श्रीनारायण उवाच–
पश्य लक्ष्मि! पर्वतोद्वाहने कष्टं तु कीदृशम् ॥
असाध्ये तु महाकार्ये दुःखं पूर्व ततः सुखम् ॥ १॥
विष्णुः स्वयं तदा देवान् दैत्यान् प्राह हितं वचः ॥
एष आयामि गृह्णामि चोत्तोलयामि पर्वतम् ॥२ ॥
मृता भवन्तु सप्राणाः स्वस्थाश्च सुबलास्तथा ।
मा हृद्बलं परित्याज्यं मा कार्या हास्यपात्रता ॥ ३ ॥
इत्येवं प्रोच्य पक्षीन्द्रं गरुडं प्राह चोन्नय ।
लीलया तोलयित्वैव चञ्च्वा तं गरुडस्ततः ॥ ४ ॥
क्षीरोदधेरुत्तरे तु तटे निक्षिप्य तत्स्थलात् ।
गतो वैकुण्ठमेवेति देवा दैत्यादयस्तदा ॥५ ॥
वासुकिं वरयामासू रज्ज्वर्थं सोऽपि चागतः ।
मन्थनं मन्दरं कृत्वा वासुकिं रज्जुमेव च ॥ ६ ॥
कृत्वा सुरासुराः सर्वे ममन्थुः क्षीरसागरम् ।
देवा मुखं परिगृह्य यदा तु संस्थितास्तदा ॥ ७ ॥
दैत्याः प्राहुर्वयं पुच्छे न स्थास्यामोऽतिमानिताः ॥
कृत्वा देवान् हरिः पुच्छे मुखे दैत्याँश्चकार ह ॥ ८ ॥
क्षीराब्धौ मथ्यमाने च वासुक्यस्थ्नां वियोजनाम् ।
तदा जातं वासुकिश्च मृत एवोपदृश्यते ॥ ९ ॥
अथ विष्णुः स्वयं तत्र प्रविष्टो रज्जुरूपतः ॥
वासुकिश्च तदा पुष्टो बलमासाद्य संस्थितः ॥1.91.१०॥
अथापि मथ्यमानेऽथ पर्वतोऽपि गुरुत्वतः ॥
विमग्नोऽगात्तले नीत्वा देवान्दैत्यान्प्रमन्थकान् ॥११॥
तदा विष्णुरभूत्कूर्मो गत्वा वार्धितलां स्वयम् ॥
ऊढ्वा तं निजपृष्ठे स दधारेति तदद्भुतम ॥१२॥
अथापि मथ्यमानेऽथ पार्श्वे नमति मन्दरः ॥
तं तु स्थिरं तदा कर्तुं मध्ये मूर्धानमास्थितः ॥१३॥
विष्णुः स्वयं चतुर्भ्यां वै दोर्भ्यां धृत्वा व्यवस्थितः ॥
तदा सुरासुराः सर्वे ममन्थुः क्षीरसागरम् ॥१४॥
कठोरं कमठपृष्ठं कठोरो मन्दराचलः ॥
द्वयोः सङ्घर्षजो वह्निरभूत् तत्र भयङ्करः ॥१५॥
ज्वालामालामहाव्याप्तो दिधक्षन्निव सागरम् ॥
देवा दैत्याश्च तं दृष्ट्वा प्रदुद्रुवुरितस्ततः ॥१६॥
प्राह विष्णुस्तदा सर्वान् मा भयं गच्छतोऽखिलाः ॥
प्रशाम्यामि क्षणादेनं पश्यन्तु मम पौरुषम् ॥१७॥
सङ्कर्षणस्तदा भूत्वा विष्णुर्मुखं विवृत्य च ।
श्वासमेकं जगृहेऽथ वह्निरुदरमाविशत् ॥१८॥
अथापि मथ्यमानेऽपि विषं हालाहलं ह्यभूत् ॥
महोल्बणं महाधूम्रं महाबाष्पतनूल्बणम् ॥१९॥
व्योम्नि सर्वत्र चाऽव्याप्नोद् बाष्परूपं विनाशकम् ॥
यत्र यत्र गतं तत्र प्राणिनोऽनाशयत्क्षणात् ॥1.91.२०॥
श्वासं नीत्वा तदा सर्वे मूर्छिताः शून्यतां गताः ।
महद्विषं तले चासीद् यावद्वहिर्न चागतम् ॥२१॥
तावन्तु तत्स्थलं त्यक्त्वा विष्णुनारदबोधिताः ।
अमूर्छिता देवदैत्याः शङ्करं प्रति चाययुः ॥२२॥
बहुधा प्रार्थयामासुः विषनाशाय शङ्करम् ॥
माङ्गल्यं मङ्गलानां च देवं पशुपतिं विभुम् ॥२३॥
सञ्जीवय महादेव त्वं त्राता त्रिपुरान्तक! ।
रक्षोल्बणाद्गरलात् त्वं कालकूटान्मृतीश्वर! ॥२४॥
एवमभ्यर्थितः शम्भुः प्राह सर्वान्सुरासुरान् ॥
मत्पुत्रं विघ्नहर्तारं श्रीगणेशं तु ये जनाः ॥२५॥
न पूजयन्ति चारम्भे कार्यसिद्धिर्न सम्भवेत् ॥
प्रत्युत जायते विघ्नो नाऽत्र कार्या विचारणा ॥२६॥
अस्माभिर्निर्मितो देवो गणेशः कार्यसिद्धये ॥
यूयं सर्वे महामग्नाः पाण्डित्यकाण्डकत्थनाः ॥२७॥
गणेशं नाऽभिसम्पूज्य कार्यारम्भकरा यतः ॥
कालकूटं विषं तस्माद् विघ्नार्थं समुपस्थितम् ॥२८॥
तस्मान्नमन्तु तं देवं पूजयन्त्वद्य एव हि ।
विघ्नं नष्टं भवेत् सद्यो माऽत्र विलम्बयन्तु वै ॥२९॥
अन्यथा हि कृते ह्यर्थेऽन्यथात्वं सम्भवेत् किल ।
यदि देवो न पूज्येत कार्यसिद्धिकरः सुतः ॥1.91.३०॥
कार्यसिद्धिर्न तेषां वै भवेत्तु भवतां यथा ॥
द्रागेव शम्भुवचनं गृहीत्वा ते सुरादयः ॥३१॥
पूजयन्ति गणेशं स्म कैलासे शङ्करगृहे ॥
आवाहनं चासनं च पाद्यमाचमनार्घके ॥३२॥
पञ्चामृतकृतस्नानमभिषेकाप्लवस्तथा
वस्त्रेण मार्जनं वस्त्रं यज्ञोपवीतमेव च ॥३३॥
अबीरं च गुलालं च सिन्दूरकं च कुङ्कुमम् ॥
अक्षताश्च तथा दूर्वाङ्कुराणि धूपदीपकौ ॥३४॥
चन्दनं पुष्पहारश्चाऽऽभूषणानि प्रभोजनम् ॥
जलपानं लड्डुकाश्च ताम्बूलाऽऽरार्त्रिके तथा ॥३५॥
प्रदक्षिणं दण्डवच्च नमस्कारः स्तुतिस्तथा ॥
फलानि च क्षमायाञ्चा वन्दनं कुसुमाञ्जलिः ॥३६॥
द्वात्रिंशदुपचारैः सः पूजितस्तेजसा ज्वलन् ।
सन्तुष्टः सन् गणाध्यक्षो देवानां वरदोऽभवत् ॥३७॥
सगणेशः तदा शम्भुः प्रसन्नोऽब्धिं जगाम ह ॥
बाष्पात्मकं विषं तत्र ग्रसित्वा श्वासवायुना ॥३८॥
हालाहलं महाक्ष्वेडमाकृष्याऽब्धितलात्स्वयम् ॥
पपौ ब्रह्मप्रतापेन कण्ठे ररक्ष तद्विषम् ॥३९॥
शुष्कीकृतं समाधिस्थयोगैश्वर्येण शम्भुना ॥
तत्र त्वचि गले कृष्णतिलं परिणतं तु तत् ॥1.91.४०॥
कण्ठे नीलतिलात्तस्य नीलकण्ठाऽभिधाऽभवत् ।
विषपानस्य समये क्षूयमानस्य धूर्जटेः ॥४१॥
स्वल्पा विषकणाः श्वासाद् बहिर्ये पतिताश्च तान् ॥
गृह्णन्तो देहिनो जीवा ये ते विषाढ्यजातयः ॥४२॥
दन्दशूकाश्च सर्पाश्च वृश्चिकाः कृकलासकाः ॥
गोधाश्च जळलाळाश्च खर्जनाकटुवल्लयः ॥४३॥
समभवँस्ततोऽप्येते ममन्थुर्मन्दराचलम्
जलशैत्यद्यनावस्थहिमदेहस्तु चन्द्रमाः ॥४४॥
द्वितीयायाः कलारूपः पीयूषसम्भृतस्तदा ॥
अतिशीतं तु तं ज्ञात्वा जगृहुर्न सुरासुराः ॥४५॥
शम्भुर्विषोष्णता व्याप्तः शीतांशुं जगृहे भ्रुवि ॥
भृगुः प्राह तदा देवान् ग्रहाः सर्वेपि चोत्तमाः ॥४६॥
कार्यसिद्धिं प्रशंसन्ति यत्नं कुरुत लीलया ।
चन्द्रं गुरुः समायातो बुधश्चैव समागतः ॥४७॥
सूर्यश्चैव तथा शुक्रः शनिर्मङ्गल एव च ॥
तस्माच्चन्द्रबलं श्रेष्ठं कार्यस्य सिद्धये भवेत् ॥४८॥
गोमन्तनामकोऽयं च मुहूर्तोऽस्ति जयप्रदः ॥
एतच्छ्रुत्वा बलं ते तु द्विगुणं प्राप्य गर्जिताः ॥४९॥
ममन्थुरब्धिं त्वरितास्तावत्सुरभिर्गौः सदा ॥
कामदुघा कपिला सा तूधो भारवती शनैः ॥1.91.५०॥
जलमार्गात्तीरमायात् सर्वैः सम्पूजिता च सा ॥
येषां दुग्धं भवेद् भोग्यं तैर्नेया सेति निर्णये ॥५१॥
ऋषिभिर्देवकार्यार्थं यज्ञार्थं च स्वकीकृता ॥
तावदन्याः सिताः पीताः कृष्णा अरुणपाण्डुराः ॥५२॥
हरिद्वर्णाश्चित्रवर्णा गावोऽनेकास्ततोऽभवन् ।
विप्रास्तु मुनयस्ता वै जगृहिरे प्रमाणतः ॥५३॥
अथ सर्वे सुसंरब्धा ममन्थुः क्षीरसागरम् ।
कल्पवृक्षस्तथा पारिजात आम्रादयो द्रुमाः ॥५४॥
जज्ञिरेऽथ च तान्सर्वान् तटेऽस्थापयदच्युतः ।
पुनः सम्मथ्यमानाद्वै कौस्तुभाख्यं महाप्रभम् ॥५५॥
रत्नानामुत्तमं रत्नं चिन्तामणिसमन्वितम् ॥
हीरकैश्च सहोत्पन्नं कौस्तुभं विष्णवे ददुः ॥५६॥
चिन्तामणिः सुरेशाय दैत्येभ्यो हीरकान्ददुः ।
अथापि मथ्यमानात्तदुच्चैःश्रवसमद्भुतम् ॥५७॥
बहुभिरश्वजातीयैरुत्पन्नं हरये ददुः ॥
अथापि मथ्यमानाद्वै चतुःषष्टिगजान्वितम् ॥५८॥
ऐरावतं महारत्नं चतुर्दन्तमदान्वितम् ।
पाण्डुरं शृङ्गिसदृशं तुराषाहेऽपि तं ददुः ॥५९॥
अन्ये गजाश्च बहवो लोकपालेभ्य आर्पिताः ।
अथापि मथ्यमानाद्वै मदिरा विजया तथा ॥1.91.६०॥
कटुशृङ्गी चाहिफेनं गृञ्जनं लशुनं तथा ॥
धत्तूरश्च तमालश्चोन्मादका अभवँस्तदा ॥६१॥
दैत्यैश्च तामसैस्तानि गृहीतानि प्रसह्य वै ॥
अथापि मथ्यमानाद्वै लक्ष्मीः प्रादुर्बभूव ह ॥६२॥
सुरूपा हास्यवदना वस्त्राभरणभूषिता ॥
गौरवर्णा दिव्यतन्वी यौवनाङ्कुरसुस्तनी ॥६३॥
कराप्तवनमाला च नारायणसरूपिणी ॥
नारायणं परं विष्णुं मार्गयन्तीव मोहिका ॥६४॥
आन्वीक्षिकी ब्रह्मविद्या मूलविद्या सरस्वती ।
ऋद्धिः सिद्धिः स्मृद्धिः सम्पद्वैष्णवी प्रकृतिः परा ॥६५॥
युक्ताऽन्याभिः सुदासीभिः सुग्रीवा चारुलोचना ।
बिम्बौष्ठी सुनसा स्निग्धा सुदती च सुमध्यमा ॥६६॥
नानारत्नप्रकाशैश्च नीराजितमुखाम्बुजा ।
सौम्यप्रेमभृतनेत्रा नूपुररशनाधरा ॥६७॥
मूर्धनि ध्रियमाणेन स्वर्णछत्रेण राजिता ।
चामरैर्विज्यमाना च स्तूयमाना सखीजनैः ॥६८।
पाण्डुरङ्गगजारूढा वीक्षिताश्च सुरासुरैः ॥
देवांश्च दानवान् सिद्धाँश्चारणान्पन्नगान्नगान् ॥६९॥
वीक्ष्य दैत्यान्सदोषान्सा योग्यं विष्णुमचिन्तयत् ॥
सर्वे तदा विस्मिताश्च मुदमापुस्तदाऽद्भुतम् ॥1.91.७०॥
लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता ।
एवं परस्परं प्रीत्या वव्राते प्रेमतत्परौ ॥७१॥
सर्वैः सभाजितौ रत्नैर्नीराजितौ प्रपूजितौ ।
शुशुभाते तदा लक्ष्मीनारायणौ जगद्गुरू॥७२॥
प्रणम्य सच्चिदानन्दं रमायुक्तं जनार्दनम् ॥
सर्वे ममन्थुर्वेगेन जज्ञे धन्वन्तरिस्ततः ॥७३॥
सोऽयं धन्वन्तरिर्वैद्यः पूर्वं यः कथितो मया ।
तृतीयो वैद्यसामुद्रो युवा मृत्युजयोऽजितः ॥७४॥
सुधासम्पूर्णकलशं पाणिभ्यां परिगृह्य च ।
रूपेण वयसा कान्त्याऽधरीकृत्य सुराऽसुरान् ॥७५॥
समुद्रात्तीरमायान्तं दृष्ट्वा तस्तम्भुरीश्वराः।
न ज्ञातवन्तो यावत्ते सुधां चास्य करस्थिताम् ॥७६॥
मथ्यमानार्णवालावलक्षमप्सरसां शुभम् ॥
समुत्पन्नं स्थितं तीरे धन्वन्तरी सुमोहितम् ॥७७॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने समुद्रे मन्दरमन्थने विष्णुरूपाणि, मन्थनोत्पन्नस्य वडवानलस्य सङ्कर्षणकृतं पानं शङ्करकृतं विषस्यपानं गणेशपूजनं विविधरत्नोत्पत्तिश्चेति निरूपणनामा एकनवतितमोऽध्यायः ॥९१॥