११३

श्रीनारायण उवाच–
पार्वत्या वचनं श्रुत्वा वैष्णवश्च महेश्वरः ।

सम्प्रवक्तुं समारेभे तज्जिज्ञासानिवृत्तये ॥१ ॥ शृणु सति! प्रवक्ष्यामि विष्णुं भजेऽहमञ्जसा ।
कृष्णनारायणो विष्णुः परब्रह्म परेश्वरः ॥२ ॥ भजनीयः पूजनीयो जपनीयश्च सर्वदा ।
मया दीक्षा तदीया वै ग्रहीता बदरीवने ॥३ ॥ तं वै परेश्वरं नित्यं ध्याये भजामि भावतः ।
पार्वती प्राह देवेश! विस्तरात् तद्यथातथम् ॥४ ॥ मामपि श्रावय सर्वं यदि ग्राह्यं मया भवेत् ।
येनाऽहमपि गोविन्दमाश्रित्य श्रेय आप्नुयाम् ॥५ ॥ कथं नाऽद्यापि मे नाथ! कथितं नहि तत्क्वचित् ।
एतावत्कालपर्यन्तं श्रीहरेर्भजनं विना ॥६ ॥ दिवसाः सर्वथा व्यर्था गमिता मे हरिं विना ।
यद्यहं ते देवदेव! सत्पात्र सम्मतास्मि वै ॥७ ॥ तदा मामपि भक्तां श्रीहरेः सन्दीक्षय प्रभो ।
गुरुर्बह्मा गुरुर्विष्णुर्गुरुदेवो जनार्दनः ॥८ ॥ गुरुः स्वस्याः पतिः प्रोक्तः पत्यौ सर्वं समास्थितम् ।
पत्युः सेवा परा सेवा पत्युर्भक्तिः परा मता ॥९ ॥ पतिधर्मः परो धर्मस्तं धर्मं देहि शङ्कर ।
पतिस्तु वैष्णवो यस्याः पत्नी यदि न वैष्णवी ॥1.113.१० ॥ अवैष्णव्या कृता सेवा भक्तिः सर्वापि निष्फला ।
अवैष्णव्या कृतं भोज्यमशुद्धं पावनं नहि ॥११ ॥ अवैष्णव्याः करजलं ह्यपेयं पावनं नहि ।
अवैष्णव्या गृहं सर्वं श्मशानमिति गीयते ॥१ भे ॥ अवैष्णव्या गृहाल्लक्ष्मीर्निःसरति सर्वथा ।
तस्मादहं स्वामिधर्मं वैष्णवं पावनं परम् ॥१३ ॥ सङ्ग्रहीतुं समिच्छामि विस्तराद्ब्रूहि तत्त्वतः ।
श्रुत्वैवं पार्वतीगाथां प्राह शम्भुर्महेश्वरीम् ॥१४ ॥ नाद्यापि पात्रता तेऽभूत् तस्मान्न कथितं मया ।
बहूनां जन्मनां पुण्यैः पात्रता प्राप्यते खलु ॥१२ ॥ एतज्जन्मनि पात्रत्वं पुष्टिं याति कथाश्रवात् ।
सतां तु सेवया चात्मा दिवो भवति नित्यशः ॥१६ ॥ पातिव्रत्येन पत्युश्च सेवयाऽऽत्मा बलं व्रजेत् ।
बलवान्भाग्यवान्साधुसेवको यो भवेज्जनः ॥१७ ॥ तस्यैव निर्मला वृत्तिर्भवत्यान्तरबाह्यजा ।
नैर्मल्यं तु भवेद्बीजं श्रद्धायाः सर्वथा प्रिये ॥१८ ॥ ततो भवति जिज्ञासा तया चाऽप्यधिकारिता ।
तथा सति गुरोर्योगे सर्वं फलति यत्कृतम् ॥१ ९॥ तवेदानीं तु तत्सर्वं समुत्पन्नं च योजितम् ।
ह्युपस्थितं च सञ्जातं तस्मात् त्वं पात्रमुत्तमम् ॥1.113.२० ॥ जाताऽस्यद्य महादेवि! प्रसन्नश्च भवाम्यहम् ।
अहो मम प्रिया पत्नी वैष्णवीं स्थितिमिच्छसि ॥२ १ ॥ अस्मात् किन्नु महद्भाग्यं परं मम कृते भवेत् ।
अत्यतीव प्रसन्नोऽस्मि श्रुत्वा ते हृदयं प्रिये ॥२२॥ सर्वं ते ऽहं प्रदास्ये वै यतस्त्वं वैष्णवी भव ।
देवि! चाद्यापि पर्यन्तं भोज्यं पेयं यदर्पितम् ॥२ ३ ॥ विष्णवे तत्समर्पय्य पश्चाद् भुक्तं मया हि तत् ।
किं वच्मि देवदेवेशि! ह्यद्याऽऽनन्दमयो महान् ॥२४॥ सूर्योदयः सुवर्णस्य मम जातोऽस्ति सर्वथा ।
पतिसेवाफलं सर्वं सखि! ते भवतु प्रिये! ॥२५॥ गृहं सर्वं मम भूयाद्वैष्णवं भाग्यवानहम् ।
अद्य देवि! देहशुद्ध्यै कार्तिके शुक्लपक्षके ॥२६ ॥ दशम्यां तु निराहारमुपवासं कुरु प्रिये! ।
देहशुद्ध्यर्थमेवात्र पञ्चगव्यं गृहाण च ॥२७॥ मण्डपं श्रीकृष्णपूजाकृते रचय शोभनम् ।
कदलीस्तम्भसन्नद्धमशोकदलतोरणम् ॥२८ ॥ सप्तधान्यकृतं तत्र सर्वतोभद्रमण्डलम् ।
रचय त्वं महाभागे तत्र स्थापय सद्घटम् ॥२९ ॥ अष्टदिक्षु घटान्पार्श्वे स्थापयाऽष्टौ नवाँस्ततः ।
कण्ठे वेष्टय वस्त्राणि मुखे पञ्चार्द्रपल्लवान् ॥1.113.३ ० ॥ नारीकेलफलान्यष्ट कृष्णं लक्ष्मीं च तत्र वै ।
मध्ये घटे स्वर्णपात्रे प्रतिष्ठापय भावतः ॥३१ ॥ गणेशपूजनं कृत्वा श्रीकृष्णपूजनं ततः ।
लक्ष्म्याश्च पूजनं नारायणेन सह कारया ॥३२॥ निवेदय वराण्येव ह्युपचाराणि षोडश ।
रात्रौ जागरणं कुर्याः प्रातः स्नानं तथा कुरु ॥३३ ॥ उपचारैः षोडशभिः श्रीकृष्णं प्रतिपूजय ।
तत्र समागतं दीक्षाविधिज्ञातारमेव च ॥३४॥ आचार्यं मां श्रय पूर्वं हर्याश्रयणसिद्धये ।
आचिनोति च शास्त्रार्थानाचारे स्थापयत्यपि ॥२५॥ स्वयं त्वाचरते यस्मात् ब्रह्माध्यापयति ध्रुवम् ।
मन्त्रं जानाति विष्णोश्च भक्तिं करोति सर्वथा ॥३६॥ श्रीमन्नारायणसम्प्रदायविद्यां तु वेत्ति यः ।
तारयति स्वकं शिष्यमाचार्यः स मतो गुरुः ॥३७॥ तद्वाक्येषु सुविश्वासः शिष्यो भक्तिपरायणः ।
गृह्णीयान्मन्त्ररत्नं तदेकादश्यां तु कार्तिके ॥३८॥ गृहाण देवि! दीक्षाङ्गं शङ्खचक्रसुमुद्रणम् ।
पञ्चामृतैः प्रसंस्नाप्य शङ्खं चक्रं प्रपूज्य च ॥३९॥ अग्निं संस्थाप्य विधिना जुहयाज्यं विधानतः ।
घृतपायसयोर्होममष्टोत्तरशतं कुरु ॥1.113.४० ॥ शङ्खचक्रे प्रतप्ते च कुरु ह्यग्नौ ततो गुरुः ।
अहं शम्भुर्गुरुस्त्वां वै चक्रेण जलजेन च ॥४१॥ अङ्कयामि द्वयोर्बाह्वोः पुनः प्रपूज्य तद्द्वयम् ।
कलशस्थजलेनाऽत्राऽभिषेकं कुरु मस्तके ॥४२॥ नूतनां शाटिकां धृत्वा जलेनाचमनं कुरु ।
ललाटे तिलकं चोर्ध्वपुण्ड्रं सचन्द्रकं कुरु ॥४३॥ चन्दनेन कुङ्कुमेन ततो मन्त्रं गृहाण मे ।
‘ब्रह्माहं ब्रह्मभक्ताऽस्मि’ त्रिवारं तद् गृहाण मे ॥४४॥ ततो मां प्रपूजयाऽद्रितनये! मां नमस्कुरु ।
गृहाण तुलसीकण्ठीं कण्ठे धारय चाद्रिजे ॥४५॥ लक्ष्मीनारायणश्चेति मन्त्रं गृहाण चाद्रिजे! ।
महेश्वरीति ते नाम परमेश्वरी चेत्यपि ॥४६॥ बोध्यं ततः कुरु ध्यानं श्रीहरिं द्विभुजं तथा ।
लक्ष्मीनारायणं दिव्यं ध्याने गृहाण सर्वदा ॥४७॥ परस्माद् ब्रह्मणो नारायणाद् देवोऽस्ति नो परः ।
तस्यैव चापरो मन्त्रः ‘श्रीहरिं शरणं मम’ ॥४८॥ गृहाणैनं शिवेऽद्य त्वं जाता पूज्या सुवैष्णवी ।
कुरु भक्तिं हरेर्नित्यं गुरोर्मे सेवनं कुरु ॥४९॥ शिष्यप्रशिष्यशाखाश्च मन्त्रदानेन वर्धय ।
लक्ष्म्यावासस्त्वयि प्राप्तो मयि नारायणस्य च ॥1.113.५०॥ आवां भक्तिं करिष्यावो नारायणस्य सर्वदा ।
सेवां तस्य करिष्यावो येन मुक्तिर्ध्रुवा भवेत् ॥५१॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कैलासे शम्भुना पार्वत्यै श्रीवैष्णवीदीक्षादत्तेत्यङ्गभूतकाण्डनिरूपणनामा त्रयोदशाऽधिकशततमोऽध्यायः ॥११ ३॥