१०६

श्रीलक्ष्मीरुवाच
गणेशस्य शिरोनाशः कथं वै केन कर्मणा ।
गजमस्तकसन्धानं कथं वै केन कर्मणा १ ॥ १॥
परिपूर्णतमः श्रीमान्परमात्मा परात्परः ॥ गोलोकनाथः स्वांशेन पार्वतीपुत्रतामगात् ॥ २ ॥
आश्चर्यं श्रीहरेस्तस्य मस्तकच्छेदनादिकम् ।
विघ्नेशस्य कथं विघ्नं सम्भवेत्परमात्मनः ॥ ३ ॥
श्रीनारायण उवाच–
सावधाना शृणु लक्ष्मि! समैतिह्यं पुरातनम् ।
एकदा शङ्करः सूर्यं जघान परमष्टधा ॥४ ॥ सुमालिमालिहन्तारं शूलेन च तदा रविः ॥ जहौ स्वचेतनां सद्यो रथाच्च निपपात ह ॥५॥

ददर्श कश्यपः पुत्रं मृतवत्तूर्ध्वलोचनम् ।
कृत्वा वक्षसि तं शोकाद्विललाप भशं मुहुः ॥६ ॥ अन्धीभूतं जगत्सर्वं बभूव भयकातरम् ।
निष्प्रभं तनयं दृष्ट्वा चाऽशपत् कश्यपः शिवम् ॥७ ॥ मत्पुत्रस्य यथा तेजश्छिन्नं शूलेन वक्षसि ।
त्वत्पुत्रस्य शिरश्छिन्नं भविष्यति सतैजसम् ॥८ ॥ शिवश्च गलितक्रोधो जीवयामास तं रविम् ।
वक्षः सन्धानयामास पूरयामास तेजसा ॥९ ॥ सूर्यस्तु चेतनां प्राप्य समुत्तस्थौ पितुः पुरः ।
सूर्यो ययौ निजाऽऽवासे ब्रह्मणा कृतमङ्गलः ॥१ ०॥ माली सुमाली दैत्यौ तु व्याधिग्रस्तो बभूवतुः ।
श्वित्रौ गलितसर्वाङ्गौ शक्तिशून्यौ हतप्रभौ ॥१ १॥ सूर्यकोपेन मलिनौ ब्रह्मोवाच तदा तु तौ ।
‘ॐ ह्रीं नमो भगवते सूर्याय परमात्मने स्वाहा’ ॥१२॥ इत्यनेन तु मन्त्रेण सावधानं दिवाकरम् ।
भक्त्या सम्पूज्य सन्दत्त्वा तूपचाराँश्च षोडश ॥१३॥ एवं संवत्सरं यावद् ध्रुवं मुक्तौ भविष्यथः ।
अथ सूर्यस्य कवचं बिभ्रतो व्याधयो नहि ॥१४॥ प्रजापतिः ऋषिश्छन्दो गायत्री देवता रविः ।
व्याधिप्रणाशे सौन्दर्ये विनियोगः प्रकीर्तितः ॥१५॥ ॐ क्लीं ह्रीं श्रीं श्रीसूर्याय स्वाहा मे पातु मस्तकम् ।
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु ॥१६॥ वक्षः पातु रविः शश्वन्नाभिं सूर्यः सदाऽवतु ।
कङ्कालं मे सदा पातु सर्वदेवनमस्कृतः ॥१७॥ करौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः ।
विभाकरो मे सर्वाङ्गं पातु सन्ततमीश्वरः ॥१८॥ इत्येतत्कवचं धृत्वा नीरुजौ तु भविष्यथः ।
स्तवनं सामवेदोक्तं सौर्यं व्याधिविनाशकम् ॥१९॥ सर्वपापहरं सारं धनारोग्यकरं परम् ।
ततस्तौ राक्षसौ गत्वा पुष्करं तीर्थमुत्तमम् ॥२० ॥ धृत्वा वर्म रविं स्तोत्रमन्त्रेणाराध्य भावतः ।
ततः सूर्याद् वरं प्राप्य निजरूपौ बभूवतुः ॥२१॥ गणेशमस्तकच्छेदविघ्नं शापोंऽशुमालिनः ।
जातस्तु शङ्करायेति कारणं कथितं तव ॥२२।
अथ हस्तिकथां वच्मि शिरःसम्बन्धबोधिनीम् ।
स्थितेष्वन्येषु बहुषु जन्तुष्वपि गजस्य यत् ॥२३॥ मस्तकं योजितं तस्य कारणं शृणु पद्मजे ।
एकदा देवराजो वै पुष्पभद्रानदीं ययौ ॥२४॥ तत्तीरेऽतिरहःस्थाने पुष्पोद्याने सुगन्धिनि ।
ददर्श कामुकीं रम्भां चन्द्रलोकात्समागताम् ॥२५॥
हावभावाऽनङ्गचेष्टास्वेदकटाक्षचञ्चलाम् ॥ आह्वयन्तीमिव रन्तुं प्रोवाचेन्द्रो गजे स्थितः ॥२६॥
रम्भोरु! वामनाश्लिष्य न गन्तुमिष्यते मया ॥ रम्भोवाच न चाहं ते सन्तोषजननी मता ॥२७॥
कृतकार्यजनानां तु धूर्तानां का नु मित्रता ॥ नारी स्वादुत्तमं याति मधु त्यक्त्वेव मक्षिका ॥२८॥
कामुकी काकवल्लोला फलं भुक्त्वा प्रयाति वै ॥ युवानं रसिकं शान्तं सुवेषं सुन्दरं प्रियम् ॥२९॥
गुणिनं धनिनं स्वच्छं कान्तमिच्छति कामिनी ।
दुःशीलं रोगिणं वृद्धं रतिशक्तिविहीनकम् ॥1.106.३०॥ अदातारमविज्ञं च नैव वाञ्च्छन्ति योषितः ॥ तवाऽऽज्ञाकारिणीं दासीं गृहाणाऽत्र यथासुखम् ॥३१॥
इत्युक्त्वाऽऽगत्य देवेन्द्रं कण्ठे लग्ना बभूव सा ॥ पुष्पभद्रातटे तत्र तयोः रतिसमागमे ॥३२॥
एतस्मिन्नन्तरे तेन वर्त्मना शङ्करालयम् ।
वैकुण्ठाद् याति दुर्वासा दृष्टश्चेन्द्रेण मानितः ॥३३॥
पारिजातप्रसूनं तु दुर्वासा हरये ददौ ।
पुष्पं यस्य गृहे चैतल्लक्ष्मीस्तं न जहाति वै ॥३४॥
तस्माद्रक्ष सदैवैतदम्लानं स्मृद्धिवर्धनम् ।
सर्वविघ्नहरं नारायणप्रसादलब्धिकम् ॥३५॥ मालया सहितं मूर्ध्नि यस्य तस्य जयः सदा ।
पुरः पूजा च सर्वेषां देवानामग्रणीर्भवेत् ॥३६॥
तच्छायेव महालक्ष्मीर्न जहाति कदापि तम् ।
ज्ञानेन तेजसा बुद्ध्या विक्रमेण बलेन च ॥३७॥
सर्वदेवाधिकः श्रीमान् विष्णुतुल्यपराक्रमः ॥ भक्त्या मूर्ध्नि न गृह्णाति योऽहङ्कारेण मानवः ॥३८॥
नैवेद्यं च हरेरत्र स नष्टश्रीः स्वजातिभिः ।
दुर्वासास्तु ततः स्थानादगच्छच्छाङ्करं गिरिम् ॥३९॥
इन्द्रो रम्भान्तिके वेगी तत् तां चिक्षेप हस्तिनि ॥ कुम्भयोः पतितां पुष्पमालां हस्ती निजे पदे ॥1.106.४०॥
शुण्ढेनाऽऽप्त्वा ममर्दाऽपि तद्दृष्ट्वा श्रीर्विनिर्गता ।
तथा रम्भा दिवं याता गजोऽरण्यं विवेश च ॥४१॥
पावनं मस्तकं तस्य मालापुष्पप्रसङ्गतः ।
छित्वा नीत्वा हरिस्तद्वै योजयामास बालके ॥४२॥ एवं श्वेतगजस्यास्य गणेशस्थं शिरः सदा ॥ लक्ष्मि! प्रपूज्यतां यातं त्वैरावतस्य कं हि तत् ॥४३॥
अथ कश्यपशापेन प्रेरितस्तु शनिश्चरः ॥ सञ्ज्ञासूर्यात्मजो वक्रदृष्टिमान् दुःखदायकः ॥४४॥
तत्र व्योमपथाऽऽयातो ददर्श गणनायकम् ॥ गोपुरे स यदा देव्या रक्षार्थं स्थापितस्तदा ॥४५॥
शङ्करेण सह तस्य गणेशस्याऽभवद्रणः ॥ सव्यलोचनकोणेन सन्ददर्श शिशोर्मुखम् ॥४६॥
शनेस्तु दृष्टिमात्रेण चिच्छिदे मस्तकं हरः ।
इत्येवं कारणं तत्र शनेर्दृष्टिः रवेः शपिः ॥४७॥
गजकुम्भः पारिजातमाला लक्ष्मीरनन्तका ।
त्रयं त्वेकस्य भाग्ये न देवानामपि दुर्लभम् ॥४८॥
सर्वे स्वकर्मणा साध्वि! भुञ्जते विविधं फलम् ॥ कोटिकल्पैरप्यलुप्तं कर्म कर्तारमीयते ॥४९॥
कर्मणा ब्रह्मरुद्राद्या मानवाः पशुपक्षिणः ॥ राजा भृत्याश्च वैकुण्ठवासिनोऽपि स्वकर्मभिः ॥1.106.५०॥
व्याधिविषयसौन्दर्यधनदारिद्र्यशालिनः।
सुदारापुत्रसुखवान् बन्धुकुटुम्बकण्टकः ॥५१॥
अदारापुत्रदुःखाढ्या जायन्ते कर्मभिर्जनाः।
विभिन्नकर्मणां तेषां मूर्तिः शनिश्चरः स्वयम् ॥५२॥
तत्तत्कर्मानुसारेण वक्रदृष्ट्या स पश्यति ।
शनिश्चरोऽपि दुःखेन जीवतीत्यपि कर्मणा ॥५३॥
शनिश्चराय कन्यां स्वां ददौ चित्ररथस्ततः ॥ ऋतुस्नाता सुवेषं स्वं विधाय मन्मथाऽर्दिता ॥५४॥
शनिं स्मरति दानार्थं शनिर्नैव स्मरत्यपि ।
ऋतुनाशाद् रत्यलाभात् कोपतः सा शशाप तम् ॥५५॥
न दृष्टाऽहं त्वया येन न कृतं ऋतुरक्षणम् ॥ तस्मात् सदैव ते दृष्टिः सुखदा नैव जायताम् ॥५६॥
त्वया दृष्टं भवेद्वस्तु तत्सर्वं वै विनश्यतु ॥ इतिशापाच्छनिर्वक्रदृष्ट्या पश्यति यद् यदा ॥५७॥
तद्वै नश्यति सर्वं द्राक् तत्तत्कर्मानुयोगतः ।
शनिः प्रकृतिनम्रास्यो विना कर्म न पश्यति ॥५८॥
कर्मणा प्रेरितो वै सः कर्तारमभिपश्यति ।
इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि ॥५९॥
गजास्ययोजनायाश्च कारणं गहनं महत् ।
यज्ज्ञात्वा सुखदुःखादौ शुभाऽशुभे न मुह्यति ॥1.106.६०॥ अंशेनात्मान्तरस्थस्य कृष्णस्यात्मान्तरकृतात् ॥ कर्मणो नैव लेप्यत्वं भुङ्क्ते त्वात्मान्तरः कृतम् ॥६१॥
अवताराः सदा सर्वे निर्लेपाः सन्ति पद्मजे ॥ यत्रात्मन्यवतीर्णास्ते स आत्मा कर्मभोगभाक् ॥६२॥
सखायौ सयुजौ द्वौ च सुपर्णौ कर्मद्रुस्थितौ ॥ तयोः कर्मकृदश्नात्यकर्मकृतो न तत्स्पृशिः ॥६३॥
तस्मात् कृष्णस्य नैवास्ति कण्ठच्छेदकृतिव्यथा ।
सा तु तत्रान्यभोक्तुः स्यादात्मान्तरं हि तन्मतम् ॥६४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गणेशोपरि शनिदृष्टिः शिवस्य सूर्यशापः इन्द्रस्य श्वेतकरिकृतं दुर्वासःप्रदत्तप्रसादिपुष्पमालामर्दनं तन्मालापुष्पस्पर्शजन्यकुम्भमस्तकपावनताप्रयोज्य गणेशमस्तकयोजनापूज्यता चेत्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ॥१०६॥