११२

श्रीलक्ष्मीरुवाच-
नारायण हरेकृष्ण प्राणनाथ महाप्रभो ।
भवतोक्तं महादेवो वैष्णवाग्र्योऽस्ति सर्वथा ॥१ ॥ कथं स वैष्णवः प्रोक्तस्तत्कथां श्रोतुमुत्सहे ।
क्व कदा वैष्णवो जातः श्रावयाऽद्य मम प्रिय! ॥२ ॥ श्रीनारायण उवाच-
शृणु देवि! कथां दिव्यां महावैष्णवकारिणीम् ।
मोक्षदां विष्णुसम्बद्धां कथयामि समासतः ॥३ ॥ सन्ति पृथ्व्यां पर्वताश्च देवादिवासदायिनः ।
तेषां प्रियतमः शैत्यप्रदो मोक्षप्रदस्तथा ॥४ ॥ हिमालयः सदा शान्तस्तत्र बदरिकाश्रमम् ।
पुरुषौ तत्र वर्तेते नरनारायणावुभौ ॥५ ॥ तत्रैकः श्वेतपुरुषश्चान्यः कृष्णस्तु रूपतः ।
अनुजः पिङ्गलः प्रोक्तः कृष्णो नारायणः स्वयम् ॥६ ॥ द्विबाहुश्च चतुर्बाहुर्नरो नारायणः क्रमात् ।
तत्र देवा वसन्तीह ऋषीणां चाश्रमाः शुभाः ॥७ ॥ गङ्गा यत्राऽलकनन्दा दिव्या वहति सर्वदा ।
एकस्मिन्वत्सरे तत्र महेशस्तप्तवाँस्तपः ॥८ ॥ तदा नारायणो देवो भक्तनामभयङ्करः ।
सुप्रसन्नोऽब्रवीच्छम्भुं वरं वरय शङ्कर ॥९ ॥ यं यमिप्ससि देव त्वं तं तं कामं ददाम्यहम् ।
शम्भुः प्राह तदा नारायणं तु करुणाकरम् ॥1.112.१० ॥ अहं गृह्णामि भो देव यदि दातुं त्वमिच्छसि ।
द्वौ वरौ मम दीयेतां सुप्रसन्नो जनार्दन! ॥१ १॥ तव भक्तिः सदैवाऽस्तु भक्तराजो भवाम्यहम् ।
सर्वलोके प्रसिद्धः स्यां शिवो भक्तो महानिति ॥१२॥ विष्णुभक्त इतिख्यातिर्लोकेषु भुवनेष्वपि ।
जायतां सर्वदा विष्णु! नारायण! जगत्प्रभो! ॥१३ ॥ अथ ये मां भजिष्यन्ति ग्रहीष्यन्त्याश्रयं मम ।
तस्य तव प्रसादेन मुक्तिदाता भवाम्यहम् ॥१४॥ यस्याहं वरदाता स्यां तस्य मुक्तिर्भवेद् ध्रुवा ।
विष्णुभक्तो मुक्तिदाता स्यां मे देहि वरद्वयम् ॥१५॥ इति श्रुत्वा स्वयं कृष्णः प्राह शम्भुं गुणाकरम् ।
भव शम्भो मम भक्तो दाता मुक्तेश्च सम्भव ॥१६॥ एवं वरौ तदा लब्ध्वा शङ्करः प्राह तं हरिम् ।
देहि दीक्षां च मे नाथ वैष्णवश्च भवाम्यहम् ॥१७॥ नाऽवैष्णवो भवेद्भक्तो मुक्तिदो नाऽप्यवैष्णवः ।
भुक्तिर्मुक्तिश्च ते योगाद्वैष्णवत्वे सति ध्रुवा ॥१८॥ वैष्णवेन ततो भाव्यं देहि दीक्षां कृपां कुरु ।
विष्णुर्नारायणो देवः श्रुत्वा प्राह तु शङ्करम् ॥१ ९॥ साधु सङ्कल्पितं शम्भो सर्वलोकहितार्थि यत् ।
गृहाण शम्भो प्रथमं मन्त्ररत्नं शुभावहम् ॥1.112.२० ॥ ‘ब्रह्माहं ब्रह्मभक्तोस्मि जपस्वैनं निरन्तरम् ।
मन्त्ररत्नमिदं नाम प्रपाति शरणागतम् ॥२१ ॥ लक्ष्मीनारायणश्चेति मन्त्रः सर्वफलप्रदः ।
श्रीमन्नारायणश्चेति मन्त्रः सर्वार्थसाधकः ॥२२॥ स्वामिनारायणश्चेति मन्त्रो मोक्षप्रदः स्मृतः ।
नरनारायणश्चेति मन्त्रो ब्रह्मगतिप्रदः ॥२३॥ हरिनारायणश्चेति मन्त्रो दुःखविनाशकः ।
कृष्णनारायणश्चेति मन्त्रो विभूतिदायकः ॥२४॥ मन्त्रो वासुदेवनारायणस्त्वैश्वर्यदायकः ।
रामनारायणश्चेति मन्त्रः पापविनाशकः ॥२५॥ ॐ श्रीनारायणो मन्त्रो भुक्तिमुक्तिप्रदायकः ।
मन्त्रः प्रपत्तिदस्त्वेषः-‘श्रीहरिः शरणं मम’ ॥२६॥ इत्येवं मन्त्रदशकं देयं भक्तेभ्य उत्तमम् ।
ॐ नमो भगवत वासुदेवायेति मन्त्रराट् ॥२७॥ मन्त्रराजं मन्त्ररत्नं दशमन्त्राँश्च शङ्कर! ।
एतान् द्वादशमन्त्राँस्त्वं देहि शिष्यजनाय वै ॥२८॥ मन्त्रोच्चारणमात्रेण चातितुष्टोऽस्मि नित्यदा ।
मन्त्राधिकारिणः सर्वे ये मे भक्ता मुमुक्षवः ॥२९॥ ज्ञानिनो योगिनश्चान्ये जडा नार्यस्तथाऽऽश्रिताः ।
भक्तिश्रद्धान्विताः सर्वे मानवा ह्यधिकारिणः ॥1.112.३० ॥ ब्रह्माण्डे येऽत्र तिष्ठन्ति सुराद्याश्चाधिकारिणः ।
तेभ्योऽन्यतममन्त्रो वै दातव्यः श्रेयसे भवेत् ॥३ १॥ शङ्खं चक्रं गदां पद्मं गृहाण भुजयोस्तथा ।
तप्तमुद्राङ्कनं चैतच्चन्दनाङ्कनमेव वा ॥३२॥ गृहाण शम्भो बाह्वोस्तद्विष्णुरूपत्वदायकम् ।
पञ्चविंशत्यक्षरां च गायत्रीं च गृहाण वै ॥३३ ॥ ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो ब्रह्म प्रचोदयादिति जप्याऽन्वहं त्वया ॥२४॥ ध्यायस्व मां सुरूपं च द्विभुजं वा चतुर्भुजम् ।
द्विभुजं ब्रह्मणो रूपं ब्रह्मधामनि संस्थितम् ॥३५॥ सर्वावतारसन्धर्तृ परब्रह्मात्मकं शुभम् ।
चक्रहस्तं तथाऽभयप्रदहस्तं द्विहस्तकम् ॥३६॥ हारकुण्डलमालाकटकमुकुटभूषणम् ।
पीताम्बरं षोडशाब्दं प्रसन्नं परमेश्वरम् ॥३७॥ चतुर्भुजं शङ्खचक्रगदापद्मकरान्वितम् ।
वामाङ्कस्थश्रिया सार्धं रूपं ध्यायस्व हृद्गमम् ॥३८॥ अथ मां षोडशदिव्योपचारैः पूजयस्य च ।
आवाहनं स्वासनं च पाद्यमर्घ्यं ततः परम् ॥३९॥ आचमनं तथा स्नानं मधुपर्कं तथाऽम्बरम् ।
चन्दनं भूषणं पुष्पं धूपं दीपं निवेदनम् ॥1.112.४०॥ यज्ञसूत्रं च ताम्बूलं देहि मे भक्तिभावतः ।
सुगन्ध्यर्कं कर्पूरं च सुगन्धं देहि मेऽनघम् ॥४१ ॥ कुरु प्रदक्षिणां दण्डवच्च नमस्क्रियाः कुरु ।
स्तुतिं पुष्पाञ्जलिं देहि क्षमां याचस्व मत् तथा ॥४२॥ विसर्जय बहिष्टो मां स्वे हृदि स्थापयाऽऽत्मनि ।
श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् ॥४३॥ अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
ध्यानं समाधिरैक्यं च कुरु भजस्व साधनैः ॥४४॥ ऊर्ध्वपुण्ड्रं च तिलकं ललाटे कुरु शङ्कर ।
बाह्वोश्च हृदये चाप्यूर्ध्वपुण्ड्रं तिलकं कुरु ॥४५॥ चन्दनेन सुगन्धेन सत्केसरयुतेन च ।
तन्मध्ये चन्द्रकं तेन कुङ्कुमेनाऽथवा कुरु ॥४६॥ कण्ठे गृहाण तुलसीग्रैवेयं द्विसरं शुभम् ।
कण्ठी सा तु सदा धार्या न तु त्याज्या कदाचन ॥४७॥ तुलसीमालिकां चाष्टोत्तरशतार्थपूरिताम् ।
गृहाण जपकार्याय मण्यादिनिर्मितां च वा ॥४८ ॥ ईश्वरान्तं च ते नाम प्रकरोमि महेश्वरम् ।
पालकेन रमया च कृतस्त्वं ‘परमेश्वरः’ ॥४९॥ परेण च मया लक्ष्म्या कृतस्त्वं ‘परमेश्वरः’ ।
पं विष्णुं रं रमां मश्च मिमीते भजते तु यः ॥1.112.५० ॥ ऐश्वर्याश्रय इत्युक्तस्त्वं शम्भुः ‘परमेश्वरः’ ।
ईश्वरान्तानि नामानि तव शम्भो भवन्तु वै ॥५१ ॥ एवं लक्ष्मि! मया दीक्षा दत्ता श्रीशङ्कराय वै ।
तदारभ्य सदा शम्भुर्भजते मामनन्यभाग् ॥५२॥ दीक्षामादाय शम्भु स गतो वै गन्धमादने ।
स्वीयावासे तु कैलासे भजते मामहर्निशम् ॥५३॥ पत्रं पुष्पं फलं कन्दं तोयं ग्राह्यं च यद्भवेत् ।
तत्सर्वं मामनिवेद्य नैव गृह्णाति शङ्करः ॥५४॥ करोति तिलकं स्थाने मां च जपति मालया ।
तिष्ठति ध्यानमग्नोऽसौ मम मूर्तावनीहया ॥५५॥ दृष्ट्वैवं वैष्णवीं भक्तिं शङ्करं प्राह पार्वती ।
कस्य ध्यानं च मालाभिर्जपश्च तिलकादिकम् ॥५६ ॥ क्रियते लोकनाथेन परमेश्वररूपिणा ।
भवानेव परब्रह्म परात्परतरः स्वयम् ॥५७॥ इत्येवं पूर्णरूपस्य कस्य ध्यानं जपश्च वै ।
इति श्रुत्वा महादेवः पार्वतीं प्राह तात्त्विकम् ॥५८॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बदरिकाश्रमे नारायणेन शङ्कराय वैष्णवीदीक्षाप्रदानं तदङ्गकलापादिप्रदर्शन चेति निरूपणनामा
द्वादशाधिकशततमोऽध्यायः ॥१ १२॥