११८

श्रीनारायाण उवाच-
शम्भुः प्राह ततो देवीं ब्रह्मधामविभूतिकाः ।
कथयिष्ये समासेन शृणु पर्वतपुत्रिके! ॥१ ॥ अक्षरं धाम परमं ब्रह्मव्योम परं सदा ।
राजते तद्धि सर्वत्र श्वेततेजोमयः स्तरः ॥२ ॥ यावन्तस्तारकाः सर्वे सूर्याः स्युर्दिवि संस्थिताः ।
पृथ्वी सृष्टिसुयुक्ता च दिव्यकाचमयी भवेत् ॥३ ॥ परस्परं च तद्योगाद्यादृशं तेजउद्भवेत् ।
तादृशं तु घनं तेजो महत् सत्ये तु वेधसः ॥४ ॥ तादृग्वेधस्तरात्सत्यात् कोटिगुणं तु तैजसम् ।
वैराजैककण्ठमणौ वर्ततेऽथ ततोऽपि वै ॥५ ॥ कोटिगुणं महत्तेजो महाविष्णोः शिरोमणौ ।
ततः कोटिगुणं तेजो वासुदेवस्य वै मणौ ॥६ ॥ तादृशाश्चाप्यनन्ताश्च मणयोऽव्याकृते स्तरे ।
बदर्याममृते श्वेते श्रीपुरे च विकुण्ठके ॥७ ॥ गोलोके चेति तेजांसि तेषामादाय पिण्डकम् ।
कुर्याच्चेत्तत्त्वक्षराख्यधाम्नः पूगीफलस्थले ॥८ ॥ लीनतां तु समीयाद्वै पूर्णं तत्कीदृशं भवेत् ।
तादृशाक्षरधाम्नश्च मुक्तानां तेजसां तथा ॥९ ॥ समूहो लीनतां गच्छेच्छ्रीहरेरेकरोम्णि यत् ।
तदा पूर्णहरौ तत्र तेजः कीदृग्भवेन्महत् ॥1.118.१० ॥ अपि शक्यं नानुमातुमगम्यं तेज ऐश्वरम् ।
अहन्तु नहि साक्षाद्वै द्रष्टा किन्तु समाधिना ॥१ १॥ ब्रह्माण्डपिण्डब्रह्माख्यधामगं श्रीहरिं प्रभुम् ।
एकीकृत्यात्मनि स्वस्मिन्पश्याम्यलौकिकेन वै ॥१२।
तत्तदा सन्निकर्षेण दृश्यतेऽपारमेव यत्॥ मन्तुं चिन्तयितुं बोद्धं नैनं शक्यमगोचरम् ॥१३ ॥ कथं तर्हि भवेद्वक्तुं शक्यं चावैहि सुन्दरि! ।
तादृशोऽनन्ततेजस्वी तथाऽसीमगुणार्णवः ॥१४॥ सौन्दर्यरूपसौम्येषद्धास्याऽपारमहोदधिः ।
कोटिमुक्तचकोराऽक्षिस्थिरवृत्त्येकचन्द्रमाः ॥१५॥ राजाधिराजो भगवान् परमात्मा परात्परः ।
विराजते महासिंहासने षोडशहायनः ॥१६॥ रूपानुरूपावयवो मन्दहास्यलसन्मुखः ।
कोटिकोट्यर्कचन्द्राग्निलीनमाणिक्यकुण्डलः ॥१७॥ असङ्ख्यमणिरत्नादिनद्धकिरीटकल्गिकः ।
दिव्यहीरकसद्रत्नाऽमूल्यहाटकहारधृक् ॥१८॥ यावत्तेजःखनिव्रातिकौस्तुभौज्ज्वलकण्ठकः ।
नैकतेजःप्रसरत्सत्किरणोद्भवमण्डकः ॥१९॥ दिव्यप्रकाशसंराजन्मध्यभालसुभास्वरः ।
मेघघट्टसदानीलक्लृप्तकेसरकुन्तलः ॥1.118.२०॥ नैककामकृतवक्रधनुःप्रान्तभ्रुवान्वित ।
स्वर्णसूक्ष्मनिमेषाढ्यपुटरोमालिनेत्रकः ॥२१॥ दिव्यश्वेतस्फटिकाग्र्यसत्कोणनेत्रगोलकः ।
रक्तसूक्ष्मसुकिञ्जल्कभासवत्पार्श्वनायनः ॥२२॥ मध्यदिव्यघट्टरूपस्फुरत्तेजस्विकृष्णिकः ।
तत्रापि ग्राह्यसामर्थ्यस्फुरत्कृष्णकनीनिकः ॥२३ ॥ शरत्सरोजपत्राभाऽऽकर्णान्तव्यासनेत्रकः ।
कोमलसप्तवलयशष्कुलीपीतकर्णक ॥२४॥ दिव्यपुरटसत्फुल्लचम्पकशृङ्गलाश्रवाः ।
गोलफुल्लाढ्यकार्पासपिण्डकोमलगण्डकः ॥२५॥ तिलपुष्पपिशङ्गद्विपुटनतान्तनासिकः।
सूक्ष्मस्वर्णतन्तुकल्परेखाराजितश्मश्रुकः ॥२६ ॥ मध्याग्राणिकवक्रान्तधनूरेखोत्तरौष्ठकः ।
प्रेमपात्रसरिन्मूर्तिकामस्थानाऽधरौष्ठकः ॥२७॥ रक्तस्थलाब्जपत्राभरससेतूभयौष्ठकः ।
अबहिरचिपीटाग्रनिम्नसुघटचीबुकः ॥२८॥ कुन्दशुभ्रसुतीक्ष्णाग्र्याऽविरलस्थिरदन्तकः ।
रक्तरसाढ्यदाडिमबीजचञ्चद्दन्तस्थलिः ॥२॥ स्वर्णमुख्यमणिप्राप्तशङ्खतुल्यकृकाटिकः ।
मेरुमूलसमस्थूलारम्भद्युधरकन्धरः ॥1.118.३ ० ॥ युगचन्द्रकलाव्यस्ताऽऽस्कन्धाधिष्ठितजत्रुकः ।
तत्त्वपूरबलाऽऽबद्धोन्नतस्कन्धसुपुष्टकः ॥३१ ॥ योगिध्यानसदायोग्यरोमद्रुकुक्षिकन्दरः ॥ शेषभोगसमाकारस्वर्णपुष्टसुबाहुकः ॥३२
चित्सुपुष्टलसद्रक्तकञ्चनाभोभसद्भुजः ।
ध्रुवचक्रभ्रमिबिन्दुस्थिरकीलकफोणिकः ॥३ ३ ॥ क्रमवृत्तपुष्टतनुसुघटोभयहस्तकः ।
धृतकार्तस्वरसौम्यशृङ्खलाकटकाङ्गदः ॥३४॥ रत्नहीरकमण्याढ्योर्मिकाभूषाञ्चिताङ्गुलिः ।
नखचन्द्रस्फुरत्कान्तिद्योतिसद्भक्तमण्डलः ॥३५॥ सुपेशलसुरङ्गाढ्यमखमल्लाङ्गरक्षकः ।
स्वर्णप्रान्तकृतशोभोत्तरीयाऽभ्यन्वितांऽसकः ॥३६॥ दिव्यराजत्स्वर्णरेखश्रीवत्सोरःसुलाञ्छनः ।
सप्तविंशतिस्रक्क्लृप्तस्वर्णमण्याढ्यमेखलः ॥३७॥ ब्रह्मकूपसमानाभिप्रसरत्त्रिवलोदरः ।
क्रमवृत्तकरिशूण्ढोज्ज्वलकामाढ्यसक्थिकः ॥३८ ॥ करिकुम्भरचनार्हपुष्टगद्दिकश्रोणिकः ।
अष्टसिद्ध्यक्षयवीर्यसमवर्तुललिङ्गकः ॥३९॥ युवतीव्रातमध्वत्यानन्दरसरतिप्रदः ।
स्वर्णरोमावलीराजत्स्वर्णवर्णपटोदरः ।
समवर्तुलशोभाढ्य कठिनोज्ज्वलजानुकः ॥1.118.४० ॥ पुष्टतनुनालीपश्चिमाऽस्थितार्हसुजङ्घकः ।
अन्तरेकबहिःसत्त्रिघूटिकामणिबन्धनः ॥४ १ ॥ उपमुक्तिकृतनिम्नोऽधोधनुर्दण्डवक्रपत् ।
स्वर्णरक्तनखकान्तिचन्द्रसच्छविशोभनः ॥४२॥ पुष्टिपृष्ठः स्वस्तिगुप्तश्चोत्तमोत्तममूर्तिकः ।
विराजते महाधाम्नि हरिः सिंहासनस्थितः ॥४३ ॥ सर्वैश्वर्यक्रियाशक्तिज्ञानयोगादिभिर्युतः ।
सिंहासनं चतुष्पादं पौरटं च सुशोभितम् ॥४४॥ सप्तसोपानकं चास्ते कम्मानिकाऽभितोलितम् ।
मखमल्लमहागद्दीपार्श्वतक्कीयराजितम् ॥४५॥ उपरि सन्धृतं छत्रं शलाकाविंशतिवृतम् ।
पौरटं कोमलं दिव्यं वस्त्रं छत्रे नियोजितम् ॥४६॥ स्वर्णनिर्मितकलशं रत्नाद्यञ्चितदण्डकम् ।
परितो मणयो बद्धाः स्वर्णकिङ्कणिकास्तथा ॥४७॥ समन्ततः सप्तरूपिदिव्यझल्लरिकायुतम् ।
चामरे तद्भवे श्वेते व्यजनो दर्पणस्तथा ॥४८॥ दिव्या मुक्तास्तथा सन्ति सेवाधर्मसुसंस्थिताः ।
छत्रोपरिमहामुक्तः सहस्रफणराजितः ॥४९॥ महद्रूपं फणी धृत्वा फणाभिः कृद्वितानकः ।
सेवते श्रीहरिं पश्चात्तिष्ठन्धामनिभो महान् ॥1.118.५०॥ तत्र सिंहासने पश्चाद्भागे दिव्यमहापटः ।
स्वर्णतन्तुमयो मुक्तश्चित्ररङ्गादिसेवनः ॥५१॥ कमलाकारमग्र्यं यत्स्तम्भा दिव्यास्तथा स्थिताः ।
मुक्तानां च मणीनां च मण्डलानि च तेषु वै ॥५२॥ सच्चिदानन्दरूपाश्च शुकसारसमेनकाः ।
वृक्षवल्ल्यादयस्तत्र स्तम्भेषु कृतसुस्थलाः ॥५३॥ शोभन्ते चेतनाः सर्वे परब्रह्मप्रसङ्गिनः ।
चित्रशिल्पकलारम्यं पीठिकाकोमलास्तरम् ॥५४॥ तेजोवार्धिरिव दृश्यं रत्नकोटिविराजितम् ।
नखचन्द्रमणिकान्तिद्योतितानन्तमुक्तकम् ॥५५॥ सिंहासनं स्वयमक्षराख्यं धाम न चेतरत् ।
तत्र मूर्तौ महातेजःपरिधिर्वर्तुलो महान् ॥५६॥ मिष्टशैत्यसौम्यतेजोऽनन्तगोव्याप्तपार्श्वकः ।
सप्तरूपः सप्तभूमिः परिधिः सोपि मुक्तकः ॥५७॥ दशदिक्षु हरेस्तेजो महासिंहासनेऽभितः ।
व्याप्नोत्येव न चाऽऽन्तोऽस्ति गावस्ता भूरिशृङ्गिकाः ॥५८॥ यत्र सिंहासने तद्वै मण्डपः समयोजनः ।
तत्र दिव्यमहास्तम्भा ह्यक्षराः कदलीकृताः ॥५९॥ हरिद्वर्णा हरित्पत्रा हरित्कदलमङ्गलाः ।
शतस्तम्भाः स्वर्णवर्णा वस्त्रवेष्टितशोभनाः ॥1.118.६०॥ तेषां कम्मानिकाः शिल्पकलाव्याप्तिविचित्रिताः ।
नानाविधा गजाः श्वेताः मकरा हंससारसाः ॥६१ ॥ मेनाशुकश्वेतपारावतचक्रकचातकाः ।
सर्वे मुक्ता भवन्त्येव सच्चिदानन्दविग्रहाः ॥६२॥ दिव्यसुस्वरमाधुर्यकृतगीतिकमङ्गलाः ।
तत्रत्यसंस्कृतवाण्या गायन्ति गुणकीर्तनम् ॥६३॥ नैककोटिमहामुक्तमण्डलानि तु मण्डपे ।
प्रतिष्ठन्ति स्थले भूमौ मध्ये चोपरि चान्तरे ॥६४॥ सृष्टिसृष्ट्यन्तरे यानि रूपाणि सन्धृतानि वै ।
हरिणा तानि सर्वाणि मण्डपे स्थापितानि हि ॥६५॥ शोभन्ते विविधाकारा विविधैश्वर्यचिह्नकाः ।
तत्तज्जन्माऽवतारादिचरित्रोद्बोधहेतयः ॥६६॥ वृत्तान्तबोधकाकारा भगवन्तो विभूतयः ।
सर्वे तिष्ठन्ति तत्रैव मण्डपाग्रोर्ध्वमध्यतः ॥६७॥ तत्रत्या मुक्तमूर्धन्याः सूर्यचन्द्रादिदर्पणाः ।
भूत्वा भूत्वा तेषु तेषु स्तम्भेषु संवसन्ति वै ॥६८॥ उल्लेचस्तत्प्रमाणाढ्यो यत्र मुक्तात्मतारकाः ।
लग्नाः सम्यक्प्रकाशन्ते शीतकान्तिप्रवर्तकाः ॥६९॥ मुक्ताश्च तोरणास्तत्र मणिहीरकरूपकाः ।
काचकान्तिकरा नैकदिव्यदीपकचन्द्रकाः ॥1.118.७० ॥ ऊर्ध्वमधस्तथा पार्श्वे दिक्षु सर्वविदिक्षु च ।
मण्डपात् किरणा यान्ति प्रोज्ज्वला व्योममार्गगाः ॥७ १ ॥ तादृशो मण्डपस्तादृक् सिंहासनमथापि वा ।
नान्यधामसु विद्येते का वर्ण्या तच्चमत्कृतिः ॥७२॥ शोभा दिव्यापि नान्यत्र न वर्ण्या जायते मया ।
मण्डपोपरिप्रासादः श्रीहरेस्तं शृणु प्रिये! ॥७३॥ इतिश्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्तानेऽक्षरधामस्थपरब्रह्मतत्सिंहासनतन्मण्डपवर्णननामाऽष्टादशाधिकशततमोऽध्यायः ॥१ १८॥