०९७

श्रीनारायण उवाच
शृणु लक्ष्मि! कृपालुः स श्रीकृष्णः करुणानिधिः ॥ स्वरूपं दर्शयामास प्रथमं सर्वमोहनम् ॥ १ ॥
ब्रह्मचर्यस्वरूपं वै साक्षाद्रूपनिधिं परम् ।
षण्मुखं समयूरं च बहुहेतिसमन्वितम् ॥ २ ॥
बहुज्ञानं बहुबलं बहुकलं सुयौवनम् ॥ दिव्यं सेनास्वामियोग्यचिह्नं षोडशहायनम् ॥ ३ ॥
अथ द्वितीयरूपं स्वं स्थूलं वंशकरं परम् ॥ वनमालागलं श्यामं रत्नभूषणभूषितम् ॥४ ॥ किशोरवयसं सर्पयज्ञोपवीतशोभनम् ॥ कोटिकन्दर्पलावण्यं मूषकस्थिरवाहनम् ॥५॥ अतीव हृष्टं सर्वेशं भक्तानुग्रहकारकम् ॥ दृष्ट्वा रूपे रूपवती पुत्रौ तदनुरूपकौ ॥६ ॥ मनसा वरयामास वरं सम्प्राप्य तत्क्षणम् ॥ वरं दत्वा तदा कृष्णस्तत्तेजोऽन्तरधीयत ॥ ७ ॥
प्राप्तौ पुत्राविति हृष्टा जगदम्बा निरम्बिका ।
ब्राह्मणभिक्षुबन्दिभ्यो ददौ दानानि चाम्बिका ॥८ ॥
ताँस्तथा भोजयामास पूजयामास शङ्करम् ॥ दुन्दुभिं वादयामास कारयामास मङ्गलम् ॥ ९ ॥
सङ्गीतं गापयामास कृष्णसम्बन्धि सुस्वरम् ।
व्रतं समाप्य शैलोत्था भोजयित्वा तदाश्रितान् ॥1.97.१०॥
दुग्धपाकं पूरिकाश्च बुभुजे स्वामिना सह ॥ ताम्बूलं सुसुगन्धाढ्यं बुभुजे शम्भुना सह ॥११॥
सर्वान् प्राघूणिकान् सा तु प्रस्थाप्य प्रयता पुनः ।
श्राङ्गारिक परिष्कृत्य शारीरकं प्रमोदनम् ॥१२॥
पयःफेननिभां शय्यां रम्यां सद्रत्नमञ्चके ॥ पुष्पचन्दनसंयुक्तां कस्तूरीदानवासिताम् ॥१३॥ रहसि स्वामिना सार्धं सुष्वाप परमेश्वरी ॥ सुगन्धिकुसुमाढ्येन वायुना सुरभीकृते ॥१४॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुताश्रये ॥ कैलासधामसीमान्ते रम्ये चन्दनकानने ॥१५॥ गन्धमादनभूभागे सिषेवे सुरतं पतिम् ॥ व्यहार्षीत् सा सुरसिका शङ्करेण सहाम्बिका ॥१६॥ द्वयोः सुरतमापन्नं यद् द्वयोश्च तदाऽभवत् ॥ स्कन्दनं महदाश्चर्यं प्रथमे वीर्यपातने ॥१७॥
वीर्यमग्निस्वरूपं तद् भयकृच्च महाप्रभम् ।
योनिद्वारे स्खलितं तद् बहिरेव प्रवाहितम् ॥१८॥
अयोनिजस्य पुत्रस्योत्पत्तयेऽभूद्धरीच्छया ॥ अथ प्रवाहरूपेण ज्वालारूपेण रेतसा ॥१९॥
उष्णतेजःसमुद्भूतोष्मस्वरूपेण चाऽम्बरे ।
अन्तरिक्षे भूतले च प्राणिनो मूर्छनां ययुः ॥1.97.२०॥
तच्छान्त्यर्थं स्वयं ब्रह्मा विष्णुश्चान्ये दिवौकसः ॥ सस्मरुर्मनसा चाग्निं सोऽप्याजगाम सत्वरम् ॥२१॥
देवानामनुमत्या च विवेश सुरतस्थलम् ।
तदङ्गणमनुप्राप्य भिक्षां देहीति तूचिवान् ॥२२॥
पाणिपात्रस्य मे ह्यम्ब भिक्षां देहि व्रजाम्यहम् ॥ भिक्षां तस्मै ददौ चाम्बा दुग्धरूपामुपस्थिताम् ॥२३॥
परमान्नं दुग्धपाकं प्रदत्तं चाञ्जलौ यदा ॥ तदा च प्रासरद् रेतः शम्भोर्व्योमाध्वनश्च्यवत् ॥२४॥
वह्न्यञ्जलौ प्रपतितं मिष्टं सुगन्धि सद्रसम् ।
निगीर्णं मिश्रितं भैक्षं प्रत्यक्षं वह्निना स्वयम् ॥२५॥
रसास्वादे मोहितोऽग्निरन्यद्रेतोऽपि यत्त्वभूत् ॥ व्योम्नोऽन्तरिक्षाद्भूमेश्च शय्यायाश्चाऽलभेद्धि तत् ॥२६॥
तत् सर्वं भिक्षया सार्धं रसलोभाच्च मोहतः ॥ स्वयमेव गृहीत्वा तन्मिश्रयित्वा मुहुर्मुहुः ॥२७॥
जग्रासाऽऽस्वादयन्दुग्धपाकं वीर्यं च भावतः ॥ न किञ्चिदवशिष्टं हि पुत्रार्थं पार्वतीशये ॥२८॥
तदा चिन्तापरा गौरी रसास्वादे प्रलोभिनम् ।
वह्निं शशाप भो वह्ने रसास्वादप्रदूषणात् ॥२९॥
बीजं पुत्रात्मकमपि शय्यास्थं भक्षितं त्वया ॥ तस्माद् भिक्षो मम शापात्सर्वभक्षो भवाऽऽशु वै ॥1.97.३०॥
शापः प्राप्तो महद्दुःखमभवद्वह्निमानसे ॥ रेतो न जीर्णं प्रबलं तेजोऽप्युष्णतरं यतः ॥३१॥
प्रत्युत वह्निं तद्रेतः प्राज्वालयदतीव च ॥ वह्निर्जाज्वल्यमानो वै गत्वा गङ्गामहाह्रदे ॥३॥
वमति स्म च तत्सर्वं वह्निः स्वस्थोऽभवत्तदा ॥ किन्तु वीर्योष्मणा गङ्गा तप्ता दग्धाऽभवत्तदा ॥३३॥
जलान्युच्छलितान्यासन् तत्तापं नैव सेहिरे ।
गङ्गया प्रोज्झितो धातुः शरस्तम्बे पपात ह ॥३४॥
तत्र समज्वलद्धातुर्वह्निभ्रान्तिकरस्तदा ॥ सप्तर्षिप्रमदास्तत्र गङ्गायां स्नातुमागताः ॥३५॥
दृष्ट्वा प्रज्वलितं तत्र स्नाताश्च शीतपीडिताः ॥ कृत्तिकास्तप्तुसङ्कल्पा ह्यरुन्धत्या निवारिताः ॥३६॥
अपि तत्रागमन् षड् वै ऋषिपत्न्यश्च तत्स्थले ॥ यावत् तेपुश्च ताः सर्वा रेतसः परमाणवः ॥३७॥
विविशू रोमकूपेषु तासां तत्रैव सत्वरम् ॥ सगर्भास्ताश्च सञ्जाताः षड्गर्भैर्जज्वलुर्भृशम् ॥३८॥
शुशुचुश्च कुतस्ताद्वै गर्भवत्यो भवाम ह ॥ दाहयत्यखिलं देहं किमिदं त्वनलादभूत् ॥३९॥
त्यजामश्चैनमेवाऽत्र नालखण्डौषधिग्रसात् ॥ पीत्वा रसं च तद्रेतः उत्ससृजुर्भुवस्तले ॥1.97.४०॥
ऐकपद्येन तद्रेतः षण्मुखं हाटकप्रभम् ॥ अपत्यं द्रागभवद्वै सुरूपं सुकुमारकम् ॥४१॥
गङ्गायाः पुलिने जातः कार्तिकेयः प्रतापवान् ॥ जातो यदा हि गङ्गायां षण्मुखः शङ्करात्मजः ॥४२॥
तदानीमेव गिरिजा जाता स्नुतपयोधरा ।
शिवं निरीक्ष्य तन्वङ्गी हे शम्भो प्रस्रवः स्तनात् ॥४३॥
सञ्जातो मे महादेव किमर्थस्तन्निरीक्ष्यताम् ।
समाधिना महादेवो ज्ञात्वाऽब्रवीत् सुतोऽभवत् ॥४४॥
नारदेन तदागत्य कथितं जन्म तस्य तत् ॥ शिवाय च शिवायै च पुत्रो जातोऽतिसुन्दरः ॥४५॥
तदाकर्ण्य वचो विप्राः ऋषयः प्रमथास्तथा ॥ कैलासं भूषयामासुर्वितानध्वजतोरणैः ॥४६॥
पताकाकदलीस्तम्भैः स्वस्तिमङ्गलमण्डनैः ॥ तदा सुरर्षयः सिद्धाश्चारणा अप्सरोगणाः ॥४७॥ यक्षाः सर्पा मानवाश्च जग्मुर्गङ्गातटं शुभम् ॥ द्रष्टुं गाङ्गेयमारुह्य वृषभं शङ्करस्तथा ॥४८॥
पार्वत्या सह सगणो गङ्गातटमुपाययौ ॥ तथा शङ्खाश्च भेर्यश्च नेदुस्तूर्याण्यनेकशः ॥४९॥ केचिन्नृत्यन्ति गायन्ति स्तुवन्ति तद्गुणार्णवम् ॥ यावत्समीक्षयामासुर्गाङ्गेयं शङ्करोपमम् ॥1.97.५०॥
ददृशुस्तेजसा व्याप्तं बालं सूर्यसमप्रभम् ॥ सुमुखं सुश्रियं रम्यं सुनासं सस्मितेक्षणम् ॥५१॥
प्रसन्नं चारुदशनं सर्वावयवसुन्दरम् ॥ स्निग्धालकं कुमारं तं देवा ववन्दिरे तदा ॥५२॥
प्रमथाश्च गणाः सर्वे वीरभद्रादयस्तथा ।
ब्रह्मा विष्णुर्महेन्द्रश्च परिवार्य कुमारकम् ॥५३॥
उपसंस्थास्तथा चान्ये वामदक्षिणभागतः ।
अवतीर्य वृषाच्छम्भुः पार्वत्या सह सुव्रतः ॥५४॥
पुत्रं ददर्श चात्मानं स्नेहप्लुतो बभूव ह ॥ उपगुह्य गुहं तत्र पार्वती प्रेमसम्प्लुता ॥५५॥
प्रस्नुतं पाययामास स्तन्यं चाङ्के निधाय वै ।
चुचुम्ब पार्वती पुत्रमश्लिक्षत् शङ्करः पिता ॥५६॥
योजितो ह्याशिषा सर्वैः शर्करा दापिता तदा ।
दानानि विविधान्येव दापितानि हरेण वै ॥५७॥
दम्पती तौ तदा तत्र चैकपद्येन रेजतुः ॥ कुमारस्तु तदा रेमे धृत्वा कण्ठस्थवासुकिम् ॥५८॥
अथ तत्रगता गङ्गा कृत्तिकाश्चाग्निदेवता ।
दृष्ट्वा बालं महारूपं सबलं सूर्यवर्चसम् ॥५९॥
ममाऽयं न च ते बालो विवदन्ते स्म चाग्रहात् ॥ बालः प्राह तदा साक्षान्मदालोकात् तु यत्स्तनात् ॥1.97.६०॥
दुग्धं परिस्नुतं स्नेहात् तस्याश्चाहं सुपुत्रकः ॥ इत्युच्चार्य ननाम स्वपितरौ प्राक् ततोऽपरान् ॥६१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
पार्वत्यै श्रीकृष्णप्रदत्तपुत्रद्वयरूपदर्शनं शङ्करपार्वतीवह्निगङ्गाशरस्तम्बकृत्तिकाद्वारा कार्तिकेयजन्म चेति प्रदर्शननामा सप्तनवतितमोऽध्यायः ॥९७॥