०८०

श्रीनारायण उवाच-
यः पुरूरवसः पुत्र आयुस्तस्याऽभवन् सुताः ।
पञ्चाऽऽद्यस्तत्र नहुषः, क्षत्रवृद्धो द्वितीयकः ॥१ ॥ रजस्तत्र तृतीयस्तु चतुर्थो रम्भनामकः ।
पञ्चमस्तु-अनेना वै, पितृतुल्यपराक्रमाः ॥२ ॥ क्षत्रवृद्धस्य चैको वै सुतहोत्रोऽभवत् सुतः ।
सुतहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥३ ॥ काश्यः कुशो गृत्समदो गृत्समदस्य वै सुतः ।
शुनकस्तस्य सुतः शौनकाख्यस्तस्य वै सुताः ॥४ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवाऽभवन् शुभाः ।
कुशात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ॥५ ॥ शौनकाश्चार्ष्टिषेणाश्च क्षत्रोपेता द्विजातयः ।
काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतपास्ततः ॥६ ॥ दीर्घतपसो भगवान् धन्वन्तरिः सुतः प्रभुः ।
सोऽयं काशीपुरीराजो ह्यायुर्वेदप्रवर्तकः ॥७ ॥ यस्य नाम स्मरेज्जन्तुस्तस्य रोगो विनश्यति ।
द्वितीयोऽयं धन्वन्तरिः परमेश्वर एव ह ॥८ ॥ प्राक् तु जातः समुद्रे तु मथ्यमानेऽमृतार्थधृक् ।
स प्रोवाच तदा नारायणं पुत्रोऽस्मि ते प्रभो! ॥९ ॥ विधत्स्व भागं स्थानं च मम लोकेऽत्र मे पितः ।
श्रीहरिः प्राह तं पुत्रं धन्वन्तरिं समुद्रजम् ॥1.80.१० ॥ कृतो यज्ञविभागस्तु यज्ञियैर्हि सुरैस्तथा ।
वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः ॥११ ॥ न शक्यस्तु त्वया होमः कर्तुं तत्तुल्य एव ह ।
अर्वाक् सुतोऽसि हे देव! नाममन्त्रोऽसि वै प्रभो ॥१ २॥ तस्मादिदानीं ते भागो नैव यज्ञे भविष्यति ।
किन्तु द्वितीये त्वं तत्र जन्मनि ख्यातिमेष्यसि ॥१ ३॥ अणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति ।
तेनैव च शरीरेण देवत्वं प्राप्स्यसि ध्रुवम् ॥१४॥ चरुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ।
अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि ॥११॥ अवश्यम्भावि ह्यर्थोऽयं प्रथमस्त्वं तु मानसः ।
समुद्रजो द्वितीयो वै काशीराजस्तृतीयकः ॥१६॥ इत्येवं त्रिविधं धन्वन्तरेः प्राकट्यमस्ति वै ।
द्वापरे तत्र सम्प्राप्ते पुत्रार्थं तप आचरन् ॥१७॥ दीर्घतपा व्यपश्यद्वै भगवन्तं हरिं पुरः ।
प्रसन्नास्यं प्रशान्तं च किञ्चिद्दातुं समागतम् ॥१८॥ जगाद् भगवान् दीर्घतपसं वृणु चेप्सितम् ।
दार्घतपास्तदोवाच प्राञ्जलिर्विनयान्वितः ॥१९॥ भगवान् यदि तुष्टस्त्वं पुत्रो मे धृतिमान् भव ।
तथेति समनुज्ञाय प्रभुरन्तरधीयत ॥1.80.२ ० ॥ तस्य देहात् समुत्पन्नो लक्ष्मि! धन्वन्तरिर्हरिः ।
काशीराजो महाराजः सर्वरोगप्रणाशकः ॥२१ ॥ धनुश्चिह्नकरो देवो भगवान् लोकरक्षकः ।
पोषकः सर्ववस्तूनां ज्ञानदो मोक्षदस्तथा ॥२२॥ आयुर्वेदं स वै देवश्चकार सभिषक्क्रियम् ।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥२३॥ धन्वन्तरिसुतश्चासीत् केतुमान् सुमहायशाः ।
केतुमतो भीमरथो दिवोदासाऽपराऽभिधः ॥२४॥ दिवोदासो महानासीद् भक्तो विष्णुसमो बली ।
प्रजायां वर्धिता तेन हरेर्भक्तिस्तु सर्वथा ॥२५॥ स्थितोऽपि भगवान् शम्भुर्मन्दरं चारुकन्दरम् ।
काशीं विना सुखं नाऽऽप दिवोदासनृपोषिताम् ॥२६॥ भगवान् शङ्करो देवो वैष्णवोऽस्त्येव सर्वथा ।
नारायणं परम्ब्रह्म भजत्येव समाधिना ॥२७॥ दिवोदासोऽपि तु तद्वत्परमो वैष्णवो मतः ।
निष्कासयित्वा तं भक्तं वासमैच्छत्तु शङ्करः ॥२८॥ श्रीश्वेतव्यास उवाच-
सुशिखैवं शङ्करस्य कथायोगं प्रशान्तिदम् ।
दिवोदासस्य भक्तस्य चापि श्रुत्वा द्रुतं तदा ॥२९॥ लक्ष्मीः पप्रच्छ चाकर्ण्य दिवोदासं त्रिलोचनः ।
काशीं सन्त्याजयामास कथं तत्राऽगमत् नगात् ॥1.80.३ ०॥ किं कृतं तेन देवेन दिवोदासो यदत्यगात् ।
काशीं तु राजधानीं स्वां श्रोतुमिच्छामि माधव! ॥३१ ॥ हाटकाङ्गद्! इत्येवं लक्ष्मीः पृष्ट्वा पतिं प्रभुम् ।
एकाग्रमानसाऽभूत् तां नारायण उवाच ह ॥३२ ॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-
सन्ताने धन्वन्तर्यवतारत्रयकथननामाऽशीतितमोऽध्यायः ॥८० ॥