विश्वास-प्रस्तुतिः - १ ॥
श्रीनारायण उवाच-
पश्य लक्ष्मि! कियद् वेषा
नार्यो स्वार्थार्थम् उद्यताः ।
बहुरूपाणि कुर्वन्ति
यावत् स्वार्थो न सिद्ध्यति ॥१ ॥
मूलम् - १ ॥
श्रीनारायण उवाच-
पश्य लक्ष्मि! कियद्वेषा नार्यो स्वार्थार्थमुद्यताः ।
बहुरूपाणि कुर्वन्ति यावत्स्वार्थौ न सिद्ध्यति ॥१ ॥
विश्वास-प्रस्तुतिः - २ ॥
योगिनीत्वं परित्यज्य
देवीत्वं चा ऽवगुह्य च ।
काचित् सन्न्यासिनी काचित्
तपस्विनी तु मानवी ॥२ ॥
मानसतरङ्गिणीकृत्
Abandoning their Yoginī nature and concealing their goddess-nature, some became female as- cetics, while others became human female practitioners of austerities.
मूलम् - २ ॥
योगिनीत्वं परित्यज्य देवीत्वं चाऽवगुह्य च ।
काचित् सन्न्यासिनी काचित् तपस्विनी तु मानवी ॥२ ॥
विश्वास-प्रस्तुतिः - ३ ॥
काचित् बभूव सैरन्ध्री
काचित्तु भिक्षुकी तथा ।
काचित्तु मालिनी काचित्
नापिती सूतिकाऽभवत् ॥३ ॥
मानसतरङ्गिणीकृत्
Some became female artisans, while others became female mendicants. Some became garland- makers, others became hairdressers and midwives.
मूलम् - ३ ॥
काचित् बभूव सैरन्ध्री काचित्तु भिक्षुकी तथा ।
काचित्तु मालिनी काचित् नापिती सूतिकाऽभवत् ॥३ ॥
विश्वास-प्रस्तुतिः - ४ ॥
काचिद् भिषग्वरारोहा
काचित् तुलासुविक्रया ।
काचिच् छाकविक्रयिणी
काचित् सर्पादिरक्षिका ॥४ ॥
मानसतरङ्गिणीकृत्
Some became excellent physicians, others basil-sellers. Some became vegetable vendors, others protectors against serpents and such.
मूलम् - ४ ॥
काचिद्भिषग्वरारोहा काचित् तुलासुविक्रया ।
काचिच्छाकविक्रयिणी काचित् सर्पादिरक्षिका ॥४ ॥
विश्वास-प्रस्तुतिः - ५ ॥
काचित्तु नर्तकी जाता काचिद् धात्री च किङ्करी ।
-अपरा गायिका जाताऽन्या वादित्रप्रवादिनी ॥५ ॥
मानसतरङ्गिणीकृत्
Some indeed became dancers, others wet-nurses and maids. Others became singers, while some became players of musical instruments.
मूलम् - ५ ॥
काचित्तु नर्तकी जाता काचिद् धात्री च किङ्करी ।
-अपरा गायिका जाताऽन्या वादित्रप्रवादिनी ॥५ ॥
विश्वास-प्रस्तुतिः - ६ ॥
काचित् तालकरी चान्या जाता कार्मणमन्त्रदा ।
काचिन्मालागुम्फनज्ञा काचित्तैलादिविक्रया ॥६ ॥
मानसतरङ्गिणीकृत्
Some became toddy-makers and others givers of ritual spells. Others became skilled in garland- stringing and some sellers of oils and such.
मूलम् - ६ ॥
काचित् तालकरी चान्या जाता कार्मणमन्त्रदा ।
काचिन्मालागुम्फनज्ञा काचित्तैलादिविक्रया ॥६ ॥
विश्वास-प्रस्तुतिः - ७ ॥
परा द्यूतविधानज्ञा इतरा गोपवल्लभा ।
काचिन्नटी च काचित्तु रथ्याचत्वरमार्जिका ॥७ ॥
मानसतरङ्गिणीकृत्
Others became skilled gamblers, some became wives of cowherds. Some became actresses, others became sweepers of streets and courtyards.
मूलम् - ७ ॥
परा द्यूतविधानज्ञा इतरा गोपवल्लभा ।
काचिन्नटी च काचित्तु रथ्याचत्वरमार्जिका ॥७ ॥
विश्वास-प्रस्तुतिः - ८ ॥
अन्या मध्वादिव्यापारा रथ्याचीवरमार्गणा ।
अपत्यदाऽपरा जाता श्वपची चर्मकारिणी ॥८ ॥
मानसतरङ्गिणीकृत्
Others became traders of honey and such and some beggars for clothes on streets. Some became child-givers (child-carers ? ), dog - cooking [tribeswomen] and leather-workers.
मूलम् - ८ ॥
अन्या मध्वादिव्यापारा रथ्याचीवरमार्गणा ।
अपत्यदाऽपरा जाता श्वपची चर्मकारिणी ॥८ ॥
विश्वास-प्रस्तुतिः - ९ ॥
साध्वी च कर्षुकी दुग्धरसव्यापारहारिणी ।
तीर्थवासिनी चान्या च मुण्डिनी ग्रामठाऽपरा ॥९ ॥
मानसतरङ्गिणीकृत्
[Some became] Chaste plowwomen and women engaged in dairy-product trade. Others became pilgrimage-site-dwellers, some shaven-headed [ascetics] and rustic women.
मूलम् - ९ ॥
साध्वी च कर्षुकी दुग्धरसव्यापारहारिणी ।
तीर्थवासिनी चान्या च मुण्डिनी ग्रामठाऽपरा ॥९ ॥
विश्वास-प्रस्तुतिः - 1.83.१ ०॥
काचिद् रेखाचिह्नद्रष्ट्री काचिल्लेखनचित्रिका ।
वशीकरणमन्त्रज्ञा काचिज् ज्वरप्रमार्जिका ॥1.83.१ ०॥
मानसतरङ्गिणीकृत्
Some became readers of ( palm ) - lines and (physiognomic) marks, others artists skilled in drawing and painting. Some became experts in mantra-s for subjugation, and others curers of fever.
मूलम् - 1.83.१ ०॥
काचिद् रेखाचिह्नद्रष्ट्री काचिल्लेखनचित्रिका ।
वशीकरणमन्त्रज्ञा काचिज् ज्वरप्रमार्जिका ॥1.83.१ ०॥
विश्वास-प्रस्तुतिः - १ १॥
काचिदञ्जनकुशला गुटिकासिद्धिबोधिका ।
धात्वादिमिश्रिका काचिद् वास्त्रपत्त्राणकारिणी ॥१ १॥
मानसतरङ्गिणीकृत्
Some were skilled in collyrium-making/eye-makeup, and knowers of magical pill-making. Some [became] alloy makers, or makers of cloth and leaf-plates.
मूलम् - १ १॥
काचिदञ्जनकुशला गुटिकासिद्धिबोधिका ।
धात्वादिमिश्रिका काचिद् वास्त्रपत्त्राणकारिणी ॥१ १॥
विश्वास-प्रस्तुतिः - १२॥
पुम्मोहिनी बहुरूपा वागग्निस्तम्भबोधिका ।
अदृश्यत्वखेचरत्वाऽन्याकारत्वादिमन्त्रदा ॥१२॥
मानसतरङ्गिणीकृत्
[Some] became enchantresses of males, masquerade-artists, knowers of [rites] to paralyze speech and fire, givers of mantra-s for invisibility, sky-ranging and shape-shifting.
मूलम् - १२॥
पुम्मोहिनी बहुरूपा वागग्निस्तम्भबोधिका ।
अदृश्यत्वखेचरत्वाऽन्याकारत्वादिमन्त्रदा ॥१२॥
विश्वास-प्रस्तुतिः - १२॥
उच्चाटनाऽऽकर्षणज्ञा युवचित्तविमोहिनी ।
चिन्तितार्थप्रदा ज्योतिर्विज्ञाऽन्या पशुरक्षिका ॥१२॥
मानसतरङ्गिणीकृत्
Some became knowers of [rites] for overthrow and attraction, deluderesses of young minds, granters of desired objects, experts in astrology and protectors of cattle.
मूलम् - १२॥
उच्चाटनाऽऽकर्षणज्ञा युवचित्तविमोहिनी ।
चिन्तितार्थप्रदा ज्योतिर्विज्ञाऽन्या पशुरक्षिका ॥१२॥
विश्वास-प्रस्तुतिः - १४॥
दन्तधावनदात्री च गोशकृत्सङ्ग्रहाऽटिनी ।
मृत्तिकायाश्च विक्रेत्री काचित्तु नागरी तथा ॥१४॥
मूलम्
[Some became] Oral hygienists, wandering collectors of cow dung, sellers of clay, and some so- phisticated women as well.
मूलम् - १४॥
दन्तधावनदात्री च गोशकृत्सङ्ग्रहाऽटिनी ।
मृत्तिकायाश्च विक्रेत्री काचित्तु नागरी तथा ॥१४॥
विश्वास-प्रस्तुतिः - १५॥
कर्मचारिणि दासी च भूत्वा भूत्वा प्रतिगृहम् ।
प्राविशँस्ताश्च योगिन्योऽहर्निशं विचरन्ति च ॥१५॥
मानसतरङ्गिणीकृत्
Working as laborers and slave-girls, going from house to house, these Yogini-s enter and wander day and night.
मूलम् - १५॥
कर्मचारिणि दासी च भूत्वा भूत्वा प्रतिगृहम् ।
प्राविशँस्ताश्च योगिन्योऽहर्निशं विचरन्ति च ॥१५॥
विश्वास-प्रस्तुतिः - १६॥
विघ्नार्थं छिद्रमल्पं वा मार्गयन्त्योऽपि नाऽलभन् ।
ततस्ता एत्य गङ्गायास्तीरे समेत्य निष्फलाः ॥१६॥
मूलम् - १६॥
विघ्नार्थं छिद्रमल्पं वा मार्गयन्त्योऽपि नाऽलभन् ।
ततस्ता एत्य गङ्गायास्तीरे समेत्य निष्फलाः ॥१६॥
विश्वास-प्रस्तुतिः - १७॥
किं कर्तव्यं क्व गन्तव्यं दिवोदासे प्रजासु च ।
छिद्रं नो लभ्यते किञ्चित्कथं दूरं प्रकुर्महे ॥१७॥
मूलम् - १७॥
किं कर्तव्यं क्व गन्तव्यं दिवोदासे प्रजासु च ।
छिद्रं नो लभ्यते किञ्चित्कथं दूरं प्रकुर्महे ॥१७॥
विश्वास-प्रस्तुतिः - १८॥
कार्यसिद्धिं विना नैव गन्तव्यं स्वामिनं प्रति ।
सम्मन्त्र्येति तत्र तस्थुर्न गता मन्दराचलम् ॥१८॥
मूलम् - १८॥
कार्यसिद्धिं विना नैव गन्तव्यं स्वामिनं प्रति ।
सम्मन्त्र्येति तत्र तस्थुर्न गता मन्दराचलम् ॥१८॥
विश्वास-प्रस्तुतिः - १९॥
प्रभोः कार्यमनिष्पाद्य प्रेष्यः को निकटे भवेत् ।
प्रभुं विनापि काश्यां वै जीविष्यामोऽत्र सर्वदा ॥१९॥
मूलम् - १९॥
प्रभोः कार्यमनिष्पाद्य प्रेष्यः को निकटे भवेत् ।
प्रभुं विनापि काश्यां वै जीविष्यामोऽत्र सर्वदा ॥१९॥
विश्वास-प्रस्तुतिः - 1.83.२०॥
प्रभू रुष्टो हरेद् वृत्त्यं काशी त्वर्थचतुष्टयम् ।
तस्मात्काश्यां प्रवस्तव्यं गन्तव्यं नहि मन्दरम् ॥1.83.२०॥
मूलम् - 1.83.२०॥
प्रभू रुष्टो हरेद् वृत्त्यं काशी त्वर्थचतुष्टयम् ।
तस्मात्काश्यां प्रवस्तव्यं गन्तव्यं नहि मन्दरम् ॥1.83.२०॥
विश्वास-प्रस्तुतिः - २१॥
इत्यारभ्य च योगिन्यः काश्यां तिष्ठन्ति सर्वदा ।
चरित्वा दिक्षु विदिक्षु तिष्ठन्त्यागत्य तत्र वै ॥२१॥
मूलम् - २१॥
इत्यारभ्य च योगिन्यः काश्यां तिष्ठन्ति सर्वदा ।
चरित्वा दिक्षु विदिक्षु तिष्ठन्त्यागत्य तत्र वै ॥२१॥
विश्वास-प्रस्तुतिः - २२।
नारायणं प्रभजन्त्यो दिवोदासं नमन्ति च ।
आत्मनः परमं लाभं मन्यन्ते स्म च ताः सदा ॥२२।
मूलम् - २२।
नारायणं प्रभजन्त्यो दिवोदासं नमन्ति च ।
आत्मनः परमं लाभं मन्यन्ते स्म च ताः सदा ॥२२।
विश्वास-प्रस्तुतिः - २३॥
काशीसेवाकृतात्पुण्यादीशोऽप्यस्मान् समेष्यति ।
काशीं विना स तत्रापि दुःखितोऽत्राऽऽगतो भवेत् ॥२३॥
मूलम् - २३॥
काशीसेवाकृतात्पुण्यादीशोऽप्यस्मान् समेष्यति ।
काशीं विना स तत्रापि दुःखितोऽत्राऽऽगतो भवेत् ॥२३॥
विश्वास-प्रस्तुतिः - २४॥
इति निश्चित्य योगिन्यः शम्भोरानन्दकानने ।
अतिष्ठन् संस्मरन्त्यस्तं शङ्करं लोकशङ्करम् ॥२४॥
मूलम् - २४॥
इति निश्चित्य योगिन्यः शम्भोरानन्दकानने ।
अतिष्ठन् संस्मरन्त्यस्तं शङ्करं लोकशङ्करम् ॥२४॥
विश्वास-प्रस्तुतिः - २५॥
तासां नामानि वक्ष्यामि शृण्वत्र कमलालये! ।
गजास्या सिंहवक्त्रा च गृध्रास्या काकतुण्डिका ॥२५॥
मूलम् - २५॥
तासां नामानि वक्ष्यामि शृण्वत्र कमलालये! ।
गजास्या सिंहवक्त्रा च गृध्रास्या काकतुण्डिका ॥२५॥
विश्वास-प्रस्तुतिः - २६॥
उष्ट्रास्याश्वखरग्रीवा वाराहस्या शिवानना ।
उलूकाक्षी घोररवा मायूरी शरभानना ॥२६॥
मूलम् - २६॥
उष्ट्रास्याश्वखरग्रीवा वाराहस्या शिवानना ।
उलूकाक्षी घोररवा मायूरी शरभानना ॥२६॥
विश्वास-प्रस्तुतिः - २७॥
कोटराक्षी चाष्टवक्त्रा कुब्जा च विकटानना ।
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ॥२७॥
मूलम् - २७॥
कोटराक्षी चाष्टवक्त्रा कुब्जा च विकटानना ।
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ॥२७॥
विश्वास-प्रस्तुतिः - २८॥
ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ।
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ॥२८॥
मूलम् - २८॥
ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ।
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ॥२८॥
विश्वास-प्रस्तुतिः - २९॥
पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ।
शिशुघ्नी पाशहन्त्री च काली रुधिरपायिनी ॥२९॥
मूलम् - २९॥
पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ।
शिशुघ्नी पाशहन्त्री च काली रुधिरपायिनी ॥२९॥
विश्वास-प्रस्तुतिः - 1.83.३०॥
वसापाना गर्भभक्षा शवहस्ताऽऽन्त्रमालिका ।
ऋक्षकेशी महाकुक्षिर्नागास्या प्रेतपृष्ठका ॥1.83.३०॥
मूलम् - 1.83.३०॥
वसापाना गर्भभक्षा शवहस्ताऽऽन्त्रमालिका ।
ऋक्षकेशी महाकुक्षिर्नागास्या प्रेतपृष्ठका ॥1.83.३०॥
विश्वास-प्रस्तुतिः - ३ १॥
दन्दशूकधरा क्रौञ्ची मृगशृङ्गा वृषानना ।
फाटितास्या धूमश्वासा व्योमपादोर्ध्वदृष्टिका ॥३ १॥
मूलम् - ३ १॥
दन्दशूकधरा क्रौञ्ची मृगशृङ्गा वृषानना ।
फाटितास्या धूमश्वासा व्योमपादोर्ध्वदृष्टिका ॥३ १॥
विश्वास-प्रस्तुतिः - ३२॥
तापिनी शोषिणी स्छघोणोष्ठा कोटरी तथा ।
विद्युल्लोला बलाकास्या मार्जारी कटपूतना ॥३२॥
मूलम् - ३२॥
तापिनी शोषिणी स्छघोणोष्ठा कोटरी तथा ।
विद्युल्लोला बलाकास्या मार्जारी कटपूतना ॥३२॥
विश्वास-प्रस्तुतिः - ३३॥
अट्टहास्या च कामाक्षी मृगाक्षी चेति ता मताः ।
चतुःषष्टिस्तु योगिन्यः पूजिता नवरात्रके ॥३३॥
मूलम् - ३३॥
अट्टहास्या च कामाक्षी मृगाक्षी चेति ता मताः ।
चतुःषष्टिस्तु योगिन्यः पूजिता नवरात्रके ॥३३॥
विश्वास-प्रस्तुतिः - ३४॥
दुष्टबाधां नाशयन्ति गर्भबालादिरक्षिकाः ।
न डाकिन्यो न शाकिन्यो न कूष्माण्डा न राक्षसाः ॥३४॥
मूलम् - ३४॥
दुष्टबाधां नाशयन्ति गर्भबालादिरक्षिकाः ।
न डाकिन्यो न शाकिन्यो न कूष्माण्डा न राक्षसाः ॥३४॥
विश्वास-प्रस्तुतिः - ३५॥
तस्य पीडां प्रकुर्वन्ति नामान्येतानि यः पठेत् ।
रणे राजकुले वापि विवादे जयदान्यपि ॥३५॥
मूलम् - ३५॥
तस्य पीडां प्रकुर्वन्ति नामान्येतानि यः पठेत् ।
रणे राजकुले वापि विवादे जयदान्यपि ॥३५॥
विश्वास-प्रस्तुतिः - ३६॥
बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।
क्षिप्रं प्रसन्ना योगिन्यो प्रयच्छेयुर्मनोरथान् ॥३६॥
मूलम् - ३६॥
बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।
क्षिप्रं प्रसन्ना योगिन्यो प्रयच्छेयुर्मनोरथान् ॥३६॥
विश्वास-प्रस्तुतिः - ३७॥
कृष्णचतुर्दशीरात्रावुपवासी नरोत्तमः ।
प्रणवादिचतुर्थ्यन्तनामभिर्हवनं चरेत् ॥३७॥
मूलम् - ३७॥
कृष्णचतुर्दशीरात्रावुपवासी नरोत्तमः ।
प्रणवादिचतुर्थ्यन्तनामभिर्हवनं चरेत् ॥३७॥
विश्वास-प्रस्तुतिः - ३८॥
प्रत्येकं हवनं चासां शतमष्टोत्तरं मतम् ।
ससर्पिषा गुग्गुलुना लघुबदरमानतः ॥३८॥
मूलम् - ३८॥
प्रत्येकं हवनं चासां शतमष्टोत्तरं मतम् ।
ससर्पिषा गुग्गुलुना लघुबदरमानतः ॥३८॥
विश्वास-प्रस्तुतिः - ३९॥
एकाग्रमनसा शुद्धः स्वेष्टं विचिन्त्य सर्वथा ।
यां यां सिद्धिमभीप्सेतां तां सुप्राप्नोति मानवः ॥३९॥
मूलम् - ३९॥
एकाग्रमनसा शुद्धः स्वेष्टं विचिन्त्य सर्वथा ।
यां यां सिद्धिमभीप्सेतां तां सुप्राप्नोति मानवः ॥३९॥
विश्वास-प्रस्तुतिः - 1.83.४० ॥
अथेशो योगिनीचक्रेऽनागते चिरमित्यपि ।
सूर्यं सम्प्रेषयामास ज्ञातुं काशीप्रवर्तनम् ॥1.83.४० ॥
मूलम् - 1.83.४० ॥
अथेशो योगिनीचक्रेऽनागते चिरमित्यपि ।
सूर्यं सम्प्रेषयामास ज्ञातुं काशीप्रवर्तनम् ॥1.83.४० ॥
विश्वास-प्रस्तुतिः - ४१ ॥
प्राह शम्भुस्तु सूर्यं वै दिवोदासस्य वै रवे! ।
धर्मक्षत्या निवासः स्यात्तथा कुरु दिवाकर! ॥४१ ॥
मूलम् - ४१ ॥
प्राह शम्भुस्तु सूर्यं वै दिवोदासस्य वै रवे! ।
धर्मक्षत्या निवासः स्यात्तथा कुरु दिवाकर! ॥४१ ॥
विश्वास-प्रस्तुतिः - ४२॥
धर्ममार्गस्थितस्यात्र भक्तस्य योऽवमाननम् ।
करोति तस्य सर्वस्वनाशो भवति भास्कर! ॥४२॥
मूलम् - ४२॥
धर्ममार्गस्थितस्यात्र भक्तस्य योऽवमाननम् ।
करोति तस्य सर्वस्वनाशो भवति भास्कर! ॥४२॥
विश्वास-प्रस्तुतिः - ४३॥
यावद्धर्मे स्थिरा बुद्धिर्यावद्भक्तिश्च माधवे ।
तावद्विघ्नोदयो नास्ति तथापि कुरु चेष्टितम् ॥४३॥
मूलम् - ४३॥
यावद्धर्मे स्थिरा बुद्धिर्यावद्भक्तिश्च माधवे ।
तावद्विघ्नोदयो नास्ति तथापि कुरु चेष्टितम् ॥४३॥
विश्वास-प्रस्तुतिः - ४४॥
रविः शम्भोर्वचसा चाऽगमत्काश्यां मनुष्यवत् ।
अन्तर्बहिश्चरन्काश्यां दिवोदासे प्रजासु च ॥४४॥
मूलम् - ४४॥
रविः शम्भोर्वचसा चाऽगमत्काश्यां मनुष्यवत् ।
अन्तर्बहिश्चरन्काश्यां दिवोदासे प्रजासु च ॥४४॥
विश्वास-प्रस्तुतिः - ४९॥
धर्मभक्तिप्रवाहे तु मनाक् क्षतिं न चैक्षत ।
वत्सरं विचरन्सूर्योऽतिथिर्भूत्वाऽऽर्थयच्च तम् ॥४९॥
मूलम् - ४९॥
धर्मभक्तिप्रवाहे तु मनाक् क्षतिं न चैक्षत ।
वत्सरं विचरन्सूर्योऽतिथिर्भूत्वाऽऽर्थयच्च तम् ॥४९॥
विश्वास-प्रस्तुतिः - ४६॥
सर्वं सम्प्राप्तवान् पश्चाद् बहुरूपाण्यधारयत् ।
याचको बहुदो दीनो गणको मन्त्रदोऽप्यभूत् ॥४६॥
मूलम् - ४६॥
सर्वं सम्प्राप्तवान् पश्चाद् बहुरूपाण्यधारयत् ।
याचको बहुदो दीनो गणको मन्त्रदोऽप्यभूत् ॥४६॥
विश्वास-प्रस्तुतिः - ४७॥
कदाचिन्नास्तिको धूर्तो जटिलश्च दिगम्बरः ।
जाङ्गलिको विषवैद्यः पाखण्डी ब्रह्मवाद्यपि ॥४७॥
मूलम् - ४७॥
कदाचिन्नास्तिको धूर्तो जटिलश्च दिगम्बरः ।
जाङ्गलिको विषवैद्यः पाखण्डी ब्रह्मवाद्यपि ॥४७॥
विश्वास-प्रस्तुतिः - ४८॥
व्रतकृदैन्द्रजालज्ञः कथाकारः कपालधृक् ।
द्विजो ज्ञानी धातुवेत्ता खगोलज्ञः सुमन्त्रवित् ॥४८॥
मूलम् - ४८॥
व्रतकृदैन्द्रजालज्ञः कथाकारः कपालधृक् ।
द्विजो ज्ञानी धातुवेत्ता खगोलज्ञः सुमन्त्रवित् ॥४८॥
विश्वास-प्रस्तुतिः - ४९॥
साधुः सन्यासधर्मा वै सन्यासिनीस्वरूपधृक् ।
विप्रः क्षत्रियवैश्यौ च शूद्रो ब्रह्मचरो गृही ॥४९॥
मूलम् - ४९॥
साधुः सन्यासधर्मा वै सन्यासिनीस्वरूपधृक् ।
विप्रः क्षत्रियवैश्यौ च शूद्रो ब्रह्मचरो गृही ॥४९॥
विश्वास-प्रस्तुतिः - 1.83.५०॥
वनस्थः सङ्कररूपोऽथापि चाण्डालरूपधृक् ।
इत्येवं विचरन् काश्यां क्वापि छिद्रं न चाप सः ॥1.83.५०॥
मूलम् - 1.83.५०॥
वनस्थः सङ्कररूपोऽथापि चाण्डालरूपधृक् ।
इत्येवं विचरन् काश्यां क्वापि छिद्रं न चाप सः ॥1.83.५०॥
विश्वास-प्रस्तुतिः - ५१॥
तदाह्यकृतकार्योऽसौ गन्तुं तु मन्दर पुनः ।
नेयेषाऽवमानभयाद् दिवोदासबलात्तथा ॥५१॥
मूलम् - ५१॥
तदाह्यकृतकार्योऽसौ गन्तुं तु मन्दर पुनः ।
नेयेषाऽवमानभयाद् दिवोदासबलात्तथा ॥५१॥
विश्वास-प्रस्तुतिः - ५२॥
काश्यामेव कृतावासो भक्तिलग्नहृदन्तरः ।
अनिवेदनजन्यैनोनाशो भक्त्या भविष्यति ॥५२॥
मूलम् - ५२॥
काश्यामेव कृतावासो भक्तिलग्नहृदन्तरः ।
अनिवेदनजन्यैनोनाशो भक्त्या भविष्यति ॥५२॥
विश्वास-प्रस्तुतिः - ५३॥
धर्मो हि रक्षितो येन सर्वं तेन तु रक्षितम् ।
अयमेव हि सद्धर्मः काशीसेवनसम्भवः ॥५३॥
मूलम् - ५३॥
धर्मो हि रक्षितो येन सर्वं तेन तु रक्षितम् ।
अयमेव हि सद्धर्मः काशीसेवनसम्भवः ॥५३॥
विश्वास-प्रस्तुतिः - ५४॥
पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ।
प्रतिजन्मेह लभ्यन्ते काश्येका नैव लभ्यते ॥५४॥
मूलम् - ५४॥
पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ।
प्रतिजन्मेह लभ्यन्ते काश्येका नैव लभ्यते ॥५४॥
विश्वास-प्रस्तुतिः - ५५॥
दिवोदाससमो भक्तो नैवाऽन्यत्र क्वचिन्मिलेत् ।
तस्मादत्रैव वस्तव्यं निश्चित्यैवं दिवाकरः ॥५५॥
मूलम् - ५५॥
दिवोदाससमो भक्तो नैवाऽन्यत्र क्वचिन्मिलेत् ।
तस्मादत्रैव वस्तव्यं निश्चित्यैवं दिवाकरः ॥५५॥
विश्वास-प्रस्तुतिः - ५६॥
भूत्वा द्वादशरूपोऽसौ काशीपुर्यां व्यवस्थितः ।
लोकार्क उत्तरार्कश्च साम्बादित्यः खखोलकः ॥५६॥
मूलम् - ५६॥
भूत्वा द्वादशरूपोऽसौ काशीपुर्यां व्यवस्थितः ।
लोकार्क उत्तरार्कश्च साम्बादित्यः खखोलकः ॥५६॥
विश्वास-प्रस्तुतिः - ५७॥
द्रुपदादित्यो मयूखाऽऽदित्यस्तथाऽरुणाऽऽह्वयः ।
वृद्धार्कः केशवार्कश्च विमलार्को यमाह्वयः ॥५७॥
मूलम् - ५७॥
द्रुपदादित्यो मयूखाऽऽदित्यस्तथाऽरुणाऽऽह्वयः ।
वृद्धार्कः केशवार्कश्च विमलार्को यमाह्वयः ॥५७॥
विश्वास-प्रस्तुतिः
गङ्गादित्यौ द्वादशेतिरूपैः काश्यां व्यवस्थितः ॥ भजते श्रीहरिं नित्यं दिवोदाससमागमे ॥५८॥
मूलम्
गङ्गादित्यौ द्वादशेतिरूपैः काश्यां व्यवस्थितः ॥ भजते श्रीहरिं नित्यं दिवोदाससमागमे ॥५८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दिवोदासछिद्रान्वेषणाय चतुःषष्टियोगिनीनां रूपान्तरधृतिः काश्यामेव वासो रवेश्चापि तथैव तत्कार्यार्थमागमनं काश्यामेव द्वादशरूपैर्वासश्चेत्यादिप्रदर्शननामा त्र्यशीतितमोऽध्यायः ॥८३॥