१०२

श्रीनारायण उवाच–
शृणु लक्ष्मि! ततो यद्वै सम्पन्नं कथयाम्यहम् ।
इत्यभ्यर्थ्य स्वपितरं शङ्करं लोकशङ्करम् ॥१ ॥ तूष्णीमास यदा विप्रः शम्भुराश्वास्य तं द्विजम् ॥ गृहान्तरे गतः शम्भुः पार्वतीं निद्रितां प्रियाम् ॥ २ ॥
शीघ्रं प्रबोधयामास भिक्षार्थं च द्विजातये ॥ सर्वं निवेदयामास यद्यदिच्छति वाडवः ॥३ ॥ पार्वती करपादादि शोधयित्वा जलेन च ।
विप्रेप्सितानि वस्तून्याहारयामास चाङ्गणे ॥४ ॥ सङ्कल्पेन तु सिद्धानि यान्यप्यन्यानि वाञ्च्छति ।
तत्सर्वं तत्र वृद्धाय ब्राह्मणाय समर्पयत् ॥ ५ ॥
न वै न्यूनमभूत् किञ्चित् तुतोषाति स वाडवः ॥ वस्तून्यादाय विप्रः सः श्रीकृष्णः परमेश्वरः ॥६॥ पुत्रो भवितुमिच्छन् वै तत्रैवाऽदृश्यतां गतः ॥ पार्वत्यास्तु शरीरे यो धातुर्लग्नोऽस्ति शाङ्करः ॥ ७ ॥
तत्र धातौ प्रविष्टोऽयं श्रीकृष्णः पुरुषोत्तमः ॥ पार्वत्यपि तदा स्वाङ्गेष्वभिलग्नं सचेतनम् ॥ ८ ॥
धातुं दृष्ट्वा शारीरं तन् मलं धूल्यादिसम्भवम् ।
मत्वा शुद्धिं तदा नैव चकार परमेश्वरी ॥९ ॥ शरीरं बहुधूल्यादिमलाढ्यं प्रविलोक्य च ॥ स्नानं विशालं सोद्गन्धं करिष्येऽद्य दिने शनैः ॥1.102.१०॥
निर्मलं वै शरीरं च नद्यामेव भविष्यति ।
एवं विचारं दधती स्थिता प्रातः शुभासने ॥११॥ स्नानयोग्यविचित्राणि गन्धद्रव्याण्यकारयत् ॥ दासीभिर्गृहकार्याणि मङ्गलादीन्यकारयेत् ॥१२॥ अथ शम्भुः स्वयं देवनद्यां स्नानाय निर्गतः ॥ गणैः सह स वै यातोऽन्ये गणास्तमनुद्रुताः ॥१३॥
केलासे पार्वतीक्षेत्रे गोपुरे नास्ति रक्षकः ॥ सर्वे गणास्तदा याता ज्ञात्वा स्नानोत्सवं परम् ॥१४॥
शम्भुमर्घ्यैश्चन्दनैश्च तैलैः सुगन्धिभिस्तथा ।
सौरभैस्तिलपिष्टैश्च कैसरेः कर्पुरैस्तथा ॥१५॥
उपमृद्य महादेवं स्नापयन्ति स्म धारया ॥ गणानामपि सर्वेषां विहारस्नानतारणैः ॥१६॥ जलकेल्यादिभिस्तत्र सुमहानुत्सवोऽभवत् ।
स्नानान्ते तु गणैः शम्भोः संस्कृता तु शिरोजटा ॥१७॥
भस्मपुष्पसुगन्ध्यादिद्रवैः सम्प्रोक्षिताऽभवत् ।
ललाटे बालचन्द्रस्य रेखया सह चन्दनम् ॥१८॥
लेखया कृतरेखं तु चर्चितं पुण्ड्रकं यथा ॥ कर्णपूरौ च रुद्राक्षैः कृतौ कण्ठे च वासुकिः ॥१९॥
हारो रुद्राक्षसम्पन्नो मुण्डमालाऽपि पौरटी ॥ कर्णयोर्धत्त्तूरपुष्पे रुद्राक्षद्वयवुट्टिके ॥1.102.२०॥
भुजयोः सर्पराजौ च प्रकोष्ठे भुजगद्वयम् ॥ कौश्यस्तु मुद्रिका रत्नश्रृङ्खलेंऽगुलिहस्तयोः ॥२१॥
यज्ञोपवीतं शुभगं हस्तिचर्मसुकञ्चुकम् ॥ सिंहचर्मकृतधौत्रं कट्यां च मुञ्जमेखला ॥२२॥ त्रिशूलं हस्तसन्न्यस्तं कौपीनं मृगचर्मणः ॥ सत्काष्ठपादुके रम्ये शरीरे भस्म सन्धृतम् ॥२३॥
अथ नेत्रे ध्यानयुक्ते परावृत्याऽर्धमेलिते ॥ व्याघ्रचर्मणा प्रातर्वै सन्ध्यार्थं संस्थितो हरः ॥२४॥ अपां कमण्डलुः पार्श्वे पञ्चपात्राणि चाग्रतः ॥ कुशपुष्पाऽक्षतधूपदीपचन्दनकुङ्कुमम् ॥२५॥
न्यस्तं गणैः स्वयं देवो ध्यानमग्नो बभूव ह ॥ समाधिं स्वात्मनि प्राप्तो निस्पृहः सर्वथा सदा ॥२६॥
यदा तिष्ठति ध्याने वा समाधौ शङ्करस्तदा ॥ नास्ति कालस्य नियमो निस्पृहस्य तृणं जगत् ॥२७॥
समाधौ संस्थितो देवो गणास्तत्र त्वितस्ततः ।
नृत्यन्ति च प्रगायन्ति रमन्ते च वनादिषु ॥२८॥
वृक्षेष्वारोहाऽवरोहौ कुर्वन्ति च स्वपन्ति च ।
फलमूलान्याहरन्ति गृह्णन्ति मादकानि च ॥२९॥ पुष्पपत्राणि चिन्वन्ति नयन्ति हरसन्निधौ ॥ निवेद्य ध्यानमग्नाय शम्भवेऽथ च ते गणाः ॥1.102.३०॥
फलकन्दादि खादन्ति रसानास्वादयन्ति च ॥ एवमुत्सवकर्तृणां सङ्गवस्तत्र वै गतः ॥३१॥
गणाः शम्भुं विहायैव न चायान्ति हरगृहम् ॥ प्रतीक्षते पार्वती तु नाऽऽयादेकोऽपि सेवकः ॥३२॥ ततः स्नातुं समीहाना तैलसौरभवारिभिः ॥ सुगन्धितद्रवैर्देवी सकेशं स्नानमिच्छति ॥३३॥ द्वारे कश्चिन्मया स्थाप्यो द्वारपालो निरोधकः ॥ स्नाने कश्चिन्न चाऽऽगच्छेद् रहसीति विचार्य वै ॥३४॥
स्वस्या धूल्यादिकं लग्नं शम्भुधातुमयं मलम् ।
स्वेदमिश्रं द्रवं मत्वा विश्लिष्य कृतपेशिकम् ॥३५॥
पुत्तलं सुन्दरं तस्य सर्वावयवशोभितम् ॥ सत्यः पुत्रो यथा वा स्यात् तादृशं विरचय्य च ॥३६॥
यावत्करेण देहं तं स्निग्धचिक्कणताप्तये ॥ परिमार्जयते मोहात्तावत् तावत्तु तत् स्वयम् ॥३७॥
चैतन्ये सद्रूपे भावे विवृतिं प्राप्य शोभते ।
शिरः करतलेनैव यावन्मार्जयते शिवा ॥३८॥
तावत्तु मस्तकं तस्य सकेशं सूज्ज्वलं ह्यभूत् ॥ ललाटे मुखनेत्रादौ यावद्धस्तौ सुयोजितौ ॥३९॥
तावन्नेत्रे सुरूपे सुग्राहकेऽभवतां तदा ।
कपोलौ प्रोल्लसद्गोलौ ललाटं चारुचन्द्रकम् ॥1.102.४०॥
ओष्ठौ रक्तौ मुखं मन्दहास्यकृत् कलिदन्तवत् ॥ सुनासं च सुरूपं च निर्वृत्तं तत्क्षणाच्छुभम् ॥४१॥
तावत्तु पार्वती देवी सहास्या स्वसखीस्तदा ॥ आह्वयते प्रपश्यन्तु बालोऽयं निर्मितो मया ॥४२॥
हसन् बालोऽपि मन्दं स्वनेत्रे तुद्घाट्य पश्यति ।
मातरं तत्सखीश्चेति सर्वानन्दकरोऽभवत् ॥४३॥ ततो मात्रा कृतं स्वस्ति पुत्रस्य करयोस्तथा ।
पृष्ठे वक्षसि कट्यां च सक्थ्नोस्तथैव जानुनोः ॥४४॥ जङ्घयोः पादयोश्चाङ्गुलिषु प्रोक्ष्यद्रवैः शुभैः ॥ स्वहस्तौ भ्रामितौ तस्याङ्गानि प्रमार्जितानि च ॥४५॥
यत्र यत्र प्रदेशे च स्पृष्टे हस्ततले शुभे ।
पार्वत्यास्तत्र तत्रायं बालो भवति चेतनः ॥४६॥
सुरूपः सुष्ठ्ववयवः पुष्टश्च मातृजो यथा ।
क्रीडया पुत्तलं सृष्टं पुत्रो जातः स चेतनः ॥४७॥
इत्याश्चर्यं महत्प्राप्य पूजनं प्राणरक्षणम् ॥ सर्वावयवपूर्णत्वं कृतं देव्या विशेषतः ॥४८॥
संस्मृत्य पार्वती कृष्णप्रदत्तं वरदानकम् ॥ अयोनिजोऽग्रपूज्यस्ते पुत्रश्चान्यो भवेदिति ॥४९॥ तदिदं वरदानं वै कृष्णरूपं सुपुत्रकम् ।
मत्वा निश्चयतस्तस्य महापूजनमाचरत् ॥1.102.५०॥
सुगन्धैः स्नापितो द्रव्यैरर्चितो भोजितस्तथा ।
श्रृङ्गारवस्तुभिः सम्यक शोभितो बोधितस्तया ॥५१॥
मम पुत्रेति चाहूय चुम्बनं सा व्यधान्मुहुः ।
स्तन्यपानं निधायांऽकेऽकारयत्प्राह पार्वती ॥५२॥ मम रक्षाकरः पुत्रः कृष्णोऽयं भगवान् स्वयम् ।
प्रादुर्भूतो मम कल्पवादपः फलितोऽधुना ॥५३॥ अहो सख्यः कुमारं मे वर्धयन्तु शुभाशिषा ॥ सख्य आयान्तु पुत्रं मे बलं ददतु रक्षकम् ॥५४॥
अहो आल्यः कुमारं मे शिरस्त्राणं सुकञ्चुकम् ।
यज्ञोपवीतकं रम्यं हारं काञ्चनजं तथा ॥५५॥
रत्नहीरकभूषाश्च धारयन्तु यथास्थलम् ।
धौत्रं पीताम्बरं कटिसूत्रं च कटिबन्धनम् ॥५६॥
समर्पयन्तु तद्योग्यं ददत्वन्यदपेक्षितम् ॥ कुर्वन्तु जयतिलकं चन्द्रकं साक्षतं तथा ॥५७॥ एवं श्रृङ्गारितश्चापि वर्धितश्च सखीजनैः ॥ सत्या च बोधितो मे त्वं रक्षको भव गोपुरे ॥५८॥
दत्तान्यस्मै महद्धार्यं त्रिशूलं चर्म खड्गकम् ।
शक्तिः पाशः कुठारश्च रक्षाया मालिकेति च ॥५९॥
एवं सुसज्ज्य पुत्रं तं शम्भोरन्यूनसद्बलम् ॥ स्वस्नानोद्यानमार्गस्य गोपुरेऽस्थापयत् सती ॥1.102.६०॥ तयाऽऽज्ञप्तो वयं स्नामो देवनद्या हृदे शुभे ॥ उद्याने संस्थिते तत्र जलागाधे रमामहे ॥६१॥
मम पुत्रो गणेशस्त्वं मा प्रवेशय कञ्चन ।
यावद्वयं निवृत्ताः स्म स्नानादत्र गृहाङ्गणे ॥६॥
तावत्कश्चिज्जनो नायाद् गोपुरान्तरमित्ययम् ॥ आदेशो मे त्वया रक्ष्यो मा पुमान् विशतु स्थलीम् ॥६३॥
यदि प्रसह्य चागच्छेद् बलात्तं विनिवार्य वै ।
रक्षणं तव मातुस्तु पार्वत्या मे करोत्विति ॥६४॥
यावत्स्नानानि जायन्ते तावन्न प्रविशेन्नर ।
एवमुक्त्वा दृढयित्वाऽर्पयित्वा चाऽऽयुधानि सा ॥६५॥
मन्त्राण्यपि तदा दत्वाऽतिष्ठिपद्गणनायकम् ॥ सोऽयं गोपुरमवति यथादेशमतन्द्रितः ॥६६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कृष्णात्मकविप्रस्य भिक्षाप्राप्त्युत्तरमदृश्यता, पार्वत्याः शारीरधातुमलाद् गणेशोत्पत्तिः सप्राणगणेशस्य पार्वत्याः स्नानकाले गोपुररक्षार्थं नियुक्तिश्चेत्यादिवर्णननामा द्व्यधिकशततमोऽध्यायः ॥ १०२ ॥