०७८

श्रीलक्ष्मीरुवाच-
गतयो विविधाः कर्मप्राप्यास्तु संश्रुता मया ।
प्रेतानां मोक्षणं दानं प्रभुणा श्रावितं तथा ॥१ ॥ प्रसङ्गाद्यमराज्ञस्तु यमलोकोऽपि बोधितः ।
धन्वन्तरेः कथा चापि श्रोतुमिच्छामि माधव! ॥२ ॥ श्रीनारायण उवाच-
पूर्वे सत्ये तथा त्रेतायुगे सङ्कल्पसिद्धिजम् ।
सर्वमासीद् यथेष्टं वै यदेच्छात्युपतिष्ठते ॥३ ॥ नासीदपूर्णता काचित्कस्यचिद्वस्तुनोऽपि च ।
सदा तृप्तिः सदा तोषः सदैवः कामनाफलम् ॥४ ॥ पञ्चभूतानि च तदा परिवर्तन्त इच्छया ।
जनो यदिच्छति भूतात् तत्तस्माल्लभते द्रुतम् ॥९ ॥ सर्वलोका हृष्टपुष्टा नीरोगाः स्वात्मतृप्तयः ।
आसन्प्राप्ते द्वापरे तु जातं तत्परिवर्तनम् ॥७ ॥ शक्तिस्तु कल्पवृक्षाणां किञ्चिन्नष्टाऽभवत्तदा ।
चिन्तामणीनां सामर्थ्यं किञ्चिन्नाशोन्मुखं गतम् ॥७ ॥ ऐश्वर्यं कामधेनूनां लयमापत् क्वचित्क्वचित् ।
तदा क्षेत्रवने स्वत्वं जना ह्यस्थापयन् स्वकम् ॥८ ॥ भोज्यादिलब्धिका चिन्ता जनानामभवद् हृदि ।
स्वत्वपरत्वभेदेन चिन्ताशोकस्पृहाऽऽधयः ॥९ ॥ अधर्मवंशाः स्वाऽऽवासं चक्रुर्जनहृदि द्रुतम् ।
जनाश्चिन्ताद्याकुलास्तु शुष्कायन्ते शरीरतः ॥१.७८.१० ॥ तेषां व्यथां निर्बलत्वं दूरीकर्तुं तदा खलु ।
ह्यपेक्षा समभूत्तत्रौषधानां बलदायिनाम् ॥११ ॥ भोज्यौषधिकणादीनां भाजानां फलमूलिनाम् ।
जनानां भोज्यसम्पत्त्यै कृषिसिद्ध्यै तदा खलु ॥१ २॥ अपेक्षा समभूदुद्भिज्जातीनां लोकवृत्तये ।
का चौषधिर्भक्ष्यफलकणपत्रात्मिकेति वै ॥१३ ॥ का च कथं सुसम्पोष्या ह्युपयोज्या कथं भुजि ।
इत्येवमुद्भिद्विज्ञानी कश्चिन्नासीत्तदा ह्यजः ॥१४॥ ज्ञातृगुरुं प्रसस्मार पुनर्नारायणं पुनः ।
आगतो भगवाँस्तत्र सर्वज्ञानमयो विभुः ॥१५ ॥ शङ्खचक्रगदापद्मधरः सौवर्णकुण्डलः ।
सुवर्णमुकुटः स्वर्णमालाकौस्तुभराजितः ॥१६ ॥ मन्दहास्यं स्रवँस्तेजः संव्याप्तमुखमण्डलः ।
पीताम्बरधरः आयुर्वेदसंस्तुतसद्यशाः ॥१७॥ सर्वरसप्रपूर्णो हि यावद्दुग्धाब्धिपूजितः ।
यावच्छाकरसैर्वन्द्यः सर्वगुन्द्राऽभिसन्नतः ॥१८ ॥ दिव्यौषधिलतावृक्षतृणकन्दादिसंस्तुतः ।
शुभ्रमुखो हरिद्वर्णो रक्तपादकराम्बुजः ॥१९ ॥ युञ्जन् शुभाशिषा विश्वसृजं प्राह दयामयः ।
ब्रह्मन् कथं त्वया संस्मारितोऽहं द्वापुरे युगे ॥१.७८.२० ॥ ब्रह्मोवाच तदा देवं सर्वगं भिषजां वरम् ।
नमस्करोमि देवेश वन्दे युगलपत्कजम् ॥२ १॥ नमो ह्यणुस्वरूपाय द्व्यणुकाय नमो नमः ॥ त्र्यणुकाय नमश्चतुरणुकाय नमोनमः ॥२२॥ नमः पञ्चाणुरूपाय रजोरूपाय ते नमः ।
नमो धूलीस्वरूपाय नमस्ते कङ्करात्मने ॥२३॥ नमो ग्रावस्वरूपाय नमस्ते पिण्डनामिने ।
नमः पिण्डाढ्यबीजाय नमोऽव्यक्तांऽकुरात्मने ॥२४॥ नमः पत्रस्वरूपाय नमः काण्डादिरूपिणे ।
नमः शाखप्रशाखाय नमः स्तम्बादिहेतवे ॥५॥ नमो नालाय पुष्पाय नमो रसफलात्मने ।
नमः कणस्वरूपाय नमः पिष्टरसात्मने ॥२६॥ नमोऽपाकजरूपाय पक्वरूपाय ते नमः ।
नमो भक्ष्यभोज्यलेह्यचोश्यरूपाय ते नमः ॥२७॥ नमो मिश्रस्वरूपाय नम ओषधिरूपिणे ।
नमः क्वाथादिरूपाय नमश्चूर्णादिरूपिणे ॥२८॥ नमो रेचकमात्राय नमो भस्मादिवेदिने ।
नम आयुःप्रदात्रे ते नम ओषधिशक्तये ॥२९॥ नमस्ते परमेशान क्षेमकुशलकीर्तये ।
भोक्त्रे भोग्यप्रदानाय सर्वान्तर्यामिणे नमः ॥१.७८.३० ॥ देवदेव शरीराणां धाता त्वं पोषकोऽविता ।
युगेऽस्मिन् कल्पनासिद्धिर्लयं प्रयाति देहिनाम् ॥३१ ॥ सङ्कल्पितं न चायाति नोपतिष्ठति नेक्ष्यते ।
तस्माद्वृत्तिकरं धान्यं पत्रं पुष्पं फलादिकम् ॥३२॥ कणं मूलं तथा स्तम्बं तृणं सस्यं पयोभृतम् ।
षड्रसं मधुरं स्निग्धं पथ्यं वै सर्वदेहिनाम् ॥३ ३ ॥ मृगयित्वा संविशुद्ध्य मिश्रयित्वा महौषधीन् ।
भोज्यं चाऽप्यौषधं लोकान् प्रबोधयितुमर्हसि ॥३४॥ न कश्चित् त्वामृते चास्य प्रोद्भिद्वर्गस्य बोधकः ।
विज्ञाताऽपि भवेन्नैव यः सर्वशः स सर्ववित् ॥३५॥ कार्यकारणविज्ञाता यस्य ज्ञानमयं तपः ।
तस्माद् रसायनं सर्वं यद्भोज्यं पेयमेव वा ॥३६॥ यल्लेह्यं मृद्यमाघ्रेयमासेव्यं शान्तिदं भवेत् ।
आस्वादनीयमाबन्ध्यं तत्सर्वं कर्तुमर्हसि ॥३७॥ यत्तप्यं यच्च वै क्वथ्यं यद्भृज्यं चूर्ण्यमेव यत् ।
यन्मिश्र्यं यत्साररूपं तत्सर्वं कर्तुमर्हसि ॥३८॥ इत्येवमर्थितो विष्णुर्मेरोस्तु शिखरे स्वकाम् ।
कुटीं चक्रे निवासं च तस्यामेवाऽकरोत्प्रभुः ॥३९॥ देवर्षिमुनिपितृभ्यो मानवादिभ्य एव च ।
दत्तास्तु मार्गणं कृत्वा कृष्योषधय इत्यथ ॥१.७८.४० ॥ कर्षुकास्ताः सस्यरूपा वर्धयामासुरुत्सुकाः ।
ताभ्यो विविधदेशेषु विविधान्नानि जज्ञिरे ॥४१ ॥ ताः कृषिवृत्तयो जाता उद्यानानि च भूरिशः ।
अथापि प्राणिनां ताभिर्वनौषधिभिरप्ययम् ॥४२॥ बललाभाय भगवान् आयुर्वेदं लिलेख वै ।
तादृशाः सम्प्रयोगाश्च व्याप्ता धन्वन्तरिकृताः ॥४३॥ रसायनादिशालाश्च कृता मेरौ बहुप्रथाः ।
यत्रौषधं त्रिकालीयं ज्ञातव्यं नावशिष्यते ॥४४॥ कर्तव्यं मिश्रणं यत्रौषधीनां नावशिष्यते ।
इति तु प्रथमे चतुर्युगे त्वेवाऽभवद्धरिः ॥४५॥ स्वयं धन्वन्तरिर्दिव्यः प्रभुर्ब्रह्माण्डरक्षकः ।
अथापि कलिमापन्ना लोकास्तु बहुदुःखिताः ॥४६॥ तदा वै भगवान् साक्षादवतरीतुमिच्छति ।
स वै द्वितीयरूपेण धन्वन्तरिर्बभूव ह ॥४७॥ वंशपरम्पराजन्मा काश्यां सोऽभूद् भिषग्वरः ।
शृणु तां च कथां लक्ष्मि! कस्मिन् वंशे बभूव सः ॥४८॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आद्यसत्युगीयधन्वन्तरिप्रादुर्भावकथनादिनामाऽष्टसप्ततितमोऽध्यायः ॥७८॥