०८९

श्रीलक्ष्मीरुवाच–
भगवान् सर्वहृद्वास सर्वज्ञ बहुरूपधृक् ॥ धन्वन्तरिस्तृतीयो वै जज्ञे रत्नाकरात्कथम् ॥ १ ॥
तां कथां श्रावय स्वामिन्नारायण जगद्गुरो ।
श्रुत्वा पतिमुखाद् वार्तां नैव तृप्यामि मोक्षदाम् ॥ २ ॥
श्रीनारायण उवाच–
द्वापरे तु युगे चान्ते यदा सर्वेऽल्पबुद्धयः ।
स्वार्थसाधनमात्रार्था अतृप्तस्वस्ववृत्तयः ॥ ३ ॥
लोभमानाद्यधर्मांशव्याप्ता देवाश्च मानवाः ॥ आसँस्तदा युगे चेन्द्रो राज्याभिमानवानपि ॥ ४ ॥
राजसेन तु भावेन समाविष्टः पुरन्दरः ॥ तर्कयामास मनसा दृष्ट्वा काले सदूषणम् ॥५॥
अहो सत्यं तथा त्रेता कीदृशौ समयौ शुभौ ।
व्यतीतौ सुभगौ सर्वसम्पत्प्रदौ यथेष्टदौ ॥ ६ ॥
द्वापरे गम्यमानेऽत्र मानसानि फलन्ति न ।
नेष्टं च प्राप्यते किञ्चित् दुरापं जायते मुहुः ॥ ७ ॥
दोषोऽत्र न प्रजानां स्याद् यथा राजा तथा प्रजा ।
अतोऽत्राऽऽहूय दिक्पालान् शास्मि कालस्य शुद्धये ॥ ८॥
राज्ञोऽपि वा कियान् दोषो राजानो गुरुशासिताः ।
गुरवोऽत्र तु दृश्यन्ते लुब्धाः स्वार्थपरायणाः ॥ ९ ॥
तस्माद् दण्ड्याश्च गुरवः कालशुद्धिस्ततो भवेत् ।
यादृशा राज्यगुरवस्तादृशा राज्यपालकाः ॥1.89.१०॥
तस्मादाहूय सर्वान् वै केनाऽप्युत्सवछद्मना ।
विज्ञापयामि सौख्यार्थं स्थेयं सत्ययुगे यथा ॥११॥
कालः कलुषतां नेयात् वर्तन्तां तत्तथैव हि ।
एवं विचार्य शक्रेण स्वर्गे ह्याकारिता सभा ॥१२॥
श्रावितं च त्रिलोक्यां वै स्वर्गे चेन्द्रसभागृहे ॥ समागन्तव्यमानागमर्त्यदेवमुनीश्वरैः
समाजे चात्र देवानां भविष्यति महोत्सवः ॥ नरोत्पन्नाऽप्सरसां तु नवं नृत्यं भविष्यति ॥१४॥
धर्मस्य पत्न्यां मूर्त्यां यौ जातौ नरनरायणौ ॥ पित्रोराज्ञामनुप्राप्य तपोऽर्थं कृतमानसौ ॥१५॥
तपतस्तौ विघ्नकर्तुं मयेन्द्रेण प्रणोदिताः ॥ अप्सरसो मोहनार्थं तदा नरेण चाज्ञया ॥१६॥ नारायणस्याऽऽम्रपुष्पैरूर्वशी प्रकटीकृता ।
सुरूपा यौवनव्याप्ता रूपमूर्धन्यभास्वरा ॥१७॥
यदग्रेऽन्याः कृष्णवर्णा निस्तेजस्का इवाऽभवन् ।
सैवोर्वशी तु मे दत्ता सा वै नृत्यं करिष्यति ॥१८॥
तद्दर्शनाय सर्वैस्तु समागन्तव्यमेव ह ॥ इत्युद्घोषयित्वेन्द्रेण कृता स्वर्गे महासभा ॥१९॥
नृत्यं करोत्यूर्वशी च नृत्ये रूपे च मोहिता ॥ कण्ठस्वरे प्रलीना च ह्यमाना त्वभवत्सभा ॥1.89.२०॥
लोकपालाश्च देवाश्च ऋषयोऽप्सरसस्तथा ॥ गन्धर्वाश्च तथा सिद्धा विद्याध्राश्चारणादयः ॥२१॥
देव्यश्चापि तदा सर्वा मुग्धास्तल्लग्नमानसाः ॥ अभवँस्तावदागच्छद् देवराजगुरुः सुधीः ॥२२॥
बहुशिष्यैः परिवृतो बृहस्पतिरुदारधीः ।
नृत्ये संवर्तमानेऽत्र सभाक्षोभो भवेदतः ॥२३॥
इन्द्रस्तत्राऽऽगतं पश्यन् गुरुं वाचस्पतिं द्विजम् ।
नोवाच किञ्चिद् दुर्मेधा वचो मानपुरःसरम् ॥२४॥
नाऽऽह्वानं नाऽऽसनं तस्य सत्कारं नाऽकरोत्तदा ।
देवास्तु सहसा दृष्ट्वा प्रणेमुस्तमुपस्थितम् ॥२५॥
तदोर्वशी स्वयं तत्र गुरुं ज्ञात्वा बृहस्पतिम् ।
ननाम नृत्यं सन्त्यज्य सभाक्षोभोऽभवत्तदा ॥२६॥
इन्द्र उत्थाय यावद्वै कालः शुभो भवेद् यथा
भवेद् यदि शुभो राजा सोऽपि स्याद् चेत् शुभो गुरुः ॥२७॥
शुभेन गुरुणा राजा प्रजा कालः शुभा मताः ॥ इत्युपदिशति तावत् सुराचार्यों रुषान्वितः ॥२८॥
ज्ञात्वा शक्रं प्रमत्तं च मदाद् राज्यस्य दुर्मतिम् ॥ तिरोधानमनुप्राप्तः क्व गतो नैव भालितः ॥२९॥
गते देवगुरौ तस्मिन् वैमनस्यं गताः सुराः ॥ यक्षनागाश्च गन्धर्वा अप्सरस द्विजर्षयः ॥1.89.३०॥
नृत्यगानाऽवसाने तु हरिः प्राह सुराँस्तदा ॥ क्व गतोऽयं देवगुरुर्नारदः प्राह तं तदा ॥३१॥
त्वया कृता ह्यवज्ञा वै गुरोर्मानं तु न कृतम् ॥ गुरोरवज्ञया राज्यं लीयते भयमागतम् ॥३२॥
नरो यतते सौख्यार्थं तदेव दु.खकृद् भवेत् ॥ सोऽयं कालस्य संवेगो न राजा कालकारणम् ॥३३॥
न गुरुर्न प्रजा हेतुर्युगः कालस्य कारणम् ।
युगः पर्यावर्तयति मानसानि महात्मनाम् ॥३४॥
तथापि भद्रसन्तत्यै यतितव्यं यथाबलम् ॥ गुरुः क्षमापनीयो वै सर्वभावेन तु त्वया ॥३५॥
नारदस्य वचः श्रुत्वा सदःस्थै परिवारितः ॥ आसनात्सहसोथायाऽगच्छद् गेहं बृहस्पतेः ॥३६॥
दृष्ट्वा तारां प्रणम्याह क्व गतो हि महातपाः ।
न जानामीत्युवाचेत्थं तारा देवान् गृहस्थिता ॥३७॥
तदा चिन्तान्वितो भूत्वा शक्रः स्वालयमाव्रजत् ।
ऐरावतं समारुह्य गुरोर्मार्गणकाम्यया ॥३८॥
व्योममार्गात्पृथिव्यां वै यावदागच्छति द्रुतम् ॥ मार्गे मुनिर्महाक्रोधो दुर्वासा रुद्रकांशजः ॥३९॥
पारिजातप्रसूनानां मालामादाय चागतः ॥ गुरोश्चिन्तनजान्मोहाद् भाविभाग्यपरिक्षयात् ॥1.89.४०॥
कालावेगात्तथा तत्र तुराषाण्न ननाम तम् ।
तथापि ऋषिणा राज्ञः सत्कार्यधर्मगौरवात् ॥४१॥
माला व्योम्नैव मार्गेण त्विन्द्रकण्ठे समर्पिता ॥ इन्द्रस्तां तु समुत्तार्य दत्तवान् हस्तिमस्तके ॥४२॥
हस्तिना सा करेणैव फालिता निहिता पदे ॥ कच्चरिता मर्दिता च दृष्ट्वा चुक्रोध तां मुनिः ॥४३॥
क्रोधज्वालापरीताङ्गो विकरालभयङ्करः ॥ ओष्ठौ दशन् गरं नेत्रे दर्शयन् स्फारयन् थरन् ॥४४॥
उवाच दुष्ट देवेश दूरे तिष्ठतु माननम् ।
प्रत्युत मानितोऽपि त्वं मालां गणयसे नहि ॥४५॥
विदित्वा देवराजं त्वां पूजयित्वा तथापि वै ॥ शठराजः प्रभूत्वा मन्मालां क्षिपसि भूतले ॥४६॥
मर्दनं हस्तिपादेन कारयस्यवमाननम् ।
पुष्पे पुष्पे तु रत्नानि लक्ष्म्यो वसन्ति मद्बलात् ॥४७॥
वैकुण्ठाच्छ्रीहरेः प्रासादिकी लब्धाऽर्पिताऽत्र ते ।
सा प्रदत्ता मया तां त्वं कच्चरयसि पत्तले ।
रत्नानां लक्ष्मीनां चापि नाशं करोषि मौढ्यतः ॥४८॥
तस्मात् त्रिलोकिराज्यं ते विनाशं यातु सर्वथा ।
सम्पदः स्मृद्धयो लक्ष्म्यो रत्नानि विविधानि च ॥४९॥
लयं यान्तु महावार्धौ त्वमनिद्रो भव क्षणात् ।
दुर्वासा एवमुक्तैव कैलासमगमत् ततः ॥1.89.५०॥
अम्बालिकाध्वजस्तत्रैवाऽपतद्भूतले ततः ।
मुकुटोऽप्यपतन्मूर्ध्नः क्षौति स्म च करी तदा ॥५१॥
अङ्कुशं वै विगलितं हस्तात् हस्तिपकस्य तु ॥ एतस्मिन्नन्तरे स्वर्गे त्वनिष्टान्यभवन्क्षणात् ॥५२
ऐरावतश्चालितोऽपि स्वर्गं प्रति न गच्छति ।
उन्मत्तः सन् देवराजं द्रावयत्येव चाभितः ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नरनारायणोत्पादितोर्वश्या नर्तनोत्सवसमाजे बृहस्पतेरवमाननं दुर्वाससोऽवमानं राज्यलक्ष्मीनाशकशापश्चेन्द्रस्येत्यादिनिरूपणनामा एकोननवतितमोऽध्यायः ॥ ८९॥