श्रीनारायण उवाच-
अन्तकाले गवां दानं स्वर्गवासफलं खलु ।
अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥१ ॥
प्रेतस्तु छत्रदानेन छायया विचरेत्सुखम् ।
एवं तथाऽन्नदानेन क्षुधाहीनश्चरेत्सुखम् ॥२ ॥
तद्वद्वै दीपदानेन प्रकाशे याति सौख्यतः ।
प्राङ्मुखोदङ्मुखो दीपो देवागारे कृतो भवेत् ॥३ ॥
आसनं भाजनं दद्यात् परलोकहितावहम् ।
कमण्डलुजलं दद्यात् तृषितः पिबतीति वाः ॥४ ॥
एकादशाहे दातव्यं कुसुमं चाङ्गुलीयकम् ।
भाजनं चान्नदानं च प्रेतो यात्युत्तमां गतिम् ॥५ ॥
कुम्भदानं वस्त्रदानं गजाश्वरथदानकम् ।
महिषीदानमित्येवं दातव्यं मृतनामतः ॥६ ॥
शय्यादानं सवस्त्रं चान्यानि वै शक्तितस्तथा ।
कार्याणि प्रेतसन्तृप्तिसुखशान्त्युपलब्धये ॥७ ॥
शरीराद् वायुमिश्रः स आत्मा यदा प्रयाति हि ।
कट्यूर्ध्वरोमच्छिद्रेभ्य इन्द्रियगोलकात्तथा ॥८ ॥
प्राणः पुण्यकृतो यात्यन्यस्याऽधोभागतः सरेत् ।
दशेन्द्रियचतुरन्तःकरणपञ्चमात्रकम् ॥९ ॥
सूक्ष्मं देहं पुण्यपापे गृहीत्वा याति यत्र च ।
तत्र कर्मानुसारेण नवं देहं गृहं मतम् ॥1.74.१ ०॥
एकविंशतिलक्षाणि जरायुजानि तावता ।
स्वेदजा उद्भिज्जाश्चैव अण्डजाश्चापि तावता ॥११ ॥
इत्येवं चतुरशीतिलक्षाणि योनयो मताः ।
तत्र तत्र गतः प्रेतो पुनर्दुःखी पुनस्तथा ॥१२॥
पुनर्गर्भे निवसति जनिर्मृतिः पुनः पुनः ।
हरिं चाऽभजमानस्य गर्भे वासः पुनः पुनः ॥१ ३॥
स्त्रीषु पुरुषबीजेन गर्भा जायन्त इत्यतः ।
ऋतुकाले तु नारीणां त्यजेद् रात्रिचतुष्टयम् ॥१४॥
सप्तरात्रिमध्यगतो गर्भस्तु मलिनो भवेत् ।
पूर्वसप्तकमुत्सृज्य ततो युग्मेषु संविशेत् ॥१५॥
षोडशर्तुनिशाः स्त्रीणां गर्भधारणकारिकाः ।
चतुर्दश्यास्तु या रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥१६॥
गुणभाग्यनिधिस्तत्र पुत्रो जायेत धार्मिकः ।
युग्मासु पुत्रा जायन्ते स्त्रियास्त्वेकासु रात्रिषु ॥१७॥
पञ्चमेऽहनि नारीणां गौल्ममाधुर्यभोजनम् ।
कटुकारं च तीक्ष्णं च साज्यं युवतीभोजनम् ॥१८॥
नार्या त्वेवाऽऽतपो वर्ज्यः शीतलं केवलं चरेत् ।
ताम्बूलगन्धश्रीखण्डैः समं सङ्गः शुभेऽहनि ॥१९॥
निषेकसमये शुक्रशोणितमिश्रणे यथा ।
नरनारीप्रचित्ते तु भावना तद्युतः सुतः ॥1.74.२० ॥
चैतन्यं बीजरूपे तु शुक्रे नित्यं व्यवस्थितम् ।
काम चित्तं च शुक्रं च यदा ह्येकत्वमाप्नुयुः ॥२१॥
तदा द्रवमवाप्नोति योषागर्भाशये नरः ।
रक्ताऽऽधिक्ये भवेन्नारी शुक्राधिक्ये भवेन्नरः ॥२२॥
शुक्रशोणितयोः साम्ये गर्भः षण्ढत्वमाप्नुयात् ।
अहोरात्रेण कललं बुद्बुद्ं पञ्चभिर्दिनैः ॥२३॥
दशमेऽहनि कर्कन्धुर्विंशाहे घनमांसता ।
तथा मासे तु सम्पूर्णे पञ्चतत्त्वानि धारयेत् ॥२४॥
मासद्वये त्वचामेदौ मज्जास्थीनि त्रिभिस्तथा ।
चतुर्थे तु गुल्फकेशाः पञ्चमे कर्णनासिके ॥२५॥
सप्तमे कण्ठगुह्यादि ह्यष्टमेऽङ्गप्रपूर्णता ।
नवमे बहिर्जिगमिषा दशमे तु प्रसूयते ॥२६॥
पृथिव्यास्त्वगस्थिनाडीरोममांसेतिपञ्चकम् ।
अपां लाळामूत्रशुक्रमजारक्तेतिपञ्चकम् ॥२७॥
वह्नेः कान्तिक्षुधानिद्रातृष्णाऽऽलस्येतिपञ्चकम् ।
वायोःश्वासगतिरोधाऽऽकुञ्चप्रसारपञ्चकम् ॥२८॥
रागद्वेषभयलज्जामोहा वा पञ्च वायुजाः ।
व्योम्नो घोषाश्रयच्छिद्रगाम्भीर्यश्रवणा गुणाः ॥२९॥
इडा पिङ्गला सुषुम्णा गान्धारी गजजिह्विका ।
पूषा यशा ह्यलम्बुषा कुहूः शङ्खिनी नाडिकाः ॥1.74.३०॥
प्राणोऽपानः समानश्चोदानो व्यानश्च वायवः ।
नागः कूर्मः कृकलश्च देवदत्तो धनञ्जयः ॥३ १॥
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।
उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥३२॥
नागस्य जृम्भणं कूर्मवायो सङ्कोचनं मतम् ।
शूलं कृकलजं देवदत्तस्योद्गारप्रभृति ॥३३॥
धनञ्जयो विकासाय मृतेऽपि त्रिदिवास्थितिः ।
कर्णाक्षिनासिकाननगुदगुह्यानि वै नव ॥३४॥
नाभिर्दशमी ब्रह्मरन्ध्रमेकादशकं स्मृतम् ।
स्त्रीगुह्ये गर्भगर्तो द्वादशं स्तनौ चतुर्दश ॥३५॥
रोमकोटिस्तथा तिस्रो ह्यर्धकोटिसमन्विता ।
द्वात्रिंशद्दशनाः प्रोक्ता नखा विंशतिरेव च ॥३६॥
त्रिलक्षकेशा मूर्धन्या मुखस्थाश्चेति वै स्थितिः ।
त्रयस्तु मातृतो रोमलोहितमांससञ्ज्ञकाः ॥३७॥
पितृतश्च स्नाय्वस्थिमज्जानश्च कोषषड्विधम् ।
मांसं पलसहस्रैकं रक्तं पलशतं तथा ॥३८॥
पलानि दश मेदश्च मज्जा पलं दश द्वयम् ।
रक्तं पलत्रयं प्रोक्तं शुक्रं द्विकुडवं तथा ॥३९॥
शोणितं कुडवं श्लेष्मा षट् विण्मूत्रं तथाऽर्धकम् ।
मनो बुद्धिरहं चित्तमेतत्करणमान्तरम् ॥1.74.४०॥
तत्सर्वं देहसम्भूतो गर्भः प्रसूतिवायुना ।
निष्कासितो बहिर्याति मूर्छितो जन्म चैति हि ॥४१॥
ब्रह्माण्डस्याऽऽकृतिः सर्वा शरीरे समवस्थिता ।
सत्यलोकं शिरोरन्ध्रं तपोलोकं ललाटकम् ॥४२॥
जनलोकं मुखं प्रोक्तं महः कण्ठमुदाहृतम् ।
हृद्यं तु स्वरं विद्याद्भुवर्लोकमुदर्यकम् ॥४२॥
भूलोकं नाभ्यधोभागो ह्यतलं कटिसंस्थितिः ।
वितलं गुह्यमाख्यातं सुतलं सक्थिमूलयोः ॥४४॥
ऊरू तलातलं महातलं जानुद्वयं तथा ।
रसातलं मते जङ्घे पादौ पातालमुच्यते ॥४५॥
क्षारोदस्त्वत्र तु मूत्रे दुग्धे क्षीरोदसागरः ।
सुरोदधिः श्लेष्मसंस्थो मज्जायां घृतसागरः ॥४६॥
रसोदधिर्मिष्टरसे शोणिते दधिसागरः ।
स्वादूदकः कुक्षिभागे गर्भोदः शुक्रसंस्थितः ॥४७॥
नेत्रयोः सूर्यचन्द्रौ च ओष्ठे तु मङ्गलः स्मृतः ।
बुधस्तु हृद्ये बोध्यो गुरुर्ज्ञाने व्यवस्थितः ॥४८॥
शुक्रे शुक्रः शनिर्नाभौ मुखे राहुर्व्यवस्थितः ।
केतुर्गुह्ये स्थितश्चेति पिण्डं ब्रह्माण्डमीरितम् ॥४९॥
आयुर्विद्या च वित्तं च यशो निधनमेव च ।
पञ्चैवैतानि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥1.74.५०॥
अधोमुखं चोर्ध्वपादं गर्भादायाति वै बहिः ।
रक्ष्यमाणो जन्मकर्त्र्या रक्षँश्चान्यान्निजाश्रितान् ॥५१ ॥
पुत्रैः संरक्षितः पश्चान्मृतः पुनः स एव हि ।
भक्त्या हरिं भजेन्नित्यमतन्द्रितमनुक्षणम् ॥५२॥
तदा मुक्तिर्भवेदेव स्वर्गं सर्वसुखास्पदम् ।
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ॥५३ ॥
अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ।
सोऽश्नुते सर्वकामांश्च सह ब्रह्मणा विपश्चिता ॥५४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दानफलनिषेकसमयगर्भनिर्माणशारीरकोषब्रह्माण्डैक्यतादिकथननामा चतुःसप्ततितमोऽध्यायः ॥७४॥