श्रीनारायण उवाच—
यमस्यैतद्वचः श्रुत्वा भगवान् लोकभास्करः ॥
हार्दं गम्भीरमेवैतज्ज्ञात्वा प्रोवाच वै यमम् ॥ १ ॥
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो मातरं प्रति तत्तथा ॥२ ॥
पुत्रं प्रत्यपि मातुश्च क्रोधः समाविशन्ननु ।
पुत्र त्वमसि धर्मज्ञः सत्यवादी च मानदः ॥३ ॥
न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ॥
कृमयो मांसमादाय यास्यन्ति तु महीं तव ॥४ ॥
ततः पादं महाप्राज्ञ पुनः सम्प्राप्स्यसे सुखम् ।
कृतमेवं वचः सत्यं मातुस्तव भविष्यति ॥५॥
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ॥६ ॥
न्यूनाधिको नु तुल्येषु स्नेहो वै क्रियते त्वया ॥
कथमेवं द्वितीयां तु विना स्यात्पक्षपातिता ॥७ ॥
का त्वं सैव द्वितीया वा वद याथार्थ्यमेव मे ।
सा चाह तनया त्वष्टुरहं सञ्ज्ञा विभावसो ॥८ ॥
पत्नी तव त्वयाऽपत्यान्येतानि जनितानि मे ॥
इत्थं विवस्वतस्तां तु बहुशः पृच्छतो यदा ॥९ ॥
नाऽऽचक्षे तु तदा क्रुद्धो रविस्तां शप्तुमुद्यतः ॥
ततः सा कथयामास यथावृत्तं विवस्वते ॥1.63.१०॥
विदितार्थश्च भगवान् सूर्यः शशाप तां तदा ।
सर्वदा त्वं कृष्णवर्णा छाया वृक्षादिजा भव ॥११॥
अन्धकारस्वरूपा त्वं मद्वियोगवती सदा ॥
रोधकवस्त्वावरणा जडरूपा सदा भव ॥१२॥
गच्छ गेहात्सदा दूरं मा मां दर्शय ते मुखम् ॥
मद्रश्मिरोधकवस्त्वधस्तात्त्वं तु सदा वस ॥१३॥
निर्विवास्येति वै छायां जगाम त्वष्टुरालयम् ॥
तत्र सम्पूजयामास त्वष्टा सूर्यमुपागतम् ॥१४॥
भास्वन्! किं रहितः शक्त्या मम गेहमुपागतः ॥
पप्रच्छाऽथ च तस्मै स कथयामास तत्त्वतः ॥१५॥
प्राह त्वष्टाऽऽगता साऽत्र भवतः प्रेषिता रवे! ॥
मम गृहात्पुनर्याता तव गेहं दिवाकर ॥१६॥
दिवाकरः समाधौ ताम् वडवारूपधारिणीम् ।
तपश्चरन्तीमाचष्टे चोत्तरेषु कुरुष्वथ ॥१७॥
तां शप्तुकामो भगवान्नाशाय कुपितो रविः ॥
त्वष्टा तु तं यथान्यायं सान्त्वयामास वै शनैः ॥१८॥
देव ते साऽसहमाना तेजसा ह्यतिपीडिता ।
वह्न्याभनिजरूपस्य छायारूपं विमुच्य च ॥१९॥
घोरारण्ये तु सा गत्वा तपश्चरति दुश्चरम् ॥
घृष्ण्यौष्ण्याद् दग्धदेहा सा तपश्चरति दुःसहम् ॥1.63.२०॥
येन त्वां तेजसाऽसह्यं शरीरेणाऽप्यसंस्कृतम् ॥
बहुशृङ्गोच्चधारं च खररूक्षोचनीचिनम् ॥२१॥
वज्रादपि सुकठिनं द्रष्टुं सोढुं शशाक न ।
तवेदमतिवैरूप्यं नैव भाति न शोभते ॥२२॥
असहा तस्य सा सञ्ज्ञा वने चरति शाद्वले।
तस्माद्रूपं व्रज मन्दं तादृङ्निर्वर्तये त्वहम् ॥२३॥
रूपं विवस्वतस्त्वासीदव्यवस्थं खराऽघटम् ।
एकतः प्रज्वालयति चाऽन्यतोऽनुष्णशीतलम् ॥२४॥
विवस्वानथ तच्छ्रुत्वा व्रीडितोऽभून्मुहुस्तदा ॥
अनुज्ञातस्ततस्त्वष्टा रूपसमीकराय वै ॥२५॥
भ्रमिमारोप्य सूर्यं तु शातयामास शाणतः ।
शृङ्गदेशास्तदा तस्य द्वादश शातिताः पृथक् ॥२६॥
समीकृतस्तदा सौम्यः सुरूपोभूच्च भास्करः ॥
सह्यतेजाः स्पर्शयोग्यः सहवास्योऽभवद्रविः ॥२७॥
द्वादशेभ्यस्तु खण्डेभ्यस्त्वष्टाऽऽयुधानि निर्ममे ॥
चक्रं सुदर्शनं कृत्वा विष्णवे तत्समार्पयत् ॥२८॥
त्रिशूलं सुमहत् कृत्वा शम्भवे तत्समार्पयत् ॥
शक्तिं कृत्वा महालम्बां कार्तिकाय समार्पयत् ॥२९॥
वज्रं कृत्वाऽष्टधारं तत्सुरेन्द्राय समार्पयत् ॥
दण्डं कृत्वा महाघोरं यमाय स समार्पयत् ॥1.63.३०॥
मणिं कृत्वा महामूल्यं कुबेराय समार्पयत् ।
पाशं कृत्वा तु वैद्युतं वरुणाय समार्पयत् ॥३१॥
खड्गं कृत्वा महद्धोरं देव्यै काल्यै समार्पयत् ।
कृपाणं तु महाघोरं कृत्वाऽग्नये समार्पयत् ॥३२॥
फलं कृत्वा महाबाणे नराय तत्समार्पयत् ।
उल्कां कृत्वा महादिव्यां वायवे तां समार्पयत् ॥३३॥
कृकशां दन्त्रिकां कृत्वा निर्ऋताय समार्पयत् ।
तदन्ये स्वल्पखण्डास्तु हीरका मणयोऽभवन् ॥३४॥
अथ सुसंस्कृतः सूर्यो देवरूपं दधार च ।
ददर्श योगमास्थाय स्वां भार्यां वडवां रविः ॥३५॥
गतस्तत्र स्थले रूपं प्रच्छाद्य चाऽस्पृशत्ततः ॥
अश्वरूपेण मार्तण्डः तां चुचुम्ब मुहुर्मुहुः ॥३६॥
पृष्ठे गच्छन्नथोर्ध्वं तां समारोहति कामतः ।
मैथुनाय विचेष्टन्तं परपुंसं विशङ्क्य सा ॥३७॥
विवृत्य तत्समीपे तु मुखं कृत्वा स्थिताऽभवत् ॥
अश्वरूपोऽपि सूर्यस्तु कामवेगेन चाकुलः ॥३८॥
कन्धरायां समुत्प्लुत्य घ्राणे लिङ्गं निवेश्य च ।
वीर्यं सर्वमसिञ्चद्वै नासिकायां द्विधा तदा ॥३९॥
सा तं निरधमच्छुक्रं नासिकाश्वासवायुना ॥
देवौ तस्मात्समुत्पन्नावश्विनौ भिषजांवरौ ॥1.63.४०॥
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥
अत्यद्भुतशरीरौ तौ देववेद्यौ बभूवतुः ॥४१॥
अवशेषेण वीर्येण नासिकातस्तदैव हि ॥
तृतीयोऽभूद् रेवताख्यः पुत्रो नीलसुरूपकः ॥४२॥
स वै तस्मात् तपः कर्तुं पश्चिमायां गतो दिशि ॥
रैवताचलमासाद्य तत्र वासं चकार ह ॥४३॥
रैवतस्य गिरेः सोऽयमातिवाहिकदैवतः ॥
भूत्वा वसति तत्रैव कल्पान्तं तप आदधन् ॥४४॥
अथ सूर्यः स्वकं रूपं भास्करं समदर्शयत् ॥
तदा सञ्ज्ञापि विश्वस्ता पतिपादौ प्रपूज्य च ॥४५॥
क्षमाप्य स्वापराधं वै जगाम रविमण्डले ।
सर्वदा सा महादिव्या देवी सूर्यसरूपिणी ॥४६॥
समास्ते रमते सार्धं सूर्येण दिवि मोदते ॥
इत्येवं सूर्यबालानां नवानां दिव्यजन्मता ॥४७॥
श्राद्धदेवो यमो यमी सावर्णिश्च शनैश्चरः ॥
तपती चाश्विनीबालौ रेवतश्च नव स्मृताः ॥४८॥
तत्र यमाय सूर्येण ब्रह्मणा च समर्पितम् ॥
लोकपालत्वमेवैत्य दक्षिणां दिशमास्थितः ॥४९॥
यमपूरीति सा प्रोक्ता कृतानां तु विकर्मणाम् ॥
फलभोगाय दुःखात्मनिष्कृतिस्तत्र कार्यते ॥1.63.५०॥
प्रायश्चित्तेनाऽत्र लोके पाङ्क्तो भवति मात्रतः ।
यमपूर्यां फलभोगाच्छुद्धो भवति चाऽऽत्मतः ॥५१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सञ्ज्ञाया वडवारूपेण तपश्चर्या, सूर्योऽश्वो भूत्वा तया संश्लिष्टोऽश्विनीकुमारौ रेवतं चोत्पादयामास विश्वकर्मणा शाणोल्लीढसूर्यस्य खण्डैर्दिव्यचक्रशूलादिशस्त्रोत्पादनमित्यादिवर्णननामा त्रिषष्टितमोऽध्यायः ॥६३॥