०९४

श्रीलक्ष्मीरुवाच–
नारायणं भवन्तं वै त्यक्त्वा गणेशपूजनम् ।
प्रथमं वै कथं केन कदा क्लृप्तं तदुच्यताम् ॥ १॥
श्रीनारायण उवाच—-
शृणु लक्ष्मि! कथां रम्यां श्रीकृष्णात्मकबोधदाम् ।
स चांशः कृष्णचन्द्रस्य तथैवाऽयोनिसम्भवः ॥ २ ॥
महालक्ष्मीः स्वयं माया दक्षकन्या बभूव ह ॥ सा च नाम्ना सती शम्भोर्निन्दया दक्षजन्यया ॥३ ॥ देहं त्यक्त्वा मेनकायां हिमालयात्तु पार्वती ।
जाता तां पर्वतः पुत्रीं शङ्कराय ददौ मुदा ॥४ ॥ तां गृहीत्वा महादेवो जगाम विजनं वनम् ॥ गार्हस्थ्ययोग्यकुट्यां तु सदा निवसतोस्तयोः ॥ ५ ॥
सहस्रवर्षपर्यन्तं शृङ्गारो ह्यभवत् सुखः ।
देवानां गर्भतो जन्म पुत्राणां नैव जायते ॥ ६ ॥
पुत्राऽलब्ध्या तु पार्वत्याः सुखं किञ्चिन्न जायते ।
दिने दिने गते तस्याः पुत्रस्पृहा व्यवर्धत ॥ ७ ॥
रतेः फलं सुखं पुत्रो ह्युभयं सम्भवत्यपि ॥ पुत्रफलं विनाऽऽनन्दो वार्धक्ये दुःखदो भवेत् ॥ ८ ॥
पुत्रशून्यं रतिमात्रं भाव्युद्वेगाय कल्प्यते ॥ विनाऽपत्यं स्त्रिया कालक्षेपः कार्यस्तु केन वै ॥ ९ ॥
पत्या समं रतेः कालक्षेपो भवति स्वल्पकः ॥ तदन्यकालगमकं स्त्रियोऽपत्यं भवेदिह ॥1.94.१०॥
लालने पालने तस्य क्रीडनकादिकर्मणि ॥ समयोऽत्येति नारीणां स एव स्वर्ग उच्यते ॥११॥
स्वामिसुखं प्रथमं च स्वर्गं द्वितीयमङ्गजम् ।
अपत्यसुखकृत्स्वर्गं तृतीयं धनधान्यजम् ॥१२॥ चतुर्थं तु भवेत्स्वर्गमारोग्यं पञ्चमं यशः ।
इत्येतान्येव सौख्यानि स्वर्गाणि लौकिकानि हि ॥१३॥
इति चिन्तान्विता नित्यं रेमे स्वस्वामिना सह ।
शम्भुर्विज्ञाय तद्हार्दं तां पप्रच्छ पतिव्रताम् ॥१४॥
किमिच्छसि प्रिये! नित्यं किं ते मनसि वर्तते ।
किं वै चिन्तयसे रत्यां ब्रूहि क्रिये तवेप्सितम् ॥१५॥
पार्वती प्राह देवेश! किं मे न्यूनं तवान्तिके ।
सर्वदः सर्वलोकानां कर्ता लब्धो मया यतः ॥१६॥
यत्र भगवतो वासस्तत्र स्युः सुसमृद्धयः ।
न न्यूनं नाऽप्यशान्तिश्च नाऽलाभः प्रेष्ठवस्तुनः ॥१७॥ ऋतूत्तरं तु नारीणां प्रेष्ठः पतिस्ततः सुतः ॥ मया पतिस्त्रिलोकेशः प्राप्तोऽपि नास्ति मे सुतः ॥१८॥ पुत्रेषणा हृदये मे जागर्ति तव दर्शने ।
यदा यदा तु देवेश पश्यामि त्वां तदा तदा ॥१९॥
सङ्कल्पो जायते मोहाद् बलेन चाग्रपूजया ॥ पतिदेवसमानो मे कदा पुत्रो भवेदिति ॥1.94.२०॥
कान्तानां कान्तविच्छेदः प्रथमं दुःखमुच्यते ॥ कान्तसत्त्वे यद्यरतिद्वितीयं दुःखमुच्यते ॥२१॥
दुःखातिरेकिदुःखं च तृतीयमनपत्यता ॥ त्रैलोक्यकान्तं कान्तं त्वां लब्ध्वापि न च मे सुतः ॥२२॥
या स्त्री पुत्रविहीनाऽस्या जीवनं तन्निरर्थकम् ।
जन्मान्तरकृतं पुण्यं तपोदानजपादिभिः ॥२३॥
तदा पुत्रः प्रजायेत परत्रेह सुखप्रदः ।
सुपुत्रो निजपित्रंशः पितृतुल्यसुखप्रदः ॥२४॥
कुपुत्रस्तु कुलाङ्गारो मनस्तापाय केवलम् ॥ प्रार्थयन्ति जनास्तस्मात् सुपुत्रो मे भवेदिति ॥२५॥
स्वामी स्वांशेन सुस्त्रीणां गर्भे जन्म लभेद् ध्रुवम् ॥ साध्वी स्त्री मातृतुल्या च सततं हितकारिणी ॥२६॥
असाध्वी वैरितुल्या च शश्वत्सन्तापदायिनी ।
किमुपायं करिष्यामि वद पुत्रफलप्रद ॥२७॥
इत्युक्त्वा पार्वती देवी तूष्णीमास यदा तदा ॥ प्रहस्य शङ्करो देवो बोधयामास पार्वतीम् ॥२८॥
शृणु पार्वति! वक्ष्यामि तव भद्रं भविष्यति ॥ प्रयत्नतः कार्यसिद्धिः सर्वेषां खलु जायते ॥२९॥
सर्वसिद्धिप्रदं हृद्यमुपायं कथयामि ते ॥ हरेराराधनं कृत्वा व्रतं कुरु वरानने ॥1.94.३०॥
पुण्यकव्रतसञ्ज्ञं तद् वर्षमेकं करिष्यसि ॥ मनोरथकल्पतरुं सुखदं पुत्रदं व्रतम् ॥३१॥
सर्वव्रतानां संश्रेष्ठं हरेस्तत्पुण्यकं व्रतम् ।
यथा गङ्गा सरित्श्रेष्ठा यथा देवेषु वै हरिः ॥३२॥
वैष्णवेषु यथा चाहं देवीषु त्वं महासती ॥ यथा वर्णेषु विप्रो वै श्रेष्ठस्तीर्थेषु पुष्करः ॥३३॥
पुष्पेषु पारिजातं च पत्रेषु तुलसीदलम् ॥ तिथिष्वेकादशी श्रेष्ठा वारेषु रविरुत्तमः ॥३४॥
मासेषु मार्गशीर्षश्च सर्वर्तुषु वसन्तकः ।
संवत्सरो वत्सरेषु कृतं युगेषु चोत्तमम् ॥३५॥
पूज्येषु च यथा विद्वान् माता गुरुजनेषु च ।
पत्नी यथा हितकृत्सु विश्वस्तेषु हृदन्तरम् ॥३६॥
यथा धनेषु रत्नानि प्रियेषु च पतिर्यथा ॥ यथा बन्धुषु सत्पुत्रो वृक्षेषु कल्पपादपः ॥३७॥
तथा हरेर्व्रतं श्रेष्ठं सर्वव्रतेषु पुण्यकम् ॥ फलेष्वाम्रफलं श्रेष्ठं वने वृन्दावनं यथा ॥३८॥
यथा स्त्रीषु शतरूपा ह्युर्वश्यप्सरसां यथा ॥ यथा मातृषु कमला सूर्यस्तेजस्विषूत्तमः ॥३९॥
आह्लादकेषु चन्द्रश्च सुन्दरेषु च मन्मथः ।
श्रेष्ठाः शास्त्रेषु वेदाश्च सिद्धेषु कपिलो यथा ॥1.94.४०॥
कीर्तिदेषु यथा विद्या व्यापकेषु प्रभुर्यथा ।
श्रेष्ठं चक्षुर्यथाङ्गेषु सत्यं पुण्येषु चोत्तमम् ॥४१॥
तपस्सु श्रीहरेः सेवा गव्येषु घृतमुत्तमम् ॥ श्रेष्ठममृतं भक्ष्येषु शुद्धेषु च हुताशनः ॥४२॥
तैजसेषु यथा स्वर्णं मिष्टेषु प्रियभाषणम् ।
पतत्त्रिषु च गरुडः करिष्यैरावतो यथा ॥४३॥ तथा हरेर्व्रतं श्रेष्ठं सर्वव्रतेषु पुण्यकम् ॥ देवर्षिषु नारदश्च योगिषु सनकादयः ॥४४॥ गन्धर्वेषु चित्ररथस्तत्त्वेषु चेतनो यथा ।
कवने जीवने शुक्रः क्षमावत्सु यथा च भूः ॥४५॥
श्रेष्ठा लाभेषु वै मुक्तिः सम्पत्सु भक्तिरुत्तमा ।
पवित्रेषु यथा साधुर्वर्णेषु प्रणवो यथा ॥४६॥
मन्त्रेषु श्रीहरेर्मन्त्रो गोषु कामदुघा यथा ।
वेदेषु सामवेदश्च तृणेषु कुश उत्तमः ॥४७॥
सुखदेषु यथा ज्ञानं सर्पेषु वासुकिर्यथा ।
अक्षरेषु अकारश्च यथा तातो हितैषिषु ॥४८॥ चतुष्पात्सु यथा सिंहः शालग्रामश्च मूर्तिषु ।
यथा बुद्धिः करणेषु शक्तिमत्सु हरिर्यथा ॥४९॥
नाशवत्सु द्वयणुकश्च दधीचिर्दातृषूत्तमः ॥ ब्रह्मास्त्रं तु यथाऽस्त्रेषु चक्रेषु च सुदर्शनम् ॥1.94.५०॥
सर्वसारो यथा कृष्णो व्रतेषु पुण्यकं तथा ।
व्रतं कुरु महादेवि! शीघ्रं स्वेष्टप्रदायकम् ॥५१॥
सर्वश्रेष्ठस्तु पुत्रस्ते व्रतादेव भविष्यति ।
व्रताराध्यो हरिः कृष्णो गोलोकाधिपतिः प्रभुः ॥५२॥
प्रसन्नः सर्वदाता स भुक्तिमुक्तिप्रदो भवेत् ।
जनो यत्सेवया बन्धान्मुच्यते पितृकोटिभिः ॥५३॥ उद्धृत्य कोटिपुरुषान् गोलोके सुखमृच्छति ॥ भ्रातॄन्भृत्यान्सहायाँश्चाश्रितान्नारीसुतादिकान् ॥५४॥
कृष्णभक्तः समुद्धृत्य सुखं याति हरेः पदम् ॥ तस्माद् गृहाण गिरिजे! हरेर्मन्त्रव्रतं परम् ॥५५॥
कुरु व्रतं जप मन्त्रं शीघ्रं सिद्धिर्भविष्यति ।
इत्युक्त्वा जलमादाय देव्यै मन्त्रवरं ददौ ॥५६॥
शम्भुर्वामे गिरिजायाः कर्णे मन्त्रं जजाप ।
पार्वती तं दीयमानं मन्त्रं दध्यौ हृदि त्विमम् ॥५७॥
“ॐ नमो हरिकृष्णाय पतिरूपधराय च ।
बीजाय गर्भरूपायाऽपत्यरूपाय शम्भवे ॥५८॥
सङ्कल्पगर्भहृद्याय नमः पुत्रप्रदाय च ।
विजेत्रेऽग्राऽर्च्यरूपाय नमो देहि सुपुत्रकम् ॥५९॥ सर्वविजयिनं देहि सर्वाग्राऽर्च्यं च मे सुतम् ॥ पुण्यकं ते व्रतं कृष्ण क्रियते प्रीतये तव ॥1.94.६०॥ निर्विघ्नं सफलं तत्स्यात् पुत्रात्मन् सुतदो भव ॥ त्वत्समं मे सुतं देहि चिरञ्जीवि नमो नमः ॥६१॥
इतिमन्त्रं हरदत्तं गृहीत्वा पार्वतीं सति ।
जगाम जाह्नवीतीरं शम्भुना सह पावनम् ॥६२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पार्वत्यै पुत्रजिज्ञासमानायै शङ्करप्रदत्तबहुदृष्टान्तसमन्वितकृष्णमन्त्रप्रदानप्रदर्शननामा चतुर्नवतितमोऽध्यायः ॥९४॥