श्रीनारायण उवाच
शृणु लक्ष्मि! ततः पश्चात् सञ्ज्ञाया या कथा ह्यभूत् ।
नित्यं सूर्यप्रसङ्गेऽस्या ज्वलनं दुःसहं ह्यभूत् ॥१ ॥
एवं सञ्ज्ञा रवेस्तेजोमहदुःखेन भामिनी ॥
असहन्तीव सा चित्ते चिन्तयामास वै सदा ॥ २ ॥
किं करोमि क्व गच्छामि क्व यामि सुखदं स्थलम् ॥
यदि यामि विना ह्याज्ञां सूर्यो मे कोपवान्भवेत् ॥३ ॥
तस्मादाज्ञां गृहीत्वैव स्वपितुर्गृहमेम्यहम् ॥
इति सञ्चिन्त्य बहुधा सूर्यं प्राह मुहुस्तदा ॥४ ॥
देव मे जायते नित्यं विचारस्तु पितुर्ग्रहम् ॥
गन्तुं मीलयितुं सर्वान् स्वसॄर्भातॄन्सखीजनान् ॥ ५ ॥
आज्ञापयतु मां नाथ यामि देवाय रोचते ॥
सूर्यः प्राह न वै देवि कालोऽयं गमनाय न ॥६ ॥
पुत्रपालनकालोऽयं गृहसम्भालनाय च ।
पत्युः सेवातिलाभाय समयोऽयं तव प्रिये ॥ ७ ॥
तत्र गत्वा नु ते लाभः को वा भावी मम प्रिये ॥
मां विहाय वियोगस्थं कथं स्थास्यसि तत्र वै ॥ ८ ॥
अनाहूता पितुर्गे हे पुत्री गच्छति वेगतः ॥
सती शङ्करपत्नीव दुर्दशामाप्नुयाद्धि सा ॥ ९ ॥
तस्मान्मा गच्छ रम्भोरु गन्तव्यं त्वन्यदा पुनः ॥
कन्या विवाहपूर्वं वै शोभन्ते तु पितुर्गृहे ॥1.62.१०॥
कृतोद्वाहास्तु ताः पश्चाच्छोभन्ते स्वपतिगृहे ।
खानपानविलेपाऽभ्यञ्जनप्राभूषणादिभिः । ११॥
वस्त्रवाहनयानोद्यानोपवनविहारकैः।
विविधैः स्मरणोत्तेजिसाधनैस्तु नवैर्नवैः ॥१२॥
रमयन्ति पतिं प्रेम्णा तृप्यन्ति पतिसौख्यतः ॥
निर्धनो वा पिता यासां व्ययाऽशक्तश्च सर्वथा ॥१३॥
पुत्र्यस्तद्गृहमागत्य दुःखे तं योजयन्ति हि ॥
वस्त्रैर्धनैराभरणैश्चान्यैर्भोग्यैस्तु वस्तुभिः ॥१४॥
अशक्तो रञ्जने पुत्र्या मा दुःखे पातयन्तु तम् ।
दिने देह प्रयासेन श्रम्यं कार्यं विधाय च ॥१५॥
धनं स्वोदरपूर्त्यात्म नीत्वा सायं गृहं गतः ॥
एवं तु प्रतिदिवसं स्वोद्योगाऽर्ज्याऽल्पनाणकम् ॥१६॥
नीत्वा क्रीणात्यन्नवस्त्रं मा तं दुःखे निपातय ॥
इत्येवं बहु सन्दिष्टा ह्यनुनीता मुहुर्मुहुः ॥१७॥
सञ्ज्ञा तेजोऽसहं दुःखं भर्त्रे नैव वदत्यपि ॥
पश्चात्तु मोहमापन्ना विचार्य च मुहुः स्वयम् ॥१८॥
पतिर्यथा न ज्ञायेत द्वितीयं रूपमादधे ।
सेयं तनुद्वितीया सा छाया स्वस्यैव दैहिकी ॥१९॥
ह्यभूत्तत्र तु सङ्कल्प्य चेतनं समनोदयत् ॥
तेजस्विनी वह्निसमा सूर्यतेजःसहा तथा ॥1.62.२०॥
पार्थिवांशसमक्रान्ता छायाऽभूत् स्त्रीस्वरूपिणी ।
तथा सा चेतनवती नारीरूपा तु सुन्दरी ॥२१॥
सञ्ज्ञासदृशरूपा च सर्वं सञ्ज्ञामयं ह्यभूत् ॥
पितुर्गृहं ततो गन्तुं कृतबुद्धिर्यशस्विनी ॥२२॥
छायामाहूय सत्कृत्य दत्वा गृहधनादिकम् ॥
तां प्रोवाच त्वया स्थेयमत्र भानोर्यथा मया ॥२३॥
तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ ।
न दुष्टमपि वाच्यं ते यथा बहुमतं मम ॥२४
सञ्ज्ञाऽहमस्मि सैवेति वाच्यमेवं त्वयाऽनघे ।
यदि पृच्छेत्पतिः क्रोधात्प्रेमतो वान्यकारणात् ॥२५॥
त्वं तु सूर्यस्य तापं वै सहिष्यसे यथा तथा ।
शीतलं ते शरीरं वै भविष्यति तथा तथा ॥२६॥
तापसहनयोग्ये वै शान्तिदे ज्वरनाशके ।
सुखदे ते शरीरे वै तापः शमिष्यति द्रुतम् ॥२७॥
उष्णस्य लयकरणात् सूर्योऽपि शान्तिमेष्यति ।
तस्मात्त्वया सदा सेव्यः सूर्यो मयेव भावतः ॥२८॥
भर्त्सने ताडने वाथ गालीदाने सुमर्दने ।
त्वया नोदासितव्यं न प्रकाश्यं मम गोपनम् ॥२९॥
छाया प्रोवाच सञ्ज्ञां तु सहिष्ये सर्वमादरात् ।
आकेशग्रहणाच्चाहमाशापाच्च वचस्तथा ॥1.62.३०॥
करिष्ये पालयिष्यामि यावत्केशापकर्षणात् ॥
यदा वा मरणं यावद् दुःखं पश्यामि तावता ॥३१॥
न तथापि कथयिष्ये तव वा मम वर्तनम् ।
गच्छ देवि! भगिनि! त्वं पितुर्गृहं सुखा भव ॥३॥
कदाचिच्चित्तवैक्लव्ये स्मर्तव्याऽहं त्वया स्वसः ।
इत्येवं समयं कृत्वा सञ्ज्ञा ययौ पितुर्गृहम् ॥३३॥
ददर्श तत्र त्वष्टारं तपसैधितविग्रहम् ।
नमस्कृत्य च पितरौ निषसाद तदन्तिके ॥३४॥
बहुमानाच्च तेनाऽपि पूजिता विश्वकर्मणा ।
पितुर्गृहे सुखं तस्थै बहुकालमनिन्दिता ॥३५॥
पत्युर्गृहं प्रति गन्तुं यदा नेच्छति पुत्रिका ।
ततः प्राह स धर्मज्ञः पिता पुत्रीं चिरोषिताम् ॥३६॥
त्वां तु मे पश्यतो वत्से दिनानि सु बहून्यपि ॥
मुहूर्तेन समानि स्युर्बालं कस्य न रोचते ॥३७
पुत्रो वा यदि वा पुत्र्यः सगुणा निर्गुणाश्च वा ।
सुचित्ता वा विचित्ता वा यथा तथा च वा पुनः ॥३८॥
तथापि पित्रोः स्निग्धाः स्युराह्लादकारकाः सदा ॥
त्वं पुत्रि यौवनवती रविणा च विवाहिता ॥३९॥
चिरं त्वत्र निवासेन तव धर्मो विलुप्यति ।
बान्धवेषु चिरं वासो नारीणां न यशस्करः ॥1.62.४०॥
इच्छन्ति बान्धवा धर्मॆ पत्न्याः पतिगृहे स्थितिम् ।
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ॥४१॥
पितुर्गेहे चिरं कालं वस्तुं नार्हसि पुत्रिके ।
पत्युर्गृहे निवासं वै कर्तुमर्हसि पुत्रिके ॥४२॥
अतो भर्तृगृहं गच्छ दृष्टोऽहं पूजिता च मे ।
पुनरागमनं कार्यं दर्शनाय शुभे क्षणे ॥४३
यदि ते मनसि किञ्चिद् दुःखं जामातृतः कृतम् ॥
भवेज्ज्ञापयितव्यं मे सत्वरं पुत्रिकेऽत्र वै ॥४४॥
नो चेद् दुःखं सुखं गच्छ सेवयांऽशुकरं प्रभुम् ॥
तेन त्वमत्र चामुत्र धर्म्यां सिद्धिं गमिष्यसि ॥४५॥
इत्युक्तापि स्वकं दुःखं लज्जमाना सती तदा ।
नोवाच पितरं किञ्चिद् विचार्यापि मुहुर्मुहुः ॥४६॥
तथेत्युक्त्वा च नत्वा च पूजयित्वा गुरूँस्तथा ॥
भ्रातॄन्स्वसॄश्च संश्लिष्य सा जगामोत्तरान् कुरून् ॥४७॥
सूर्यतापकृतोद्वेगा तेजसस्तस्य बिभ्यती ॥
न गता सा सूर्यगृहं गतारण्यं तपःप्रिया ॥४८॥
तत्राऽन्येषामविदिता वडवारूपधारिणी ।
तपश्चचार परमं घासग्रासादिजीवना ॥४९॥
सञ्ज्ञामित्येव मन्वानो छायायां तु दिवाकरः ।
जनयामास तनयौ कन्यां चैकां मनोरमाम् ॥1.62.५०॥
नाम्ना तु सावर्णिमनुं तापीं शनैश्चरं तथा ॥
सावर्णिस्तु मनुर्भावी शनैश्चरो ग्रहो भवेत् ॥५१॥
तपती तु नदी तापी गौर्जरे भाविनी प्रिये ॥
सञ्ज्ञामित्येव निश्चित्य छायायां च दिवाकरः ॥५२॥
रत्या संयुज्यमानो वै रेमे सुबहुवत्सरान् ।
नाऽविदत्सेयमन्येति तदा दैववशात्तु सा ॥५३॥
छाया दिवानिशं सम्यक् स्वस्याऽपत्यस्य वै मुहुः ॥
चकाराऽभ्यधिकं स्नेहं भोजनाच्छादनादिषु ॥५४॥
सञ्ज्ञाया न तथा पुत्रीपुत्रयोश्चाऽप्यवर्तत ।
मनुस्तत्क्षान्तवानस्या यमस्तस्या न चाऽक्षमत् ॥५५॥
प्रागभूद्बहुमानः स सपत्न्या दुःखितोऽद्य च ॥
सपत्न्याश्चावमानाय क्रोधं स तु चकार वै ॥५६॥
ततो रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ॥
ताडनाय तु तां छायां पादस्तेन समुद्यतः ॥५७॥
तस्याः पुनः क्षान्तमना न तु देहे न्यपातयत् ॥
ततः शशाप तं क्रोधात् सपत्नी जननी यमम् ॥५८॥
किञ्चित्प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा ॥
पत्न्यां पितुर्यदि मयि पादमुद्यच्छसे बलात् ॥५९॥
भुवि तस्मादयं पादस्तवाद्यैव पतत्विति ॥
इत्याकर्ण्य यमः शापं मातर्यतिविशङ्कितः ॥1.62.६०॥
अभ्येत्य पितरं प्राह प्रणिपातपुरःसरम् ।
तातैतन्महदाश्चर्यमदृष्टमिति च क्वचित् ॥६१॥
क्रोधं करोति नित्यं मे सुबहु भर्त्सयत्यपि ।
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ॥६२॥
निर्गुणेष्वपि पुत्रेषु न माता निर्दयी भवेत् ॥
यथा माता तु मां चख्यौ नेयं माता तथा मम ॥६३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग सन्ताने सञ्ज्ञायाः स्वच्छायारूपनारीं सूर्याय समर्प्य स्वपितृगृहगमनं छायाया यमं प्रति स्नेहशून्यवर्तनं चेतिवर्णननामा द्विषष्टितमोऽध्यायः ॥६२॥