०८५

श्रीनारायण उवाच-
शृणु लक्ष्मि! महादेवि! मन्दरे निवसन् हरः ।
शुशोच बहुधा तत्र गता नायान्ति वै पुनः ॥१ ॥ किं वै काश्यां स्थितास्ते वाऽकृतकार्या हतौजसः ।
नायान्ति योगिनीसूर्यवेधसः प्रहिणोमि कान् ॥२ ॥ चिन्तयन्निति देवेशो गणानाहूय भूरिशः ।
प्रेषयामास भो यात काशीं विवसितुं द्रुतम् ॥३ ॥ शङ्कुकर्णं महाकालं घण्टाकर्णं महोदरम् ।
नन्दिषेणं सोमनन्दिकालपिङ्गलकुक्कुटान् ॥४ ॥ कुण्डोदरं मयूराक्षं बाणगोकर्णतारकान् ।
तिलपर्णं स्थूलकर्णं दृमिचण्डं प्रभामयम् ॥५ ॥ सुकेशं विन्दतिं छागं कपर्दिपिङ्गलाक्षकौ ।
वीरभद्रं किरातं च चतुर्मुखं निकुम्भकम् ॥६ ॥ पञ्चाक्षं भारभूतं च क्षेमकं लाङ्गलिं तथा ।
त्र्यक्षं विराधं सुमुखमाषाढिं स्कन्दमेव च ॥७ ॥ महाशाखं विशाखं च शाखं नन्दिनमेव च ।
भृङ्गिणं नैगमेयं च प्रेषयामास शङ्करः ॥८ ॥ एते गणा महाभागाः स्वामिभक्ता दृढव्रताः ।
कृत्वा मायां बहुविधां बहुरूपा विचक्षणाः ॥९ ॥ अनिमेषक्षणास्तस्थुः क्षोणीशच्छिद्रकाङ्क्षिणः ।
धर्मे सत्ये दयायां च दण्डे प्रजाप्रपालने ॥1.85.१ ०॥ रक्षणे दानधर्मे च राज्यधर्मे श्रुतौ स्मृतौ ।
वर्णाश्रमविपद्धर्मदेशकालादिधर्मसु ॥११ ॥ पञ्चयज्ञजपभक्तिसेवासत्कारवृत्तिषु ।
क्वापि कुत्राप्यलब्ध्वा वै क्षतिं त्रुटिं सच्छिद्रताम् ॥१ २॥ राजानं चाऽपराभव्यं दिवोदासं प्रपूज्य च ।
सर्वे गणा असिद्धस्वस्वामिकार्याः सुलज्जिताः ॥१३ ॥ स्वस्वनाम्ना महादेवं प्रतिष्ठाप्य निरन्तरम् ।
काश्यामेव निवासान् स्वान् चक्रिरे विगतज्वराः ॥१४॥ न निवृत्ता मन्दरं ते काशीमाहात्म्यबोधनात् ।
वाराणसी न वै त्याज्या स्वर्गादपि गरीयसी ॥१५॥ आनन्दोद्यानसंलब्धसुखतुल्यं न चेतरत् ।
अत्र कैलास एवास्ति वैकुण्ठोऽप्यत्र विद्यते ॥१६॥ कार्शीं त्यक्त्वा कथं कार्या शुष्का मन्दरसंस्थितिः ।
वाराणसीति काशीति आनन्दोद्यान इत्यपि ॥१७॥ मुखेन येन सम्प्रोक्तं नास्ति तस्य यमाद्भयम् ।
पञ्चक्रोश्या परिमिता तनुस्त्रिदेवसम्भवा ॥१८॥ अनाकलितपुण्यानां परिक्षीणधनायुषाम् ।
सर्वोपायविहीनानां गतिर्वाराणसी पुरी ॥१ ९॥ काश्यां वसन्ति ये धीरा आपञ्चत्वविनिश्चयाः ।
जीवन्मुक्तास्तु ते ज्ञेया वन्द्या पूज्यास्त एव ह ॥1.85.२० ॥ यत्र काश्यां मृतो जन्तुर्ब्रह्मनारायणादिभिः ।
प्रबद्धमूर्धाञ्जलिभिर्नमस्येताऽतियत्नतः ॥२१ ॥ मरणं मङ्गलं यत्र विभूतिर्यत्र भूषणम् ।
कौपीनं यत्र कौशेयं काशी कुत्रोपमीयते ॥२२ ॥ अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु ।
अप्यङ्गीकृत्य निधनं वस्तव्यमत्र चैव ह ॥२३ ॥ इति ते निर्णयं कृत्वा काश्यामेव व्यवस्थिताः ।
अथ शम्भुर्गतान्काश्यां स्थितान्पुनरनागतान् ॥२४॥ गणान् ज्ञात्वा च हेरम्बं प्राहिणोत्तु गजाननम् ।
गच्छ पुत्र विना त्वां वै कश्चिन्न पारयेन्नृपम् ॥२५॥ यथाबुद्धि यथाकालं यथायोग्यं प्रकल्प्य च ।
दिवोदासं विनिष्कास्य काशीं करगतां कुरु ॥२६ ॥ तत्र स्थितोपि संसिद्ध्यै यतस्व सहितो गणैः ।
निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर ॥२७॥ आज्ञामादाय शिरसा प्रणिपत्य च धूर्जटिम् ।
प्रतस्थे त्वरितः काशीं गणेशः पितृसिद्धये ॥२८ ॥ शम्भोः काश्यागमोपायं चिन्तयन्वाडवोऽभवत् ।
स्थूलवेष्टनपञ्चाङ्गपत्रधृक् शकुनं दिशन् ॥२९ ॥ नक्षत्रज्ञो महाज्योतिश्चक्रवेत्ताऽऽविशत्पुरीम् ।
चचार प्रत्यवरोधं स्थवीरो रेखया दिशन् ॥1.85.३० ॥ हस्तरेखां शकुनानि भाग्यं जन्माक्षराणि च ।
सुदृष्ट्वा गणितं कृत्वा पौराणां प्रीतिमानभूत् ॥३१ ॥ स्वयमेव निशायां तु स्वप्नं सदर्शयन्नृणाम् ।
प्रातस्तेषां गृहं गत्वा तेषां वक्ति शुभाऽशुभम् ॥३ २॥ प्रश्नान् सङ्कारयित्वा तान् फलं स्वाप्नं जगाद तान् ।
स्वप्ने रात्रौ भवान् मज्जन् जले मज्जन् तटं गतः ॥३३ ॥ तटस्थकर्दमे मग्नः पुनर्मग्नोऽसि भूरिशः ।
स्वप्नस्याऽस्य फलं दुष्टं जले घातो भवेत्तव ॥३४॥ अन्यस्यापि गृहे गत्वा फलं स्वाप्नं ह्यवर्णयत् ।
मुण्डी काशाम्बरधरः प्रैक्षि स्वप्ने त्वया ततः ॥३५ ॥ मरणतुल्यदुःखं वा मरणं वा फलं भवेत् ।
स्वप्ने सूर्यग्रहो दृष्टो मृतिर्वा तत्समं फलम् ॥३६ ॥ ऐन्द्रं धनुर्द्वयं रात्रौ यदलोकि ध्रुवा मतिः ।
पश्चिमायां स्वयं सूर्य उदयं प्राप्य शीतगुम् ॥३७॥ प्रोद्यन्तं व्योममार्गाद्वै पातयामास भूतले ।
इति स्वप्ने त्वया दृष्टं राज्यनाशो भवेद् ध्रुवम् ॥३८॥ धूमकेतुद्वयं युध्यमानं व्योम्नि व्यलोकि - यत् ।
तच्चापि राष्ट्रभङ्गाय फलं स्वाप्नं विनाशकृत् ॥३९॥ विशीर्य त्वेकदशनं नीयमानं च दक्षिणे ।
आत्मानं यत् समद्राक्षीः मृतिः कुटुम्बभीषणा ॥1.85.४०॥ त्वयैक्षताऽपररात्रौ प्रासादध्वजभञ्जनम् ।
राज्यक्षयकरं चैतन्महोत्पातः प्रजासु च ॥४१॥ समुद्रेण पुरं चैतत्प्लावितं यददर्शि तत् ।
द्विमासाऽभ्यन्तरे एव महानाशः पुरौकसाम् ॥४२॥ स्वप्ने वानरयानेन त्वं प्रयातोऽसि दक्षिणाम् ।
अतस्तव विनाशो वा पुरत्यागोऽथवा ध्रुवः ॥४३॥ रुदती या त्वया दृष्टा नारी रात्रौ दिगम्बरा ।
मुक्तकेशी व्योमगाऽभूत् फलं राज्यविपर्ययः ॥४४॥ देवालयस्य कलशः पतन् दृष्टस्त्वया यतः ।
द्राक् स्वल्पैर्दिवसैरेव राज्यभङ्गो भवेद् ध्रुवम् ॥४५॥ पुरीं परित आगत्य मृगाः शिवादयो मुहुः ।
रोरूयमाणा दृश्यन्ते तन्मासे नोद्वसीं क्रियात् ॥४६॥ घूकश्येनबकगृध्रा उड्डयन्त्यभितः पुरीम् ।
सूचयन्ति महाकष्टं भविष्यत्यत्रवासिनाम् ॥४७॥ गदामादाय हनुमान् पृष्ठे लग्नो ध्रुवं क्षयः ।
यमदूताः प्रदृश्यन्ते महिषाऽनःपरस्थिताः ॥४८॥ प्रजामादाय गच्छन्ति प्रजानाशो भवेद् ध्रुवः ।
परराज्यभटश्चात्रऽऽगत्येमान् ताडयन्ति तत् ॥४९॥ फलं काशीपरिभङ्गो लोकानां कदनं भवेत् ।
तस्मान्मासान्तरे एव गन्तव्यमितरत्र वै ॥1.85.५० ॥ नात्र वासो हि सुखदो भवेन्मासद्वयोत्तरम् ।
एवं निर्वासयामास शंसन्बहून् प्रजाजनान् ॥५१॥ प्रायशोऽर्धं प्रजायास्तु गतं देशान्तरं प्रति ।
अथापि ग्रहचारं वै विलोक्याह जनान्पुनः ॥५२ ॥ एकराशौ स्थिताः शुक्रशनिर्भौमा विनाशकाः ।
धूमकेतुरयं व्योम्नि भित्त्वा सप्तर्षिमण्डलम् ॥५३ ॥ संयाति पश्चिमामाशां वैश्यानां नाशको भवेत् ।
शनिश्चरः समुल्लङ्घ्य राशिं वक्रः प्रयाति वै ॥५४॥ राहुकेतुभौमयुक्तो महाविनाशकृद्धि सः ।
सायङ्काले तु भूकम्पोऽवश्यं नाशकरो भवेत् ॥५५॥ उतराद्दक्षिणां याता व्योम्न्युल्का गर्जनाकरी ।
लीना चापि तु सैवाऽस्याः सूचयत्येव नाशनम् ॥५६॥ चत्वरस्थचैत्यवृक्षो वातेनोन्मूलितोऽपि सः ।
सूचयत्येव काश्याश्च प्रजानां कदनं महत् ॥५७॥ प्रातः सूर्योदये प्राच्यां काको वक्ति भयं भवेत् ।
काशीमध्ये मृगौ कौचिदारण्यकौ प्रविश्य च ॥५८॥ जनदृष्टिं प्रविच्याव्य गतावुद्वाससूचकौ ।
शरदि दृश्यते चाम्रशालपुष्पं फलाङ्कुरम् ।
महाकालभयं मन्ये पुर्यामस्यामकालजम् ॥५९॥ साध्वसं जनयित्वेति गणेशेन द्विजेन वै ।
उच्चाटिता धनाढ्याश्च भूमन्तोऽपि कुटुम्बिनः ॥1.85.६०॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
शङ्करेण द्विचत्वारिंशद्गणानां प्रेषणं गणेशप्रेषणं कृतं
तेन च विविधस्वाप्नप्रत्यक्षादिशकुनोत्पातादिवर्णनेन
प्रजानां काशीतो निष्कासनं कृतमितिवर्णननामा
पञ्चाशीतितमोऽध्यायः ॥८५ ॥