुण एव च ॥३५॥ सूरिः कल्याण ईशेशो ह्यरूपोऽमृत एव च ।
गोपः पद्मधराः श्वेतो वैकुण्ठो देव इत्यपि ॥३६॥ प्रकाशश्च प्रसादश्च सुधर्मश्च सुखश्रयः ।
सुखरूपश्च सन्तोषो ज्ञानो विजय इत्यपि ॥३७॥ बद्रिकश्च निवृत्तश्च नयो ध्यानश्च शान्तनुः ।
शमः सुखो महासुखोऽचिन्त्योऽमोघः प्रमोदकः ॥३८ ॥ गवेन्द्रोऽनुभवश्चादित्योऽचलो विश्वरूपकः ।
प्रज्ञो बोधश्च वेदान्तो मुकुन्दः क्षेम इत्यपि ॥३ ९॥ पुण्डरीको विधाता चाऽग्राह्यः शाश्वत इत्यथ ।
ध्रुवोऽमेयः पवित्रश्च स्थविष्ठश्च ऋषीककः ॥1.119.४० ॥ प्रभूतो नियमो योगो जगदीशो दयालयः ।
सुरो धर्मो मुनिर्नारो बलभद्रः प्रकाशनः ॥४ १ ॥ सिद्ः सुखकरश्चैव विश्रामः केशवस्तथा ।
कपिलः स्वयशो द्रष्टा सज्जनः साङ्ख्य इत्यपि ॥४२॥ भास्करश्च प्रभश्चापि ऋषभः सगुणस्तथा ।
निर्द्वन्द्वश्च नृसिंहश्च विदेहो देव इत्यथ ॥४३ ॥ निरालम्बश्च विश्वासो निर्विकारः प्रदीपनः ।
निरपेक्षो निरन्नश्च सत्त्वो लक्ष्मण इत्यपि ॥४४॥ निर्मोहो भूधरश्चैव भद्रो मानद् इत्यपि ।
हंसः प्रद्युम्न आनन्दो मञ्जुलश्च प्रतोषणः ॥४५॥ भजनो निर्मलः शान्तः प्रशान्तो धन्य इत्यथ ।
सविता धरणः सुज्ञः सत्येशो ज्योतिषस्तथा ॥४६॥ प्रबोधश्च प्रभुश्चैव पद्मः तापस इत्यपि ।
तुरीयश्च स्वरूपश्च विवेको वामनस्तथा ॥४७॥ निवासो मङ्गलश्चैवाऽक्षयः सुव्रत एव च ।
अभेदश्च तुरीयश्च क्षेमकश्च दृढव्रतः ॥४८ ॥ निर्विशेषो विचारश्च जिष्णुर्मधुश्च वैष्णवः ।
अव्ययो मुक्तिगश्चैव वरद संशितस्तथा ॥४९॥ वल्लभश्च सुपर्णश्च विश्वध्रो दुर्लभस्तथा ।
धनश्चैव प्रसादश्च श्यामश्च दहरस्तथा ॥1.119.५० ॥ ऐश्वर्यश्चावदातश्च राधश्च धर्मरूपणः ।
व्रजो भागवतो बालः उपशमश्च स्वस्तिकः ॥५ १ ॥ सङ्कर्षणः श्रीधरश्चामृतो यज्ञो हिरण्यकः ।
ईशानः प्रभवः पूतो भूगर्भः प्राणदः प्रणः ॥५२॥ संवत्सरः कृतः शिवः कृतज्ञश्च सुरेश्वरः ।
बुधो वृषो वसुः साम गुणोऽध्यक्षः प्रवेदनः ॥५३॥ लोको व्यूहः सर्वगश्च भ्राजिष्णुश्चरणस्तथा ।
सहिष्णुश्चतुरोऽनघश्चोर्जितः कारणस्तथा ॥२४॥ उपेन्द्रश्च धृतश्चैव सत्त्वः सात्त्वत इत्यपि ।
उत्साहो विश्रुतश्चैवाऽनिर्देशश्चाऽनिमेषणः ॥५५॥ उदारश्च सुभूषश्चाऽनिलश्च विक्रमस्तथा ।
सत्कारः संवृतो वृत्तो विशिष्टः सिद्धिमाँस्तथा ॥५६॥ वर्धनश्च विविक्तश्च बृहद्रूपः पृथुःश्रवः ।
अशोकश्च सुदामश्च सानुकूलोऽतुलस्तथा ॥५७॥ आदिदेवः श्रीगर्भश्च निर्वाणो भाजनस्तथा ।
व्यवसायश्च सन्तोषो विरामो नन्द इत्यथ ॥५८॥ स्थिरः सुदर्शनश्चैव विशालो दक्ष इत्यपि ।
धर्मयूपस्तथेज्यश्च मखः सूक्ष्मः प्रमाणकः ॥५९॥ ब्रह्मण्यो वत्सलश्चैव शुभाङ्गश्च पुरातनः ।
सन्धानश्च प्रमोदश्च नन्दनश्च सुपुण्यकः ॥1.119.६० ॥ दुर्जयः कुमुदश्चैव सुलभः शुद्ध इत्यपि ।
योगीशश्च सुविद्यश्च साक्ष्यो धनञ्जयस्तथा ॥६ १ ॥ अखण्डश्च त्रिलोकश्च सुहृद् भूमा हिरण्मयः ।
भवो भावः क्रतुश्चैव समाराधन इत्यपि ॥६२॥ वत्सलो वात्सलश्चैव सुस्नेहश्च कुबेरजित् ।
सोमोऽलर्कश्च शूरश्च मन्त्रो मञ्चश्च मूलजित् ॥६३॥ तिलकः कुण्डलश्चैव किरीटः कटकोंऽगदः ।
नक्तकः कौस्तुभश्चैव प्रावारः कञ्चुकस्तथा ॥६४॥ इत्येवं पार्षदास्तत्र प्राकारे कृतसंश्रयाः ।
सदा तिष्ठन्ति सौधेषु प्रथमावरणे हि ते ॥६५॥ अनादिनश्च ते मुक्ता वसन्ति हरिसेविनः ।
असङ्ख्याताश्च ते सन्ति द्वितीयाऽवरणेऽपि च ॥६६॥ सर्वे मूर्तिसमाकारा मूर्तितुल्यैश्वराश्च ते ।
सर्वे पश्यन्ति साम्येन श्रीहरेर्मन्दिरं करे ॥६७॥ न न्यूनाधिकभावोऽस्ति तत्रैश्वर्यादिसद्गुणे ।
यथेच्छन्ति भवन्त्येव नित्यसार्वज्ञ्यचाक्षुषाः ॥६८॥ कोटियोजनविस्तारः प्राकारः प्रथमो हि सः ।
अब्जयोजनविस्तारः प्राकारो द्वित्वसङ्ख्यकः ॥६९॥ परार्धयोजनायामः प्राकारस्तु तृतीयकः ।
तत्र चेश्वरलोकेभ्यो गता मुक्त वसन्ति वै ॥1.119.७०॥ तुर्यः परार्धगुणितपरार्धयोजनायतः ।
प्राकारस्तत्र मुक्तानां गतानां सन्ति सृष्टयः ॥७१॥ ततस्तु पञ्चमं तत्रावरणं स्यादनन्तकम् ।
असीमं तत्र गोलोको वैकुण्ठोऽमृत इत्यपि ॥७२॥ अव्याकृतस्तथा श्वेतो बद्रिकाश्रम इत्यपि ।
मात्स्यलोकः कूर्मलोको वाराहो लोक इत्यपि ॥७३॥ कापिलं धाम हारेयं वासुदेवगृहं तथा ।
पार्थवं च पदं दत्तात्रेयधाम च हांसकम् ॥७४॥ नृहरेर्धाम च यद्वदार्यमं वामनेयकम् ।
परशुरामलोकश्च याज्ञं साकेतमित्यपि ॥७५॥ कौमारं धाम च हायग्रीव नारदधाम च ।
राजराजेयधामानि व्यासाश्रयाणि यान्यपि ॥७६॥ बौद्धं धाम तथाऽन्यान्यसङ्ख्यधामानि सन्ति वै ।
अनन्ता ह्यवताराश्चानन्ता ब्रह्माण्डकोटयः ॥७७॥ अनन्तसृष्टयस्तत्रावताराणां न सङ्ख्यनम् ।
अतस्तत्तद्धाम्नां वै सङ्ख्या नैव च नैव च ॥७८॥ पञ्चमावरणस्यापि सङ्ख्या नैव च नैव च ।
तत्रारण्यानि नद्यश्च पार्वता मुक्तकोटयः ॥७९॥ उद्यानानि विहाराणि भूमयोऽक्षरसञ्ज्ञिकाः ।
धातवः खनयः खाता उच्छ्रयाः शिखराणि च ॥1.119.८०॥ विमानान्येव सर्वाणि तत्तत्सेवकजातयः ।
गान्धर्वा नर्तकास्तत्राऽऽख्यानका वंशबोधकः ॥८ १॥ सेवका याज्ञिका साम्नां स्तावको व्यवसायकाः ।
कलाकाराश्च श्राङ्गारा मुक्तानीमुक्तमण्डलाः ॥८२॥ असङ्ख्याता न सङ्ख्यातुं कोऽपि नारायणमृते ।
सोऽपि प्राह मम धाम्नो मुक्तानां नास्ति सङ्ख्यनम् ॥८३॥ अवताराणां च धाम्नां नैवाऽस्ति गणनं तथा ।
एवं दिव्येऽक्षरे धाम्नि विभूतौ त्रिपदि प्रथे ॥८४॥ वर्तन्ते धामधामानि श्रीहरेर्लीलया ततः ।
महामायाकृता सृष्टिर्भवन्तीश्वरकोटयः ॥८५॥ नान्तो नान्तं वर्णनेऽपि कर्तुं शक्यो हि कश्चन ।
कथमहं तदन्तेन वर्णनं पारयामि वै ॥८६॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीहरिप्रासादपरिकरतत्प्रावरणतन्मुक्तपार्षदतदवतार-धामादिसामान्यविशेषोद्देशनामा एकोनविंशा-
धिकशततमोऽध्यायः ॥११९ ॥