श्रीनारायण उवाच-
शम्भुः प्राह ततो देवीं पार्वतीं स्वप्रियां प्रिये! ।
श्रुणु शैत्याद्रिसत्पुत्रि! महिमानं तथाऽपरम् ॥१ ॥
ऊर्ध्वपुण्ड्रस्य संवक्ष्ये धारणान्मुक्तिरिष्यते ।
ऊर्ध्वं ब्रह्मपरं लोकं पुंसे दद्याद् विमुक्तये ॥२ ॥
रक्षयेच्च जगद्बन्धात्तदूर्ध्वं पुण्ड्रमीरितम् ।
मध्ये तु चन्द्रकं लक्ष्मी पुण्ड्रे देवो जनार्दनः ॥३ ॥
द्वयोर्वासो ललाटाग्रे यस्य सोऽक्षयमोक्षभाक् ।
तस्यैव दर्शनात्प्रातर्ज्वलन्ति त्वघपर्वताः ॥४ ॥
यस्य देहे चोर्ध्वपुण्ड्रं स नारायणमन्दिरम् ।
ऊर्ध्वपुण्ड्रललाटस्य सर्वतीर्थफलं भवेत् ॥‘९ ॥
सर्वयज्ञफलं चापि चेष्टापूर्तफलं भवेत् ।
सर्वदानफलं चाथ सर्वयोगफलं भवेत् ॥६ ॥
ऊर्ध्वपुण्ड्रललाटं वै दृष्ट्वा पापैः प्रमुच्यते ।
नमस्कृत्य विमानस्थो याति ब्रह्मपदं परम् ॥७ ॥
श्राद्धे चोर्ध्वपुण्ड्रधरं भोजयिष्यति यो जनः ।
आकल्पकोटि पितरस्तृप्ता हृष्टा भवन्ति वै ॥८ ॥
सोर्ध्वपुण्ड्रधरादेवकृतश्राद्धे गयाफलम् ।
यज्ञदानजपातिथ्यसत्क्रियाहोमतापनम् ॥९ ॥
सोर्ध्वपुण्ड्रभक्तकृतं तस्य पुण्यमनन्तकम् ।
ऊर्ध्वपुण्ड्रविहीनेन कृतं यज्ञादिकं वृथा ॥1.115.१ ०॥
अनूर्ध्वपुण्ड्रको देहः श्मशानसदृशो भवेत् ।
अनूर्ध्वपुण्ड्रकस्यात्र पुण्यं सन्ध्याहिजापनम् ॥११ ॥
हरन्ति राक्षसास्तद्वै स्वयं दोषेण लिप्यते ।
अनूर्ध्वपुण्ड्रको यायान्नैजपापाद्यमक्षयम् ॥१२॥
सकेसरसुगन्धाढ्यचन्दनेनाऽथवा मृदा ।
पाण्डुरया पिशङ्ग्या वा कुङ्कुमेनाऽथवा क्रियात् ॥१३॥
ललाटभूषणं तद्वै चतुर्धा बोध्यमेव ह ।
ऊर्ध्वपुण्ड्रं च पुण्ड्रं च पट्टपुण्ड्रं त्रिपुण्ड्रकम् ॥१४॥
ऊर्ध्वपुण्ड्रं द्विरेखं स्यादेकरेखं तु पुण्ड्रकम् ।
पट्टस्थूलं पट्टपुण्ड्रं सुप्तत्र्यङ्कं त्रिपुण्ड्रकम् ॥१९॥
देवादिपूजने दैवकार्ये द्विरेखमादृतम् ।
राज्याभिषेकप्रभृतौ तिलकं दीपवत्स्मृतम् ॥१६ ॥
अशून्यकललाटार्थं पट्टाकारमहर्निशम् ।
शृङ्गारहासलिङ्गादिपूजने तु त्रिपुण्ड्रकम् ॥१७॥
चान्दनं चोर्ध्वपुण्ड्रं वै कौङ्कुमं तिलकं मतम् ।
श्वेतमृदा तु पट्टाख्यं भस्मना तु त्रिपुण्ड्रकम् ॥१८ ॥
विष्णुभक्तैर्मानवैर्वै कार्यमूर्ध्वं तु पुण्ड्रकम् ।
एकान्तिनो महाभागवतास्तु सात्त्वताः सदाः ॥१९ ॥
कुर्वन्ति सान्तरालं तदूर्ध्वं हरिपदाकृति ।
मध्ये सचन्द्रकं तद्वै श्रीहरेर्मन्दिरं स्मृतम् ॥1.115.२० ॥
ऋजु सौम्यं सुशलाकं मनोहारि सुशोभनम् ।
तनुरेखं केसरं तदूर्ध्वपुण्ड्रं सचन्द्रकम् ॥११ ॥
नरनारीभिराधार्यं दर्शने मङ्गलावहम् ।
सान्तराले चोर्ध्वपुण्ड्रे मध्यकुङ्कुमचन्द्रके ॥२२॥
मध्ये लक्ष्म्या संयुक्तः श्रीहरिस्तत्र विराजते ।
निरन्तरालात्त ततः सश्रीहरिर्निवर्तते ॥२३ ॥
निरन्तरालं निःश्रीकं सान्तरालं श्रियाऽन्वितम् ।
मृदं र्पिगतडागस्य वैकुण्ठाख्यह्रदस्य च ॥२४॥
श्वेतां पिशङ्गीं वाऽऽदाय कुर्यादूर्ध्वं तु पुण्ड्रकम् ।
तीर्थप्रासादिकीं भूमिं मृदामादाय शोधयेत् ॥२५॥
तुलसीमूलभूमेर्मृदूर्ध्वपुण्ड्रे प्रशस्यते ।
श्रीकृष्णेलाभुवश्चापि गङ्गायमीप्रतीरयोः ॥२६॥
गोमतीतीरभूमेस्तूर्ध्वपुण्ड्रं तीर्थपुण्यदम् ।
यज्ञाग्निहोत्रयोर्भस्म हरिक्षेत्रादिमृत्तिका ॥२७॥
कुङ्कुमंवापिकामृद्वै पावनी हरिणीसमा ।
बिल्वपिप्पलतुलसीवटामलक्युदम्बराः ॥२८॥
देववृक्षास्तदधोभूः पवित्रा तिलकार्हणा ।
नगाग्रस्था सरित्संस्था जलान्तःस्था च सिन्धुजा ॥२९॥
वल्मीकस्था मन्दिरस्था क्षेत्रस्था भूमिगर्भगा ।
देवस्नानजलैः सिक्ताऽरण्यस्था वृष्टिवाहिता ॥1.115.३ ० ॥
मृत्तिका सर्वतीर्थानां धाम्नां पुरीवनादिजा ।
हर्यवतारोद्भवभूर्भगवद्वासयोगिनी ॥३१ ॥
पावनी च तया कार्यमूर्ध्वपुण्ड्रं सुमोक्षदम् ।
कृष्णं नु शान्तिदं रक्तं वश्यकृन्मोक्षदं सितम् ॥३२ ॥
पीतं लक्ष्मीप्रदं प्रोक्तं धूसरं श्रीविनाशकम् ।
विच्छिन्नं वा बहुस्थूलं वक्रं तिर्यगदर्शनम् ॥३३ ॥
तथाऽसमान्तरालं च सूक्ष्मं वा विषमान्तरम् ।
ह्रस्वदीर्घादिरेखं च स्थूलसूक्ष्मादिरेखकम् ॥३४॥
प्रान्तलग्नान्तरव्यासं विच्छिन्नमूलकं तथा ।
अर्धं त्र्यर्धं लम्बमानं शुष्कं निस्तेज आततम् ॥३५॥
कुदृश्यं वर्तुलं चोर्ध्वपुण्ड्रं हानिकरं स्मृतम्।
नासामूलं समारभ्य भ्रुवोः संलग्नके तु वै ॥३६॥
द्वे रेखेऽङ्गुलविस्तारे आकेशप्रान्तके गते ।
नासामूले निम्नभागे द्वितीयाचन्द्रवद्युजे ॥३७॥
सम्पद्येतोर्ध्वपुण्ड्रं तद् ब्रह्मधामप्रदायकम् ।
ललाटे तु परब्रह्म लक्ष्मीनारायणं हृदि ॥३८॥
दक्षे बाहौ वासुदेवं वामे नरनरायणौ ।
स्मृत्वा विष्णुजलद्रावैर्द्रव्यैः कार्याणि सर्वदा ॥३९॥
नारायणं समुदरे गोविन्दं कण्ठकर्कटे ।
विष्णुं वै दक्षिणे पार्श्वे वामनं वामपार्श्वके ॥1.115.४० ॥
त्रिविक्रमं कन्धरे तु स्मृत्वा दामोदरं त्रिके ।
पृष्ठे स्मृत्वा पद्मनाभं वासुदेवं तु मूर्धनि ॥४१ ॥
एवं द्वादशपुण्ड्राणि महाभागवतश्चरेत् ।
ललाटे भुजयुग्मे च त्रिके कण्ठे च पृष्ठके ॥४२॥
चतुरङ्गुलकं मानं पार्श्वयोस्तु दशाङ्गुलम् ।
कन्धरे मूर्ध्न्युदरे वक्षस्यष्टाङ्गुलं क्रियात् ॥४३॥
सबीजं सान्तरालं तु श्रियाः कुङ्कुमचन्द्रयुक् ।
क्षत्रियाणां तु चत्वारि ललाटे भुजयोर्हृदि ॥४४॥
विशां भाले हृद्ये द्वे भालैकं शूद्रयोषितोः ।
गिरिजे! तव भक्तानामश्वत्थदलसदृशम् ॥४५॥
मम शम्भोस्तु भक्तानां पद्मकुड्मलसदृशम् ।
गणेशादिप्रभक्तानां वेणुपत्रादिसदृशम् ॥४६॥
हरेर्भागवतानां तद् ऊर्ध्वं हरिपदाकृति ।
किरणाकारमूर्ध्वं तु पुण्ड्रं मोक्षकरं सदा ॥४७॥
मध्ये हरिद्राकुङ्कुमबिन्दुर्लक्ष्मीनिवासभूः ।
भालमध्ये रेखयोरस्पृष्टो घट्टसमस्तरः ॥४८॥
हारिद्रः कौङ्कुमो बिन्दुश्चन्द्रवच्छ्रीप्रदः सदा ।
बिन्दूर्ध्वपुण्ड्रकौ बोध्यौ लक्ष्मीनारायणौ सदा ॥४९॥
भाले हृदि तथा बाह्वोर्यस्य तस्य जयः सदा ।
तच्छून्यस्य परे चात्राऽनुपदं तु पराजयः ॥1.115.५० ॥
इति ते कथितो गौरि । ह्यूर्ध्वपुण्ड्रादिनिर्णयः ।
नारायणेन मह्यं यः कथितः सर्वथा शुभः ॥५१॥
ब्रह्मविष्णुमहेशानां देवीदेवतपस्विनाम् ।
भक्ता ये स्वैरिणो भाव्या मनिष्यन्ते तु नर्मवत् ॥५२॥
ते तु नारीसमानास्याः कबरीकेशवेषिणः ।
भविष्यन्ति पुमांसोऽपि नारीश्राङ्गारिकक्रियाः ॥५३॥
नारीवद्वस्त्रधर्तारो नारीभावस्वदर्शकाः ।
नार्यो नरादिवेषस्था नररूपस्वदर्शिकाः ॥५४॥
स्वस्वधर्मादिहीनाः स्युः स्वस्वमोक्षस्य घातकाः ।
अचिह्नास्ते विचिह्ना वै यास्यन्ति नरकान्मुहुः ॥५५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ऊर्ध्वपुण्ड्रादिमाहात्म्यनिरूपणनामा पञ्चदशाधिकशततमोऽध्यायः ॥११५॥