१०३

श्रीनारायण उवाच–
शृणु प्रिये सहाऽऽलीभिः पार्वती हरसुन्दरी ॥ देव्यः सर्वाश्च दास्यश्च मिलित्वा द्युनदीं सह ॥१ ॥ गताः स्नानार्थमित्यत्र निःशङ्कं स्नान्ति वारिषु ।
सुगन्धिसारतैलानि सम्मृद्याऽत्यमृतानि च ॥२ ॥ दधीनि मधुभिश्चापि रस्यान्यपि कटूनि च ।
सख्यः स्नानं कारयन्ति पार्वतीं जगतः प्रसूम् ॥३ ॥ रमयन्ति जले तां वै प्राञ्जलक्षेपणादिभिः ॥ सुगन्धि सलिलं जातं सुगन्धद्रवमिश्रितम् ॥४॥ स्नाने सखीविहारेऽत्र तृप्तिर्नासां प्रजायते ॥ स्नान्ति चैव पुनः स्नान्ति पतन्ति सलिले मुहुः ॥५ ॥
विनिर्गत्य पुनः स्नान्ति स्नानान्तं नैव यान्ति हि ॥ सङ्गवो विगतः कालः शम्भुर्ध्यानाद् बहिस्तदा ॥६ ॥ आगतः स्वासनं त्यक्त्वा चैकाकी स्वाश्रमं गतः ॥ गणांश्चान्ये न जानन्ति स्नानलग्नास्तदाऽभवन् ॥७ ॥ शम्भुः स्वाभाविको ध्यानी शनैः शनैः प्रयाति हि ॥ स्वाश्रमस्य महद्द्वारं यावत् प्रविशतीश्वरः ॥८ ॥
तावत्पार्वत्यात्मजेन निरुद्धो याहि मा त्विति ॥ कस्त्वं कस्मात्समायातः करमाद्विशसि गोपुरम् ॥ ९ ॥
तिष्ठ विवृत्य तं मार्गं याहि येनाऽऽगतोऽत्र वै ॥ नाऽत्र स्थातुं प्रदेयो वै मया कौऽपि जनो नरः ॥1.103.१०॥
आज्ञा नास्त्येव मे मातुस्तस्माद्विगच्छ गोपुरात् ।
तथापि शङ्करस्तस्य नैव श्रुत्वा प्रयाति हि ॥११॥
तावत् क्रोधसमाविष्टो गणेशो मातृसेवकः ।
प्रोद्घुष्य च समुत्प्लुत्य प्रदुद्राव हरं प्रति ॥१२॥
गत्वा तन्मार्गमारुध्य मा गच्छोक्त्वा ह्युपस्थितः ।
परागच्छ परागच्छ कोऽसि क्व गच्छसि द्रुतम् ॥१३॥ अत्रोद्याने प्रवेशाय मन्मात्राज्ञा न वर्तते!
स्नानं कुर्वन्ति सख्यश्च मन्मात्रा सह वारिभिः ॥१४॥
मा याहि नैव गन्तव्यं विगच्छेतो बहिः पिवन्! ।
शम्भुः प्राह तमज्ञात्वा कोऽसि रोद्धा मम गृहम् ॥१५॥
ममोद्यानं तु गच्छामि कस्त्वं रोद्धा ममापि च ॥ गच्छ याहि त्वितः स्थानात् कया त्वं योजितोऽत्र वै ॥१६॥
बहिर्गच्छ मम द्वाराद्गोपुरान्मम रक्षितात् ।
इत्याक्रुश्य हरेण स्वमविज्ञाय तु बालकम् ॥१७॥
हस्ते धृत्वा गोपुरात् स बहिर्निष्कासितो बलात् ।
तावद्गणेशस्तद्धस्ताद्धस्तं स्वं प्रवियुज्य च ॥१८॥
शम्भुं हस्तद्वये धृत्वा चाक्रुश्य नीतवान् बहिः ।
प्राह शम्भुं याहि दूरं मा मुखं मे प्रदर्शय ॥१९॥
शम्भुनाऽपि तदा ज्ञातं मत्तोऽपि बलवानयम् ।
न वै शारीरयुद्धेन जेतुं शक्यो भवेदयम् ॥1.103.२०॥
अहो मदीयः कैलासो गृहोद्यानश्च रक्षसा ॥ स्वायत्तीकृत एवैत्य केनाऽपि ध्रुवमर्थतः ॥२१॥
क्व स्याद् देवी मम पत्नी किमभूद् विपरीतकम् ।
किं कर्तव्यं मया चाद्य ह्ययं तु बलवानिति ॥२२॥
यदि गत्वा गणान् वक्ष्ये तदा मे बलहीनता ॥ हास्यास्पदत्वमाप्नुयां युद्धे चापि पराजयम् ॥२३॥
स्वस्य मानं धनं मन्त्रं चावमानं च मैथुनम् ।
दानं धर्मं गृहक्लेशं कार्यं नैव प्रकाशयेत् ॥२४॥
ततः किमिति वै कार्यं बालोऽयं बलवानिति ।
पार्वती चेद् विजानीयाद् युद्धे शम्भुः पराजितः ॥२५॥
तदग्रे च मया भाव्यं नतकन्धरवर्तिना ।
वक्त्ययं पार्वतीपुत्रः किमेवं सम्भवेदिति ॥२६॥
सर्वस्माज्जयमिच्छेद्वै पुत्राच्छिष्यात्पराजयम् ॥ अतः साम्ना बोधयित्वा गच्छामि मम मन्दिरम् ॥२७॥
विचार्येत्थं क्षणं स्थित्वा यावद्वदति शङ्करः ।
गणेशोऽपि तदा द्वारं निरुद्ध्य प्रतितिष्ठति ॥२८॥
शम्भुः प्राह ममैषो वै कैलासो वर्तते गृहम् ॥ पत्नी भार्या मम देवी पार्वती वर्ततेंऽगज! ॥२९॥
माऽहं त्वया निरोद्धव्यो गन्तुं देहि मम गृहम् ॥ श्रुत्वैतत्स गणेशस्तु प्राह तं रोषतः खलु ॥1.103.३०॥
मा वोचः शठ पत्नीति भार्येति चाङ्गजेति च ॥ मारयिष्यामि च त्वां वै नो चेद् गच्छसि दूरतः ॥३१॥
स्थूलो महानरण्यस्थो गच्छ दूरं न ते गमः ।
शम्भुः प्राह च तं ज्ञात्वा मातृभक्तं समुद्यतम् ॥३२॥
अहो बाल! न ते माता न पिता तेऽस्ति कश्चन् ।
माता पितेति नाम्ना वै स्वार्थमात्रनिबन्धना ॥३३॥
कथं प्राणान् प्रियाँस्त्यक्तुमीहसे मातृनामतः ॥ हनिष्ये त्वां त्रिशूलेन नो चेन्मुञ्चसि मार्गकम् ३४
इत्युक्त्वा तं हरश्चाऽपासारयत् स्वकरेण वै ।
गणेशोऽपि हरं चापासारयत् स्वकरेण हि ॥३५॥ गोपुरान्निर्गतौ बाह्ये देशे युयुधतुश्च तौ ॥ केशाकेशि मुष्टामुष्टि दण्डादण्डि निजघ्नतुः ॥३६॥
बहुबलेन पाशेन बाहुभिर्जानुभिस्तथा ।
कफोणिकाभिरन्योन्यं ताडयामासतुर्मुहुः ॥३७
तयोस्तु ताडनं तत्र त्वाकण्ठाग्रं यदा ह्यभूत् ॥ गणेशस्तु तदा शम्भुमूर्ध्वमुत्तोल्य वेगतः ॥३८॥
भुवि प्रक्षिप्य तद्वक्षः प्रपीड्योपरि संस्थितः ॥ युवा क्रुद्धो गणेशस्तं मूढमारममारयत् ॥३९॥
शम्भुः प्राह अहो हा हा मृतोऽस्मि मुञ्च मां यदि ।
तदा ते लड्डुकान्दत्वा पूजयिष्यामि चाग्रतः ॥1.103.४०॥ गणेशस्तु तदा त्यक्त्वा शम्भुं पार्श्वे स्थितोऽभवत् ।
शम्भुर्जटां समां कृत्वा धुलीर्देहादमार्जयत् ॥४१॥
स्वस्थो भूत्वा च यावद्वै गोपुरान्तर्विविक्षति ॥ त्रिशूलं तु गणस्तावत् समादाय रुणद्धितम् ॥४२॥
शम्भुश्चापि महाक्रुद्धः प्राह बालमनिन्दितम् ॥ कथं प्राणान् विहातुं त्वं मया विरोधमिच्छसि ॥४३॥
गच्छाऽन्तः पृच्छ जननीं शङ्करः को भवेत्तव ॥ यदि सा कथयेन्मां स्वपतिं देहि प्रवेशनम् ४४॥
गणेशः प्राह धूर्तस्त्वं वध्यो भवसि शस्त्रतः ।
शम्भुः प्राह वराकस्त्वं वध्यो भवसि शूलतः ॥४५॥
गणः प्राह स्वमात्रार्थं यदि प्राणाः परेतकाः ॥ तदापि मे शुभं भूयात् स्वर्गं विन्दामि सेवया ॥४६॥
मात्रर्थं जनकार्थं च पत्न्यर्थं च सतां कृते ॥ प्राणाद्यर्पयिता याति स्वर्गं वा मोक्षमित्यपि ॥४७॥
यदि प्राणा मम यान्ति मात्रर्थं सफलं जनुः ।
हतो यद्यज्ञातपित्रा तथापि सफलं जनुः ४८॥ एवमुक्त्वा नमः कृत्वा जग्राह च त्रिशूलकम् ।
शम्भूरपि वरं पुत्रहस्तान्मृत्युमुपस्थितम् ॥४९॥ यावदज्ञातचर्यौ स्वस्तावत् स्नेहः कुतो मतः ॥ मृत्युर्बुद्धिमताऽपोह्यो यावद्बुद्धिबलोदयम् ॥1.103.५०॥
विचार्येत्थं हरिं स्मृत्वा जग्राह स्वत्रिशूलकम् ॥ परस्परं प्रजघ्नतुर्दयां कृत्वा तु पृष्ठतः ॥५१॥ गणेशेन तदा शम्भोस्त्रिशूलं परिगृह्य च ।
द्विवृत्तं वलयं कृत्वा क्षेपितं भूतले द्रुतम् ॥५२॥
दृष्ट्वा बालबलं शम्भुः क्षणमात्रं सुमोहितः ।
पुनः परशुमादाय जघान गणकन्धरे ॥५३॥
गणस्तं परशुं स्वस्य कुठारेण बभञ्ज वै ॥ द्वेधा जातं तु परशुं त्यक्त्वा शक्तिमुपाददे ॥५४॥ गणेशोऽपि त्वरितः सन् उत्प्लुत्य व्योमवर्त्मनि ।
शक्तिं विधृत्य च बलाच्छम्भुं तया जघान सः ॥५५॥
मूर्छितो रोषमापन्नो निषसाद हरो भुवि ॥ पुनरुत्थाय यावद्वै खड्गं गृह्णाति शङ्करः ॥५६॥
गजस्तावत् त्रिशूलेन खड्गं द्वेधा बभञ्ज ह ॥ शङ्करश्चातिखिन्नः सन् महाकालसुरूपधृक् ॥५७॥ गणस्यैव त्रिशूलं त्वास्कन्द्य प्रामारयद् गले ॥ छिन्नः कण्ठो गणेशस्य पतितं मस्तकं भुवि ॥५८॥
कृष्णे तल्लीनतां प्राप्तं कबन्धो वर्ततेऽत्र तु ।
शम्भुः सरोषताम्राक्षः स्नात्वा स्वां पार्वतीं प्रति ॥५९॥ तत्र स्थाने गतो यावद् दृश्यते कालरूपधृक् ।
पार्वती भयमापन्ना द्रागेव पादयोर्गता ॥1.103.६०॥ क्षमापय महादेव! किं क्रोधो देहरक्तता ।
किं कृतं भवता स्वामिन् कथं रक्तप्लुतो भवान् ॥६१॥ क्व युद्धं केन साकं वा जातं चाऽनिष्टमागतम् ।
शम्भुस्तदा प्रियाश्लिष्टः शान्तो भूत्वाऽब्रवीदिदम् ॥६२॥ कोऽयं गोपुरसंरोद्धा त्वया रक्षित उज्जडः ।
किं किं देव कृतं किं वा किं जातं वद मे भ्रमः ॥६३॥
तव पुत्रो गणेशः स बहुना तपसाऽर्थितः ॥ मया स्नानप्रकालस्येतरप्रवेशरोधकः ॥६४
निषादितः किमनिष्टं जातं प्राणद मे वद ।
इति कृत्वा गले लग्नां शम्भुः प्राह मृतो ह्ययम् ॥६५॥
मया त्रिशूलघातेन नाशितः काद्वियोजितः ।
पार्वती तु समाश्रुत्य रोदिती कुररीव सा ॥६६॥
अहो पुत्रजनेः सौख्यं निधने दुःखमित्यपि ॥ पतिं त्यक्त्वा सत्वरं सो दुद्राव गोपुरं प्रति ॥६७॥ पतितं तत्कबन्धं तु स्वाङ्के स्थाप्यरुरोद ह ॥ स्वात्माभिमानजं दुःखं सति ज्ञाने निवर्तते ॥६८॥
पुत्रं शोचामि किं वा मे पतिं शोचामि नाशकम् ।
गृहे हन्ता च घात्यश्च कं शोचामि गृहिण्यहम् ॥६९॥
रे पुत्र त्वं स्वयं कृष्णो ह जनिमृतिरेव ह ।
न वै ते मरणं योग्यं ह्येवं चेच्च म्रियेऽप्यहम् ॥1.103.७०॥ यदि त्वां न जीवयते शङ्करस्ते विनाशकः ॥ अनाहारव्रतं कृत्वा यात्रापारं करोम्यहम् ॥७१॥
इत्युक्त्वा ह्यशनं त्यक्त्वा विललाप मुहुर्मुहुः ॥ सङ्गृह्य गोपुरस्थाने कबन्धं तत्र संस्थिता ॥७२॥
अहो हो लोकमाता सा ह्यशोकाऽपि शुचान्विता ।
लोकोऽयं देहसम्बद्धो ज्ञानिनामपि शोककृत् ॥७३॥
क्षणं भवति सम्मोहाद्भ्रामकः का विचित्रता ।
श्रुत्वा विलापं पार्वत्याः सख्यस्तत्र समागताः ॥७४॥
शम्भुश्च कार्तिकेयश्च ब्रह्मविष्णुसुरादयः ।
गणाश्च प्राययुः सर्वे विलोपं चक्रिरे तदा ॥७५॥
चतुर्दशसु लोकेषु शोकोऽयं प्रसृतो द्रुतम् ॥ आजग्मुस्तत्क्षणे तत्र चतुर्दशबिलस्थिताः ॥७६॥
शोकार्तां पार्वतीं देव्यो बोधयन्ति नरास्तथा ।
शम्भुः स्वयं विचारं सञ्चक्रे तज्जीवनाय च ॥७७॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गणेशशङ्करयोर्युद्धे गणेशमस्तकच्छेदतज्जन्यशोकश्चेत्यादिनिरूपणनामा त्र्यधिकशततमोऽध्यायः ॥१०३ ॥